बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 487, कुल 728 में से
संदर्भ में पढ़ेंइन्द्रायुधलक्षणाध्यायः ४४५
अच्छिद्रमखण्डम्। अवनिगाढं भूमौ लग्नम्। भूतलं भित्त्वेवोत्थितमित्यर्थः। द्युतिम-
दत्युज्ज्वलम्। स्निग्धमरूक्षं सुकान्तिमित्यर्थः। घनमविकलम्। विविधवर्णं नानाप्रकारै
रक्तनीलसिताद्यैर्वर्णैर्युक्तम्। द्विरुक्तं द्विधा स्थितम्। चकारः समुच्चये। न केवलमनन्तरोक्त-
प्रतिपादितलक्षणसंयुक्तम्। यावद् द्विरुदितमनुलोमं पश्चाद्द्वयवस्थितम्। एवंविधं प्रशस्त-
मिष्टफलसूचकम्। अम्भः प्रयच्छति च पानीयं ददातीति।
अत्र केचित् शक्रचापस्यैवमनुलोमतां वर्णयन्ति। यथैकं दक्षिणदिक्स्थमपरं चोत्तर-
दिक्स्थं तयोर्यदा प्रतिलोमता तदा द्विरुदितस्यानिष्टं फलम्। यदा त्वेकदिगवस्थितौ तौ
तदानुलोमौ। तत्रेष्टफलमिति। तथा च ऋषिपुत्र आह—
द्विरुत्तरमविच्छिन्नं स्निग्धमिन्द्रायुधं महत्।
पृष्ठतो विजयाय स्याद्विच्छिन्नं परुषं न तु॥
तथा च नन्दी आह—
बहुवर्णमविच्छिन्नं द्विरुन्नतं स्निग्धममरपतिचापम्।
पश्चात् पार्श्वे वापि प्रयाणकाले रिपुवधाय॥
तथा च बृहस्पतिः—
नीलताम्रमविच्छिन्नं द्विगुणं सिद्धमायतम्।
पृष्ठतः पार्श्वयोर्वापि जयायेन्द्रधनुर्भवेत्॥
तथा च गर्गोक्तमयूरचित्रेके पठ्यते—
पूर्वस्यां दिशि संग्रामे भवतीन्द्रधनुर्यदि।
पश्चिमे च प्रयातानां जयस्तत्र न संशयः॥
येषां प्रवृत्ते संग्रामे पश्चादिन्द्रधनुर्भवेत्।
पूर्वेण तु प्रयातानां जयस्तत्र न संशयः॥
येषां प्रवृत्ते संग्रामे वामपार्श्वे च पृष्ठतः।
धनुः प्रादुर्भवेदैन्द्रं जयस्तेषां न संशयः॥
येषां प्रवृत्ते संग्रामे पुरस्ताद्दक्षिणेन वा।
धनुः प्रादुर्भवेदैन्द्रं वधं तेषां विनिर्दिशेत्॥
पश्चिमे तु दिशो भागे भवतीन्द्रधनुर्यदि।
समेघगगनं स्निग्धं वैदूर्यविमलद्युति॥
विद्युच्च निर्मला भाति पूर्वे वायुर्यदा भवेत्।
सप्तरात्रं महावर्षं निर्दिशेद्दैवचिन्तकः॥
यद्येवं तदा द्वितीयं व्याख्यानमशोभनं पूर्वमेव ज्यायः। पश्चात् स्थितमनुलोममिति॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA