सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 414, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 414

३७२ बृहत्संहिता
विशेषविधानमाह—
स्वातावषाढास्वथ रोहिणीषु पापग्रहा योगगता न शस्ताः ।
ग्राह्यं तु योगद्वयमप्युपोष्य यदाधिमासो द्विगुणीकरोति ॥११॥
स्वाती, उत्तराषाढा या रोहिणी नक्षत्रगत चन्द्र के साथ यदि पापग्रह (मंगल, शनि,
राहु या केतु) का योग हो तो शुभ नहीं होता है।।११।।
स्वातौ स्वातिसंयुक्ते चन्द्रे। अषाढासूत्तराषाढासु युक्तं च। अथ रोहिणीसंयुक्ते चन्द्रे।
एतेषु त्रिषु योगेषु पापग्रहा भौमसौरराहुकेतवो योगगतास्तत्र स्थिता न शुभदा न शस्ताः।
तथा च गर्गः—
योगैः पापैरुपहतैः प्रजानामशुभं वदेत्।
दुर्भिक्षावृष्टिमरकान् सौम्यैः सौभिक्षमादिशेत्।।
तथा च पराशरः—
शुक्रबुधबृहस्पतिसंयोगे शूकधान्यतिलमुद्गविनाशः, सौरस्य मध्यदेशाभावः, भौमस्य
शस्त्रकोपः, केतोर्भयदुर्भिक्षप्रादुर्भावावग्रहः, रोहिणीमध्यगमनमिन्दोः सुभिक्षक्षेमवृष्टिकरम्।
यदा यस्मिन् काले एतेषां योगानामधिमासो द्विगुणीकरोति द्वितीयोऽधिमासोऽषाढाख्यो
भवति, तदा तस्मिन् काले योगद्वयं रोहिण्यषाढाख्यमुपोष्य भुक्त्वा ग्राह्यम्। एतदुक्तं
भवति—यदा द्वावाषाढौ भवतस्तदोपोष्य मासद्वयेऽपि योगद्वयं ग्राह्यं द्वितीयस्मिन् योगे
मलरूपत्वादानादरो न कार्य इत्यत उक्तं—योगद्वयमपीति । यदाधिमासो द्विगुणीकरोति
द्वावधिमासकेन सह भवत इत्यर्थः। स्वातियोगस्य सामान्यविहितत्वाद्योगद्वयमित्युक्तमन्यथा
योगत्रयं भवति।।११।।
अथात्र योगत्रयमध्याद्रोहिणीयोगस्य विशेषमाह—
त्रयोऽपि योगाः सदृशाः फलेन यदा तदा वाच्यमसंशयेन ।
विपर्यये यत्त्विह रोहिणीजं फलं तदेवाभ्यधिकं निगद्यम् ॥१२॥
तीनों (रोहिणी, स्वाती और आषाढी) योगों का फल या दो योगों का फल समान
हो तो निःसन्देह वही फल कहना चाहिये। यदि तीनों का अलग-अलग फल हो तो
अधिकतर रोहिणी योग का फल ही उस वर्ष में कहना चाहिये।।१२।।
त्रयोऽपि स्वात्यषाढारोहिणीति योगा यदा फलेन सदृशास्तुल्या भवन्ति, तदा शुभं
फलमशुभं वा प्रधानत्वाद्योगद्वयजं फलं न बाधत इत्यष्टासु दिक्षु तदा शुभं फलमशुभं वा
असंशयेन सन्देहं विहाय वाच्यं वक्तव्यम्। त्रिभिरेव शुभैः शुभमशुभैरत्यशुभमिति।
फलानां वैसदृशे विपर्यये फलविपर्ययेऽन्यादृशे भिन्नफले सति यत्तु रोहिणीजं शुभं फलम-
शुभं वा असंशयेन सन्देहं विहाय तदेव निगद्यं वक्तव्यम्। प्रधानत्वाद्योगद्वयं फलं न
बाधत इति ।।१२।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA