सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

स्वातीयोगाध्यायः ३६७
यदि माघ कृष्ण सप्तमी में स्वाती नक्षत्रगत चन्द्र होने के समय हिम गिरे, भयङ्कर
वायु चले, जलयुत मेघ गर्जे, विद्युन्माला से व्याप्त आकाश रहे तथा मेघाच्छन्न होने के
कारण चन्द्र, सूर्य और तारा न दिखाई दे तो वर्षाकाल में आनन्दित और सब धान्यों से युक्त
जनपद जानना चाहिये।।५।।
माघमासस्यान्धकारे कृष्णपक्षे सप्तम्यां तिथौ स्वातिनक्षत्रयुक्ते चन्द्रे हिमं तुहिनं यदि
पतति, वायुर्मारुतो वा चण्डवेगः परुषो महास्वनो वहति अथवा सजलो जलेन पानीयेन
सहितो जलधरो मेघोऽजस्रमनवरतं वापि गर्जति शब्दं करोति। अथवा नभ आकाशं
विद्युन्मालाभिराकुलं सौदामिनीनां पंक्तिभिर्व्याप्तम्, नष्टचन्द्रार्कतारं नष्टा अदर्शनं गताश्चन्द्र-
तारकार्काः सोमतारकसूर्या यत्र मेघच्छन्नमित्यर्थः, तदैषा प्रावृड् वर्षा मुदितजनपदा प्रहृष्टलोका
सर्वैर्निःशेषैः सस्यैरुपैता संयुक्ता विज्ञेया विज्ञातव्या।।५।।
अन्यदपि शुभाशुभलक्षणमाह—
तथैव फाल्गुने चैत्रे वैशाखस्यासितेऽपि वा।
स्वातियोगं विजानीयादाषाढे च विशेषतः ॥६॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां स्वाति-
योगाध्यायः पञ्चविंशः ॥२५॥
इसी तरह फाल्गुन, चैत्र और वैशाख के कृष्ण पक्ष में स्वाती योग का विचार करे;
किन्तु आषाढ मास में विशेष रूप से इसका विचार करना चाहिये।। ६।।
इति 'विमला'हिन्दीटीकायां स्वातियोगाध्यायः पञ्चविंशः ॥२५॥
यथा सप्तम्यां स्वातियोगे यदि पतति हिममित्याद्युक्तं तथैव फाल्गुने मासि स्वातौ
भवति। चैत्रे वैशाखमासस्यासिते कृष्णपक्षेऽपि स्वातियोगं विजानीयाद्विन्द्याद्विचारयेत्।
विशेषत आषाढस्य यः स्वातियोगस्तं विचारयेदिति। अनार्षोऽयं श्लोकः॥६॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
स्वातियोगोनाम पञ्चविंशोऽध्यायः ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथाषाढीयोगाध्यायः
अथाषाढीयोगाध्यायो व्याख्यायते। तत्र तावद्रोहिणीयोगफलं यदुक्तं तत्सर्वमुत-
राषाढायुक्ते चन्द्रमसि विज्ञातव्यं तथाषाढपौर्णमास्यां विचारयेत्। तथा च पराशरः—
'अतोऽनन्तरमाषाढासंयुक्ते शशिन्यादानविसर्गान्तर्भागेषु निमित्तानि प्रावृष्याद्यन्तमध्येषु
फलन्ति। तत्र सुरभिरनुकूलः स्पर्शवान् मारुतः पूर्वपूर्वोत्तरोऽतिवर्षसस्यकरो नैर्ऋताग्नेय-
याम्यवारुणवायव्या मध्यसस्यकराः। विपर्ययो विपरीतेषु। वैदूर्यरजतमधुहेमप्रभा सन्ध्या
स्निग्धाभ्रवृक्षप्रादुर्भावश्च प्रावृड्वृद्धये। प्राङ्मध्यपश्चाद्भागेष्वाषाढानां योगः शशिनो वर्षासु
तत्कालमेव वर्षाय। वैश्वदेवादुत्तरतः शशी वर्षकरो न दक्षिणतः। निर्घातोल्काशानि-
भूचलनदण्डान्यावग्रहोपतापे सस्यवधो भवति। भवति चात्र—
सोदकं सातपं साभ्रं सविद्युत् स्तनयित्नुमत्।
प्रवातं च निवातं च प्रशस्तं तदहः स्मृतम्।। इति।
अथाषाढीयोगे यत्कर्तव्यं तदाह—
आषाढ्यां समतुलिताधिवासिताना-
मन्येद्युर्यदधिकतामुपैति बीजम्।
तद्वृद्धिर्भवति न जायते यदूनं
मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय ॥१॥
आषाढ शुक्ल पूर्णिमा के दिन उत्तराषाढा नक्षत्रगत चन्द्र के समय बराबर सब
धान्यों को अभिमन्त्रित तराजू से अलग-अलग तौल कर रख दे। दूसरे दिन उन सबों को
फिर तोले। जो धान्य बढ़ जाय उसकी उस वर्ष में वृद्धि और जो कम हो जाय उसकी
हानि होती है। तुला को अभिमन्त्रित करने के लिये समाससंहिता में मन्त्र दिया गया है,
जो भट्टोत्पलविवृति में द्रष्टव्य है॥१॥
आषाढस्येयं पौर्णमासी आषाढी। उत्तराषाढायुक्तेत्यर्थः। तथा च गर्गः—
वायव्यवैश्वदेवाभ्यां प्राजापत्यस्य चैव हि।
एषामप्यधिकं चापि रोहिणी नाम याप्यते।। इति।
तस्यामाषाढ्यां सर्वबीजानां समतुलिताधिवासितानां समं कृत्वोनातिरिक्तवर्जं यानि
बीजानि धान्यादीनि तुलितानि तुलया परिच्छिन्नानि तेषां तथाभूतानामधिवासितानाम्। अधि-
वाससा महाव्रतमन्त्रेणाभिमन्त्र्य रात्रिमेकामुषितानि। ततोऽन्येद्युरन्यस्मिन्नहनि द्वितीयदिवसे यद्-
बीजं तुलितमधिकतामुपैत्याधिक्यं गच्छति तद्वृद्धिस्तस्य धान्यादेस्तस्मिन् वर्षे वृद्धिर्भवति।
यदूनं भवति तन्न जायते नोत्पद्यते। मन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय। अस्मिंस्तुलाकर्मणि
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

आषाढीयोगाध्यायः ३६९
तुलाभिमन्त्रणाय मन्त्रो भवति येन तुलाभिमन्त्र्यते इत्यर्थः। तथा च समाससंहितायाम्—
तुलिताधिवासितानामन्येद्युर्यदधिकं भवति बीजम्।
आषाढपौर्णमास्यां तद्वृद्धिस्तत्र मन्त्रोऽयम्।। इति।।१।।
अथ तं मन्त्रमार्षमाह—
स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती।
दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि।।२।।
येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा।
उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च।।३।।
यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु।
यत्सत्यं त्रिषु लोकेषु तत्सत्यमिह दृश्यताम्।।४।।
ब्रह्मणो दुहितासि त्वमादित्येति प्रकीर्तिता।
काश्यपी गोत्रतश्चैव नामतो विश्रुता तुला।।५।।
मन्त्रयोग से सत्यरूपा सरस्वती देवी की उपासना करनी चाहिये। हे सत्यरूपे सरस्वति!
जो परमार्थरूप वस्तु है, उसको तुम ही दिखा सकती हो; क्योंकि तुम सत्य व्रत वाली हो।
जिस सत्य से चन्द्र, सूर्य, कुजादि ग्रह और नक्षत्रगण पूर्व दिशा में उदित होकर पश्चिम में
अस्त होते हैं, जो सत्य सब वेदों में है, जो सत्य ब्रह्मवादियों में है और जो सत्य तीनों
लोकों में है, उसको दिखा दो। तुम ब्रह्मा जी की पुत्री हो; पर आदित्या ( अदिति की पुत्री )
कहलाती हो, गोत्र से कश्यप गोत्र की हो और तुला के नाम से विख्यात हो।।२-५।।
स्तोतव्येति। सा तुला अनेन मन्त्रयोगेन सह स्तोतव्या स्तवनीया। सत्या सत्यरूपा
सरस्वती देवी। हे सत्ये सत्यरूपे यत्सत्यं परमार्थं दर्शयिष्यसि यस्मादसि त्वं सत्यव्रता।
सत्यमेव व्रतं यस्याः।
चन्द्रार्कौ शशिसूर्यौ ग्रहाश्चान्ये भौमादयः। तथा ज्योतिर्गणाः। ज्योतिषां ताराणां
गणाः समूहा येन सत्येन पूर्वेण पूर्वस्यां दिश्युत्तिष्ठन्ति उदयं यान्ति इहास्मिँल्लोके तथा
पश्चात्पश्चिमायां दिश्यस्तं व्रजन्ति अस्तमयं यान्ति।
तथा सर्वेषु वेदेषु यत्सत्यं तत्सत्यं ब्रह्मवादिषु परं ब्रह्म ये वदन्ति। त्रिषु लोकेषु
भूर्भुवःस्वराख्येषु यत्सत्यं तत्सत्यमिहास्मिंस्तुलाकर्मणि दृश्यताम्।
त्वं ब्रह्मणः कमलजस्य दुहिता तनया असि भवसि, तथा आदित्या अदितेरपत्यमित्येवं
प्रकारा प्रकीर्तिता कथिता। गोत्रतः काश्यपी कश्यपगोत्रा। नामतः संज्ञया तुला इति च
विश्रुता ख्याता।।२-५।।
अथ तुलाया लक्षणमाह—
क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्यकवस्त्रमस्याः।
सूत्रप्रमाणं च दशाङ्गुलानि षडेव कक्ष्योभयशिक्यमध्ये।।६।।
बृ० सं० प्र०-२४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३७० बृहत्संहिता
दश अङ्गुल प्रमाण चार-चार सूत्रों से छः अङ्गुल प्रमाण शिक्यक वस्त्र ( दोनों पलड़े
के वस्त्रों ) को बाँधे और दोनों पलड़ों के बीच में छः अङ्गुल प्रमाण कक्ष्य ( डंडी ) बाँधे।
अस्यास्तुलायाः शिक्यकवस्त्रं क्षौमं कार्यम्। यत्र स्थितानि द्रव्याणि परिच्छिद्यन्ते
तच्छिक्यवस्त्रं तच्चतुःसूत्रकसन्निबद्धम्, चतुर्भिः सूत्रैस्तन्तुभिः सन्निबद्धं संलग्नं कार्यम्। तच्च
शिक्यकवस्त्रं षडङ्गुलं षडङ्गुलप्रमाणम्। यः सूत्रैस्तद्वध्यते, तेषां प्रमाणं दशाङ्गुलानि। उभय-
शिक्यमध्ये शिक्यद्वयस्यान्तः कक्ष्यासूत्रं षडङ्गुलं कार्यम्। कक्ष्यासूत्रेण ग्रहणसूत्रमुच्यते।।६।।
कथं तत्र द्रव्याणि परिच्छेद्यानीत्याह—
याम्ये शिक्ये काञ्चनं सन्निवेश्यं शेषद्रव्यान्युत्तरेऽम्बूनि चैव।
तोयैः कौप्यैः सैन्धवैः सारसैश्च वृष्टिर्हीना मध्यमा चोत्तमा च ॥७॥
दन्तैर्नागा गोहयाद्याश्च लोम्ना हेम्ना भूपाः शिक्यकेन द्विजाद्याः ।
तद्वद्देशा वर्षमासा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि ॥८॥
दक्षिण तरफ के पलड़े पर सुवर्ण और उत्तर तरफ के पलड़े पर कूप, नदी या सरोवर
के जल के साथ शेष द्रव्य का स्थापन करे। यदि प्रथम दिन की अपेक्षा द्वितीय दिन में कूप
का जल बढ़ जाय तो अवृष्टि, नदी का जल बढ़ जाय तो मध्यम वृष्टि और सरोवर का जल
बढ़ जाय तो उत्तम वृष्टि होती है। गजदन्त के प्रमाण से हाथी का, गौ, घोड़ा, आदि
( गदहा, ऊँट, बकरी और भेड़ ) के लोम से क्रमशः उन सबों का, सुवर्ण से राजा का,
मोम से ब्राह्मण आदि चारों वर्णों का, देश, वर्ष, मास और दिशाओं का तथा अपने-अपने
प्रमाण से शेष द्रव्यों का शुभाशुभ ज्ञान करना चाहिये।।७-८।।
याम्ये दक्षिणशिक्ये काञ्चनं सुवर्णं सन्निवेश्यं स्थापनीयम्। शेषाणि द्रव्याणि तथाम्बूनि
पानीयानि उत्तरे शिक्ये सन्निवेश्यानि। एतदुक्तं भवति—सुवर्णं यदा परिच्छिद्यते तदा
दक्षिणे शिक्ये विनिवेशयेत्। अन्यानि सर्वाण्युत्तर इति।
तोयैर्जलैः कौप्यैः कूपसम्भवैर्वृद्धिमद्भिर्हीना वृष्टिर्भवति। सैन्धवैर्नादेयैर्जलैर्वृद्धि-
मद्भिर्मध्यमा वृष्टिर्भवति, नातिबह्वी नात्यल्पा। तथा सारसैः सरःसम्भवैर्वृद्धिमद्भिर्जलै-
रुत्तमा प्रधाना वृष्टिर्भवति। सर्वेषां वृद्धावतिमहती वृष्टिः, सर्वेषां हानाववृष्टिरिति। केचि-
द्वृद्धिर्हीना मध्यमा चोत्तमा चेति पठन्ति। सस्यानां वृद्धिर्भवति न चैतच्छोभनम्।
दन्तैर्नागा इति। नागाः करिणो दन्तैर्हस्तिदन्तैः परिच्छेद्याः। गोहयाद्याश्च लोम्ना।
गावः, हया अश्वाः, आदिग्रहणात् खरकरभच्छागमेषाः। एते सर्व एव लोम्ना। हेम्ना
सुवर्णेन भूपा राजानः परिच्छेद्याः। शिक्थकेन मधूच्छिष्टेन द्विजाद्या ब्राह्मणाद्याश्चत्वारो
वर्णा ब्राह्मणक्षत्रियवैश्यशूद्राः। देशा मध्यदेशप्रभृतयः। वर्षाण्येतानि यथेष्टानि। मासा
वर्षान्तःस्थाः। दिशश्च पूर्वाद्याः। शुभाशुभज्ञानार्थं तद्वत् शिक्थकेनैव परिच्छेद्याः। शेषा-
ण्यन्यान्यनुक्तानि यानि द्रव्याणि तान्यात्मरूपस्थितानि स्वयमेव परिच्छेद्यानि धान्यादी-
नीत्यर्थः।।७-८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

आषाढीयोगाध्यायः ३७१
अथ तुलालक्षणमाह—
हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या।
विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः ॥९॥
सुवर्ण का तुलादण्ड ( डण्डी ) श्रेष्ठ, चाँदी का मध्यम और इन दोनों के अलाभ में
खैर की लकड़ी का तुलादण्ड बनाना चाहिये अथवा जिस बाण से कोई मनुष्य बेधित हुआ
हो, उसका तुलादण्ड बनाना चाहिये। वह तुलादण्ड बारह अङ्गुल प्रमाण का होना चाहिये।
हैमी सुवर्णतुला प्रधानोत्तमा। रजतेन रौप्येण या क्रियते सा मध्यमा, न शुभा नाप्य-
शुभा। तयोः सुवर्णरौप्ययोरलाभे अभावे सति खदिरेण कार्या। खदिरकाष्ठमयी कर्तव्या।
अथवा येन शरेणेषुणा पुमान् पुरुषः कश्चिद्विद्धो भिन्नः सा वा तुला कार्या तस्माच्छरादित्यर्थः।
सा च तुला प्रमाणेन वितस्तिर्द्वादशाङ्गुला भवतीति॥९॥
अथ तुलितानां शुभाशुभफलज्ञानमाह—
हीनस्य नाशोऽभ्यधिकस्य वृद्धीस्तुल्येन तुल्यं तुलितं तुलायाम्।
एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥१०॥
दूसरे दिन में तोला हुआ द्रव्य अल्प हो तो उस वर्ष में उसका नाश, अधिक हो तो
वृद्धि और समान हो तो मध्यम फल होता है। यह परम गोपनीय तुला का रहस्य मैंने
कहा है। रोहिणी योगकाल में भी इसका विचार करना चाहिये॥१०॥
तुलायां तुलितस्य परिच्छिन्नस्य द्रव्यस्य हीनस्य नाशः क्षयो वक्तव्यः। अभ्यधिकस्य
वृद्धिः। तुल्येन समेन तुल्यं समम्। न हानिर्न च वृद्धिः। तथा च गर्गः—
येषां प्रणमते सारं ते भवन्ति च नासमम्।
येषां तु हीयते सारं तेषां नाशं विनिर्दिशेत्॥
समानि तु समानि स्युस्तुलया तुलितानि तु॥
तथा च पराशरः—
सारसेऽम्भसि सस्यानां राज्ञां च विजयोऽधिके।
नादेये मध्यमा सम्पत्कनीयस्य चलोदके॥
यस्यां दिशि भवेन्माल्यमम्लानं शुचिगन्धिमत्।
तस्यां दिशि विजानीयाद्राज्ञां शिवमनामयम्॥ इति।
एतत्तुलाकोशरहस्यं तुलाभाण्डागाररहस्यं परमं गुह्यमुक्तं कथितम्। नरो मनुष्यः
प्राजेशयोगेऽपि न केवलमाषाढयोगे तुलाकोशं विदध्यात् कारयेत्, यावत्प्राजेशयोगे रोहिणी-
योगेऽपि कारयेत्॥१०॥
अन्यस्मिन् योगत्रयेऽपि पापग्रहा व्यवस्थिता न शुभदाः। अधिमासके सति योगे
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA

३७२ बृहत्संहिता
विशेषविधानमाह—
स्वातावषाढास्वथ रोहिणीषु पापग्रहा योगगता न शस्ताः ।
ग्राह्यं तु योगद्वयमप्युपोष्य यदाधिमासो द्विगुणीकरोति ॥११॥
स्वाती, उत्तराषाढा या रोहिणी नक्षत्रगत चन्द्र के साथ यदि पापग्रह (मंगल, शनि,
राहु या केतु) का योग हो तो शुभ नहीं होता है।।११।।
स्वातौ स्वातिसंयुक्ते चन्द्रे। अषाढासूत्तराषाढासु युक्तं च। अथ रोहिणीसंयुक्ते चन्द्रे।
एतेषु त्रिषु योगेषु पापग्रहा भौमसौरराहुकेतवो योगगतास्तत्र स्थिता न शुभदा न शस्ताः।
तथा च गर्गः—
योगैः पापैरुपहतैः प्रजानामशुभं वदेत्।
दुर्भिक्षावृष्टिमरकान् सौम्यैः सौभिक्षमादिशेत्।।
तथा च पराशरः—
शुक्रबुधबृहस्पतिसंयोगे शूकधान्यतिलमुद्गविनाशः, सौरस्य मध्यदेशाभावः, भौमस्य
शस्त्रकोपः, केतोर्भयदुर्भिक्षप्रादुर्भावावग्रहः, रोहिणीमध्यगमनमिन्दोः सुभिक्षक्षेमवृष्टिकरम्।
यदा यस्मिन् काले एतेषां योगानामधिमासो द्विगुणीकरोति द्वितीयोऽधिमासोऽषाढाख्यो
भवति, तदा तस्मिन् काले योगद्वयं रोहिण्यषाढाख्यमुपोष्य भुक्त्वा ग्राह्यम्। एतदुक्तं
भवति—यदा द्वावाषाढौ भवतस्तदोपोष्य मासद्वयेऽपि योगद्वयं ग्राह्यं द्वितीयस्मिन् योगे
मलरूपत्वादानादरो न कार्य इत्यत उक्तं—योगद्वयमपीति । यदाधिमासो द्विगुणीकरोति
द्वावधिमासकेन सह भवत इत्यर्थः। स्वातियोगस्य सामान्यविहितत्वाद्योगद्वयमित्युक्तमन्यथा
योगत्रयं भवति।।११।।
अथात्र योगत्रयमध्याद्रोहिणीयोगस्य विशेषमाह—
त्रयोऽपि योगाः सदृशाः फलेन यदा तदा वाच्यमसंशयेन ।
विपर्यये यत्त्विह रोहिणीजं फलं तदेवाभ्यधिकं निगद्यम् ॥१२॥
तीनों (रोहिणी, स्वाती और आषाढी) योगों का फल या दो योगों का फल समान
हो तो निःसन्देह वही फल कहना चाहिये। यदि तीनों का अलग-अलग फल हो तो
अधिकतर रोहिणी योग का फल ही उस वर्ष में कहना चाहिये।।१२।।
त्रयोऽपि स्वात्यषाढारोहिणीति योगा यदा फलेन सदृशास्तुल्या भवन्ति, तदा शुभं
फलमशुभं वा प्रधानत्वाद्योगद्वयजं फलं न बाधत इत्यष्टासु दिक्षु तदा शुभं फलमशुभं वा
असंशयेन सन्देहं विहाय वाच्यं वक्तव्यम्। त्रिभिरेव शुभैः शुभमशुभैरत्यशुभमिति।
फलानां वैसदृशे विपर्यये फलविपर्ययेऽन्यादृशे भिन्नफले सति यत्तु रोहिणीजं शुभं फलम-
शुभं वा असंशयेन सन्देहं विहाय तदेव निगद्यं वक्तव्यम्। प्रधानत्वाद्योगद्वयं फलं न
बाधत इति ।।१२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

आषाढीयोगाध्यायः ३७३
अथाष्टासु दिक्षु वातफलमाह—
निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा।
बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ॥१३॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामाषाढी-
योगाध्यायः षड्विंशः ॥२६॥
उक्त तीनों योगों के समय यदि पूर्व दिशा की हवा चले तो धान्यों की उत्तम निष्पत्ति,
आग्नेय कोण की हवा चले तो अग्निकोप, दक्षिण दिशा की हवा चले तो थोड़ी वृष्टि,
नैर्ऋत्य कोण की हवा चले तो मध्यम वृष्टि, पश्चिम दिशा की हवा चले तो उत्तम वृष्टि,
वायव्य कोण की हवा चले तो अधिक वृष्टि, उत्तर दिशा की हवा चले तो सुन्दर वृष्टि और
ईशान कोण की हवा चले तो उत्तम वृष्टि होती है॥१३॥
इति 'विमला' हिन्दीटीकायामाषाढीयोगाध्यायः षड्विंशः ॥२६॥
पूर्वाद्यासु दिक्ष्वष्टसु पवनैर्वातैः क्रमेणैतानि फलानि। तत्र पूर्वस्यां दिशि यदा वातो
वहति तदा निष्पत्तिः सस्यानां भवति। सस्यानि सर्वाणि निष्पद्यन्ते। अग्निकोपो-
ऽग्निभयमाग्नेय्याम्। वृष्टिर्मन्दा अल्पा दक्षिणस्याम्। मध्यमा वृष्टिर्नैर्ऋत्याम्। श्रेष्ठा प्रधाना
वृष्टिः पश्चिमायाम्। बहुजलपवना प्रभूतोदका प्रभूतवाता वायव्याम्। पुष्टा परिपूर्णा अति-
शोभनोत्तरस्याम्। शुभा अतिश्रेयस्करी ऐशान्यां वृष्टिरिति। रोहिणीयोगे 'वायुश्चैवं दिक्षु
धत्ते फलानि' इत्युक्तत्वात्पुनः करणं 'निष्पत्तिरग्निकोप' इत्यादिकं शिष्यं भ्रान्तिनिराशाय
कृतमिति॥१३॥
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतावाषाढी-
योगोनाम षड्विंशोऽध्यायः ॥२६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

अथ वातचक्राध्यायः
अथ वातचक्रं व्याख्यायते। अतः परं केचिद्वातचक्रं पठन्ति। तच्च वराहमिहिरकृतं
न भवति। यतः—
निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा।
बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः॥
इत्यनेन पौनरुक्त्यं भवति। बहुष्वादशेषु च दृश्यते। अतोऽस्माभिः सरसत्वाद्
व्याख्यायते शिष्यहितार्थम्। तत्रादावैशान्यां दिशि स्थितस्य वातस्य लक्षणमाह—
आषाढपौर्णमास्यां तु यद्यैशानोऽनिलो भवेत्।
अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ॥१॥
यदि आषाढ के पूर्णिमा के दिन सूर्यास्त काल में ईशान कोण की हवा चले तो पृथ्वी
पर धान्य उत्तम रूप से होता है॥१॥
आषाढमासस्य पौर्णमास्यां तीक्ष्णांशावर्केऽस्तं गच्छति यद्यैशान ऐशान्यां दिशि
अनिलो वातो भवेद्वहति तदा सस्यानां धान्यादीनां सम्पत्तिरुत्तमा प्रधाना भवति॥१॥
अथ पूर्वस्यामाह—
पूर्वः पूर्वसमुद्रवीचिशिखरप्रस्फालनाघूर्णित-
श्चन्द्रांर्काशुसटाकलापकलितो वायुर्यदाकाशतः।
नैकान्तस्थितनीलमेघपटला शारद्यसंवर्धिता
वासन्तोत्कटसस्यमण्डिततला सर्वा मही शोभते ॥२॥
जिस आषाढ शुक्ल पूर्णिमा के दिन पूर्वी समुद्र के तरङ्गाग्र भाग से चालित होने के
कारण घूमती हुई तथा सूर्य और चन्द्र के किरणरूप जटा से शोभित वायु आकाश से
चलती है, उस वर्ष में सब जगह नील वर्ण वाले मेघों से युत, शारदीय धान्यों की समृद्धि
से मण्डित और वसन्त ऋतु के अति समृद्धियुत धान्यों से भूषित सारी पृथ्वी शोभित होती
है॥२॥
तस्यामेवाषाढपौर्णमास्यां पूर्वो वायुः पूर्वस्यां दिशि यस्मिन् काले आकाशातो नभसो
वहतीत्यर्थः। कीदृशो वायुः? पूर्वसमुद्रस्य प्रागुदधेर्ये वीचय ऊर्मयस्तेषां ये शिखरा
अग्राणि तेषां प्रस्फालना चालनं तेन घूर्णितो भ्रमितः। तथा चन्द्रार्कयोः सूर्यशशिनोर्येऽशवो
रश्मयस्त एव सटाः स्कन्धावलम्बिनः केशा इव तेषां यः कलापो विस्तारस्तेन कलितो
मिश्रितः। तदा मही कीदृशी भवति? नैकान्तस्थितेति। नैकान्तमत्यर्थमेव सर्वत्र ये
स्थिता नीलवर्णानां मेघानां पटलाः समूहास्तैः शोभिता। तथा शारद्यसंवर्धिता। शारद्यैः
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वातचक्राध्यायः ३७५
सस्यैर्धान्यादिभिः संवर्धिता समृद्धयुक्ता भवति। तथा वासन्तैर्वसन्तसम्भवैरुत्कटैरतिसमृद्धैः
सस्यैर्मण्डितं भूषितं तलं पृष्ठं यस्याः सा तथाभूता। सर्वा निःशेषा मही भूः शोभते
विराजते।।२।।
अथाग्नेय्यामाह—
यदा वह्नौ वायुर्वहति गगने खण्डिततनुः
प्लवत्यस्मिन् योगे भगवति पतङ्गे प्रवसति।
तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला
स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् ॥३॥
यदि आषाढ शुक्ल पूर्णिमा के दिन अस्त समय में अप्रतिहत गति वाली आग्नेय
कोण की वायु चले तो उस वर्ष में सर्वत्र अग्नि की ज्वाला से व्याप्त पृष्ठ वाली प्रज्वलित
पृथ्वी अपने शारीरिक उष्ण उच्छ्वास के द्वारा भस्मों को वमन करती है अर्थात् पृथ्वी पर
वृष्टि का अभाव, अग्नि का भय, प्रजाओं का नाश आदि उपद्रव होते हैं।।३।।
यदा यस्मिन् काले वायुः पवनो वहावाग्नेय्यां दिशि वहति। गगने आकाशे।
कीदृशः ? अखण्डिततनुः। अखण्डिता तनुर्यस्य अविहतगतिरित्यर्थः। प्लवति प्रवहति
अस्मिन्नाषाढीयोगे। कदा भगवति पतङ्गे सूर्ये प्रवसत्यस्तमेति सति। तदा तस्मिन् वर्षे
वसुधा भूर्नित्योद्दीप्ता सर्वकालमुज्ज्वलिता। ज्वलनशिखरालिङ्गिततला ज्वलनस्याग्नेर्ये
शिखरा ज्वालाग्राणि तैरालिङ्गितं परिष्वक्तं तलं यस्याः। तथाभूता स्वगात्रोष्मोच्छ्वासैः
स्वगात्रादात्मीयदेहाद्य ऊष्मा स एवोच्छ्वासास्तैस्तथाभूतैर्बहुप्रकारैः स्वगात्रोष्मोच्छ्वा-
सैर्भस्मनिकरं भस्मसमूहं वमत्युद्गिरति।।३।।
अथ दक्षिणस्यामाह—
तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन्
योगेऽस्मिन् प्लवति ध्वनिः सपरुषो वायुर्यदा दक्षिणः।
तद्द्योगसमुत्थितस्तु गजवत्तालाङ्कुशैर्घट्टिताः
कीनाशा इव मन्दवारिकणिका मुञ्चन्ति मेघास्तदा ॥४॥
इस योग में आषाढ़ शुक्ल पूर्णिमा के दिन सूर्यास्त समय में तालपत्र, लताओं की
विस्तृत और वृक्षों से वाहनों को नचाते हुये, कठोर शब्द वाले दक्षिण तरफ की हवा चले
तो तालरूप अङ्कुश से ताड़ित हस्ती की तरह मेघ कृपण मनुष्य की तरह थोड़ी जलबिन्दु
छोड़ता है, अर्थात् उस वर्ष में थोड़ी वृष्टि होती है।।४।।
अस्मिन् योगेऽषाढाख्ये यदा यस्मिन् काले दक्षिणो याम्याशास्थो वायुः पवनः
प्लवति वहति। किं कुर्वंस्ताली वृक्षविशेषस्तस्य पत्राणि पर्णानि तथा लतावितानो लतानां
विस्तारस्तरवो वृक्षाः। एतैश्चालितैः शाखामृगान् वानरान्नर्तयन् वहति। वातवेगात्ता-
लादयश्चलन्ति तच्चलनातान्नर्तयन्निव। तथा तद्गतेनैव प्रकारेण योगे पौर्णमास्यां सूर्यास्तमये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३७६ बृहत्संहिता
समुत्थितो ध्वनिः शब्दः सपरुषोऽतिरूक्षः प्लवति वाति प्रभवति वा तदा तस्मिन् काले
मेघा अम्बुदा गजवत्तालाङ्कुशैर्घट्टिताः। यथा गजा इभाः। तालेनाहता अङ्कुशेन च यद्वद् घट्यन्ते
रुध्यन्ते तद्वद् घट्टिता। कीनाशाः कदर्या इव मन्दस्य स्वल्पस्य वारिणो जलस्य कणिका
बिन्दूनेव मुञ्चन्ति त्यजन्ति न प्रभूतं जलमिति।।४।।
अथ नैर्ऋत्यामाह—
सूक्ष्मैलालवलीलवङ्गनिचयान् व्याघूर्णयन् सागरे
भानोरस्तमये प्लवत्यविरतो वायुर्यदा नैर्ऋतः।
क्षुत्तृष्णावृतमानुषास्थिशकलप्रस्तारभारच्छदा
मत्ता प्रेतवधूरिवोग्रचपला भूमिस्तदा लक्ष्यते ।।५।।
इस योग में 'आषाढ शुक्ल पूर्णिमा के दिन सूर्यास्त के समय में' समुद्र के समीप
छोटी इलायची, लवली और लौंग के वृक्षों को घुमाते हुये यदि नैर्ऋत्य तरफ की हवा
चले तो भूख, प्यास से मरे हुए मनुष्यों की हड्डियों के टुकड़े की विस्तृति के भार से व्याप्त
पृथ्वी उन्मत्त और अति चञ्चल प्रेतवधू की तरह दिखाई देती है।।५।।
तस्यामाषाढपौर्णमास्यां भानोः सूर्यस्यास्तमयेऽस्तमयकाले नैर्ऋतो वायुर्दक्षिणपश्चिमा-
शास्थः। अविरतः सन्ततः प्लवति वहति। किं कुर्वन्। सूक्ष्मैलालवलीलवङ्गनिचयान्
व्याघूर्णयन्। सूक्ष्मैला प्रसिद्धा। लवली प्रसिद्धा। लवङ्गानि प्रसिद्धानि। एतेषां निचयाः
समूहास्तान् व्याघूर्णयंश्चालयन्। क्व? सागरे समुद्रसमीपे। तदा तस्मिन् वर्षे भूमिरवनिरेवंविधा
लक्ष्यते दृश्यते। कीदृशी? क्षुत्तृष्णावृतमानुषास्थिशकलप्रस्तारभारच्छदा, क्षुद् बुभुक्षा,
तृष्णा पिपासा, आभ्यामावृता व्याप्ता ये मानुषा जनास्तेषां मृतानामस्थिशकलैरस्थिखण्डैश्च
यः प्रस्तारो विस्तारः स एव भारोऽतिबहुत्वात् स एव शुक्लत्वाच्छद आवरणं वस्त्रं यस्याः
अत एव प्रेतवधूः प्रेतस्त्रीवोग्रचपला तीव्रा चापल्ययुक्ता च। मत्ता प्रमत्ता। इवातीव जन-
मरकत्वात्।।५।।
अथ पश्चिमायामाह—
यदा रेणूत्पातैः प्रविचलसटाटोपचपलः
प्रवातः पश्चाच्चेद्दिनकरकरापातसमये।
तदा सस्योपेता प्रवरनिकराबद्धसमरा
क्षितिः स्थानस्थानेष्वविरतवसामांसरुधिरा ।।६।।
इस योग में ( आषाढ़ शुक्ल पूर्णिमा के दिन सूर्यास्त के समय में ) धूलि को उड़ाने
से चलित केशर के आक्षेप से चञ्चल और भयङ्कर हवा चले तो उस वर्ष में धान्यों से युत,
प्रधानों ( राजाओं ) के युद्धों से व्याप्त, जगह-जगह पर निरन्तर वसा, मांस और रक्त से
व्याप्त पृथ्वी होती है।।६।।
यदा यस्मिन् काले दिनकरकरापातसमये दिनकरस्यादित्यस्य करा ये रश्मयस्तेषामापातो
विनाशस्तत्समये। सूर्यास्तमयकाल इत्यर्थः; पश्चाच्चेत् पश्चिमायां दिशि यदि प्रवातःश्चण्डानिलो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वातचक्राध्यायः ३७७

वहति। कीदृशः ? रेणूत्पातैर्धूलिसमुत्क्षेपणैः प्रविचलः। प्रकर्षेण चलमानो यः सटाटोपः
सटाक्षेपस्तेन चपलश्चञ्चलः। तदा तस्मिन् वर्षे क्षितिर्भूर्ः कीदृशी भवति सस्योपेता सस्यै-
र्बहुभिः संयुक्ता। तथा प्रवराणां प्रधानानां ये निकराः समूहास्तैराबद्धा रचिताः समराः संग्रामा
यस्याम्। तथा स्थानस्थानेषु प्रदेशप्रदेशेषु। अविरतवसामांसरुधिरा, अविरतं सन्ततं कृत्वा
वसामांसरुधिरैर्मेदपलशोणितैर्युक्तेति। अतिबहवो जनाः सङ्ग्रामे बध्यन्त इत्यर्थः।।६।।
अथ वायव्यामाह—
आषाढीपर्वकाले यदि किरणपतेरस्तकालोपपत्तौ
वायव्यो वृद्धवेगः पवनघनवपुः पन्नगाङ्गानुकारी।
जानीयाद्वारिधाप्रमुदितमुदितामुक्तमण्डूककण्ठां
सस्योद्भासैकचिह्नां सुखबहुलतया भाग्यसेनामिवोर्वीम् ।।७।।
इस योग में ( आषाढ शुक्ल पूर्णिमा के दिन सूर्यास्त के समय में ) सघन शरीर
वाली ( धूली के संयोग और सार्वदिक होने के कारण ), सर्पों के टुकड़ों का अनुकरण
करने वाली यदि वायव्य कोण की हवा चले तो उस वर्ष में जल की धारा से आनन्दित,
अति शब्द करने वाले मेढकों से युत, धान्यों की बीजोत्पत्तिरूप चिह्नों से मण्डित पृथ्वी
पर सुखों की अधिकता होने के कारण भाग्य सेना की तरह पृथ्वी को जानना चाहिये।।७।।
आषाढी पौर्णमासी सैव पर्व तस्य कालस्तस्मिन् यदि चेत् करणपतेः सूर्यस्यास्त-
कालोपपत्तावस्तमसमयप्राप्तौ वायव्यो वातो वृद्धवेगश्चण्डशब्दो यदि वहति। कीदृशः ?
पवनघनवपुः पवनश्चासौ घनवपुः, घनं समन्ततो वपुः शरीरं यस्य। तथा पन्नगाङ्गानुकारी,
पन्नगाः सर्पास्तेषामङ्गानि खण्डान्यनुकरोति। रेणुसमायोगत्वात् सन्ततत्वाच्चेत्यर्थः। केषा-
ञ्चित् पाठः पन्नगादानुकारी, पन्नगाः सर्पांस्तनत्ति भक्षयति गरुडस्तदनुकारी। अतिवेगसमा-
युक्तत्वाद् गरुडवेग इव स वायुर्लक्ष्यते। तदा तस्मिन् वर्षे उर्वी भूमिं कीदृशीं जानीयाद्विन्द्यात्।
वारिधाराप्रमुदितमुदितामुक्तमण्डूककण्ठामिति, वारिणो जलस्य या धारास्ताभिः प्रकर्षेणाति-
शयेन या मुद्धर्षमिता प्राप्ता तया मुदिता हृष्टा मत्ता ये मण्डूका भेकास्तेषामामुक्ता अति-
शब्दाः कण्ठा गलाश्र्च यस्याम्। तथा सस्यानामुद्भासो बीजोत्पत्तिः स एकचिह्नं ललाटे
यस्याम्। सुखानां बहुतया सामग्र्या जनानामतिसुखितत्वाद् भाग्यसेनां भाग्यचमूमिव।।७।।
अथोत्तरस्यामाह—
मेरुग्रस्तमरीचिमण्डलतले ग्रीष्मावसाने रवौ
वात्यामोदिकदम्बगन्धसुरभिर्वायुर्यदा चोत्तरः ।
विद्युद्भ्रान्तिसमस्तकान्तिकलना मत्तास्तदा तोयदा
उन्मत्ता इव नष्टचन्द्रकिरणां गां पूरयन्त्यम्बुभिः ॥८॥
ग्रीष्म के अन्त में ( आषाढ शुक्ल पूर्णिमा के दिन ) मेरु से आच्छादित सूर्य के
किरण होने पर ( सूर्यास्त समय में ) अति सुगन्ध वाले कदम्बपुष्पों के गन्ध से सुगन्धित
उत्तर तरफ की हवा चले तो उस वर्ष में बिजली से उत्पन्न सम्पूर्ण कान्तियों का स्वरूप

३७८ बृहत्संहिता
ज्ञान होने के कारण उद्यम युत तथा उन्मत्त की तरह मेघ मेघों से नष्ट चन्द्रकिरण वाली
पृथ्वी को जल से पूर्ण करता है।।८।।
ग्रीष्मावसाने आषाढपौर्णमास्यां रवावादित्ये मेरुग्रस्तमरीचिमण्डलतले मेरुणा पर्वतेन
ग्रसमुपसंहृतं मरीचिमण्डलतलं रश्मिसमूहपर्यन्तं यस्य रवेस्तथाभूते काले यदा वायुरनिल
उत्तरः सौम्याशास्थो वाति वहति। कीदृशः ? आमोदिनोऽतिसुगन्धा ये कदम्बास्तेषामेव
कदम्बानां पुष्पविशेषाणां यो गन्धस्तेन सुरभिः सुवासितः, तदा तस्मिन् वर्षे तोयदा मेघा
गां भूमिमम्बुभिर्जलैः पूरयन्ति। कीदृशा मेघाः? विद्युद्भ्रान्तिसमस्तकान्तिकलिनामत्ताः।
विद्युत्तडित्तस्या भ्रान्तिः परिभ्रमणं तया समस्ता सकला या कान्तिः प्रभा तस्याः कलन-
माकारज्ञानं येषां तस्मान्मत्ताः। सोद्यमाः। तथा उन्मत्ता इवातिनादाश्चातिवृष्टिमुचः। कीदृशीं
गाम्? नष्टचन्द्रकिरणाम्, नष्टा अदर्शनं गताश्चन्द्रकिरणाः शशिरश्मयो यस्यां तथाभूतामिति।
अथ भद्रपदायोगमाह—
वृत्तायामाषाढ्यां कृष्णचतुर्थ्यामजैकपादक्षे।
यदि वर्षति पर्जन्यः प्रावृट् शस्ता न चेन्न तदा ॥१९॥
यदि आषाढ़ कृष्ण चतुर्थी के दिन पूर्वाषाढ़ा नक्षत्र में मेघ वृष्टि करे तो उस वर्ष में
वर्षा अच्छी होती है। यदि वृष्टि नहीं करे तो अवृष्टि होती है।।१९।।
आषाढपौर्णमास्यां वृत्तायामतीतायां पुरतः कृष्णचतुर्थ्यां तिथावजैकपादक्षे पूर्वभद्र-
पदानक्षत्रे यदि पर्जन्यो मेघो वर्षति तदा प्रावृड् वर्षाः शस्ता शुभप्रदा। न चेद्यदि न वर्षति
तदा न शुभेति।।१९।।
( ऐशानो यदि शीतलोऽमरगणैः संसेव्यमानो भवेत्
पुन्नागागरुपारिजातसुरभिर्वायुः प्रचण्डध्वनिः।
आपूर्णोदकयौवना वसुमती सम्पन्नसस्याकुला
धर्मिष्ठाः प्रणतारयो नृपतयो रक्षन्ति वर्णांस्तदा ।।
आषाढ़ शुक्ल पूर्णिमा के दिन सूर्यास्त समय में देवताओं के सेवनयोग्य, शीतल,
भयङ्कर शब्द वाले, पुन्नाग, अगुरु और पारिजात के फूलों से सुगन्धित ईशान कोण की
हवा चले तो उस वर्ष में पूर्ण जलरूप यौवन से युत और पके हुये धान्यों से व्याप्त पृथ्वी
होती है तथा धर्मात्मा और शत्रुओं को वश में करने वाले राजा लोग ब्राह्मण आदि वर्णों
की सुचारु रूप से रक्षा करते हैं। )
अन्यदप्याह—
नष्टचन्द्रार्ककिरणं नष्टतारं न चेन्नभः।
न तां भद्रपदां मन्ये यत्र देवो न वर्षति ॥१९०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां वात-
चक्राध्यायः सप्तविंशः ॥२७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

वातचक्राध्यायः ३७९
यदि चन्द्र और सूर्य के किरणों से तथा ताराओं से रहित आकाश नहीं हुआ तो
उसको भाद्रपद नहीं कहना चाहिये क्योंकि; उसमें मेघ वृष्टि नहीं करता है।।१०।।
इति 'विमला'हिन्दीटीकायां वातचक्राध्यायः सप्तविंशः ॥२७॥
यस्यां भद्रपदायां नभ आकाशं नष्टचन्द्रार्ककिरणं भवति। नष्टा अदर्शनं गताश्चन्द्रार्कयोः
शशिसूर्ययोः किरणा यत्र तत्तथाभूतम्। मेघच्छन्नत्वात्। तथा नष्टतारम्, नष्टा अदर्शनं गता-
स्तार नक्षत्राणि यत्र। यस्यां भद्रपदायां देवो न वर्षति न तां भद्रपदामिति मन्ये जाने इति।
अनार्षाविमौ श्लोकौ।।१०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
वातचक्रंनाम सप्तविंशोऽध्यायः ॥२७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

ो" or "शुक्रो"?
Look at 'शुक्रो':
श + ु = शु.
The next letter: क् with र?
In 'शुक्रो', sometimes क् + र = क्र. Here, is it 'क' with a diagonal stroke 'क्र'?
Yes, 'क्र'! But wait, does it look like 'क्न'?
Look at 'शुक्रो': standard ligature क्र. It is 'शुक्रो'.
Wait, then "लग्नयातो":
ल - ग्न - या - तो
Yes.

Line 24:
भवति कृष्णपक्षे तथा शुक्लपक्षे केन्द्रगस्तत्र च योगद्वयोऽपि सौम्यैर्दृष्टः प्रचुरमुदकं
Wait: "योगद्वयोऽपि" or "योगद्वयेऽपि"?
Look at the matra on 'य':
Is it 'ो' or 'े'?
There is a vertical stem after 'य': 'यो'!
So it is "योगद्वयोऽपि"! (Typo in book for योगद्वयेऽपि, but it clearly has the aa-stem of 'ो').

Line 25:
पापद्ष्टोऽल्पमम्भो मिश्रदृष्टो मध्यमं जलं सृजति।
Wait, "पापद्ष्टोऽल्पमम्भो" or "पापदृष्टो"?
Here again, under 'द', is there a 'ृ'? It looks like 'पापदृष्टोऽल्पमम्भो'.

सद्योवर्षाध्यायः ३८१
जलराशिव्यवस्थितश्चन्द्रमाः सौम्यैर्यदि दृश्यते तदा सुप्रभूतं पानीयं मुञ्चति, पापद्दष्टोऽल्पम्,
मिश्रदृष्टो मध्यमम्। कृष्णपक्षे पुनर्लग्न एव केन्द्रे यदि भवति तत्रस्थः सौम्यैर्दृश्यते तदा
प्रचुरं पानीयं मुञ्चति, पापद्दष्टोऽल्पम्, मिश्रदृष्टो मध्यमम्। अन्यकेन्द्रव्यवस्थिते शशिनि
सौम्यग्रहदृष्टेऽपि पानीयं नास्त्येव। कुत एतन्निश्चीयते ननु। विकल्पादवगतं भवति। यदि
वा केन्द्रगः शुक्लपक्षेऽतोऽर्थदेवावगम्यते। लग्नकेन्द्रमुक्त्वा कृष्णपक्षेऽन्यकेन्द्रचिन्ता
नास्त्येव। तस्मान्न लग्नग्रहणमत्रातिरिच्यत इति। तथा च समाससंहितायाम्—
वर्षाप्रश्ने प्रावृषि जलराशौ कण्टके शशी बलवान्।
भृगुजौ वा शुभदृष्टो बहुजलकृत् स्वल्पदः पापैः।। इति।।१।।
अथ सामान्येनोक्तम्। अथान्यत्प्रश्नज्ञानमाह—
आर्द्रं द्रव्यं स्पृशति यदि वा वारि तत्संज्ञकं वा
तोयासन्नो भवति यदि वा तोयकार्योन्मुखो वा।
प्रष्टा वाच्यः सलिलमचिरादस्ति निःसंशयेन
पृच्छाकाले सलिलमिति वा श्रूयते यत्र शब्दः ॥२॥
यदि वर्षासम्बन्धी प्रश्न में प्रश्नकर्ता गीली वस्तु, जल, जलसंज्ञक वस्तु ( क्षीर,
अब्ज इत्यादि ) का स्पर्श करे, जल के समीप में स्थित हो, जलसम्बन्धी किसी कार्य में
लगा हो या किसी अन्य के द्वारा जल शब्द सुनने में आवे तो निःसन्देह शीघ्र ही वृष्टि होती
है।।२।।
अथवा प्रष्टा वर्षप्रश्नपृच्छकः। आर्द्रं द्रव्यं सरसं यत्किञ्चिद्वस्तुविशेषं स्पृशति। यदि
वा वारि जलं स्पृशति। तत्संज्ञकं वारिसंज्ञकं यत्किञ्चित् स्पृशति। यथा क्षीरं
पयःशब्दवाच्यत्वात्तत्संज्ञम्। अब्जा मुक्ताः। अम्बुबालकमित्येवमादि। अथवा प्रष्टा तोया-
सन्नो जलसमीपवर्ती यदि भवति। अथवा तोयकार्ये जलकार्ये उन्मुखो गन्तुं प्रवृत्तो भवति।
तदा प्रष्टा एव वाच्यो वक्तव्यः, यथा सलिलं जलम्। अचिराच्छीघ्रमेव निःसंशयेन निर्विकल्पे-
नास्ति विद्यते। अथवा पृच्छाकाले वा प्रश्नसमये सलिलमिति शब्दो वा श्रूयते यत्र तत्र
जलं निःसंशयेनास्तीति वक्तव्यम्। तथा च समाससंहितायाम्—
आर्द्रद्रव्यं सलिलं जलसंज्ञश्रवणदर्शनान्यथवा।। इति।।२।।
अथान्यद्वर्षज्ञानमाह—
उदयशिखरिसंस्थो दुर्निरीक्ष्योऽतिदीप्त्या
द्रुतकनकनिकाशः स्निग्धवैदूर्यकान्तिः।
तदहनि कुरुतेऽम्भस्तोयकाले विवस्वान्
प्रतपति यदि चोच्चैः खं गतोऽतीव तीक्ष्णम् ॥३॥
वर्षासमय में उदयाचल पर्वत पर स्थित, अत्यन्त तीक्ष्ण किरण होने के कारण बड़ी
कठिनता से देखने के लायक, गलित सुवर्ण के समान और निर्मल वैदूर्य मणि की तरह
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३८२ बृहत्संहिता
कान्ति वाला सूर्य जिस दिन दिखाई दे, उसी दिन वृष्टि करता है तथा जिस दिन मध्याह्न
काल में अति तीक्ष्ण किरण वाला सूर्य हो, उस दिन भी वर्षा करता है।।३।।
विवस्वानादित्य उदयशिखरिसंस्थः । उदयपर्वतमूर्ध्नि स्थितः । अतिदीप्त्या अतिकान्त्या
दुर्निरीक्ष्यो निरीक्षितुं न शक्यते। द्रुतकनकनिकाशः, द्रुतस्य गलितस्य कनकस्य सुवर्णस्य
निकाशस्तत्सदृशः। स्निग्धवैदूर्यकान्तिस्तथा स्निग्धस्य निर्मलस्य वैदूर्यस्य मणेः सदृशी
कान्तिः। एवंविधो विवस्वान् तदहनि तस्मिन्नेव दिनेऽम्भस्तोयं कुरुते। तोयकाले वर्षा-
समये। तोयकालग्रहणमन्यकालव्युदासार्थम्। यदि चोच्चैः खमाकाशं गतो मध्याह्नस्थ
इत्यर्थः। प्रतपत्यतितीक्ष्णं तपति तदापि तस्मिन्नहन्यम्भः कुरुते।।३।।
अन्यद्वर्षज्ञानमाह—
विरसमुदकं गोनेत्राभं वियद्विमला दिशो
लवणविकृतिः काकाण्डाभं यदा च भवेन्नभः ।
पवनविगमः पोप्लूयन्ते झषाः स्थलगामिनो
रसनमसकृन्मण्डूकानां जलागमहेतवः ॥४॥
स्वादरहित जल, गौ के नेत्र के समान या काक के अण्डे के समान आकाश, निर्मल
दिशा, नमक में विकार ( पानी आदि आ जाना ), वायु का निरोध, अतिशय उछल-
उछल कर जल से सूखे में मछलियों का आना, मेढकों का बार-बार शब्द करना—ये
सब वृष्टि के कारण हैं।।४।।
इमे सर्वे जलागमहेतवः। पानीयागमनकारणानि। उदकं जलं विरसं स्वादुरहितम्।
तथा गोनेत्राभं गोनयनसदृशं वियदाकाशम्। दिश आशा विमला निर्मलाः। लवणस्य
सैन्धवस्य विकृतिर्विकारः। आर्द्रताप्रस्वेदः। नभ आकाशं च काकाण्डाभं वायसाण्ड-
कान्तितुल्यं भवेत् स्यात्, श्वेतनीलमित्यर्थः। पवनविगमो वायोनिरोधः। झषा मत्स्याः
स्थलगामिनः स्थलगमनशीलाः। पोप्लूयन्ते अत्यर्थं प्लवन्ते। मण्डूकानां भेकानामसकृत्
पुनः पुनः रसनं शब्दः।।४।।
अन्यद्वर्षज्ञानमाह—
मार्जारा भृशमवनिं नखैर्लिखन्तो
लोहानां मलनिचयः सविस्त्रगन्धः ।
रथ्यायां शिशुरचिताश्च सेतुबन्धाः
सम्प्राप्तं जलमचिरात्निवेदयन्ति ॥५॥
यदि बिल्ली बार-बार अपने नाखून से भूमि को खोदे, लोहों में विस्र ( कच्चे
मांस ) की गन्ध से युत मल हो जाय या मार्ग में बालकों से रचित पुल दिखाई दे तो शीघ्र
वृष्टि होगी—ऐसा कहना चाहिये।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सद्योवर्षणाध्यायः ३८३
मार्जारा विडाला भृशमत्यर्थमवनिं भूमिं नखैः करजैलिखन्तो विलिखन्तः । तथा
लोहानामायसभाण्डानां कांस्यानां वा मलनिचयो मलसमूहः। सविस्रगन्धः सह विस्रगन्धेन
वर्तते । केचिन्मत्स्यसदृशगन्ध इतीच्छन्ति। एवं मलनिचयो विस्रगन्धसहितस्तथा रथ्यायां
पथि शिशुरचिता बालविरचिताश्च सेतुबन्धा यदि दृश्यन्ते तदा जलमुदकं सम्प्राप्तमागतम-
चिराच्छीघ्रमेव निवेदयन्ति कथयन्ति ।।५।।
अन्यद्वर्षज्ञानमाह—
गिरयोऽञ्जनचूर्णसन्निभा यदि वा बाष्पनिरुद्धकन्दराः ।
कृकवाकुविलोचनोपमाः परिवेषाः शशिनश्च वृष्टिदाः ॥६॥
यदि अञ्जनचूर्ण के समान पर्वत, वाष्प से भरी हुई गुफा, जल में रहने वाले मुर्गे के
नेत्र के समान (अति लोहित) चन्द्रकिरण हो तो शीघ्र वृष्टि होती है ।।६।।
गिरयः पर्वता अञ्जनचूर्णसन्निभाः कृष्णवर्णा यदि दृश्यन्ते । बाष्पेणोष्मणा निरुद्धाश्छन्नाः
कन्दरा अवटा येषां तथाभूताः । शशिनश्चन्द्रस्य परिवेषा कृकवाकुविलोचनोपमाः । कृकवा-
कोर्जलकुक्कुटस्य यादृग्विलोचनं नयनं तदुपमास्तत्सदृशाः । अतिलोहिता इत्यर्थः । एते
सर्व एव वृष्टिदाः ।।६।।
अन्यद्वर्षज्ञानमाह—
विनोपघातेन पिपीलिकानामण्डोपसंक्रान्तिरहिव्यवायः ।
द्रुमावरोहश्च भुजङ्गमानां वृष्टेर्निमित्तानि गवां प्लुतञ्च ॥७॥
यदि विना कारण चीटियाँ अपने अण्डों को एक जगह से दूसरी जगह ले जायें, सर्पों
का मैथुन हो, सर्प वृक्ष पर चढ़े या गौ विना कारण उछले हो तो शीघ्र वृष्टि होगी ।।७।।
पिपीलिकानामुपघातेनोपसर्गेण विना तद्व्यतिरिक्तमण्डानामपसंक्रान्तिरन्यदेशे नयनम्।
तथाऽहीनां सर्पाणां व्यवायो मैथुनम्। भुजङ्गमानां सर्पाणां द्रुमावरोहो वृक्षावरोहणम् । तथा
गवां सुरभीणां प्लुतं प्लवनम् । एतानि सर्वाणि वृष्टेर्निमित्तानि कारणानि ।।७।।
अन्यद्वर्षज्ञानमाह—
तरुशिखरोपगताः कृकलासा गगनतलस्थितदृष्टिनिपाताः ।
यदि च गवां रविवीक्षणमूर्ध्वं निपतति वारि तदा न चिरेण ॥८॥
यदि वृक्ष के शिखर पर स्थित होकर कृकलास (गिरगिट) आकाश की तरफ
देखता हो और गायें ऊपर को दृष्टि करके सूर्य को देखती हों तो शीघ्र वृष्टि होती है ।।८।।
कृकलासाः प्राणिनस्तरूणां वृक्षाणां शिखरोपगता मूर्द्धनि स्थिताः । तत्र गगनतले
आकाशतले स्थितदृष्टिनिपाता नभस्येव निरीक्षन्ते । यदि च गवामुक्ष्णामूर्ध्वमुपरि रविवीक्षणं
सूर्यावलोकनं भवति तदा न चिरेण शीघ्रमेव वारि जलं निपतति वर्षतीत्यर्थः ।।८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३८४ बृहत्संहिता
अन्यद्वर्षज्ञानमाह—
नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपि ।
पशवः पशुवच्च कुक्कुरा यद्यम्भः पततीति निर्दिशेत् ॥९॥
यदि पशु घर से बाहर होने की इच्छा न करें और कान तथा पाँव हिलावें तो वृष्टि
कहनी चाहिये अथवा पशु की तरह कुत्ता चेष्टा करे तो भी वृष्टि कहनी चाहिये।।९।।
यदि पशवश्चतुष्पादा गवादयो गृहाद्वेश्मनो विनिर्गमं निष्क्रमणं नेच्छन्ति न वाञ्छन्ति,
तथा श्रवणान् कर्णान् पादानपि धुन्वन्ति कम्पयन्ति, तदाम्भो जलं निपततीति निर्दिशेद्वदेत्।
पशुवच्च कुक्कुराः। श्वानः पशुवत्। यथा पशवस्तथा कुक्कुरा अपि ज्ञेयाः। एतदुक्तं
भवति—नेच्छन्ति विनिर्गमं गृहाद्धुन्वन्ति श्रवणान् खुरानपीति कुक्कुराणामपि ज्ञेयम्।।९।।
अन्यद्वर्षज्ञानमाह—
यदा स्थिता गृहपटलेषु कुक्कुरा
रुदन्ति वा यदि विततं वियन्मुखाः ।
दिवा तडिद्यदि च पिनाकिदिग्भवा
तदा क्षमा भवति समैव वारिणा ॥१०॥
जब घर के आच्छादन ( छतों पर ) पर स्थित होकर आकाश की तरफ देखता हुआ
कुत्ता भूंके तथा ईशान कोण में बिजली दिखाई दे तब जल से पृथ्वी समान हो जाती है
अर्थात् अधिक वृष्टि होती है।।१०।।
यदा यस्मिन् काले कुक्कुराः श्वानो गृहपटलेषु स्थिताः। गृहपटलं गृहाच्छादनं तत्र
स्थिता यदि वा विततं सततं कृत्वा वियन्मुखमाकाशं निरीक्षन्तो रुदन्ति शब्दं कुर्वन्ति।
यदि च दिवा दिवसे तडिद् विद्युत् पिनाकिदिग्भवा ईशानदिगुत्था भवति, तदा क्षमा
भूर्वारिणा जलेनैव समा निम्नोन्नता लक्ष्या न भवति। अतिवृष्टिर्भवतीत्यर्थः।।१०।।
अन्यद्वर्षज्ञानमाह—
शुककपोतविलोचनसन्निभो
मधुनिभश्च यदा हिमदीधितिः ।
प्रतिशशी च यदा दिवि राजते
पतति वारि तदा न चिरेण च ॥११॥
जिस समय तोता या कबूतर के नेत्र के समान या शहद की तरह चन्द्र हो या
आकाश में दूसरा चन्द्र दिखाई दे तो शीघ्र वृष्टि होती है।।११।।
हिमदीधितिश्चन्द्रो यदा यस्मिन् काले शुककपोतविलोचनसन्निभः। शुककपोतौ प्रसिद्धौ
पक्षिणौ तद्विलोचनसन्निभस्तन्नेत्रसदृशाभो लोहितकान्तिरित्यर्थः। मधुनिभश्च माक्षिक-सदृशवर्णो
वा पीताभ इत्यर्थः। तथा प्रतिशशी द्वितीयश्चन्द्रो यदा च दिवि नभसि राजते दृश्यते तदा
तस्मिन् काले न चिरेण शीघ्रमेव वारि पानीयं पतति वर्षतीत्यर्थः।।११।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

सद्योवर्षणोध्यायः ३८५
अन्यद्वर्षज्ञानमाह—
स्तनितं निशि विद्युतो दिवा रुधिरनिभा यदि दण्डवत्स्थिताः ।
पवनः पुरतश्च शीतलो यदि सलिलस्य तदाऽऽगमो भवेत् ॥१२॥
यदि रात में मेघ का गर्जन हो, दिन में रुधिर के समान दण्डाकार बिजली दिखाई दे
तथा पूर्व दिशा की ठण्डी हवा चले तो वर्षा का आगम होता है ॥१२॥
यदि निशि रात्रौ स्तनितं मेघशब्दो भवति तथा विद्युतस्तडितो दिवा दिवसे। कीदृश्यो
विद्युत:। रुधिरनिभा अतिलोहितास्ताश्च दण्डवदूर्ध्वाधःस्थित्या स्थिताः। पवनो वायुः परतः
पूर्वस्यां दिशि शीतलो वहति तदा सलिलस्य जलस्यागमो वृष्टिपातो भवेत् स्यात् ॥१२॥
अन्यद्वर्षज्ञानमाह—
वल्लीनां गगनतलोन्मुखाः प्रवालाः
स्नायन्ते यदि जलपांशुभिर्विहङ्गाः ।
सेवन्ते यदि च सरीसृपास्तृणाग्रा-
ण्यासन्नो भवति तदा जलस्य पातः ॥१३॥
यदि लताओं के नये पत्ते ऊर्ध्वमुख के हों, जल या धूलि से पक्षी स्नान करें या
सरीसृप ( कृमिजाति = सांप आदि ) तृण के प्रान्त भाग पर स्थित हों तो शीघ्र वर्षा होती
है॥१३॥
वल्यः प्रसिद्धास्तासां प्रवाला अभिनवपत्राणि। गगनतलोन्मुखा ऊर्ध्वगामिनः।
यदि च विहङ्गाः पक्षिणो जलपांशुभिर्जलेनोदकेन वा पांशुना धूल्या स्नायन्ते स्नानं कुर्वन्ति।
सरीसृपाः कृमिजातयो यदि च तृणाग्राणि तृणप्रान्तानि सेवन्ते। तत्पृष्ठगता भवन्ति।
तदा जलस्य पानीयस्य पात आसन्नो निकटो भवति। शीघ्रमेव वर्षतीत्यर्थः ॥१३॥
अन्यद्वर्षज्ञानमाह—
मयूरशुकचाषचातकसमानवर्णा यदा
जपाकुसुमपङ्कजद्युतिमुषश्च सन्ध्याघनाः ।
जलोर्मिनगनक्रकच्छपवराहमीनोपमाः
प्रभूतपुटसञ्चया न तु चिरेण यच्छन्त्यपः ॥१४॥
मयूर, तोता, चाष ( नीलकण्ठ ), चातक, जपापुष्प या कमल के समान कान्ति वाले
तथा जल के आवर्त्त ( भँवर ), पर्वत, नक्र ( नाक ), कछुआ, सूअर या मछली के समान
आकृति वाले मेघ हों तो शीघ्र वृष्टि करते हैं ॥१४॥
एवंविधाः सन्ध्याकाले घना मेघा न तु चिरेण कालेन शीघ्रमेवापो जलं यच्छन्ति
ददति। कीदृशाः। मयूरशुकचाषचातकाः सर्व एव पक्षिविशेषाः। एतेषां समानवर्णास्तुल्यभाः,
अतिनीलकान्तय इत्यर्थः।
बृ० भ० प्र०-२५
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA

३८६ | बृहत्संहिता
तथा जपाकुसुमपङ्कजद्युतिमुषः, जपाकुसुमं पुष्पविशेषोऽतिलोहितः। पङ्कजं पद्मम्।
पङ्के कर्दमे जायत इति। अनयोर्द्युतिं कान्तिं ये मुष्णन्ति अपहरन्ति, अतिलोहितत्वात्तथा-
विधाः। तथा जलोर्मिरुदकावर्तः, नगः पर्वतः, नक्रो जलप्राणी, कच्छपः कूर्मः, वराहः
सूकरः, मीनो मत्स्यः, एषां सदृशाकृतयः। तथा प्रभूतपुटसञ्चयाः। प्रभूतो बहुप्रकारः पुट-
सञ्चयो येषाम्। उपर्युपरि स्थिता इत्यर्थः ॥१४॥
अथान्यद्वर्षज्ञानमाह—
पर्यन्तेषु सुधाशशाङ्कधवला मध्येऽञ्नालित्विषः
स्निग्धा नैकपुटाः क्षरज्जलकणाः सोपानविच्छेदिनः ।
माहेन्द्रीप्रभवाः प्रयान्त्यपरतः प्राग् वाम्बुपाशोद्भवा
ये ते वारिमुचस्त्यजन्ति न चिरादम्भः प्रभूतं भुवि ॥१५॥
यदि चारो तरफ चूना या चन्द्र के समान श्वेत, मध्य में कज्जल या भ्रमर के समान
कान्ति वाले, निर्मल, ऊपर-ऊपर स्थित, जलबिन्दु छोड़ते हुये और सीढ़ी की तरह स्थित
मेघ पूर्व दिशा में उत्पन्न होकर पश्चिम की तरफ या पश्चिम में उत्पन्न होकर पूर्व दिशा की
तरफ गमन करे तो पृथ्वी पर शीघ्र अधिक वृष्टि करता है॥१५॥
एवंविधा ये वारिमुचो मेघास्ते न चिराच्छीघ्रमेव भुवि भूमावम्भो जलं प्रभूतं सुबहु
त्यजन्ति विसृजन्ति। कीदृशाः। पर्यन्तेषु समन्ततः। सुधा मक्कोलः। शशाङ्कश्चन्द्रः।
तद्वद्धवलाः शुक्लाः। तथा मध्ये मध्यभागेऽञ्नालित्विषः। अञ्जनं कज्जलम्। अलिर्भ्रमरः।
तद्वत्त्विट् कान्तिर्येषां ते तथाभूताः। तथा स्निग्धा निर्मलाः। नैकपुटा बहुभिः पुटैरुपलक्षिताः।
उपर्युपरि स्थिता इत्यर्थः। क्षरज्जलकणाः, क्षरन्तस्त्यजन्तो जलकणा जलबिन्दवो येषां
ते। सोपानविच्छेदिनः। सोपानवद्विच्छेदो येषां ते। सोपानपदपङ्क्तिन्यायेन स्थिता इत्यर्थः।
माहेन्द्रीप्रभवाः पूर्वस्यां दिशि उत्पन्नाः। अपरतः पश्चिमायां दिशि प्रयान्ति गच्छन्ति। अम्बु-
पाशोद्भवाः। अम्बुपो वरुणस्तस्याशा वारुणी दिक् पश्चिमेत्यर्थः। तदुद्भवास्तत्सम्भूताः
प्राग्वा पूर्वा वा दिशं यान्ति॥१५॥
अन्यद्वर्षज्ञानमाह—
शक्रचापपरिघप्रतिसूर्या रोहितोऽथ तडितः परिवेषः ।
उद्गमास्तसमये यदि भानोरादिशेत् प्रचुरमम्बु तदाशु ॥१६॥
यदि सूर्य के उदय या अस्त समय में इन्द्रधनु, परिघ ( ४७ वें अध्याय के १९ वें
श्लोक में पठित ), दूसरा सूर्य, रोहित ( ४७ अ० २० श्लोक ) या सूर्य-चन्द्र का परिवेष
दिखाई दे तो शीघ्र अधिक वृष्टि होती है॥१६॥
भानोरादित्यस्योद्गमास्तसमये उदयकालेऽस्तमयकाले वा यद्येते दृश्यन्ते तदाशु शीघ्रमेव
प्रचुरं प्रभूतमम्बु जलमादिशेद्वदेत्। के ते? शक्रचापपरिघप्रतिसूर्याः, शक्रचापमिन्द्रधनुः।
परिघः सूर्योदयास्तमयसमये तिर्यक् स्थिता मेघरेखा, तस्य च लक्षणं वक्ष्यति—'परिघ
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA