सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: द्वितीय भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 2 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished760 पृष्ठ

पुरुषलक्षणाध्यायः २३७
आग्नेयीति प्राणिनां स्याज्जयाय
क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते ॥९२॥
अग्नि की छाया क्रोधशीला, अधृष्या ( किसी से तिरस्कार को नहीं पाने वाली ),
कमल, अग्नि और सुवर्ण के समान कान्ति वाली तथा तेज, पराक्रम और प्रताप से युत
होती है। अग्नि की छाया प्राणियों की जय के लिये होती है तथा अति शीघ्र ही अभीष्ट
अर्थ की सिद्धि देने वाली होती है॥९२॥
आग्नेयी छाया चण्डा क्रोधशीला। अधृष्या अनभिभवनीया। पद्महमाग्निवर्णा, पद्मस्य
कमलस्य हेम्नः सुवर्णस्याग्नेर्हुताशनस्य सदृशवर्णा तुल्यकान्तिः। तथा युक्ता तेजोविक्रमैः
सप्रतापैः, तेजसा दीप्त्या विक्रमेण पराक्रमेण प्रतापेन शौर्येण शत्रूणां निग्रहेण च युक्ता
समवेता। एतैस्तेजोविक्रमैः सप्रतापैर्युक्ता एषा आग्नेयी छाया। इतिशब्दः प्रकाराय। एवं-
प्रकारा प्राणिनां देहिनां जयाय स्याद्भवेत् वाञ्छितस्याभिलषितस्यार्थस्य क्षिप्रमाश्वेव
सिद्धिं दत्ते ददाति॥९२॥
अधुना वायवीनाभस्योश्छाययोर्लक्षणमाह—
मलिनपरुषकृष्णा पापगन्धानिलोत्था
जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
स्फटिकसदृशरूपा भाग्ययुक्तात्युदारा
निधिरिव गगनोत्था श्रेयसां स्वच्छवर्णा ॥९३॥
वायु की छाया मलिन, रूखी, काली और दुर्गन्धयुत होती है। यह छाया वध,
बन्धन, रोग, लाभ में बाधा औन धन का नाश करती है। आकाश की छाया स्फटिक के
समान कान्ति वाली होती है। यह छाया भाग्ययुत, अति उदार, शुभ कार्यों की निधि के
समान और स्वच्छ वर्ण वाली होती है॥९३॥
अनिलोत्था वायुसमुत्था वायुसम्भवा छाया मलिनवर्णा अप्रसन्ना। परुषा रूक्षा।
कृष्णा असिता। पापगन्धा दुर्गन्धा। सा च जनयति उत्पादति। वधो मरणम्। बन्धो बन्धनम्।
व्याधयः पीडाः। अनर्थोऽलाभः। अर्थनाशः सञ्चितवित्तस्य क्षयः। एतान्।
अथ नाभस्याश्छायाया लक्षणमाह—स्फटिकेति। गगनोत्था आकाशजा छाया नाभसी।
स्फटिकसदृशरूपा स्फटिकमणेः सदृशं तुल्यं रूपं कान्तिर्यस्याः। अतिनिर्मलेत्यर्थः।
भाग्ययुक्ता भाग्यैः समेता। अत्युदारा अतिशयेनोदारा दानशीला श्रेयसां सर्वेषां शुभकार्याणां
निधिरिव। सर्वप्रदेत्यर्थः। सा च स्वच्छवर्णा निर्मलेति॥९३॥
अत्रैव परमतेनान्याः पञ्चच्छाया आह—
छायाः क्रमेण कुजलाग्न्यनिलाम्बरोत्थाः
केचिद्वदन्ति दश ताश्च यथानुपूर्व्या।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२३८ बृहत्संहिता
सूर्याब्जनाभपुरुहूतयमोडुपानां
तुल्यास्तु लक्षणफलैरिति तत्समासः ॥९४॥
क्रम से भूमि, जल, अग्नि, वायु और आकाश की छाया मैंने कही है। कोई-कोई
मुनि दश छाया कहते हैं। जैसे पूर्वोक्त भूमि आदि की पाँच छाया और सूर्य, विष्णु, इन्द्र,
यम, चन्द्र—इन पाँचों की पाँच छाया, इस प्रकार दश छाया कहते हैं; किन्तु सूर्य की
छाया आदि पाँच छायाओं का लक्षण और फल भी भूमि आदि के समान ही हैं। अतः
मैंने दश छाया का संक्षेप करके पाँच ही छाया कही है॥९४॥
कुः पृथिवी। जलं वारुणम्। अग्निर्मुताशनः। अनिलो वायुः। अम्बरमाकाशम्। एभ्य
उत्पन्नाश्छायाः क्रमेण परिपाट्या पञ्च। केचिन्मुनयो गर्गादयो दश च्छाया वदन्ति। उक्ताः
पञ्च पञ्च चेदानीं वक्ष्यन्ते। ताश्चापि यथानुपूर्व्या क्रमपरिपाट्या सूर्याब्जनाभपुरुहूतयमोडुपानां
सम्बन्धिन्यो भवन्ति। सूर्य आदित्यः। अब्जनाभो नारायणः। पुरुहूत इन्द्रः। यमः पितृपतिः।
उडुपश्चन्द्रः। एताश्छाया लक्षणैः फलैश्च यथाक्रमेण प्रागुक्तानां पञ्चानां तुल्या सदृश्यः।
यतः सौरी एवाग्नेयी। आब्जनाभी नाभसी। पौरहूति पार्थिवी। याम्या वायवी। औडुपी
चाप्या। इति तत्समासः। इति हेतोस्तासां दशानां छायानां समासः संक्षेपः कृतः। फल-
साम्यात् पञ्चैव छायाः कृताः। तथा च गर्गः—
भूम्यापोऽनलवाय्वभ्रसम्भूताः पञ्च कीर्तिताः।
छाया भूविष्णुशक्रार्कचन्द्राणां च तथापराः ॥
इति मृजा ॥९४॥
अथ स्वरलक्षणमाह—
करिवृषरथौघभेरीमृदङ्गसिंहाभ्रनिःस्वना भूपाः ।
गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ॥९५॥
हाथी, बैल, रथसमूह, भेरी, मृदङ्ग, सिंह या मेघ के समान स्वर वाले राजा तथा
गर्दभ, जर्जर ( विकृत ) और रूखे स्वर वाले धन और सुख से हीन होते हैं॥९५॥
करी हस्ती। वृषो दान्तः। रथौघः स्यन्दनसमूहः। भेरी ढक्का। मृदङ्गो वादित्रो मण्डलेति
प्रसिद्धः। सिंहो हरिः। अभ्रो मेघः। अब्देति पाठः। अब्दो मेघः। एतेषां सदृशानिःस्वनाः,
तुल्यशब्दा भूपा राजानो भवन्ति। गर्दभः खरः। जर्जरो विकृतस्वरः। रूक्षः परुषः। गर्दभादि-
सदृशस्वरा धनसौख्यसन्त्यक्ता धनैः सुखैश्च वर्जिता इत्यर्थः। तथा च गर्गः—
गम्भीरो दुन्दुभिः स्निग्धो महांश्चैवानुनादवत्।
इति स्वरगुणान् पञ्च समुद्रः प्राह तत्त्ववित्॥
एभिरायुर्यशो विद्या मानं सौख्यं धनागमः।
वाहनानि सुता नार्यो राज्यभोगागमास्तथा॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २३९
भिन्नो जर्जरितश्चैव मिर्मिणो गद्गदस्तथा।
क्षामस्वरस्तथैवोक्ताः समुद्रेणाभिनिन्दिताः ॥
स्वरैरेभिः कलिक्रोधलोभमोहतमोरजः।
नैर्घृण्यमभिमानं च पारुष्यं शाठ्यमेव च।। इति स्वरः ।।९५।।
अथ सारानाह—
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि ।
रुधिरं मांसं चेति प्राणभृतां तत्समासफलम् ।।९६।।
शरीर में मेद (हड्डियों के अन्तर्गत स्नेह भाग), मज्जा (खोपड़ी के मध्य का
स्नेह भाग), चमड़ा, हड्डी, वीर्य, रुधिर, मांस—ये सात सार होते हैं। अब यहाँ संक्षेप
से इनके फल कहते हैं ।।९६।।
सप्त नराणां सारा भवन्ति । मेदोऽस्थ्यन्तरगतः स्नेहभागः। मज्जा कपालान्तरस्था।
त्वक् चर्म। अस्थि प्रसिद्धम्। शुक्रं रेतः। रुधिरं रक्तम्। मांसं पललम्। चशब्दः समुच्चये।
इत्येवम्प्रकाराः सप्त साराः प्राणभृतां देहिनां भवन्ति। तत्समासफलं तेषां संक्षेपफलं
कथ्यत इति ।।९६।।
तत्र तावद्रक्तसारस्य लक्षणमाह—
ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः ।
रक्ते तु रक्तसारा बहुसुखवनितार्थपुत्रयुताः ॥९७॥
जिसके तालु, ओंठ, दाँत, मांस, जीभ, नेत्र के अन्तभाग, गुदा, हाथ, पाँव—ये
सभी लाल हों, वे रुधिरसार वाले मनुष्य होते हैं। रुधिरसार वाले पुरुष बहुत सुख, स्त्री,
धन और पुत्रों से युत होते हैं।।९७।।
ताल्वास्यपृष्ठभागः। ओष्ठौ दन्तच्छदौ। दन्तपाली दन्तमांसपङ्क्तिः। जिह्वा रसना।
नेत्रान्तं चक्षुष्पर्यन्तम्। पायुर्गुह्यस्थानम्। करौ हस्तौ। चरणौ पादौ। अस्मिन्नष्टके रक्ते
लोहिते सति रक्तसारा नरा भवन्ति। ते च बहुभिः सुखैर्वनिताभिः स्त्रीभिर्बहुभिरर्थैर्धनैर्बहुभिः
पुत्रैः सुतैश्च युताः संयुक्ता भवन्ति ।।९७।।
अथ त्वग्मज्जामेदःसारानाह—
स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः ।
मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः ॥९८॥
स्निग्ध त्वचा वाले पुरुष धनी, कोमल त्वचा वाले भाग्यशाली और पतली त्वचा
वाले पण्डित होते हैं। मज्जासार वाले तथा मेदसार वाले मनुष्य सुन्दर, पुत्रवान और
धनी होते हैं।।९८।।
त्वक् चर्म। तच्च स्निग्धमरूक्षं येषां ते स्निग्धत्वक्कास्ते च धनिनो वित्तान्विता
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

२४० बृहत्संहिता
भवन्ति। मृदुभिः सुभगाः सौभाग्योपेता भवन्ति। तनुभिस्त्वग्भिर्विचक्षणाः पण्डिताः। ये
मज्जासारा नरा मेदःसाराश्च ते सुशरीराः शोभनशरीरा भवन्तीति तल्लक्षणम्। ते च पुत्र-
वित्तयुताः सुतधनान्विता भवन्तीति।।९८।।
अथास्थिशुक्रसारमाह—
स्थूलास्थिरस्थिसारो बलवान् विद्यान्तगः सुरूपश्च।
बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ॥९९॥
अस्थिसार वाला मनुष्य मोटी हड्डी वाला, बलवान्, विद्वान् और सुन्दर होता है।
वीर्यसार वाला मनुष्य गाढ़े वीर्य वाला, भाग्यशाली, विद्वान् और सुन्दर होता है।।९९।।
स्थूलान्यस्थीनि यस्य सोऽस्थिसारः स च बलवान् प्राणी भवति। विद्यान्तगो विद्या-
स्वन्तः शक्तः, सुरूपः शोभनरूपश्च भवति। बहुगुरुशुक्राः, बहु प्रभूतं गुरु घनं शुक्लं
येषां ते शुक्रसारास्ते च सुभगाः, सौभाग्योपेता विद्वांसः पाठकाः पण्डिता रूपवन्तः सुरूपाश्च
भवन्ति।।९९।।
अथ मांससारलक्षणं संहतिलक्षणं चाह—
उपचितदेहो विद्वान् धनी सुरूपश्च मांससारो यः।
सङ्घात इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ॥१००॥
मांससार वाला मनुष्य स्थूल शरीर वाला, विद्वान्, धनी और सुन्दर रूप वाला
होता है। समस्त अंगसन्धियों की सुश्लिष्टता को 'संघात' कहा जाता है। संघातयुत मनुष्य
सुखी होते हैं।।१००।।
उपचितदेहः स्थूलशरीरः। स मांससारः स च विद्वान् पण्डितः। धनी वित्तवान् सुरूपः
शोभनरूपो भवति—इति सारः।
अथ संहतिलक्षणम्—सङ्घात इति। सुश्लिष्टसन्धिता सर्वाङ्गसन्धीनां सुश्लिष्टत्वं
सङ्घातः। सा च सुश्लिष्टसन्धिता सुखभुजः सुखिनो ज्ञेया। सुश्लिष्टसन्धिता येषां ते
सुखभुज इत्यर्थः।।१००।।
अथ स्नेहलक्षणमाह—
स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ॥१०१॥
पुरुष की वाणी, जीभ, दाँत, आँख, नख—इन पाँच स्थानों में स्नेह का विचार
करना चाहिये। जिनके ये पाँचों स्निग्ध हों वे पुरुष पुत्र, धन और सौभाग्य से युत तथा
जिनके रूक्ष हों वे निर्धन होते हैं।।१०१।।
पञ्चसु स्नेहो लक्ष्यो विचार्यः। केषु? वाचि वचने। जिह्वायां रसनायाम्। दन्तेषु
रदेषु। नेत्रयोश्चक्षुषोः। नखेषु कररुहेषु। एतेषु संस्थः। तैश्च वागादिभिः सर्वैः स्निग्धैः सस्नेहैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २४१
सुतधनसौभाग्ययुता नरा भवन्ति। सुतः पुत्रः। धनं वित्तम्। सौभाग्यं सर्वजनानां लक्ष्यम्।
एतैर्गुणैः संयुक्ताः। तैरेव सर्वै रूक्षैरस्निग्धैर्निर्धना दरिद्रा भवन्ति।।१०१।।
अथ वर्णलक्षणमाह—
द्युतिमान् वर्णस्निग्धः क्षितिपानां मध्यमः सुतार्थवताम्।
रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः ॥१०२॥
राजाओं का वर्ण कान्तियुत और स्निग्ध, पुत्रवान् धनिकों का वर्ण मध्यम और
निर्धनों का वर्ण रूखा होता है। पुरुष का शुद्ध स्निग्ध वर्ण शुभ और मिश्रित वर्ण अशुभ
होता है।।१०२।।
वर्णो गौरलोहितश्यामादिकः। वर्णः स्निग्धो यस्यासौ वर्णस्निग्धः स द्युतिमान्
दीप्तिमान् भवति। स च क्षितिपानां राज्ञां भवति। मध्यमो वर्णो नातिरूक्षो नातिस्निग्धः
ससुतार्थवतां पुत्रधनान्वितानां भवति। रूक्षो वर्णो धनहीनानां दरिद्राणां भवति। शुद्धो वर्णः
स्निग्ध एव शुभदः प्रशस्तः। न सङ्कीर्णो व्यामिश्रवर्णः। क्वचित् स्निग्धः क्वचिद्रूक्षो न
शुभदः। इति वर्णः।।१०२।।
अथानूकलक्षणमाह—
साध्यमनूकं वक्त्राद् गोवृषशार्दूलसिंहगरुडमुखाः।
अप्रतिहतप्रतापा जितरिपवो मानवेन्द्राश्च ॥१०३॥
वानरमहिषवराहाजतुल्यवदनाः श्रुतार्थसुखभाजः।
गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ॥१०४॥
मुख को देखकर पूर्व जन्म की कल्पना करनी चाहिये। गौ, बैल, बाघ, सिंह या
गरुड़ के समान मुख वाले मनुष्य का पूर्व जन्म शुभ होता है तथा वे अप्रतिहत प्रताप
वाले और शत्रुओं को जीतने वाले राजा होते हैं। बन्दर, महिष, सूअर या बकरे के
समान मुख वाले का पूर्व जन्म मध्यम होता है तथा वे शास्त्र, धन और सुख से युत
होते हैं। गदहा या ऊँट के समान मुख वाले का पूर्व जन्म अशुभ होता है तथा वे धन
और सुख से रहित होते हैं।।१०३-१०४।।
अनूकं प्राग्जन्म। तच्च वक्त्राद् मुखात् साध्यं कल्पनीयम्। गौः प्रसिद्धा। वृषो
दान्तः। शार्दूलः सिंहसदृशः प्राणिविशेषः। सिंहो हरिः। गरुडो वैनतेयः। एतेषां ये सदृश-
मुखास्तुल्यवक्त्राः। तेषां प्राग्जन्म शुभम्। ते चाप्रतिहतप्रतापा भवन्ति। अप्रतिहतोऽनभि-
भवनीयः प्रतापो येषाम्। जितरिपवो निर्जितशत्रवः, मानवेन्द्राश्च राजानो भवन्ति।
वानरः कपिः। महिषः प्रसिद्धः। वराहः सूकरः। अजश्छागः। एतेषां तुल्यवदनाः
सदृशमुखा नराः श्रुतार्थसुखभाजः। श्रुतं शास्त्रम्। अर्थो धनम्। सुखं प्रसिद्धम्। एषां भागिनो
भवन्ति। एतेषां मध्यमं प्राग्जन्म। गर्दभः खरः। करभ उष्ट्रः। गर्दभकरभप्रतिमैस्तत्सदृशै-
बृ० भ० द्वि०-१६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४२ बृहत्संहिता
मुँखैर्वदनैः शरीरैश्च देहैर्निःस्वसुखा भवन्ति। निःस्वा निर्धनाः। निःसुखाः सुखरहिताश्च।
तेषामशुभं प्राग्जन्म। इत्यनूक्तम्॥१०३-१०४॥
अथोन्मानलक्षणमाह—
अष्टशतं षण्णवतिः परिमाणं चतुरशीतिरति पुंसाम्।
उत्तमसमहीनानामङ्गुलसङ्ख्या स्वमानेन ॥१०५॥
अपनी अंगुलियों से १०८ अंगुल अपनी ऊँचाई हो तो उत्तम, ९६ अंगुल हो तो
मध्यम और ८४ अंगुल हो तो अधम होता है॥१०५॥
पुंसां पुरुषाणां स्वमानेनात्मीयप्रमाणेनाङ्गुलसङ्ख्याङ्गुलप्रमाणम्। अष्टशतमष्टाधिकं
शतं स्वाङ्गुलैरुत्तमानां नराणां परिमाणं भवति। षण्णवतिरङ्गुलानि मध्यमानाम्। चतुर-
शीतिरङ्गुलानि हीनानां परिमाणं भवति। उत्थितस्य पुरुषस्य भूपदसंयोगाच्छिरोमध्यं यावत्
सूत्रं दत्त्वा तन्मापयेत् स्वाङ्गुलैरिति स्थितिः। इत्युन्मानम्॥१०५॥
अथ मानलक्षणमाह—
भारार्धतनुः सुखभाक् तुलितोऽतो दुःखभागभवतूनः।
भारोऽतीवाढ्यानामध्यर्धः सर्वधरणीशः ॥१०६॥
एक भार में दो हजार पल होते हैं। आधा भार वाला पुरुष सुखी, इससे कम भार
वाला दुःखी, एक भार वाला अति धनी और डेढ भार वाला चक्रवर्ती होता है॥१०६॥
भारः पलसहस्रद्वयम्। यः पुरुषस्तुलायां तुलितो भारार्धतनुर्भवति दशपलशतानीत्यर्थः।
स सुखभाक् सुखितो भवति। अतोऽस्माद्भारार्धाद् य ऊनतनुः स दुःखभाग् दुःखितो
भवति। भारप्रमाणतनुरतीवाढ्यानामतिधनिनां भवति। अध्यर्धभारतनुस्त्रिसहस्रपलानि यः
स सर्वधरणीशः, सार्वभौमो राजा भवतीत्यर्थः॥१०६॥
कस्मिन् काले उन्मानमानेन मापयेदित्येतत्प्रतिपादयन्नाह—
विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिभिरब्दैः।
अर्हति मानोन्मानं जीवितभागे चतुर्थे वा ॥१०७॥
बीस वर्ष की स्त्री और पच्चीस वर्ष वाले पुरुष के उन्मान और मान का विचार
करना चाहिये अथवा गणित से निर्णीत आयु का चतुर्थ भाग व्यतीत हो जाने पर उन्मान
और मान का विचार करना चाहिये॥१०७॥
नारी स्त्री विंशतिवर्षा मानोन्मानमर्हति। मानं तुलामानम्, उन्मानमूर्ध्वमानमङ्गुलादि।
एवं पुरुषो नरो वर्षपञ्चविंशत्या मानोन्मानमर्हति, मानोन्मानयोग्यो भवति। खलुशब्दो
वाक्यालङ्कारे। वर्षशतं जीवितप्रमाणं निश्चित्य विंशतिवर्षा नारीत्युक्तम्। जीवितभागे चतुर्थे-
ऽतीते वा मानोन्मानमर्हति। वर्षशतादूने तु जीविते निश्चिते चतुर्थभाग इत्युक्तम्। इति
मानम्॥१०७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २४३
अथ प्रकृतिलक्षणमाह—
भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचकतिरश्चाम् ।
सत्त्वेन भवति पुरुषो लक्षणमेतद् भवति तेषाम् ॥१०८॥
पुरुषों में भूमि, जल, अग्नि, वायु, आकाश, देवता, मनुष्य, राक्षस, पिशाच, तिरछे
चलने वाले—इनका सत्त्व ( स्वभाव ) होता है, उनके ये वक्ष्यमाण लक्षण हैं॥१०८॥
भूः प्रसिद्धा। जलं वारुणम्। शिखी अग्निः। अनिलो वायुः। अम्बरमाकाशम्। सुरा
देवाः। नरा मनुष्याः। रक्षो राक्षसः। पिशाचा देवयोनयः। तिर्यञ्चस्तिर्यग्जातयः। एतेषां
सत्त्वेन प्रकृत्या पुरुषो नरो भवति। तेषां चैतद्वक्ष्यमाणं लक्षणं भवति। अत्र केचित् पठन्ति—
‘भूजलशिख्यनिलाम्बरसुरनररक्षःपिशाचतिर्यञ्चम्’ इति। तन्न; यस्मात् तिरश्चामिति भवितव्यम्।
तस्मात् प्राक्तनः पाठः शोभनः॥१०८॥
तत्र भूजलस्वभावयोर्लक्षणमाह—
महीस्वभावः शुभपुष्पगन्धः
सम्भोगवान् सुश्वसनः स्थिरश्च ।
तोयस्वभावो बहुतोयपायी
प्रियाभिभाषी रसभाजनश्च ॥१०९॥
भूमि प्रकृति वाला पुरुष सुन्दर पुष्पों के समान गन्ध वाला, भोगी, सुगन्धियुत
श्वास वाला और स्थिर स्वभाव वाला होता है। जल प्रकृति वाला मनुष्य अधिक जल
पीने वाला, मधुर बोलने वाला और मधुर रसप्रिय होता है॥१०९॥
महीस्वभावः भूप्रकृतिः पुरुषः। शुभपुष्पगन्धः शोभनानां चम्पकप्रभृतीनां पुष्पाणां
कुसुमानां सदृशो गन्धो यस्य स सम्भोगवान् सम्भोगशीलः। सुश्वसनः शोभनः श्वसनो
वातो यस्य। श्वसनशब्देनात्र सुखवहो वातः। स च सुगन्धस्तस्य भवतीत्यर्थः। स्थिरश्च
स्थिरस्वभावः। तोयस्वभावो जलप्रकृतिर्बहुतोयपायी बहु प्रभूतं तोयं जलं पिबति तच्छीलः।
प्रियाभिभाषी प्रियमनुकूलमभिभाषते वक्ति। रसभाजनश्च रसा मधुरादयस्तेषां भाजनो
योग्यस्तत्प्रियः। केचिद्रसभोजनश्चेति पठन्ति॥१०९॥
अथाग्निमारुतयोर्लक्षणमाह—
अग्निप्रकृत्या चपलोऽतितीक्ष्णश्चण्डः क्षुधालुर्बहुभोजनश्च ।
वायोः स्वभावेन चलः कृशश्च क्षिप्रञ्च कोपस्य वशं प्रयाति ॥११०॥
अग्नि प्रकृति वाला मनुष्य चञ्चल, खल, क्रूर, क्षुधा को नहीं सहने वाला और
बहुत भोजन करने वाला होता है। वायु प्रकृति वाला मनुष्य चञ्चल, दुर्बल और बहुत
जल्दी क्रोध के वश में आने वाला होता है॥११०॥
अग्निप्रकृत्या नरश्चपलः क्रियास्वनवस्थितः। अतितीक्ष्णः खलः। चण्डः क्रूरः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४४ बृहत्संहिता
क्षुधालुः क्षुधां न सहते। बहुभोजनश्च बह्वाशी। वायोः स्वभावेन पुरुषश्चलोऽस्थिरमतिः।
कृशो दुर्बलः। कोपस्य क्रोधस्य क्षिप्रमाश्वेव वशं प्रयाति विधेयतां गच्छति।।११०।।
अथाकाशसुरसत्त्वयोर्लक्षणमाह—
खप्रकृतिर्निपुणो विवृतास्यः
शब्दगतेः कुशलः सुशिराङ्गः।
त्यागयुतः पुरुषो मृदुकोपः
स्नेहरतश्च भवेत् सुरसत्त्वः ॥१११॥
आकाश प्रकृति वाला मनुष्य कार्य में निपुण, खुले हुये मुख वाला, संस्कृत पद-
ज्ञान में कुशल और छिद्रयुत अंग वाला होता है। देवता प्रकृति वाला मनुष्य दानी, थोड़े
क्रोध वाला और प्रेमी होता है।।१११।।
खप्रकृतिराकाशस्वभावो नरो निपुणः कलासु सूक्ष्मदृष्टिः। विवृतास्य उद्घाटितमुखः।
शब्दगतेः कुशलः शब्दानां संस्कृतपदानां गतिर्व्याप्तिस्तस्याः कुशलः शक्तः। अथवा
शास्त्रे गतेर्गमनस्य कुशलः। केचिच्छब्दगतौ कुशल इति पठन्ति। शब्दगतौ गतिविषये
कुशलः। सुशिराङ्गः सुशिरावयवः। सुरसत्त्वो देवप्रकृतिः पुरुषस्त्यागयुतस्त्यागी। मृदुकोपो-
ऽल्पक्रोधः। स्नेहरतः प्रीतियुक्तश्च भवति।।१११।।
अथ पुरुषसत्त्वस्य लक्षणमाह—
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः।
संविभागशीलवान् नित्यमेव मानवः ॥११२॥
मनुष्य प्रकृति वाला मनुष्य गान और भूषण का प्रिय तथा बन्धुओं का उपकार
करने वाला होता है।।११२।।
मर्त्यो नरः। तत्सत्त्वसंयुतो गीतभूषणप्रियः, गीतप्रियो भूषणप्रियः। भूषणानि अलङ्करणानि
प्रियाणि यस्य। सम्यग्विभजनं संविभागः। संविभागवान् बान्धवानामुपकर्ता। शीलवान्
चरित्रयुक्तः। नित्यं सर्वकालम्। मानवो मनुष्यो भवति।।११२।।
अथ रक्षःपिशाचानां लक्षणमाह—
तीक्ष्णप्रकोपः खलचेष्टितश्च
पापश्च सत्त्वेन निशाचराणाम्।
पिशाचसत्त्वश्चपलो मलाक्तो
बहुप्रलापी च समुल्बणाङ्गः ॥११३॥
राक्षस प्रकृति वाला मनुष्य क्रोधी, दुष्ट स्वभाव वाला और पापी होता है। पिशाच
प्रकृति वाला मनुष्य चञ्चल, मलिन, बहुत प्रलाप करने वाला और मोटे शरीर वाला
होता है।।११३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पुरुषलक्षणाध्यायः २४५
निशाचराणां रक्षसां सत्त्वेन नरस्तीक्ष्णप्रकोपश्चण्डक्रोधः। खलचेष्टितः खलस्य
दुर्जनस्येव चेष्टितं यस्य। पापश्च, पापरतो भवति। पिशाचसत्त्वः पिशाचप्रकृतिर्नरश्चपलो-
ऽनेकमतिः। मलाक्तो मलोपदिग्धशरीरः। बहुप्रलापी बहुविधं प्रलपति। समुल्बणाङ्गः स्थूलाङ्गो
भवति।।११३।।
अथ तिर्यक्सत्त्वस्य लक्षणमाह—
भीरुः क्षुधालुर्बहुभुक् च यः स्याद्
ज्ञेयश्च सत्त्वेन नरस्तिरश्चाम्।
एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम्।।११४।।
तिर्यक् प्रकृति वाला पुरुष डरपोक, क्षुधा को नहीं सहन करने वाला और बहुत
भोजन करने वाला होता है। इस तरह मनुष्यों की प्रकृति का लक्षण कहा गया है, जो
प्रकृतिलक्षणज्ञों के द्वारा सत्त्व नाम से कही जाती है।।११४।।
यो नरः पुरुषो भीरुर्भयार्त्तः। क्षुधालुः क्षुधां न सहते। बहुभुग् बह्वाशी च यः स्यात्
स तिरश्चां तिर्यग्जातीनां सत्त्वेन ज्ञेयो ज्ञातव्यः। एवमनेन प्रकारेण नराणां पुंसां प्रकृतिः
प्रदिष्टा उक्ता। लक्षणज्ञाः पुरुषलक्षणविदो यत् सत्त्वमिति प्रवदन्ति कथयन्ति। तथा च गर्गः—
धन्यधन्यतरो वर्णो वर्णाद्धन्यतरः स्वरः।
स्वराद्धन्यतरं सत्त्वं सर्वं सत्त्वे प्रतिष्ठितम्।।
इति प्रकृतिसत्त्वम्।।११४।।
अथ गतिलक्षणमाह—
शार्दूलहंससमदद्विपगोपतीनां
तुल्या भवन्ति गतिभिः शिखिनां च भूपाः।
येषां च शब्दरहितं स्तिमितं च यातं
तेऽपीश्वरा द्रुतपरिप्लुतगा दरिद्राः ।।११५।।
सिंह, हंस, मतवाले हाथी, बैल और मयूर के समान गति वाले मनुष्य राजा होते
हैं। शब्दरहित और मन्द गति वाले भी धनी होते हैं तथा शीघ्र और मेढक के समान गति
वाले मनुष्य दरिद्र होते हैं।।११५।।
शार्दूलः सिंहः। हंसः पक्षी। केचिच्छार्दूलसिंहेति पठन्ति। शार्दूलः प्राणिविशेषः।
सिंहो हरिः। समदो मदसहितो द्विपो हस्ती। मत्तगज इत्यर्थः। गोपतिर्वृषः। तथा शिखी
मयूरः। एषां गतिभिर्गमनैस्तुल्याः सदृशगतयो भूपा राजानो भवन्ति। येषां च यातं गमनं
शब्दरहितं निःशब्दं स्तिमितमल्पं च तेऽपीश्वरा धनिनः। द्रुतपरिप्लुतगा दरिद्राः, द्रुतं त्वरितं
परिप्लुतं मण्डूकवज्जाताक्षेपं गच्छन्ति। ते दरिद्रा निर्धना भवन्ति। इति गतिः।।११५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२४६ बृहत्संहिता
सिद्धान्तमाह—
श्रान्तस्य यानमशनं च बुभुक्षितस्य
पानं तृषांपरिगतस्य भयेषु रक्षा।
एतानि यस्य पुरुषस्य भवन्ति काले
धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ॥११६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां पुरुषलक्षणं
नामाष्टषष्टितमोऽध्यायः ॥६८॥
जिस मनुष्य को थकने पर सवारी, भूख लगने पर भोजन, प्यास लगने पर पानी
और भय के समय रक्षक मिल जाय; मनुष्य के लक्षण जानने वाले पण्डित उस मनुष्य
को भाग्यशाली कहते हैं।।११६।।
इति 'विमला'हिन्दीटीकायां पुरुषलक्षणाध्यायोऽष्टषष्टितमः ॥६८॥
यस्य नरस्य श्रान्तस्य खिन्नस्य यानं वाहनमश्वादिकं भवति। बुभुक्षितस्याशनं भोजनं
भवति। तृषापरिगतस्य पिपासां गतस्य पानं जलं भवति। भयेषूत्पन्नेषु रक्षा परिपालनम्।
एतानि काले यथोपयुज्यमानानि भवन्ति। तं नरं धन्यं शुभलक्षणं वदन्ति कथयन्ति।
नरलक्षणज्ञाः पुरुषचिह्नविदः ।।११६।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ पुरुषलक्षणं
नामाष्टषष्टितमोऽध्यायः ॥६८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ पञ्चमनुष्यविभागाध्यायः
अथ पञ्चमनुष्यविभागो व्याख्यायते। तत्रादावेव तदारम्भप्रयोजनप्रदर्शनार्थमाह—
ताराग्रहैर्बलयुतैः स्वक्षेत्रस्वोच्चगैश्चतुष्टयगैः ।
पञ्च पुरुषाः प्रशस्ता जायन्ते तानहं वक्ष्ये ॥१॥
स्थान, दिक्, चेष्टा और कालबल से युक्त मंगल आदि पाँच ग्रह अपने गृह या
उच्च में स्थित होकर लग्न, चतुर्थ, सप्तम या दशम में स्थित हों तो पाँच प्रशस्त पुरुष
उत्पन्न होते हैं। अतः उनको मैं कहता हूँ॥१॥
ताराग्रहा बुधकुजजीवशुक्रसौराः तैस्ताराग्रहैः सबलैः स्थानदिक् चेष्टाकालबलयुक्तैः।
स्वक्षेत्रगैः स्वराशाववस्थितैः। स्वोच्चगैः स्वेष्वात्मीयेषूच्चराशिषु व्यवस्थितैः। चतुष्टयगैर्लग्न-
चतुर्थसप्तमदशमानामन्यतमेष्ववस्थितैरित्यर्थः। पञ्च पुरुषाः प्रशस्ता जायन्ते। तान् पुरुषानहं
वक्ष्ये कथयिष्ये॥१॥
अथैषां प्रविभागलक्षणमाह—
जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च ।
भद्रो बुधेन बलिना मालव्यो दैत्यपूज्येन ॥२॥
स्वगृह या उच्च में स्थित होकर केन्द्र में बली बृहस्पति हो तो हंस, शनि हो तो
शश, मंगल हो तो रुचक, बुध हो तो भद्र और शुक्र हो तो मालव्य योग होता है॥२॥
जीवेन बृहस्पतिना बलयुतेन हंसो नाम पुरुषो भवति। एवं सौरेण शनैश्चरेण बलिना
शशो भवति। कुजेनाङ्गारकेण बलिना रुचको नाम योगो भवति। बुधेन बलिना भद्रः।
दैत्यपूज्येन शुक्रेण बलिना मालव्यो भवति। तथा च सारावल्याम्—
स्वक्षेत्रे तु चतुष्टयेऽथ बलिभिः स्वोच्चे स्थितैर्वा ग्रहैः
शुक्राङ्गारकमन्दजीवशशिजैरेतैर्यथाप्रक्रमम् ।
मालव्यो रुचकः शशोऽथ कथितो हंसश्च भद्रस्तथा
सर्वेषामतिविस्तराद् मुनिमतात् सङ्कथ्यते लक्षणम्॥ इति॥२॥
एतेषामर्कचन्द्रबलवशाद्विशेषमाह श्लोकद्वयेन—
सत्त्वमहीनं सूर्याच्छारीरं मानसं च चन्द्रबलात्।
यद्राशिभेदयुक्तावेतौ तल्लक्षणः स पुमान् ॥३॥
तद्धातुमहाभूतप्रकृतिद्युतिवर्णसत्त्वरूपाद्यैः ।
अबलरवीन्दुयुतैस्तैः सङ्कीर्णा लक्षणैः पुरुषाः ॥४॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

२४८ बृहत्संहिता
सूर्य बली हो तो पुरुष परिपूर्ण सत्त्व वाला एवं चन्द्र बली हो तो मानसिक बल
वाला होता है। सूर्य-चन्द्र दोनों जिस राशि के भेद (राशि, होरा, द्रेष्काण, नवांश,
द्वादशांश और त्रिंशाश) में बैठे हों, उस राशिपति के धातु, महाभूत, प्रकृति, कान्ति,
वर्ण, सत्त्व, रूप आदि लक्षणों से युत पुरुष होता है। बली सूर्य और चन्द्र जिस-जिस
ग्रह के राशिभेद में बैठे हों, उन ग्रहों के धातु आदि लक्षणों से युत पुरुष होता है अथवा
सूर्य-चन्द्र दोनों में से एक बली होकर जिस ग्रह के राशिभेद में स्थित हों, उस ग्रह के
धातु आदि लक्षणों से युत पुरुष होता है अथवा दोनों निर्बल होकर जिस-जिस ग्रह के
राशिभेद में स्थित हों, उन दोनों के मिश्रित लक्षणों से युत पुरुष होता है॥३-४॥
सत्त्वमहीनं सूर्यादिति। सत्त्वं गुणभागः, अहीनं परिपूर्णम्, सूर्यादादित्यात् तुल्यस्य
पुरुषस्य भवति। बलवशात् शारीरं देहगुणस्तनोः कान्तिः। मानसं बलमवस्कन्दता। तच्चन्द्र-
बलात् चन्द्रबलवशाद्भवति। कथमित्याह—यद्राशिभेदयुक्ताविति। एतावर्कचन्द्रौ यद्राशि-
भेद्युक्तौ यस्मिन् राशिभेदे होराद्रेष्काणनवांशद्वादशभागत्रिंशद्भागाख्ये कुजादिसम्बन्धिनि
स्वे वा युक्तौ स्थितौ तस्य राशिभेदस्य योऽधिपतिर्ग्रहस्तल्लक्षणैस्तैर्लक्षणैर्युक्तः स पुमान्
भवति। राशिभेदका जातके भेदाध्याये प्रोक्ताः।
तद्धात्तुमहाभूतप्रकृतिरिति। यद्राशिभेदयुक्तावेतौ तल्लक्षणः स पुमानित्युक्तम्।
तत्र तद्धात्तुस्तदीयस्तस्य धातुर्भवति। तद्यथा धातवः—
स्नाय्वस्थ्यसृक्त्वगथ शुक्रवसा च मज्जा।
मन्दार्कचन्द्रबुधशुक्रसुरेज्यभौमाः ॥ इति।
महाभूतानि पृथिव्यादीनां भौमादीनां ग्रहाणामुक्तानि। तद्यथा—'शिखिभूखपयोमरुद्गणा-
नामधिपा भूमिसुतादयः क्रमेण' इति। अर्कचन्द्रयोर्वह्न्यम्बुप्रकृतिर्वातपित्तश्लेष्मात्मिका।
अथवा 'महीस्वभावः शुभपुष्पगन्धः' इत्याद्युक्तम्। द्युतिः कान्तिश्छाया। चण्डाधृष्या पद्म-
हेमाग्निवर्णा इति। 'द्युतिमान् वर्णस्निग्धः' इत्यादिवर्णः। यथा—'रक्तश्यामो भास्कर' इत्यादि।
सत्त्वं गुणभागः। सत्त्वग्रहणं गुणत्रयोपलक्षणार्थम्। त्रयो गुणाः सत्त्वरजस्तमांसि चन्द्रार्कजीवा
इत्युक्ताः।
रूपं यथा—'मधुपिङ्गलदृक्' इत्यादि। आदिग्रहणाच्चेष्टास्वभावकर्मकौशलाः। एतैर्युक्तो
भवति। रविचन्द्रौ सबलौ गृहहोराद्रेष्काणनवांशकद्वादशभागत्रिंशद्भागेषु यस्य यस्य ग्रहस्य
स्थितौ तेषां ग्रहाणां तत्तन्महाभूतादिभिर्युक्तः पुमान् भवति। अबलरवीन्दुयुतैरिति। तै
राशिभेदैरबलरवीन्दुयुतैर्बलरहितार्कचन्द्रयुक्तैर्लक्षणैः सङ्कीर्णा व्यामिश्रास्ते पुरुषा भवन्ति।
एतदुक्तं भवति—चन्द्रार्कयोर्बली यो यस्मिन् राशिभेदे भवत्येकस्तल्लक्षणो भवति स पुरुषः।
अथ तावबलौ भवतस्तदा यत्रार्कः स्थितो यत्र चन्द्रः स्थितस्तैर्व्यामिश्रैर्लक्षणैर्युक्तो भवति।
तथा च सारावल्याम्—
बलरहितेन्दुरविभ्यां युतैर्भौमादिभिर्मिश्राः।
न भवन्ति भूमिपाला दशासु तेषां सुतार्थयुताः॥ इति॥३-४॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

पञ्चमनुष्यविभागाध्यायः २४९
अथ कस्माद् ग्रहात् को गुणो भवत्येतदाह—
भौमात् सत्त्वं गुरुता बुधात् सुरेज्यात् स्वरः सितात् स्नेहः।
वर्णः सौरादेषां गुणदोषैः साध्वसाधुत्वम् ॥५॥
मंगल से सत्त्व, बुध से गुरुता, बृहस्पति से स्वर, शुक्र से स्नेह और शनि से
कान्ति होती है। यदि मंगल आदि ग्रह बली हों तो पुरुष सत्त्व आदि गुणों से युत और
निर्बल हों तो सत्त्व आदि गुणों से रहित होता है॥५॥
एषां पुरुषाणां भौमात् कुजात् सत्त्वं भवति। सत्त्वशब्दो विशिष्टगुणवाचकः। गुरुता
गौरवं परिपुष्टता बुधात्। सुरेज्याद् गुरोः स्वरः शब्दः। सिताच्छुक्रात् स्नेहो निर्मलता।
सौराच्छनैश्चराद्वर्णः कान्तिः। किमेतत् सर्वदा भवति? नेत्याह—गुणदोषैः साध्वसाधुत्वम्।
एषां ग्रहाणां गुणैः सबलत्वेन साधुत्वं सत्त्वादीनां सम्पद्भवति। दोषैर्हीनबलसत्त्वेनासाधुत्वं
सत्त्वानामापद्भवति। तथा च सारावल्याम्—
महीसुतात् सत्त्वमुदाहरन्ति गुरुत्वमिन्दोस्तनयाद् गुरोश्च।
स्वरः सितात् स्नेहमतोऽनुवर्णं बलाबलैः पूर्णलघूनि चैषाम्॥ इति॥५॥
अथ सङ्कीर्णानां विशेषमाह—
सङ्कीर्णाः स्युर्न नृपा दशासु तेषां भवन्ति सुखभाजः।
रिपुगृहनीचोच्चच्युतसत्पापनरीक्षणैर्भेदाः ॥६॥
सङ्कीर्ण लक्षण वाले मनुष्य राजा नहीं; किन्तु भौम आदि ग्रहों की दशा में सुखी
होते हैं। शत्रुगृह, नीच, उच्च-इन स्थानों से चलित शुभ और पापग्रहों की दृष्टि से भेद
होते हैं। उन भेदों से मनुष्य में सङ्कीर्णता दोष होता है॥६॥
सङ्कीर्णाः पुरुषा नृपा राजानो न स्युर्न भवेयुः। तेषां ग्रहाणां भौमादीनां दशासु सुखभाजः
सुखिता भवन्ति। रिपुगृहेति। रिपुगृहं शत्रुक्षेत्रम्। नीचगृहं प्रसिद्धम्। उच्चत्वं जातके
प्रसिद्धम्। तस्माद्ये च्युताश्चलिता ग्रहास्तैरवलोकिता दृष्टाः सन्तः शुभग्रहाः पूर्णचन्द्रबुध-
जीवशुक्राः, पापाः क्षीणचन्द्रभौमरविशनयः। रिपुगृहनीचोच्चच्युतानां शुभानां पापानां च
निरीक्षणैरवलोकनैर्भेदा भवन्ति। तैर्भेदैस्तेषां पुरुषाणां सङ्कीर्णता भवतीत्यर्थः। तथा च
सारावल्याम्—
बलरहितेन्दुरविभ्यां युक्तैर्भौमादिभिर्ग्रहैर्मिश्राः।
न भवन्ति भूमिपाला दशासु तेषां सुतार्थयुताः॥ इति॥६॥
अधुना तेषां भौमादियुक्तहंसजातीनां प्रमाणमाह—
षण्णवतिरङ्गुलानां व्यायामो दीर्घता च हंसस्य।
शशरुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या ॥७॥
९६ अंगुल ऊँचाई और ९६ अंगुल व्यायाम (दोनों भुजा फैलाकर कर चौड़ाई)
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५० बृहत्संहिता
हंस का होता है। इसमें तीन-तीन अंगुल बढ़ाने से क्रम से शश, रुचक, भद्र और
मालव्य पुरुष की ऊँचाई और व्यायाम होता है।।७।।
हंसस्य षण्णवतिरङ्गुलानां व्यायामः पृथुता च भवति। प्रसारितभुजद्वयस्य प्रमाणमित्यर्थः।
दीर्घता चौच्च्यं षण्णवतिरङ्गुलानामेव। शशरुचकभद्रमालव्यसंज्ञितास्त्र्यङ्गुलविवृद्ध्या।
त्रिभिस्त्रिभिरङ्‌गुलैस्तेषां वृद्धिव्र्व्यायामोच्च्योर्भवतीत्यर्थः। एतदुक्तं भवति—नवनवतिरङ्गुलानां
व्यायामो दीर्घता च शशस्य भवति। द्व्यधिकं शतं रुचकस्य। पञ्चाधिकं शतं भद्रस्य।
अष्टाधिकं मालव्यस्येति। एतदुत्तरत्र वक्ष्यमाणग्रन्थेन विरुद्ध्यते। तथा च पराशरः—
उच्छ्रायः परिणाहस्तु यस्य तुल्यं शरीरिणः।
स नरः पार्थिवो ज्ञेयो न्यग्रोधपरिमण्डलः।। इति।।७।।
अथ गुणलक्षणान्याह श्लोकद्वयेन—
यः सात्त्विकस्तस्य दया स्थिरत्वं सत्त्वार्जवं ब्राह्मणदेवभक्तिः।
रजोऽधिकः काव्यकलाक्रतुस्त्रीसंसक्तचितः पुरुषोऽतिशूरः ॥८॥
तमोऽधिको वञ्चयिता परेषां मूर्खोऽलसः क्रोधपरोऽतिनिद्रः ।
मिश्रैर्गुणैः सत्त्वरजस्तमोभिर्मिश्रास्तु ते सप्त सह प्रभेदैः ॥९॥
सात्त्विक पुरुषों को दया, स्थिरता, प्राणियों में सरलता और देवता में भक्ति होती
है। रजोगुण वाला मनुष्य काव्य, कला, यज्ञ और स्त्री में आसक्त तथा अतिशूर होता है।
तमोगुण वाला मनुष्य दूसरे को ठगने वाला, मूर्ख, आलसी, क्रोधी और अधिक सोने
वाला होता है। मिश्रित ( सत्त्व-रज, सत्त्व-तम, रज-तम और सत्त्व-रज-तम )—
इस तरह गुणों के प्रभेद से सात प्रकार के मनुष्य होते हैं।।८-९।।
यः सात्त्विकस्तस्य दयेति । यः सात्त्विकः पुरुषस्तस्य सर्वभूतेषु दया भवति।
स्थिरत्वमेकचित्तता। सत्त्वार्जवं सत्त्वानां प्राणिनामार्जवम्। ऋजोर्भाव आर्जवम्। ऋजुभावः
स्पष्टता। ब्राह्मणानां देवानां च भक्तिः। यो रजोऽधिकः पुरुषः स काव्येषु कलासु गीत-
नृत्यवाद्येषु क्रतुषु च संसक्तचित्तो भवति। अतिशूरः संग्रामप्रियः।
तमोऽधिक इति । यस्तमोऽधिकस्तामसः पुरुषः स परेषां वञ्चयिता वञ्चनशीलो
मूर्खो जडः। अलस आलस्यसंसक्तः। क्रोधपरः क्रोधी। अतिनिद्रश्च भवति। सत्त्वरजस्तमोभि-
स्त्रिभिर्मिश्रैस्तु ते पुरुषा मिश्रा मिश्रगुणा भवन्ति। ते च गुणैः स्वभेदैः सह सप्त भवन्ति।
तद्यथा—सत्त्वं रजस्तम इति त्रयो भेदाः। सत्त्वरजसी रजस्तमसी सत्त्वतमसी त्रयः। सत्त्व-
रजस्तमसां त्रयाणां योगात्सप्तमः। एतद्राशिभेदवशात्सङ्कीर्णवशाच्च सम्भवति।।८-९।।
अथ मालव्यलक्षणमाह—
मालव्यो नागनासः समभुजयुगलो जानुसम्प्राप्तहस्तो
मांसैः पूर्णाङ्गसन्धिः समरुचिरतनुर्मध्यभागे कृशश्च।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमनुष्यविभागाध्यायः २५१
पञ्चाष्टौ चोर्ध्वमास्यं श्रुतिविवरमपि त्र्यङ्गलोनं च तिर्यग्
दीप्ताक्षं सत्कपोलं समसितदशनं नातिमांसाधरोष्ठम् ॥१०॥
मालव्य पुरुष हाथी के समान नासिका वाला, तुल्य भुजा वाला, जानु तक लम्बे
हाथ वाला, पुष्ट अंगसन्धि वाला, समान सुन्दर शरीर वाला, कृश मध्य भाग वाला,
ठोढ़ी से शिर तक की तेरह अंगुल ऊँचाई वाला, ठोढ़ी से कान के छिद्र तक तिरछी दश
अंगुल ऊँचाई वाला, दीप्त मुख और नेत्र वाला, सुन्दर कपोल वाला, समान और
सफेद दाँत वाला तथा पतले अधर वाला होता है॥१०॥
मालव्यनामा शुक्रेण योऽसावुत्पद्यते योगस्तस्येदं लक्षणम्, यथा—स नरो नागनासो
नागो हस्ती नागस्येव नासा यस्य। दीर्घनास इत्यर्थः। समभुजयुगलः, समं तुल्यं भुज-
युगलं बाहुद्वयं यस्य। अथवा नागनासासमभुजयुगलः, नागनासासमं करिकरसदृशं बाहुद्वयं
यस्य सः। जानुसम्प्राप्तहस्त आजानुलम्बबाहुः। मांसैः पूर्णाङ्गसन्धिः, मांसैः परिपूर्णाः सर्वाङ्ग-
सन्धयो यस्य। अनुल्बणास्थिरित्यर्थः। समरुचिरतनुः समा तुल्या रुचिरा श्रेष्ठा तनुः शरीरं
यस्य। मध्यभागे कक्ष्याप्रदेशे कृशो दुर्बलः। पञ्चाष्टौ चोर्ध्वमास्यम्, पञ्च च अष्टौ च पञ्चाष्टौ
त्रयोदशाङ्गुलानि, ऊर्ध्वमास्यमूर्ध्वमानेनास्यं चिबुकाल्ललाटान्तं यावत् त्रयोदशाङ्गुलं भवति।
चिबुकाच्छ्रवणविवरं यावत् त्र्यङ्गलोनं तिर्यग् भवति। चिबुकमध्यात् कर्णविवरं यावत्
तिर्यक् कृत्वा दशाङ्गुलानि भवन्तीत्यर्थः। दीप्ताक्षं दीप्ते स्फुटे अक्षिणी यस्य। सत्कपोलं
शोभनकपोलम्। समसितदशनं समास्तुल्याः सिताः श्वेता दशना दन्ता यस्य। नातिमांस-
लमधरमोष्ठं यस्य॥१०॥
अस्य च यथाविधिस্বরূপमाह—
मालवान् स भरुकच्छसुराष्ट्रान् लाटसिन्धुविषयप्रभृतींश्च।
विक्रमार्जितधनोऽवति राजा पारियात्रनिलयान् कृतबुद्धिः ॥११॥
मालव्य पुरुष मालव, मरु, कच्छ, सुराष्ट्र (सूरत), लाट, सिन्धु देश और पारियात्र
पर्वतवासियों की रक्षा करने वाला, अपने पराक्रम से धन कमाने वाला तथा सुन्दर बुद्धि
वाला राजा होता है॥११॥
मालवान् जनान्। भरुकच्छान् जनानेव। सुराष्ट्रान् जनान्। लाटदेशः प्रसिद्धः। सिन्धु-
विषयः प्रसिद्ध एव। एतत्प्रभृतींश्च देशानवति रक्षति। कीदृशः ? विक्रमार्जितधनो विक्रमेण
प्रतापेनार्जितं धनं वित्तं येन तथाभूतः। स राजा पारियात्रनिलयान् पारियात्रः पर्वतस्तत्र
कृतं निलयं गृहं यैस्तान्। कृतबुद्धिः शोभनमतिः सन्नवति॥११॥
अन्यदप्याह—
सप्ततिवर्षो मालव्योऽयं त्यक्ष्यति सम्यक् प्राणांस्तीर्थे।
लक्षणमेतत् सम्यक् प्रोक्तं शेषनराणां चातो वक्ष्ये ॥१२॥
मालव्य पुरुष की आयु सत्तर वर्ष की होती है और वह तीर्थस्थान पर प्राण छोड़ता
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५२ बृहत्संहिता
है। इस तरह मालव्य पुरुष के अच्छी तरह लक्षण कहकर शेष भद्र आदि पुरुषों का
लक्षण कहता हूँ।।१२।।
अयं मालव्यः सप्ततिवर्षः सप्ततिवर्षाणां जीवितपरिमाणं तस्य भवति। तीर्थेषु पुण्य-
स्थानेषु सम्यक् तपसा प्राणान्सूँस्त्यक्ष्यति। म्रियत इति। एतत् सम्यक् मालव्यस्य लक्षणं
प्रोक्तं कथितम्। शेषनराणां भद्रादीनां चातोऽनन्तरं वक्ष्ये कथयिष्ये। तथा च सारावल्याम्—
न स्थूलोष्ठो न विषमवपुर्नातिरिक्ताङ्गसन्धि-
र्मध्यक्षामः शशधररुचिर्हस्तिनासः सुगण्डः।
सन्दीप्ताक्षः समसितरदो जानुदेशाप्तबाहु-
र्मलव्योऽयं विलसति नृपः सप्ततिर्वत्सराणाम्।।
वक्त्रं त्रयोदशमितानि तथाङ्गुलानि
दैर्येण · कर्णविवराद् दश विस्तरेण।
मालव्यसंज्ञमनुजः स भुनक्ति नूनं
लाटं समालवससिन्धुसपारियात्रम्।। इति।
इति मालव्यः।।१२।।
अथ भद्रलक्षणमाह—
उपचितसमवृत्तलम्बबाहुर्भुजयुगलप्रमितः समुच्छ्रयोऽस्य।
मृदुतनुघनररोमनद्धगण्डो भवति नरः खलु लक्षणेन भद्रः ।।१३।।
भद्र पुरुष पुष्ट, बराबर, गोल और लम्बे बाहु वाला, भुजाओं को फैलाने से जितनी
चौड़ाई हो, उतनी ऊँचाई वाला तथा कोमल, सूक्ष्म और घने रोमों से युत कपोल वाला
होता है।।१३।।
अयं भद्रनामा बुधेन योऽसावुत्पद्यते योगस्तस्येदं रूपं भवति। उपचितौ मांसलौ
समौ तुल्यौ वृत्तौ परिवर्तुलौ लम्बौ दीर्घौ बाहू यस्य। अस्य भद्रस्य भुजयुगलप्रमितः
समुच्छ्रयो भवति। यावदस्य प्रसाधितभुजद्वयस्य प्रमाणं तावदप्युच्छ्रायप्रमाणं भवति।
मृदुतनुघनररोमनद्धगण्डः, मृदुभिः कोमलैस्तनुभिः सूक्ष्मैः घनैः सन्ततै रोमभिर्नद्धौ संयुक्तौ
गण्डौ मुखगण्डौ यस्य। तथाभूतो नरः। लक्षणेन बुधाख्येन योगेन भद्रसंज्ञो भवति।
खल्वित्यव्ययं वाक्यालङ्कारे।।१३।।
अन्यदपि लक्षणं श्लोकद्वयेनाह—
त्वक्शुक्रसारः पृथुपीनवक्षाः सत्त्वाधिको व्याघ्रमुखः स्थिरश्च।
क्षमान्वितो धर्मपरः कृतज्ञो गजेन्द्रगामी बहुशास्त्रवेत्ता ।।१४।।
प्राज्ञो वपुष्मान् सुललाटशङ्खः कलास्वभिज्ञो धृतिमान् सुकुक्षिः।
सरोजगर्भद्युतिपाणिपादो योगी सुनासः समसंहतभ्रूः ।।१५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमनुष्यविभागाध्यायः २५३
सुन्दर त्वचा से युत, बहुत गाढ़े वीर्य वाला, विस्तीर्ण और पुष्ट छाती वाला,
अधिक सत्त्व गुण वाला, बाघ के समान मुख वाला, स्थिर स्वभाव वाला, शान्तिशील,
धर्मात्मा, कृतज्ञ, हाथी के समान गति वाला, बहुत शास्त्रों का ज्ञाता, सुन्दर शरीर वाला,
सुन्दर ललाट और शंख वाला, कलाओं को जानने वाला, धीर, सुन्दर पेट वाला,
कमलगर्भ से समान हाथ और पाँव वाला, योगी, सुन्दर नासिका वाला तथा समान और
मिले हुये भुजाओं से युत भद्र पुरुष होता है॥१४-१५॥
त्वक्शुक्रसार इति। त्वक्सारः शोभनत्वक्। शुक्रसारौ बहुगुरुशुक्रः। पृथूपीनवक्षाः,
पृथु विस्तीर्णं पीनं मांसलं वक्षो यस्य सः। सत्त्वाधिकः। सत्त्वशब्दो गुणवाची। सुख-
शब्दैरभिभूत इत्यर्थः। व्याघ्रमुखो व्याघ्रस्येव मुखं यस्य स व्याघ्रमुखः। स्थिर एकमतिः।
क्षमान्वितः क्षमायुक्तः। धर्मपरो धर्मानुरतः। कृतज्ञः कृतं जानाति। गजेन्द्रगामी गजेन्द्रो
हस्तिप्रधान इव गच्छति। बहुशास्त्रवेत्ता बहूनां शास्त्राणामभिज्ञः।
प्राज्ञ इति। प्राज्ञो मेधावी। वपुष्मान् शोभनशरीरः। सुललाटशङ्खः शोभनं ललाटं
शङ्खौ च यस्य। कलासु गीतनृत्यवाद्येष्वभिज्ञः। आभिमुख्येन जानाति। धृतिमान् धैर्ययुक्तः।
सुकुक्षिः शोभनकुक्षिः। सरोजं पद्मं तस्य गर्भोऽभ्यन्तरम्। सरोजगर्भस्य द्युतिः कान्तिस्तुल्या
तत्सदृशी पाणिपादयोः करचरणयोर्द्युतिर्यस्य। योगी योगज्ञः। सुनासः शोभननासः। सम-
संहतभ्रूः समे तुल्ये संहते संलग्ने भ्रुवौ यस्येति॥१४-१५॥
अन्यदपि विशेषलक्षणमाह—
नवाम्बुसिक्तावनिपत्रकुङ्कुमद्विपेन्द्रदानागुरुतुल्यगन्धता।
शिरोरुहाश्चैकजकृष्णकुञ्चितास्तुरङ्गनागोपमगुह्यगूढता ॥१६॥
भद्र पुरुष के शरीर में नवीन जल से सिंची हुई भूमि की गन्ध के समान, गन्धपत्र,
कुङ्कुम, हाथी का मद या अगर के समान गन्ध होती है। उसके शिर के एक-एक
रोमकूप में काले और एक-एक बाल होते हैं तथा घोड़ा या हाथी के समान छिपा हुआ
उसका लिंग होता है॥१६॥
नवेनाम्बुना जलेन सिक्ता याऽवनिर्भूमिस्तस्यां यादृशो गन्धः। पत्रं गन्धपत्रम्। कुङ्कुमं
प्रसिद्धम्। द्विपेन्द्रदानं हस्तिमदः। अगुरुः प्रसिद्धः सुगन्धद्रव्यम्, एषां तुल्यगन्धता सदृश-
गन्धता। शिरोरुहाश्चैकजकृष्णकुञ्चितास्तुरङ्गनागोपमगुह्यगूढता इति। शिरोरुहाः
केशास्ते चैकजाः, एकैकस्मिन् रोमकूपे जाताः। कृष्णकुञ्चिता असितकुटिलाः। तुरङ्गो-
ऽश्वः। नागो हस्ती। गुह्यं लिङ्गम्। तुरङ्गनागोपमा तत्सदृशीगुह्ये गूढताऽस्य भवति। प्रच्छन्न-
लिङ्गो भवतीत्यर्थः॥१६॥
अन्यच्च रेखालक्षणमाह—
हलमुशलगदासिशङ्खचक्र-
द्विपमकराब्जरथाङ्किताङ्घ्रिहस्तः । ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

२५४ बृहत्संहिता
विभवमपि जनोऽस्य बोभुजीति
क्षमति हि न स्वजनं स्वतन्त्रबुद्धिः ॥१७॥
भद्र पुरुष के हाथ में हल, मूसल, गदा, खड्ग, शंख, चक्र, हाथी, मकर, कमल
और रथ के समान रेखा होती है। इसकी सम्पत्ति को अन्य मनुष्य भी खूब भोगते हैं
तथा यह बन्धुओं के लिये क्षमारहित और स्वतन्त्र बुद्धि वाला होता है।।१७।।
हलं लाङ्गलम्। मुशल आयुधविशेषो मुशलाकारः। गदा प्रसिद्धा। असिः खड्गः।
शङ्खः प्रसिद्धः। चक्रमायुधं प्रसिद्धम्। द्विपो हस्ती। मकरः प्राणिविशेषो जलजः। अब्जं
पद्मम्। रथः प्रसिद्धः। एतैर्हलादिभिरङ्कितौ चाङ्घ्रिहस्तौ पादपाणी यस्य। तदाकाराभी
रेखाभिश्चिह्नितौ पादहस्तौ भवेतामित्यर्थः। अस्य भद्रस्य विभवमैश्वर्यं जनो लोको बोभु-
जीति अत्यर्थं भुङ्क्ते। स्वजनं बन्धुजनं प्रति न क्षमति न सहते। तं प्रति क्षमाशीलो न भवति।
स्वतन्त्रबुद्धिः, स्वतन्त्रा नापरतन्त्रा बुद्धिर्धीर्यस्येति। स्वाधीनबुद्धिरिति।।१७।।
मानलक्षणमाह—
अङ्गुलानि नवतिश्च षडूनान्युच्छ्रयेण तुलयापि हि भारः।
मध्यदेशनृपतिर्यदि पुष्टास्त्र्यादयोऽस्य सकलावनिनाथः ॥१८॥
भद्र पुरुष चौरासी अंगुल ऊँचा, एक तुला भार वाला और मध्य देश का राजा होता
है। यदि इसकी एक सौ पाँच अंगुल व्यायाम हो तो चक्रवर्त्ती राजा होता है।।१८।।
उच्छ्रयेणौच्च्येन षडूनानि नवतिरङ्गुलानि भवन्ति। चतुरशीतिरङ्गुलान्युच्छ्रितानि भवन्ती-
त्यर्थः। तुलयापि हि भारः। पलसहस्रद्वयमित्यर्थः। स च मध्यदेशनृपतिर्मध्यदेशे राजा भवति।
यद्यस्य त्र्यादयोऽङ्गुलानि पुष्टाः। त्रिग्रहणेनाङ्गुलानि ज्ञापयति। तदुक्तमादौ शशकरुचकभद्र-
मालव्यसंज्ञिताख्यङ्गुलविवृद्ध्येति। यदि पञ्चोत्तरमङ्गुलशतं व्यायामेन दैर्घ्येण च भवति,
तदा सकलावनिनाथः सार्वभौमो राजा भवतीत्यर्थः।।१८।।
अन्यच्च वयोलक्षणमाह—
भुक्त्वा सम्यग्वसुधां शौर्येणोपार्जितामशीत्यब्दः।
तीर्थे प्राणांस्त्यक्त्वा भद्रो देवालयं याति ॥१९॥
भद्र पुरुष अपने पराक्रम से उपार्जित पृथ्वी को अच्छी तरह भोग कर अस्सी वर्ष
की अवस्था में तीर्थस्थान पर प्राण छोड़ कर स्वर्ग जाता है।।१९।।
सम्यग् वसुधां भूमिं शौर्येण बलेनोपार्जितां भुक्त्वा। अशीतिरब्दानां जीवितप्रमाणे-
र्यस्यासावशीत्यब्दः। तीर्थे पुण्यस्थाने। प्राणानसून त्यक्त्वा भद्रो देवालयं स्वर्गं याति
गच्छति। तथा च सारावल्याम्—
शार्दूलप्रतिमाननो द्विपगतिः पीनोरुवक्षःस्थलो
लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्छ्रयः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

पञ्चमनुष्यविभागाध्यायः २५७
कामी कोमलसूक्ष्मरोमनिकरैः संरुद्धगण्डः शठः
प्राज्ञः पङ्कजगर्भपाणिचरणः सत्त्वाधिको योगवित् ।।
शङ्खासिकुञ्जरगदाकुमुदेषु केतुचक्राब्जलाङ्गलविचिह्नितपाणिपादः ।
पत्रागुरुद्विपमदप्रथमाम्बुसिक्तमृत्कुङ्कुमप्रतिमगन्धतनुः सुघोणः ।।
शास्त्रार्थविद्धृतियुतः समसंहतभ्रूर्नागोपमो भवति चापि निगूढगुह्यः ।
सत्कुक्षिधर्मनिरतः सुललाटशङ्खो धीरः स्थिरस्त्वसितकुञ्चितकेशपाशः ।।
स्वतन्त्रः सर्वकार्येषु स्वजनं प्रति न क्षमः ।
भुज्यते विभवश्चास्य नित्यं बन्धुजनैः परैः ।।
भारस्तुलायास्तुलितो यदि स्यात् श्रीकान्यकुब्जाधिपतिस्तदासौ ।
यस्त्र्यादिपुष्टैः सहितैः स भद्रः सर्वत्र राजा शरदमशीतिम् ।। इति ।। १९ ।।
अथ शशलक्षणमाह—
ईषद्दन्तुरकस्तनुद्विजनखः कोशेक्षणः शीघ्रगो
विद्याधातुवणिक्क्रियासु निरतः सम्पूर्णगण्डः शठः ।
सेनानीः प्रियमैथुनः परजनस्त्रीसक्तचित्तश्चलः
शूरो मातृहितो वनाचलनदीदुर्गेषु सक्तः शशः ।। २० ।।
कुछ ऊँचे दाँत वाला, छोटे दाँत और नख वाला, पुष्ट नेत्रकोश वाला, शीघ्रगामी,
विद्या और धातुओं के व्यापारक्रिया में आसक्त, पुष्ट कपोल वाला, शठ, सेनापति, मैथुनप्रिय,
परस्त्री में आसक्त, शूर, माता का भक्त तथा वन, पर्वत, नदी और दुर्गों में आसक्त शश
पुरुष होता है ।। २० ।।
अथ सौरेण रविसुतेन योऽसौ योग उत्पद्यते स चेत्थंरूपो भवति—शशाख्यः । ईषत्
किञ्चित् दन्तुरकः । दन्ता उन्नता यस्य । तनुद्विजनखः, तनवः अवरा द्विजा दन्ता नखाः
कररुहाश्च यस्य । कोशेक्षणो विपुलपुटेक्षणः । शीघ्रगः शीघ्रगामी । विद्यासु मनःशिलागैरिकादिषु
धातुषु वणिक्क्रियासु क्रयविक्रयेषु निरतः सक्तः । सम्पूर्णगण्डः समांसलमुखगण्डः । शठः
परकार्ये विमुखः । सेनानीः सेनां नयति । प्रियमैथुनो मैथुनप्रियः । परजनस्त्रीसक्तचितः
परजनानां सम्बन्धिन्यो याः स्त्रियस्तासु सक्तं चित्तं यस्य । चलोऽस्थिरमतिः । शूरः संग्रामप्रियः ।
मातृहितो जननीभक्तः । वनाचलनदीदुर्गेषु सक्तः, वनेष्वरण्येषु, अचलेषु पर्वतेषु, नदीषु
सरित्सु, दुर्गेषु दुर्गादिषु सक्तोऽनुरक्तो भवति ।। २० ।।
अन्यच्च मानलक्षणमाह—
दीर्घोऽङ्गुलानां शतमष्टहीनं साशङ्कचेष्टः पररन्ध्रविच्च ।
सारोऽस्य मज्जा निभृतप्रचारः शशो ह्यतो नातिगुरुः प्रदिष्टः ।। २१ ।।
शश पुरुष बानबे अंगुल ऊँचा, सब कार्यों में शङ्कायुक्त, परछिद्रान्वेषी, मज्जासार,
स्थिर गति और अधिक स्थूलता से रहित होता है ।। २१ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

' (i-matra going left)?
Wait, look at 'ती': does it have an 'ी' (long i)?
Yes, look at the curve over the top going to the right!
Wait, does it have a visarga?
No visarga visible after ती! It is "बहुविधमती"!
Wait, let's check meter:
ब (1) हु (1) वि (1) ध (1) म (1) ती (2) -> 1 1 1 1 1 2, then रन् (2) ध्र (1) वे (2) दी (2) प (1) रे (2) षाम् (2) = 17 syllables!
Yes, in Mandakranta, position 5-10 must be 1 1 1 1 1 2.
म-ध्ये क्षा-मो (2 2 2 2)
ब-हु-वि-ध-म-ती (1 1 1 1 1 2)
रन्-ध्र-वे-दी प-रे-षाम् (2 1 2 2 1 2 2)
So it MUST be "बहुविधमती" (with long ती to make it guru/heavy = 2)!
That's why it is "बहुविधमती", perfectly fitting the meter!

Line 31:
पर्यङ्कश्शङ्खफरशभृदङ्गमाला-