बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 413, कुल 728 में से
संदर्भ में पढ़ेंआषाढीयोगाध्यायः ३७१
अथ तुलालक्षणमाह—
हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या।
विद्धः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः ॥९॥
सुवर्ण का तुलादण्ड ( डण्डी ) श्रेष्ठ, चाँदी का मध्यम और इन दोनों के अलाभ में
खैर की लकड़ी का तुलादण्ड बनाना चाहिये अथवा जिस बाण से कोई मनुष्य बेधित हुआ
हो, उसका तुलादण्ड बनाना चाहिये। वह तुलादण्ड बारह अङ्गुल प्रमाण का होना चाहिये।
हैमी सुवर्णतुला प्रधानोत्तमा। रजतेन रौप्येण या क्रियते सा मध्यमा, न शुभा नाप्य-
शुभा। तयोः सुवर्णरौप्ययोरलाभे अभावे सति खदिरेण कार्या। खदिरकाष्ठमयी कर्तव्या।
अथवा येन शरेणेषुणा पुमान् पुरुषः कश्चिद्विद्धो भिन्नः सा वा तुला कार्या तस्माच्छरादित्यर्थः।
सा च तुला प्रमाणेन वितस्तिर्द्वादशाङ्गुला भवतीति॥९॥
अथ तुलितानां शुभाशुभफलज्ञानमाह—
हीनस्य नाशोऽभ्यधिकस्य वृद्धीस्तुल्येन तुल्यं तुलितं तुलायाम्।
एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात् ॥१०॥
दूसरे दिन में तोला हुआ द्रव्य अल्प हो तो उस वर्ष में उसका नाश, अधिक हो तो
वृद्धि और समान हो तो मध्यम फल होता है। यह परम गोपनीय तुला का रहस्य मैंने
कहा है। रोहिणी योगकाल में भी इसका विचार करना चाहिये॥१०॥
तुलायां तुलितस्य परिच्छिन्नस्य द्रव्यस्य हीनस्य नाशः क्षयो वक्तव्यः। अभ्यधिकस्य
वृद्धिः। तुल्येन समेन तुल्यं समम्। न हानिर्न च वृद्धिः। तथा च गर्गः—
येषां प्रणमते सारं ते भवन्ति च नासमम्।
येषां तु हीयते सारं तेषां नाशं विनिर्दिशेत्॥
समानि तु समानि स्युस्तुलया तुलितानि तु॥
तथा च पराशरः—
सारसेऽम्भसि सस्यानां राज्ञां च विजयोऽधिके।
नादेये मध्यमा सम्पत्कनीयस्य चलोदके॥
यस्यां दिशि भवेन्माल्यमम्लानं शुचिगन्धिमत्।
तस्यां दिशि विजानीयाद्राज्ञां शिवमनामयम्॥ इति।
एतत्तुलाकोशरहस्यं तुलाभाण्डागाररहस्यं परमं गुह्यमुक्तं कथितम्। नरो मनुष्यः
प्राजेशयोगेऽपि न केवलमाषाढयोगे तुलाकोशं विदध्यात् कारयेत्, यावत्प्राजेशयोगे रोहिणी-
योगेऽपि कारयेत्॥१०॥
अन्यस्मिन् योगत्रयेऽपि पापग्रहा व्यवस्थिता न शुभदाः। अधिमासके सति योगे
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA