सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

४४२ बृहत्संहिता
नाश होता है। जैसे—प्रतिपदा में परिवेष दिखाई दे तो ब्राह्मणों का, द्वितीया में दिखाई दे
तो क्षत्रियों का, तृतीया में दिखाई दे तो वैश्यों का और चतुर्थी में दिखाई दे तो शूद्रों का
नाश होता है। यदि पञ्चमी में परिवेष दिखाई दे तो श्रेणी ( समान जातियों के संघ ) का,
षष्ठी में दिखाई दे तो नगर का और सप्तमी में दिखाई दे तो कोश का अशुभ करने वाला
होता है। यदि अष्टमी में परिवेष दिखाई दे तो युवराज का तथा नवमी, दशमी और एकादशी
में दिखाई दे तो राजा का अशुभ करने वाला होता है। द्वादशी में नगर का अवरोध और
त्रयोदशी में सेनाओं में आकुलता होती है। यदि चतुर्दशी में दिखाई दे तो रानी को और
पूर्णिमा में राजा को पीड़ा होती है।।१९-२१।।
क्रमशः क्रमेण प्रतिपदादिषु चतुर्षु दिवसेषु परिवेषो दृष्टो विप्रक्षत्रियविट्शूद्रहा भवति।
तद्यथा—प्रतिपदि दृष्टो विप्रान् हन्ति। द्वितीयायां क्षत्रियान् हन्ति। तृतीयायां वैश्यान्। चतुर्थ्यां
शूद्रान् इति। श्रेणीपुरकोशानामिति, बहूनां समानजातीयानां सङ्घः श्रेणी। पञ्चम्यां दृष्टः
श्रेण्या अशुभकारी। षष्ठ्यां पुरस्य नगरस्य। सप्तम्यां कोशस्य गजस्य।
युवराजस्याष्टम्य़ामिति। अष्टम्यां दृष्टो युवराजस्य दोषकरः। परतोऽनन्तरं त्रिषु
दिनेषु नवमीदशम्येकादशीषु पार्थिवस्य राज्ञो दोषकरो न शुभः। द्वादश्यां पुररोधो नगर-
वेष्टनम्। त्रयोदश्यां सैन्यक्षोभ आकुलता।
चतुर्दश्यामभ्युत्थित उत्पन्नः परिवेषो नरपते राज्ञः पत्न्याः पीडां करोति। पञ्चदश्यां
मनुजाधिपस्य राज्ञः पीडां करोति।।१९-२१।।
अधुना परिवेषरेखावशेन शुभाशुभफलमाह—
नागरकाणामभ्यन्तरस्थिता यायिनां च बाह्यस्था।
परिवेषमध्यरेखा विज्ञेयाक्रन्दसाराणाम् ।।२२।।
रक्तः श्यामो रूक्षश्च भवति येषां पराजयस्तेषाम्।
स्निग्धः श्वेतो द्युतिमान् येषां भागो जयस्तेषाम् ।।२३।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां परिवेष-
लक्षणाध्यायश्चतुस्त्रिंशः ।।३४।।
यदि परिवेष के अन्दर रेखा दिखाई दे तो नगरवासियों का, बाहर दिखाई दे तो गमन
करने वाले विजयेच्छु राजाओं का और परिवेष के मध्य में रेखा दिखाई दे तो आक्रन्द
( 'आक्रन्दो दारुणे रणे' इत्यमरः। भयङ्कर युद्ध ) की सार वस्तुओं ( सेनाओं ) का
शुभाशुभ करने वाली होती है। जिसके भाग में लाल, काला या रूक्ष वर्ण का परिवेष हो,
उसकी पराजय होती है। जैसे—परिवेष के अन्दर लाल, काला, रूक्ष हो तो नगरवासियों
की, बाहर में हो तो गमन करने वाले विजयेच्छु राजाओं की और परिवेष मध्य में लाल,
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

परिवेषलक्षणाध्यायः ४४३
काला या रूक्ष दिखाई दे तो सेनाओं की पराजय होती है तथा जिनका भाग निर्मल, श्वेत
और कान्तियुक्त हो उनकी विजय होती है।।२२-२३।।
इति 'विमला' हिन्दीटीकायां परिवेषलक्षणाध्यायश्चतुस्त्रिंशः ॥३४॥
परिवेषे वर्णत्रयेण रेखात्रयं दृश्यते प्रायेण। तत्र द्वे रेखे बहिर्वर्तिन्यावतिक्रम्य या
स्थिता रेखा साऽभ्यन्तरस्थिता सा च नागरकाणां नृपाणां शुभाशुभकारी ज्ञेया। तथा
बाह्यस्था रेखा यायिनां जिगमिषूणां राज्ञाम्। परिवेषमध्यगता रेखा आक्रन्दसाराणां शुभा-
शुभकारी विज्ञेया।
कथमित्याह—रक्त इति। येषां नागरकादीनां भागो रक्तोऽतिलोहितवर्णः, श्यामः
कृष्णवर्णः, रूक्षोऽनिर्मलश्च तेषां पराजयो भवति। येषां भागः स्निग्धो निर्मलः, श्वेतः
शुक्लवर्णः, द्युतिमान् दीप्तिमान्। तेषां जयो भवति।।२२-२३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ परिवेषलक्षणं
नाम चतुस्त्रिंशोऽध्यायः ॥३४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथेन्द्रायुधलक्षणाध्यायः
अथेन्द्रायुधलक्षणं व्याख्यायते। तत्रादावेव तत्सम्भवप्रदर्शनार्थमाह—
सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे।
वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ॥१॥
मेघयुत आकाश में वायु से सूर्यकिरण टकरा कर अनेक वर्णयुत धनुषाकार जो
दिखाई देता है, लोग उसी को इन्द्रधनुष कहते हैं॥१॥
सूर्यस्यादित्यस्य करा रश्मयः। साभ्रे समेघे वियत्याकाशे। पवनेन वायुना विघट्टिता
रुद्धास्ते च धनुःसंस्थानाश्चापाकारा विविधवर्णा नानारूपा ये दृश्यन्ते तदिन्द्रधनुरिति लोके
दृश्यते॥१॥
अत्रैव परमतं शुभाशुभं च फलमाह—
केचिदनन्तकुलोरगनिःश्वासोद्भूतमाहुराचार्याः ।
तद्यायिनां नृपाणामभिमुखमजयावहं भवति ॥२॥
किसी-किसी ( काश्यप आदि ) आचार्य का मत है कि नागराज के कुल में उत्पन्न
सर्पों के निःश्वास से यह ( इन्द्रधनुष ) उत्पन्न होता है। यदि इसको सम्मुख करके राजा
लोग गमन करें तो उनकी पराजय होती है॥२॥
केचिदाचार्याः काश्यपादयोऽनन्तकुले अनन्तस्य नागराजस्य कुले वंशे ये जाता
उरगाः सर्पास्तेषां निःश्वास उच्छ्वसनं तदुद्भूतं तदुत्पन्नमाहुरुक्तवन्तः। तथा च काश्यपः—
अनन्तकुलजाता ये पन्नगाः कामरूपिणः।
तेषां निःश्वाससम्भूतमिन्द्रचापं प्रचक्षते॥
तदिन्द्रधनुर्यायिनां नृपाणां राज्ञामभिमुखं सम्मुखमजयावहं पराजयदं भवति इति॥२॥
अन्यदप्याह—
अच्छिन्नमवनिगाढं द्युतिमत् स्निग्धं घनं विविधवर्णम्।
द्विरुदितमनुलोमं च प्रशस्तमम्भः प्रयच्छति च ॥३॥
अखण्ड, पृथ्वी में लगा हुआ, उज्ज्वल, निर्मल, अविकल, अनेक वर्णयुत, दो बार
उदित या पश्चिम में स्थित इन्द्रधनुष दिखाई दे तो शुभ फल और बहुत वृष्टि करने वाला
होता है।
विशेष—यहाँ पर कोई-कोई अनुलोम का अर्थ दक्षिण दिशा में और दूसरा उत्तर
दिशा में—ऐसा कहते हैं॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

इन्द्रायुधलक्षणाध्यायः ४४५
अच्छिद्रमखण्डम्। अवनिगाढं भूमौ लग्नम्। भूतलं भित्त्वेवोत्थितमित्यर्थः। द्युतिम-
दत्युज्ज्वलम्। स्निग्धमरूक्षं सुकान्तिमित्यर्थः। घनमविकलम्। विविधवर्णं नानाप्रकारै
रक्तनीलसिताद्यैर्वर्णैर्युक्तम्। द्विरुक्तं द्विधा स्थितम्। चकारः समुच्चये। न केवलमनन्तरोक्त-
प्रतिपादितलक्षणसंयुक्तम्। यावद् द्विरुदितमनुलोमं पश्चाद्द्वयवस्थितम्। एवंविधं प्रशस्त-
मिष्टफलसूचकम्। अम्भः प्रयच्छति च पानीयं ददातीति।
अत्र केचित् शक्रचापस्यैवमनुलोमतां वर्णयन्ति। यथैकं दक्षिणदिक्स्थमपरं चोत्तर-
दिक्स्थं तयोर्यदा प्रतिलोमता तदा द्विरुदितस्यानिष्टं फलम्। यदा त्वेकदिगवस्थितौ तौ
तदानुलोमौ। तत्रेष्टफलमिति। तथा च ऋषिपुत्र आह—
द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत्।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु॥
तथा च नन्दी आह—
बहुवर्णमविच्छिन्नं द्विरुन्नतं स्निग्धममरपतिचापम्।
पश्चात् पार्श्वे वापि प्रयाणकाले रिपुवधाय॥
तथा च बृहस्पतिः—
नीलताम्रमविच्छिन्नं द्विगुणं सिद्धमायतम्।
पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत्॥
तथा च गर्गोक्तमयूरचित्रेके पठ्यते—
पूर्वस्यां दिशि संग्रामे भवतीन्द्रधनुर्यदि।
पश्चिमे च प्रयातानां जयस्तत्र न संशयः॥
येषां प्रवृत्ते संग्रामे पश्चादिन्द्रधनुर्भवेत्।
पूर्वेण तु प्रयातानां जयस्तत्र न संशयः॥
येषां प्रवृत्ते संग्रामे वामपार्श्वे च पृष्ठतः।
धनुः प्रादुर्भवेदैन्द्रं जयस्तेषां न संशयः॥
येषां प्रवृत्ते संग्रामे पुरस्ताद्दक्षिणेन वा।
धनुः प्रादुर्भवेदैन्द्रं वधं तेषां विनिर्दिशेत्॥
पश्चिमे तु दिशो भागे भवतीन्द्रधनुर्यदि।
समेघगगनं स्निग्धं वैदूर्यविमलद्युति॥
विद्युच्च निर्मला भाति पूर्वे वायुर्यदा भवेत्।
सप्तरात्रं महावर्षं निर्दिशेद्दैवचिन्तकः॥
यद्येवं तदा द्वितीयं व्याख्यानमशोभनं पूर्वमेव ज्यायः। पश्चात् स्थितमनुलोममिति॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४४६ बृहत्संहिता
अन्यदप्याह—
विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि ।
पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ॥४॥
विदिशा ( ईशान, आग्नेय, नैर्ऋत्य और वायव्य ) में यदि इन्द्रधनुष दिखाई दे तो
उस दिशा के स्वामी ( ८६ वें अध्याय के ३४ वें पद्य में उक्त ) का नाश होता है। थोड़ा
लाल, पीला और नीला इन्द्रधनुष हो तो क्रम से शस्त्रदोष, अग्निदोष और दुर्भिक्ष करता है।
जैसे थोड़ा लाल हो तो शस्त्रदोष, पीला हो तो अग्निदोष और नीला हो तो दुर्भिक्ष करता है।
विदिगुद्भूतं विदिकिस्थितमिन्द्रचापं दिक्स्वामिनाशनम्। तस्यां दिशि यः स्वामी स
नश्यति। दिगधिपतीन् शाकुने वक्ष्यति—
राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः।
गजाध्यक्षश्च पूर्वाद्याः क्षत्रियाद्याश्चतुर्दिशम्।। इति।
एवं व्यभ्रजं मरककारि, विगताभ्रे गगने यदुत्पन्नमिन्द्रचापं तन्मरककारि मरकं करोति।
पाटलो वर्णः कृष्णलोहितः। पीतकः पीतवर्णः। नीलो नीलवर्णः। एतैर्वर्णैर्यदि युक्त-
मिन्द्रधनुर्भवति तदा यथासङ्ख्येन शस्त्राग्निक्षुत्कृता दोषा भवन्ति। पाटलवर्णे शस्त्रकृता
दोषाः। पीते अग्निकृता दोषाः। नीले क्षुत्कृता दुर्भिक्षजा इति।।४।।
अन्यदप्याह—
जलमध्येऽनावृष्टिर्भुवि सस्यवधस्तरौ स्थिते व्याधिः ।
वाल्मीके शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ॥५॥
यदि जल में इन्द्रधनुष दिखाई दे तो अनावृष्टि, पृथ्वी पर दिखाई दे तो धान्यों का
नाश, वृक्ष पर दिखाई दे तो व्याधि, वल्मीक ( वमई = दीवड़ा की भीड़ ) पर दिखाई दे
तो शस्त्रभय और रात्रि में दिखाई दे तो मन्त्री का मरण होता है।।५।।
ऐन्द्रं धनुरिन्द्रचापं जलमध्ये यदा दृश्यते तदा अनावृष्टिरवर्षणं भवति। भुवि भूमौ
दृश्यते तदा सस्यानां वधो नाशो भवति। तरौ वृक्षे स्थिते इन्द्रचापे व्याधिः पीडा भवति।
वाल्मीके वल्मीककृते मृत्स्तूपे शस्त्रभयं भवति। निशि रात्राविन्द्रधनुः सचिवस्य मन्त्रिणो
वधाय मरणाय भवति।।५।।
अथ दिग्वशेन फलमाह—
वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्रयाम् ।
पश्चात् सदैव वृष्टिं कुलिशभृतश्चापमाचष्टे ॥६॥
यदि अनावृष्टि के समय पूर्व दिशा में इन्द्रधनुष दिखाई दे तो वृष्टि और वृष्टि के समय
दिखाई दे तो अनावृष्टि करता है तथा पश्चिम दिशा में स्थित इन्द्रधनुष सदा वृष्टि को करता
है।।६।।
कुलिशभृत इन्द्रस्य चापमैन्द्रयां पूर्वस्यां दिशि दृष्टमवृष्ट्यामनावृष्ट्यां वृष्टिं वर्षणं

इन्द्रायुधलक्षणाध्यायः ४४७
करोति, तत्रैव दृष्टे वृष्ट्यां वृष्टिं निवारयति। पश्चात् पश्चिमायां दिशि दृष्टं सदैव सर्व-कालं
वृष्टिं वर्षणमाचष्टे कथयति।।६।।
अन्यदप्याह—
चापं मघोनः निशायामाखण्डलायां दिशि भूपपीडाम्।
याम्यापरोदक्प्रभवं निहन्यात् सेनापतिं नायकमन्त्रिणौ च ॥७॥
यदि रात्रि के समय पूर्व दिशा में इन्द्रधनुष दिखाई दे तो राजा को पीड़ित करता है
तथा दक्षिण दिशा में दिखाई दे तो सेनापति, पश्चिम में प्रधान पुरुष और उत्तर में इन्द्रधनुष
दिखाई दे तो मन्त्री का नाश करता है।।७।।
मघोन इन्द्रस्य चापं धनुः। आखण्डलायामैन्द्र्यां पूर्वस्यां दिशि निशायां रात्रौ दृष्टं
भूपस्य राज्ञः पीडां रोगभयं करोति। याम्यापरोदक्प्रभवं यथासङ्ख्यं सेनापतिं नायकमन्त्रिणौ
च निहन्यात्। याम्यायां दक्षिणस्यां सेनापतिम्। अपरस्यां पश्चिमायां नायकान् प्रधानपुरुषान्।
उत्तरस्यां मन्त्रिणं सचिवं हन्यात्। तथा च काश्यपः—
अवृष्टौ वर्षणं कुर्यादैन्द्रीं दिशमुपाश्रितम्।
पश्चिमायां महद्वर्षं करोतीन्द्रधनुः सदा।।
रात्रौ चेद् दृश्यते पूर्वे भयं नरपतेर्भवेत्।
याम्यायां बलमुख्यश्च विनाशमभिगच्छति।।
पश्चिमायां प्रधानस्य सौम्यायां मन्त्रिणो वधः।
स्निग्धवर्णैर्घनैः शुभ्रैर्वारुण्यां दिशि दृश्यते।।
बहूदकं सुभिक्षं च शिवं सस्यप्रदं भवेत्।। इति।।७।।
अन्यदप्याह—
निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम्।
भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद्धन्यात् ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामिन्द्रायुध-
लक्षणाध्यायः पञ्चत्रिंशः ।।३५।।
यदि रात्रि के समय श्वेत आदि ( श्वेत, रक्त, पीत और कृष्ण ) वर्ण का इन्द्रधनुष
दिखाई दे तो ब्राह्मण आदि वर्णों का नाश करता है। जैसे श्वेत वर्ण का हो तो ब्राह्मणों का,
रक्त वर्ण का हो तो क्षत्रियों का, पीत वर्ण का हो तो वैश्यों का और कृष्ण वर्ण का हो तो
शूद्रों का नाश करता है तथा जिस दिशा में इन्द्रधनुष दिखाई देता है, उस दिशा के प्रधान
राजा का शीघ्र नाश करता है।।८।।
इति 'विमला' हिन्दीटीकायामिन्द्रायुधलक्षणाध्यायः पञ्चत्रिंशः ।।३५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४४८ बृहत्संहिता
निशि रात्रौ सुरचापमिन्द्रधनुः सितवर्णाद्यं सितरक्तपीतकृष्णं द्विजपूर्वाणां ब्राह्मणप्रथमानां
वर्णानां पीडां जनयत्युत्पादयति। तद्यथा—श्वेतवर्णो ब्राह्मणान् पीडयति। रक्तः क्षत्रियान्।
पीतो वैश्यान्। कृष्णः शूद्रानिति। भवति च यस्यां दिशीति। यस्यां च दिशि आशायां भवति
दृश्यते तद्देश्यं तद्देशभवं नरपतिमुख्यं नृपप्रधानं नचिराच्छीघ्रं हन्यान्नाशयेत्। तस्यां
दिशि यः प्रधाननृपंस्तं विनाशयतीत्यर्थः॥८॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्ताविन्द्रायुध-
लक्षणं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

:
It says:
म ु द ् ग िव... wait!
Look at line 10: "खपुरं गन्धर्वनगरमुदगादिस्थितमुत्तराद्यासु..." -> म ु द ग ा दि
Look at line 22: "उदगुत्तरस्यां दिशि दृष्टं खपुरं..." -> उ द ग ु
In line 16, look at the character right after 'ह':
'मु'
Then the next glyph:
Is it 'द' + 'ग'?
Wait! Look at the top line:
It has:
म ु
द
ग ्
वि ? No, look at the 'ि':
The 'ि' is between 'द्ग' and 'दिक्स्थं'?
Wait, look at line 24: "नृपते राज्ञो विजयाय भवति"
Look at line 16:
"नागरनृपतिजयावहमुदग्विदिकस्थं" - wait, look at 'द' and 'ग':
Wait, is it "मुदग्विदिकस्थं"?
Yes! Look at:
ह
म ु = मु
द = द
ग ् = ग्
व ि = वि? Wait, if 'ग्' + 'वि' = 'ग्वि', but sometimes in old Devanagari typesets, 'ग्' is written with a virama or half-ग (ग्), then 'वि'!
Yes! 'ग्' + 'वि'

४५० बृहत्संहिता
सर्वदिगुत्थं सर्वासु दिक्षु स्थितं सततोत्थितं च सर्वकालं समुत्पन्नं प्रत्यहं दृश्यते
तन्नरेन्द्रस्य राज्ञो राष्ट्रस्य जनपदस्य च भयं भीतिं ददाति। धूमनालशक्रचापाभं धूमस्या-
नलस्याग्नेः शक्रचापस्येन्द्रधनुषः सदृशी आभा कान्तिर्यस्य तथाभूतम्। चौरास्तस्कराः।
आटविका अटव्यां च ये वसन्ति। तान् हन्यान्नाशयेत्।।३।।
अन्यदप्याह—
गन्धर्वनगरमुत्थितमापाण्डुरमशनिपातवातकरम् ।
दीप्ते नरेन्द्रमृत्युर्वामेऽरिभयं जयः सव्ये ।।४।।
पाण्डुर ( श्वेत = 'शुक्ल-शुभ्र-शुचि-श्वेत-विशद-श्येत-पाण्डुरा' इत्यमरः ) वर्ण
का गन्धर्वनगर दिखाई दे तो वज्रपात के साथ वायु करता है। दीप्त दिशा ( ८६ अध्याय
के १२ वें पद्योक्त ) में स्थित हो तो उस दिशा में स्थित राजा का मरण होता है तथा वाम
में शत्रु का भय और दक्षिण में जय करता है।।४।।
गन्धर्वनगरं खपुरमुत्थितमुत्पन्नमापाण्डुरं पाण्डुरवर्णमशनिपातवातं करोति। दीप्तं
दीप्तदिक्स्थे तस्मिन्नरेन्द्रस्य राज्ञो मृत्युर्मरणं भवति। दीप्तासु दिक्षु लक्षणं वक्ष्यत्याचार्यः
शाकुने। तथा च—
मुक्तप्राप्तैष्यदर्कासु फलं दिक्षु तथाविधम्।
अङ्गारदीप्तधूमिन्यस्ताश्च शान्तास्ततोऽपराः।। इति।
वामेऽरिभयम्। सैन्यस्य पुरस्य वा वामे भागे दृष्टमरिभयं शत्रुभयं करोति। सव्ये
दक्षिणे जयप्रदं भवति।।४।।
अन्यदप्याह—
अनेकवर्णाकृति खे प्रकाशते पुरं पताकाध्वजतोरणान्वितम्।
यदा तदा नागमनुष्यवाजिनां पिबत्यसृग्भूरि रणे वसुन्धरा ।।५।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां गन्धर्व-
नगरलक्षणाध्यायः षट्त्रिंशः ।।३६।।
जिस समय आकाश में अनेक वर्णयुत पताका, ध्वजा या पुरद्वार की तरह गन्धर्व
नगर दिखाई देता है, उस समय युद्ध में हाथी, मनुष्य और घोड़ों का रक्त पृथ्वी अधिक
पान करती है।।५।।
इति 'विमला'हिन्दीटीकायां गन्धर्वनगरलक्षणाध्यायः षट्त्रिंशः ।।३६।।
यदा यस्मिन् काले खे आकाशे पुरं गन्धर्वनगरम्। अनेकवर्णाकृति बहुवर्णचित्रसंस्थानं
प्रकाशते दृश्यते। तच्च पताकाध्वजतोरणान्वितम्। पताकाभिर्वैजयन्तीभिर्ध्वजैश्चिह्नैर्बहुपट-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

गन्धर्वनगरलक्षणाध्यायः ४५१
विरचितैः, अथवा पताकाध्वजैस्तोरणैश्चान्वितं संयुक्तं तदा तस्मिन् काले। नागानां गजानाम्।
मनुष्याणां पुरुषाणाम्। वाजिनामश्वानां च रणे संग्रामे। असृग् रुधिरम्। भूरि प्रभूतम्।
वसुन्धरा भूः पिबति। तथा च काश्यपः—
बहुवर्णं पताकाढ्यं गन्धर्वनगरं महत्।
दृष्टं प्रजाक्षयकरं संग्रामे लोमहर्षणम्।। इति।।५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ गन्धर्वपुर-
लक्षणं नाम षट्त्रिंशोऽध्यायः ।।३६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ प्रतिसूर्यलक्षणाध्यायः
अथ प्रतिसूर्यलक्षणं व्याख्यायते। तत्रादावेव वर्णलक्षणं शुभाशुभफलं चाह—
प्रतिसूर्यकः प्रशस्तो दिवसकृदृतुवर्णसप्रभः स्निग्धः ।
वैदूर्यनिभः स्वच्छः शुक्लश्च क्षेमसौभिक्षः ॥१॥
सूर्य के ऋतु वर्ण (तीसरे अध्याय के तेईसवें पद्य में उक्त) के सदृश वर्ण का
प्रतिसूर्य होता है। यदि वह निर्मल, वैदूर्यमणि की तरह स्वच्छ और श्वेत हो तो क्षेम और
सुभिक्ष करता है॥१॥
प्रतिसूर्यो द्वितीयोऽर्कः स च दिवसकृत आदित्यस्य ऋतुवर्णसप्रभः आदित्यस्य ये
ऋतुवर्णा उक्तास्ताम्रः कपिलो वर्कः शिशिर इत्यादिकास्तेषां सदृशवर्णः। स्निग्धो
निर्मलकान्तिश्च शस्तः प्रशस्तः। तथा वैदूर्यनिभो वैदूर्यमणेः सदृशकान्तिः। नीलपीत इत्यर्थः।
स्वच्छो निर्मलः। शुक्लः श्वेतवर्णश्च। क्षेमसौभिक्षः, क्षेमं सौभिक्षं च करोति॥१॥
अन्यदप्याह—
पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
प्रतिसूर्याणां माला दस्युभयातङ्कनृपहन्त्री ॥२॥
पीत वर्ण का प्रतिसूर्य व्याधि करता है। अशोक पुष्प के समान लोहित वर्ण का
प्रतिसूर्य शस्त्रकोप के लिये होता है। यदि प्रतिसूर्य की माला दिखाई दे तो चोर का भय
तथा उपद्रव और राजा का नाश करता है॥२॥
पीतः पीतवर्णः प्रतिसूर्यो व्याधिं जनयत्युत्पादयति। अशोकरूपोऽशोकपुष्पसदृशवर्णो
लोहित इत्यर्थः। तथारूपः शस्त्रकोपाय भवति। शस्त्रकोपं करोति। प्रतिसूर्याणां माला
पङ्क्तिर्यदि दृश्यते तदा दस्युभयातङ्कनृपहन्त्री भवति, दस्यवश्चौरास्तेभ्यो भयमातङ्कमुपद्रवं
नृपं च राजानं हन्ति॥२॥
अन्यदप्याह—
दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितोऽनिलकृत् ।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा ॥३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां प्रतिसूर्य-
लक्षणाध्यायः सप्तत्रिंशः ॥३७॥
यदि सूर्यमण्डल की उत्तर दिशा में प्रतिसूर्य दिखाई पड़े तो वृष्टि होती है, दक्षिण
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

प्रतिसूर्यलक्षणाध्यायः ४५३
दिशा में प्रतिसूर्य दिखाई दे तो वायु करता है। दोनों तरफ दिखाई दे तो राजा का और नीचे
की तरफ दिखाई पड़े तो लोगों का नाश करता है।।३।।
इति 'विमला' हिन्दीटीकायां प्रतिसूर्यलक्षणाध्यायः सप्तत्रिंशः ।।३७।।
इयमार्या अर्कचारे व्याख्याता। तथा च काश्यपः—
याम्ये वातप्रदो ज्ञेय उत्तरे वृद्धिदो रवेः।
उभयोः पार्श्वयोर्भाति सलिलं भूरि यच्छति।।
तथा च पराशरः—
दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति।
कम्पेत भूः खात्प्रपतेन्महोल्का नृपो विनश्येत्सहितः प्रजाभिः।।
सन्ध्यासमीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम्।
सर्पा भवेयुः प्रचुराश्च चौरा रोगाश्च घोरा विविधप्रकाराः।।
प्रत्यर्कमिन्द्रायुधमत्स्यदण्डाः सविद्युदभ्राशनिवर्षवाताः।
भवन्त्यभीक्ष्णं दिनरात्रिसन्धौ भयं तदा भूमिपतेर्वधः स्यात्।। इति ।।३।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ प्रतिसूर्य-
लक्षणं नाम सप्तत्रिंशोऽध्यायः ।।३७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ रजोलक्षणाध्यायः १
कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन।
अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ॥१॥
जब घने अन्धकार की तरह धूलि से पर्वत, पुर, वृक्ष और सब दिशायें व्याप्त हो जाने
से कुछ भी नहीं दिखाई देता हो, तो उस समय राजा का नाश कहना चाहिये ।।१।।
यस्यां दिशि धूपचयः प्राक्प्रभवति नाशमेति वा यस्याम्।
आगच्छति सप्ताहात्तत्रैव भयं न सन्देहः ॥२॥
पहले जिस दिशा में धूलि की उत्पत्ति हो और जिस दिशा में नाश हो, उन दोनों
दिशाओं में सात दिन के अन्दर निःसन्देह भय होता है ।।२।।
श्वेते रजोघनौघे पीडा स्यान्मन्त्रिजनपदानां च।
न चिरात्प्रकोपमुपयाति शस्त्रमतिसङ्कुला सिद्धिः ॥३॥
सघन धूलि का समूह यदि श्वेत वर्ण का हो तो मन्त्री तथा राष्ट्र को पीड़ा, शीघ्र शस्त्र
का प्रकोप और अत्यन्त कठिनता से कार्य की सिद्धि होती है ।।३।।
अर्कोदये विजृम्भति यदि दिनमेकं दिनद्वयं वाऽपि।
स्थगयन्निव गगनतलं भयमत्युग्रं निवेदयति ॥४॥
यदि सूर्यास्त के समय उत्पन्न होकर धूलि एक या दो दिन तक आकाश को ढकी हुई
रहे तो वह आने वाले उग्र भय को अभिव्यक्त करती है ।।४।।
अनवरतसञ्चयवहं रजनीमेकां प्रधाननृपहन्तृ।
क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ॥५॥
यदि बराबर इकट्ठी होकर धूलि एक रात्रि तक स्थित रहे तो प्रधान राजा की मृत्यु और
शेष बुद्धिमान् राजाओं को शुभ करती है ।।५।।
रजनीद्वयं विसर्पति तस्मिन् राष्ट्रे रजोघनं बहुलम्।
परचक्रस्यागमनं तस्मिन्नपि सन्निबोद्धव्यम् ॥६॥
जिस देश में दो रात्रि तक बराबर घनीभूत धूलि फैलती है, उस देश में निश्चय ही
किसी दूसरे राजा का आगमन कहना चाहिये ।।६।।
१. भट्टोत्पलकृतविवृतावस्याध्यायस्योल्लेख एव नास्ति; अतोऽयं प्रतिभाति यदयमध्याय
एव केनचित्प्रक्षिप्त इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

रजोलक्षणाध्यायः ४५५
निपतति रजनीत्रितयं चतुष्कमप्यन्नरसविनाशाय ।
राज्ञां सैन्यक्षोभो रजसि भवेत् पञ्चरात्रभवे ॥७॥
यदि तीन या चार रात्रि तक बराबर धूलि गिरती रहे तो अन्न और रस के विनाश के
लिये होती है। यदि पाँच रात्रि तक लगातार धूलि का वर्षण हो तो राजाओं की सेनाओं
में खलबली मचती है।।७।।
केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि।
शिशिरादन्यत्रर्तौ फलमविकलमाहुराचार्याः ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां रजो-
लक्षणाध्यायोऽष्टत्रिंशः ॥३८॥
यदि केतु आदि के उदय के बाद धूलि गिरे तो तीव्र भय देने वाली होती है। आचार्यों
का मत है कि शिशिर ऋतु के अतिरिक्त अन्य समस्त ऋतुओं में ठीक-ठीक फल देती
है।।८।।
इति 'विमला'हिन्दीटीकायां रजोलक्षणाध्यायोऽष्टत्रिंशः ॥३८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ निर्घातलक्षणाध्यायः
अथ निर्घातलक्षणं व्याख्यायते। तत्रादावेव तदुत्पत्तिप्रदर्शनार्थमाह—
पवनः पवनाभिहतो गगनादवनौ यदा समापतति।
भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ॥१॥
जब पवन से टकरा कर पवन आकाश से पृथिवी पर गिरता है, उस समय उसके गिरने
से जो शब्द होता है, उसका नाम 'निर्घात' है। यदि वह सूर्याभिमुख स्थित पक्षियों के शब्द
से युत हो तो दुष्ट फल देने वाला होता है॥१॥
पवनो वायुः पवनेन परेण वायुनाऽभिहतः स मारुतो गगनादाकाशादवनौ भूमौ यदा
समापतति तदा तस्याभिहतस्य पतमानस्य यः शब्दः स निर्घातो भवतीत्युच्यते। तथा च
गर्गः—
यदान्तरिक्षे बलवान् मारुतो मारुताहतः।
पतत्यधः स निर्घातो भवेदनिलसम्भवः॥
स च पापो दीप्तविहगरुतः। स च निर्घातः शब्दो दीप्तैः सूर्याभिमुखैर्दीप्तस्वरैश्च
विहगैः पक्षिभी रुतः कृतः शब्दः पापो भवति। दुष्टफलद इत्यर्थः॥१॥
अथ वेलावशेन फलमाह—
अर्कोदयेऽधिकरणिकनृपधनियोधाङ्गनावणिग्वेश्याः ।
आप्रहरांशेऽजाविकमुपहन्याच्छूद्रपौरांश्च ॥२॥
आमध्याह्नाद्राजोपसेविनो ब्राह्मणांश्च पीडयति।
वैश्यजलदांस्तृतीये चौरान् प्रहरे चतुर्थे तु॥३॥
अस्तं याते नीचान् प्रथमे यामे निहन्ति सस्यानि।
रात्रौ द्वितीययामे पिशाचसङ्घान् निपीडयति॥४॥
तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च।
भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति॥५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां निर्घात-
लक्षणाध्याय एकोनचत्वारिंशः॥३९॥
यदि सूर्योदय काल में निर्घात हो तो अधिकरणिक, राजा, धनी, शूर, स्त्री, व्यापारी
और वेश्याओं का नाश करता है। यदि दिन के प्रथम प्रहर में निर्घात हो तो छाग, आविक
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

निर्घातलक्षणाध्यायः ४५७
( भेड़ पालने वाले ), शूद्र और पुरवासियों का नाश करता है। द्वितीय प्रहर में राजा, सेवक
और ब्राह्मणों को पीड़ा होती है। तृतीय प्रहर में व्यापारी और मेघ का नाश करता है।
चतुर्थ प्रहर में चोरों को पीड़ित करता है। रात्रि के प्रथम प्रहर में धान्यों का नाश करता
है। द्वितीय प्रहर में पिशाचसमूहों को पीड़ित करता है। तृतीय प्रहर में हाथी और घोड़ों
का नाश करता है। यदि रात्रि के चतुर्थ प्रहर में निर्घात हो तो गमन करने वालों का नाश
करता है तथा जिस दिशा में भग्न भाण्ड की तरह भयङ्कर शब्द जाता है, उस दिशा का भी
नाश करता है॥२-५॥
इति 'विमला' हिन्दीटीकायां निर्घातलक्षणाध्याय एकोनचत्वारिंशः ॥३९॥
अर्कोदये सूर्योदयकाले यदि निर्घात उत्पद्यते तदा अधिकरणिकाः। अधिकरणेन युक्तो-
ऽधिकरणिकः। नृपो राजा। धनिन ईश्वराः। योधा युद्धकुशलाः। अङ्गनाः स्त्रियः। वणिजः
क्रयविक्रयजीविनः। वेश्या बन्धक्यः। एतान् सर्वानिवोपहन्यान्नाशयेत्। दिनारम्भाद् घटिकाद्वयं
यावत् सूर्योदयः।
आप्रहरांश इति। सूर्योदयादारभ्य प्रहरं यावदाप्रहरांशम्। दिनचतुर्थभागे तस्मिन्
प्रथमे दिनचतुर्थागे। अजाश्छागाः। आविका अविप्रकाराः। शूद्राः शूद्रजातयः। पौराश्च
पौरा जनाः। एतानुपहन्यात्।
आमध्याह्नादिति। प्रहरादूर्ध्वं मध्याह्नं यावत्। राजोपसेविना नृपाराधनतत्परान्। ब्राह्म-
णान् विप्रांश्च पीडयति उपतापयति। तृतीये प्रहरे वैश्या वैश्यजातीयास्तान्। जलदान्
मेघांश्च पीडयति। चतुर्थे प्रहरे चौरांस्तस्करान् पीडयति।
अस्तं यातेऽर्के यदि निर्घात उत्पद्यते तदा नीचानधर्मकर्मकरान्निहन्ति। रात्रेः प्रथमे
यामे प्रहरे सस्यानि निहन्ति नाशयति। रात्रेर्द्वितीयेयामे पिशाचसंघान्। पिशाचा देवयोनयः,
तत्समूहान् निपीडयति।
रात्रेस्तृतीयप्रहरे तुरगानश्वान्। करिणो हस्तिनो विनिहन्यात्। चतुर्थे यामे यायिनो
जिगमिषून् विनिहन्यात्। यतो यस्यां दिशि भैरवो विकृतो जर्जरो भिन्नभाण्डसमुद्भूतसदृशः
शब्दः स्वरो याति गच्छति तां दिशमाशां हन्ति नाशयति। तथा च समाससंहितायाम्—
निर्घातोऽहोरात्रेण हन्ति नृपपौरभृत्यराष्ट्रजनान्।
तस्करविप्रांश्चार्कोदयाद्दिशां पतति यस्याम्॥
तथा च गर्गः—
यदा सूर्योदये प्राप्ते निर्घातः श्रूयते भुवि।
क्षत्रिया योधमुख्याश्च पीड्यन्तेऽत्र न संशयः॥
प्रहरांशे तथा वैश्यान् हन्याद् गोजीविनस्तथा।
परिवृत्ते हरौ वैश्या अपराह्णे तु दस्यवः॥
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA

४५८ बृहत्संहिता
नीचचौरांश्च हन्यात् स अस्तमेति दिवाकरे।
प्रथमे प्रहरे सस्यान्यर्द्धरात्रे तु राक्षसान्।।
रात्रित्रिभागे वैश्यांश्च प्रत्यूषे चाहितो भवेत्।
यां दिशं चाभिहन्येत निर्घातो भैरवः स्वनः।।
तद्देश्यान् हन्ति देशांश्च सर्वदिग्भक्तयस्तथा।। इति।।२-५।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ निर्घातलक्षणं
नामैकोनचत्वारिंशोऽध्यायः॥३९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ सस्यजातकाध्यायः
अथ सस्यजातकं व्याख्यायते। तत्रादावेवागमप्रदर्शनार्थमाह—
वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनोक्ताः।
ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ॥१॥
वृश्चिक और वृष राशि में सूर्य का प्रवेश होने के समय ग्रीष्म और शरद् ऋतु में
उत्पन्न होने वाले धान्यों के लिये जिन शुभाशुभ फलों को बादरायण मुनि ने कहा है, वे
इस प्रकार हैं॥१॥
भानोरादित्यस्य वृश्चिकप्रवेशे ग्रीष्मसस्यानां यवादीनां वृषप्रवेशे शरत्सस्यानां धान्यादीनां
बादरायणेनाचार्येण सदसद्योगाः शुभाशुभा ये योगा उक्ताः कथितास्त इमे सर्वे मयाऽत्र
कृता इति। एतदुक्तं भवति—यत्र दिने रखेर्वृश्चिकसंक्रमणं भवति तत्र वृश्चिकमेव लग्नं
परिकल्प्य वक्ष्यमाणविधिना ग्रीष्मसस्यानां जन्म विचारणीयम्। एवं वृषसंक्रमवेलायां वृष-
मेव लग्नं परिकल्प्य शरत्सस्यानां जन्म विचारणीयमिति॥१॥
तदत्र योगप्रदर्शनार्थमाह—
भानोरलिप्रवेशे केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैः।
बलवद्भिः सौम्यैर्वा निरीक्षिते ग्रैष्मिकविवृद्धिः ॥२॥
सूर्य के वृश्चिक में प्रवेश होने के समय उससे ( सूर्य से ) केन्द्र स्थान ( वृश्चिक,
कुम्भ, वृष और सिंह ) में शुभग्रह हों या जहाँ-कहीं पर ( केन्द्र से इतर स्थान ) स्थित
बली शुभग्रहों से वृश्चिकगत सूर्य देखा जाता हो तो ग्रीष्म ऋतु में होने वाले धान्यों की
वृद्धि होती है॥२॥
भानोरादित्यस्यालिप्रवेशे वृश्चिकप्रवेशसमयेऽयं विचारः। केन्द्रैस्तस्माच्छुभग्रहाक्रान्तैर्यो
यत्रावधित्वेन निर्दिश्यते तस्माद्यानि केन्द्राणि लग्नचतुर्थसप्तमदशमानि तैः शुभग्रहाक्रान्तैः।
शुभग्रहा बुधगुरुसिताः। अत्रावधित्वेन वृश्चिकप्रवेशावस्थितिः सवितुर्निर्दिष्टा। तस्मादादित्यात्
केन्द्रैः शुभग्रहाक्रान्तैः सौम्यग्रहयुक्तैः। एतदुक्तं भवति—यदा सूर्यस्य वृश्चिकप्रवेशे केन्द्र-
स्थानानि शुभग्रहाक्रान्तानि भवन्ति तदा ग्रैष्मिकसस्यविवृद्धिर्भवति, विशेषेण वृद्धिर्विवृद्धिः।
सुवृद्धिरीत्यर्थः। बलवद्भिः सौम्यैर्वा निरीक्षिते। अथवा भानोः केन्द्रस्थानानि शुभग्रहाक्रान्तानि
भवन्ति, बलवद्भिः सौम्यैः केन्द्रवर्जमन्यत्रावस्थितैर्भानौ निरीक्षिते दृष्टे ग्रैष्मिकविवृद्धिर्भवति।
अत्र केन्द्रनिर्देशादनन्तरमेव दर्शनशब्दो निर्दिष्टः। तत्केन्द्रगतैरपि ग्रहैर्दृश्यत एव कस्मादा-
चार्येण दर्शननिर्देशेनैव केवलेन निर्देशः क्रियते। यदादित्यकेन्द्रावस्थितस्य ग्रहस्य कथं
प्रदर्शनं घटत इत्युपगम्यापि ब्रूमः। यद्येवं तदा त्वेवं निर्देष्टुं युक्तम्। यथा बलवद्भिः सौम्यैर्दृष्टे
भानौ युक्त इति, यस्मादाचार्यसुष्ठुसमासोक्तिप्रियः परिहारः। बलवद्भिः सौम्यैर्निरीक्षित
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

४६० बृहत्संहिता
इत्यस्माद्विकल्पादिदमवगम्यते यदा सौम्यैर्बलिभिरबलिभिर्वा केन्द्रस्थानानि युक्तानि भवन्ति
तदा ग्रैष्मिकसस्यविवृद्धिर्भवति। यदा तु पुनस्त्रिकोणरिपुलाभागाः सौम्या बलिनः पश्यन्ति
तदा ग्रैष्मिकस्य विवृद्धिर्भवति। मध्यबलैर्याप्यता। बलहीनैर्मनागपि सस्यानां वृद्धिर्भवति।
तथा च बादरायणः—
वृश्चिकसंस्थे सूर्ये सौम्यैर्बलिभिर्निरीक्षिते वृद्धिम्।
तैरेव केन्द्रगैर्वा ग्रीष्मजधान्यस्य निर्दिशेन्महतीम्॥ इति॥२॥
अथ योगान्तरमाह—
अष्टमराशिगतेऽर्के गुरुशशिनोः कुम्भसिंहसंस्थितयोः।
सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य ॥३॥
सूर्य के आठवीं राशि (वृश्चिक) में गत होने के समय कुम्भ राशि में गुरु और सिंह
राशि में चन्द्रमा या सिंह राशि में गुरु और कुम्भ राशि में चन्द्रमा स्थित हो तो ग्रीष्म ऋतु
में होने वाले धान्यों की निष्पत्ति (वृद्धि) होती है॥३॥
अर्के रवावष्टमराशिगते वृश्चिकस्थे इत्यर्थः। गुरुशशिनोर्जीवचन्द्रयोर्यथाक्रमं कुम्भ-
सिंहसंस्थयोः। कुम्भे गुरुः शशी सिंहे। अथवा सिंहघटसंस्थयोः। गुरुः सिंहे शशी घटे।
तथापि ग्रीष्मसस्यस्य निष्पत्तिर्वक्तव्येति॥३॥
अथ योगान्तरमाह—
अर्कात् सिते द्वितीये बुधेऽथवा युगपदेव वा स्थितयोः।
व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ॥४॥
यदि सूर्य से द्वितीय या द्वादश में शुक्र या बुध या दोनों एक साथ स्थित हों तो ग्रीष्म
ऋतु में होने वाले धान्यों की निष्पत्ति होती है। यदि पूर्वोक्त योगों में बृहस्पति की दृष्टि हो
तो ग्रीष्म ऋतु में होने वाले धान्यों की उत्तम निष्पत्ति होती है॥४॥
अर्काद्रवेरलिस्थितात् सिते शुक्रे द्वितीये द्वितीयस्थानस्थे बुधेऽथवा द्वितीये। अथवा
तयोर्बुधसितयोर्द्वयोरेव युगपद् द्वितीयस्थयोः। व्ययगतयोरपि। तद्वत्तेनैव प्रकारेण व्ययगत-
योरादित्याद् द्वादशस्थाने स्थितयोः शुक्रे द्वादशगे बुधे वा द्वयोर्वा द्वादशस्थानस्थितयोः
सस्यानां निष्पत्तिर्भवति। अतीव गुरुदृष्ट्या। बृहस्पतिर्यदाऽऽदित्यं पश्यति तदा अतीव
सस्यानां निष्पत्तिर्भवति। तथा च बादरायणः—
सूर्याद् बुधे द्वितीये शुक्रे वा युगपदेव तयोः।
रिष्फगयोर्प्येवं निष्पत्तिर्गुरुदृशाऽतीव॥ इति॥४॥
अन्यद्योगान्तरमाह—
शुभमध्येऽलिनि सूर्याद् गुरुशशिनोः सप्तमे परा सम्पत्।
अल्यादिस्थे सवितरि गुरौ द्वितीयेऽर्द्धनिष्पत्तिः ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सस्यजातकाध्यायः ४६१
दो शुभ ग्रहों के मध्य में स्थित होकर सूर्य वृश्चिक राशि में स्थित हो और सूर्य से
सप्तम में गुरु और चन्द्रमा हो तो धान्यों की उत्तम निष्पत्ति होती है तथा वृश्चिक के आदि
में सूर्य और उससे द्वितीय में गुरु हो तो धान्यों की आधी निष्पत्ति होती है।।५।।
अलिनि वृश्चिके शुभमध्यस्थिते वृश्चिकात् सूर्ययुक्ताद् बुधशुक्रयोरेको द्वितीयस्थाने
भवति, अन्यो द्वादशे। वा शुभमध्यगतो भवति। तथाभूतात् सूर्यादादित्याद् गुरुशशिनो-
र्बृहस्पतिचन्द्रयोः सप्तमस्थाने स्थितयोः परा प्रकृष्टा सम्पत् सस्यानां भवति। अल्यादिस्थ
इति। अलिनि आदौ तिष्ठति अल्यादिस्थस्तस्मिन् सवितर्यादित्ये अल्यादिस्थे वृश्चिक-
प्रारम्भव्यवस्थिते गुरौ जीवे द्वितीयेऽर्द्धनिष्पत्तिः सस्यानां भवति। अर्द्धं निष्पद्यत इत्यर्थः।
अन्यद्योगान्तरमाह—
लाभहिबुकार्थयुक्तैः सूर्यादलिगात् सितेन्दुशशिपुत्रैः।
सस्यस्य परा सम्पत् कर्मणि जीवे गवां चाग्र्या ॥६॥
यदि वृश्चिक राशि में स्थित सूर्य से एकादश में शुक्र, चतुर्थ में चन्द्र और द्वितीय में
बुध स्थित हो तो धान्यों की उत्तम निष्पत्ति होती है। यदि पूर्वोक्त योग में दशम स्थित गुरु
हो तो गायों में उत्तम सम्पत्ति ( दूध की अधिकता ) होती है।।६।।
सूर्यादादित्यादलिगाद् वृश्चिकस्थात् सितेन्दुशशिपुत्रैः शुक्रचन्द्रबुधैर्यथासङ्ख्यं लाभ-
हिबुकार्थयुक्तैः। एकादशचतुर्थद्वितीयस्थैः। तत्रैतज्जातम्। एकादशगे शुक्रे चतुर्थे चन्द्रे
द्वितीये बुधे सस्यस्य परा प्रकृष्टा सम्पद् भवति। अस्मन्नेव योगे कर्मणि दशमस्थाने स्थिते
जीवे गुरौ न केवलं सस्यस्य परा सम्पद् भवति, यावद् गवां चाग्र्य श्रेष्ठा सम्पद् भवति।
क्षीरबाहुल्यमित्यर्थः ।।६।।
अन्यद्योगान्तरमाह—
कुम्भे गुरुर्गवि शशी सूर्योऽलिमुखे कुजार्कजौ मकरे।
निष्पत्तिरस्ति महती पश्चात् परचक्रभयरोगम् ॥७॥
यदि कुम्भ में गुरु, वृष में चन्द्रमा, वृश्चिक के आदि में सूर्य तथा मकर में मङ्गल
और शनि स्थित हो तो धान्यों की अधिक निष्पत्ति होती है; किन्तु बाद में परचक्र का
आगमन और रोग का भय होता है।।७।।
रविवृश्चिकप्रवेशे कुम्भे गुरुर्जीवः स्थितो भवति। गवि वृषे शशी चन्द्रः। सूर्योऽर्कः।
अलिमुखे वृश्चिकप्रारम्भे। कुजार्कजौ भौमसौरौ मकरे। एवंविधे योगे सस्यानां महती
निष्पत्तिरस्ति विद्यते, किन्तु पश्चादनन्तरं परचक्रकृतं भयं रोगं च भवति।।७।।
अन्यद्योगान्तरमाह—
मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः।
पापः सप्तमराशौ जातं जातं विनाशयति ॥८॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA