बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 417, कुल 728 में से
संदर्भ में पढ़ेंवातचक्राध्यायः ३७५
सस्यैर्धान्यादिभिः संवर्धिता समृद्धयुक्ता भवति। तथा वासन्तैर्वसन्तसम्भवैरुत्कटैरतिसमृद्धैः
सस्यैर्मण्डितं भूषितं तलं पृष्ठं यस्याः सा तथाभूता। सर्वा निःशेषा मही भूः शोभते
विराजते।।२।।
अथाग्नेय्यामाह—
यदा वह्नौ वायुर्वहति गगने खण्डिततनुः
प्लवत्यस्मिन् योगे भगवति पतङ्गे प्रवसति।
तदा नित्योद्दीप्ता ज्वलनशिखरालिङ्गिततला
स्वगात्रोष्मोच्छ्वासैर्वमति वसुधा भस्मनिकरम् ॥३॥
यदि आषाढ शुक्ल पूर्णिमा के दिन अस्त समय में अप्रतिहत गति वाली आग्नेय
कोण की वायु चले तो उस वर्ष में सर्वत्र अग्नि की ज्वाला से व्याप्त पृष्ठ वाली प्रज्वलित
पृथ्वी अपने शारीरिक उष्ण उच्छ्वास के द्वारा भस्मों को वमन करती है अर्थात् पृथ्वी पर
वृष्टि का अभाव, अग्नि का भय, प्रजाओं का नाश आदि उपद्रव होते हैं।।३।।
यदा यस्मिन् काले वायुः पवनो वहावाग्नेय्यां दिशि वहति। गगने आकाशे।
कीदृशः ? अखण्डिततनुः। अखण्डिता तनुर्यस्य अविहतगतिरित्यर्थः। प्लवति प्रवहति
अस्मिन्नाषाढीयोगे। कदा भगवति पतङ्गे सूर्ये प्रवसत्यस्तमेति सति। तदा तस्मिन् वर्षे
वसुधा भूर्नित्योद्दीप्ता सर्वकालमुज्ज्वलिता। ज्वलनशिखरालिङ्गिततला ज्वलनस्याग्नेर्ये
शिखरा ज्वालाग्राणि तैरालिङ्गितं परिष्वक्तं तलं यस्याः। तथाभूता स्वगात्रोष्मोच्छ्वासैः
स्वगात्रादात्मीयदेहाद्य ऊष्मा स एवोच्छ्वासास्तैस्तथाभूतैर्बहुप्रकारैः स्वगात्रोष्मोच्छ्वा-
सैर्भस्मनिकरं भस्मसमूहं वमत्युद्गिरति।।३।।
अथ दक्षिणस्यामाह—
तालीपत्रलतावितानतरुभिः शाखामृगान्नर्तयन्
योगेऽस्मिन् प्लवति ध्वनिः सपरुषो वायुर्यदा दक्षिणः।
तद्द्योगसमुत्थितस्तु गजवत्तालाङ्कुशैर्घट्टिताः
कीनाशा इव मन्दवारिकणिका मुञ्चन्ति मेघास्तदा ॥४॥
इस योग में आषाढ़ शुक्ल पूर्णिमा के दिन सूर्यास्त समय में तालपत्र, लताओं की
विस्तृत और वृक्षों से वाहनों को नचाते हुये, कठोर शब्द वाले दक्षिण तरफ की हवा चले
तो तालरूप अङ्कुश से ताड़ित हस्ती की तरह मेघ कृपण मनुष्य की तरह थोड़ी जलबिन्दु
छोड़ता है, अर्थात् उस वर्ष में थोड़ी वृष्टि होती है।।४।।
अस्मिन् योगेऽषाढाख्ये यदा यस्मिन् काले दक्षिणो याम्याशास्थो वायुः पवनः
प्लवति वहति। किं कुर्वंस्ताली वृक्षविशेषस्तस्य पत्राणि पर्णानि तथा लतावितानो लतानां
विस्तारस्तरवो वृक्षाः। एतैश्चालितैः शाखामृगान् वानरान्नर्तयन् वहति। वातवेगात्ता-
लादयश्चलन्ति तच्चलनातान्नर्तयन्निव। तथा तद्गतेनैव प्रकारेण योगे पौर्णमास्यां सूर्यास्तमये
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA