सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 490, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 490

४४८ बृहत्संहिता
निशि रात्रौ सुरचापमिन्द्रधनुः सितवर्णाद्यं सितरक्तपीतकृष्णं द्विजपूर्वाणां ब्राह्मणप्रथमानां
वर्णानां पीडां जनयत्युत्पादयति। तद्यथा—श्वेतवर्णो ब्राह्मणान् पीडयति। रक्तः क्षत्रियान्।
पीतो वैश्यान्। कृष्णः शूद्रानिति। भवति च यस्यां दिशीति। यस्यां च दिशि आशायां भवति
दृश्यते तद्देश्यं तद्देशभवं नरपतिमुख्यं नृपप्रधानं नचिराच्छीघ्रं हन्यान्नाशयेत्। तस्यां
दिशि यः प्रधाननृपंस्तं विनाशयतीत्यर्थः॥८॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्ताविन्द्रायुध-
लक्षणं नाम पञ्चत्रिंशोऽध्यायः ॥३५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA