बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 2 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 489, कुल 760 में से
संदर्भ में पढ़ेंअश्वेङ्गिताध्यायः ४६१
स्याद् भवेत्। वक्त्रं मुखम्। उत्तमाङ्गं शिरः। वक्त्रोत्तमाङ्गज्वलने जयश्च भवति।।२।।
अथान्येष्वङ्गेष्वप्याह—
स्कन्धासनांसज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम्।
ललाटवक्षोऽक्षिभुजे च धूमः पराभवाय ज्वलनं जयाय ॥३॥
घोड़े के कन्धा, आसन, ग्रीवा के पार्श्व भाग प्रदीप्त हों तो जय, पाँव प्रदीप्त हो तो
स्वामी का वध, ललाट, छाती, आँख और भुजा धूमयुत हो तो पराजय तथा प्रदीप्त हो
तो जय के लिये होता है।।३।।
स्कन्धावंसौ। आसनं पर्याणस्थानम्। ग्रीवापार्श्वगौ तदंसौ। एतेषां स्कन्धासनांसानां
ज्वलनं जयाय भवति। पादाः शफाः। पादज्वलनं स्वामिनो बन्धाय प्रदिष्टं कथितम्। तत्र
स्वामिनो बन्धनं भवति। ललाटेत्यादि। ललाटं मुखपृष्ठभागः। वक्षमुरःप्रदेशः। अक्षिणी
नेत्रे। भुजौ बाहू। एषामन्यतमेऽङ्गेऽश्वानां यदि धूमो दृश्यते तदा पराभवाय भवति। शत्रोः
सकाशात् पराभव उत्पद्यते। एतेषामन्यतमेऽङ्गे ज्वलनं जयाय भवति।।३।।
अन्यदप्याह—
नासापुटप्रोथशिरोऽश्रुपातनेत्रे च रात्रौ ज्वलनं जयाय।
पलाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ॥४॥
रात्रि के समय घोड़े के नासारन्ध्र, प्रोथ ( नासामध्य भाग ), शिर, अश्रुपात ( गण्डाधो
भाग ) और नेत्र प्रदीप्त हों तो जय के लिये होता है। पलाश के समान लोहित, कृष्ण,
शुक्ल-कृष्ण, कपोत के समान, तोते के समान या सफेद वर्ण वाले घोड़े के एक, दो
या अनेक अंगों में सदा ज्वलन हो तो शुभ होता है।।४।।
नासापुटौ नासारन्ध्रौ। प्रोथो नासामध्यभागः। शिरो मूर्धा। अश्रुपातोऽश्रुणः पातो
यत्र। गण्डाधोभागः। नेत्रे चक्षुषी। एतेषामन्यतमस्य रात्रौ निशि ज्वलनं जयाय भवति। पलाशः
पलाशवर्णः। ताम्रो लोहितवर्णः। असितः कृष्णः। कर्बुरः शुक्लकृष्णवर्णो व्यामिश्रः। कपोत-
वर्ण इत्यर्थः। एषां वर्णानां तथा तस्य शुकवर्णस्य सितस्य श्वेतवर्णस्य चैतेषामङ्गानामेकतमे
द्वयोर्बहुषु वा ज्वलनं नित्यं सर्वकालं दिने निशायां चेष्टं शोभनं भवति। उक्तं च—
सममन्यत्पदकेसरपुच्छेषु ज्वलनदहनकणधूमाः।
राष्ट्रभयशोकसम्भ्रमसपत्नवक्त्रापमर्दकराः ॥
प्राक्फलतुल्यं पृष्ठे जघने वालेषु चैव निर्दिष्टम्।
अन्तःपुरप्रकोपो मेढ्रज्वलने सधूमे वा।।
नित्यं च वालकिरणे दाहज्वालास्फुलिङ्गानाम्।
स्कन्धासनांसदेशे धूमा बन्धाय चरणेषु।।
वक्षोऽक्षिललाटभुजे त्वश्वानां हेषितं च वदनेभ्यः।
ज्वालोत्पत्तिर्जयदा धूमोत्पत्तिस्त्वभावाय।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA