बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
CC-0. JK Sanskrit Academy, Jammmmu. Digitized by S3 Foundation USA
॥ श्रीः ॥
वराहमिहिरकृता
बृहत्संहिता
‘भट्टोत्पलविवृति’समन्वित‘विमला’हिन्दीव्याख्यायुता
अथ शास्त्रोपनयनाध्यायः
जयति जगतः प्रसूतिर्विश्वात्मा सहजभूषणं नभसः ।
द्रुतकनकसदृशदशशतमयूखमालार्चितः सविता ॥१॥
❁ विमला ❁
संसार की उत्पत्ति का कारण—‘अग्नौ हुताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्या-
ज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः।।’ ( मनु )। विश्व की आत्मा—‘सूर्य आत्मा जगतस्तस्थुषश्च’
( श्रुति )। आकाश का स्वाभाविक आभूषण और द्रवित सुवर्ण के समान अनेक किरणों
से शोभायमान श्री सूर्य भगवान् सर्वोत्कृष्टता से वर्तमान हैं।।१।।
❁ भट्टोत्पलविवृति ❁
ब्रह्माजशङ्कररवीन्दुकुजज्ञजीवशुक्रार्कपुत्रगणनाथगुरून प्रणम्य।
यः संग्रहोऽर्कवरलाभविवृद्धबुद्धेरावन्तिकस्य तमहं विवृणोमि कृत्स्नम्।।१।।
यच्छास्त्रं सविता चकार विपुलैः स्कन्धैस्त्रिभिर्ज्योतिषं
तस्योच्छित्तिभयात् पुनः कलियुगे संसृत्य यो भूतलम्।
भूयः स्वल्पतरं वराहमिहिरव्याजेन सर्वं व्यधा-
दित्यं यं प्रवदन्ति मोक्षकुशलास्तस्मै नमो भास्वते।।२।।
वराहमिहिरोदधौ सुबहुभेदतोयाकुले
ग्रहर्क्षगणयादसि प्रचुरयोगरत्नोज्ज्वले।
भ्रमन्ति परितो यतो लघुधियोऽर्थलुब्धास्ततः
करोमि विवृतिप्लवं निजधियाऽहमत्रोत्पलः।।३।।
कानीह शास्त्रे सम्बन्धाभिधेयप्रयोजनानि भवन्तीत्युच्यते—वाच्यवाचकलक्षणः
सम्बन्धः। वाच्योऽर्थो वाचकः शब्दः। अथवापायोपेयलक्षणः सम्बन्धः। उपायस्त्विदं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२ बृहत्संहिता
शास्त्रमुपेयं ज्ञानम्। अथवा आब्रह्मादिविनिःसृतं वेदाङ्गममिति सम्बन्धः। अनेन शास्त्रेण च
यद्ग्रहनक्षत्रोत्थानां शुभाशुभानां दिव्वान्तरिक्षभौमानामुत्पातानां फलज्ञानं तदभिधेयम्।
जगतः शुभाशुभकथनं प्रयोजनं सम्यग्ज्ञानान्मोक्षावाप्तिरिति च प्रयोजनम्। किमेभिरुक्तै-
रित्यत्रोच्यते—श्रोतॄणां सम्बन्धाभिधेयप्रयोजनकथनाच्छास्त्रविषये श्रद्धा जायत इति। तथा
चोक्तमत्रार्थे—
सिद्धिः श्रोतॄप्रभृतीनां सम्बन्धकथनाद्यतः।
तस्मात् सर्वेषु शास्त्रेषु सम्बन्धः पूर्वमुच्यते।।
किमेवात्राभिधेयं स्यादिति पृष्टस्तु केनचित्।
यदि न प्रोच्यते तस्मै फलशून्यं तु तद्भवेत्।।
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते।।
तस्मात् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि। कस्याऽस्मिन् शास्त्रेऽधिकार इत्युच्यते—
द्विजस्यैव। यतस्तेन षडङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्च। कानि तान्यङ्गानीत्युच्यते—
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं गतिः।
छन्दसां लक्षणं चैव षडङ्गो वेद उच्यते।।
सतामयमाचारो यच्छास्त्रप्रारम्भेष्वभिमतदेवतानमस्कारं कुर्वन्ति। तदयमप्यावन्तिकाचार्य-
मगधद्विजवराहमिहिरोऽर्कलब्धवरप्रसादो ज्योतिःशास्त्रसंग्रहकृद् गणितस्कन्धहोरास्कन्धौ
संक्षिप्तौ कृत्वा संहितास्कन्धं संक्षिप्तं चिकीर्षुरशेषविघ्नोपशान्तये भगवन्तं तत्प्रधानं सूर्य-
मादावेव प्रणनाम—जयतीति।
भगवान् सविता श्रीसूर्यो जयति सर्वोत्कर्षेण वर्तते। कीदृशः ? जगतः प्रसूतिः।
प्रसूयते उत्पद्यतेऽस्माज्जगदिति जगतः प्रसूतिः। यतस्तद्वशाद् वृष्टेः सम्भवस्ततोऽन्नं
ततः प्रजा इति। तथा च भगवान्मनुः—
अग्नौ हुताहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा।। इति।
विश्वात्मा विश्वस्य जङ्गमस्य स्थावररूपस्य चात्मा प्राणरूपेण हृदयान्तरस्थितः।
तथा च श्रुतिः—'सूर्य आत्मा जगतस्तस्थुषश्चे'ति।
जगतो जङ्गमस्य तस्थुषः स्थावरस्य सूर्य एवात्मा। सहजभूषणं नभसः। नभस आका-
शस्य सहजभूषणमकृत्रिममलङ्करणम्। यतो दृश्याकाशभागस्थेऽर्के सुतरां तस्य विराजनात्
सहजं भूषणम्। द्रुतकनकसदृशेति। द्रुतं गलितं कनकं सुवर्णं द्रुतकनकस्य सदृशास्तत्तुल्या
दशशतसंख्या ये मयूखाः किरणास्तेषां या माला प्रचयस्तयार्चितो व्याप्त इति। एवमिष्ट-
देवतासङ्कीर्तनात् कायवाङ्मनोभिः प्राधान्याद्धर्मः, धर्मेण चाधर्मनिवृत्तिः, तन्निवृत्तौ विघ्नो-
पशमस्तदुपशमादविघ्नेन शास्त्रपरिसमाप्तिरिति ।।१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शास्त्रोपनयनाध्यायः ३
नन्वन्येषु ज्योतिःशास्त्रेषु सत्सु किमिदं प्रारब्धमिति पौनरुक्त्यपरिहारार्थमाह—
प्रथममुनिकथितमवितथमवलोक्य ग्रन्थविस्तरस्यार्थम् ।
नातिलघुविपुलरचनाभिरुद्यतः स्पष्टमभिधातुम् ॥२॥
प्रथम मुनि ( ब्रह्माजी ) द्वारा कहे गये विस्तृत ग्रन्थ का सत्य अर्थ देख कर उसको ही
संक्षेप और विस्तार से रहित रचना के द्वारा स्पष्ट रूप से कहने के लिए प्रस्तुत हुआ हूँ॥२॥
मननाद् ज्ञानान्मुनिः। प्रथमश्चासौ मुनिश्च प्रथममुनिर्ब्रह्मा, तेन यत्कथितमुक्तमवितथं
सत्यरूपं विस्तरग्रन्थमतिविस्तीर्णशास्त्रं तस्य ग्रन्थविस्तरस्यार्थमभिधेयमवलोक्य विचार्याहं
नातिलघ्वीभिः स्वल्पाभिर्न चातिविपुलाभिर्विस्तीर्णाभी रचनाभिर्वाच्यपदसन्निवेशैर्मध्यरचनाभिः
स्पष्टं स्फुटतरमभिधातुं वक्तुं समुद्यतः प्रवृत्त इति। यतः संक्षिप्तस्य ग्रन्थस्य ग्रहणधारणे
सुखम्। तथा च हस्तिवैद्यककारो वीरसोमः—
समासोक्तस्य शास्त्रस्य सुखं ग्रहणधारणे।। इति।।२।।
अधुना मुनिविरचितस्य स्वरचितस्य च शास्त्रस्य साम्यमाह—
मुनिविरचितमिदमिति यच्चिरन्तनं साधु न मनुजग्रथितम् ।
तुल्येऽर्थेऽक्षरभेदादमन्त्रके का विशेषोक्तिः ॥३॥
जो प्राचीन मुनि के द्वारा विरचित है, वही यथार्थ है; मनुष्य का लिखा हुआ नहीं—
ऐसा कहना भी ठीक नहीं है; यतः मन्त्रात्मक से भिन्न शास्त्र में अर्थ की तुल्यता रहने के
कारण केवल अक्षरमात्र का भेद रहने पर क्या विशेषता हो सकती है? अर्थात् कुछ भी
नहीं।।३।।
इदं यच्छास्त्रं मुनिभिर्ब्रह्मादिभिर्विरचितं निबद्धं तत्साधु श्रेष्ठमिति। इतिशब्दो निश्चयार्थे।
मुनीनामतीतानागतज्ञानं प्रत्यक्षदविशिष्टमाविर्भूतप्रकाशत्वात्। यतस्तच्चिरन्तनं मुनिभिः
प्रागेव विरचितं तेन साधु न मनुजग्रथितं मनुष्यरचितत्वान्न साधु साम्प्रतं रचितत्वान्न
शोभनमिति। एवमाशङ्क्याह—तुल्येऽर्थेऽक्षरभेदादमन्त्रक इति। तुल्ये सदृशेऽर्थेऽभि-
धेयेऽक्षराणां वर्णानां भेदादन्यत्वात्। तत्रामन्त्रक इति मन्त्रवर्जिते का विशेषोक्तिः किं विशेष-
वचनम्। एतदुक्तं भवति—मुनिकृतान्येव शास्त्राणि दृष्ट्वा तदर्थ एव नात्यल्पैर्नातिबहुभिः
पदसन्निवेशैरुच्यत इत्यक्षराणां मात्राभेदो नार्थानाम्। मन्त्रार्थो वेदार्थोऽन्यैः शब्दैस्तदर्थ-
प्रतिपादकैर्र्निबद्धो वेदवत्कार्यकरो न भवतीत्यत उक्तममन्त्रक इति।।३।।
अधुना मुनिकृतानां महत्त्वं च स्वशास्त्रस्य चाल्पत्वं प्रदर्शयितुमाह—
क्षितितनयदिवसवारो न शुभकृदिति पितामहप्रोक्ते ।
कुजदिनमनिष्टमिति वा कोऽत्र विशेषो नृदिव्यकृतेः ॥४॥
जैसे ब्रह्माजी द्वारा रचित ग्रन्थ में 'क्षितितनयदिवसवारो न शुभकृत्' और मनुष्यकृत
ग्रन्थ में 'कुजदिनमनिष्टम्' ऐसा लिखा है। इसमें मात्र पाठभेद के अतिरिक्त मनुष्यकृत से
मुनिकृत में क्या विशेषता है? अर्थात् कुछ भी नहीं।।४।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
४ बृहत्संहिता
क्षितितनयस्याङ्गारकस्य दिवसः वारः। दिवसे वारो दिवसवारः। पितामहप्रोक्ते
कमलजकथिते शास्त्रे न शुभकृदित्युक्तिः। न शुभं फलं करोतीति न शुभकृत्। भौमवारः
सर्वकर्मणामशुभकृदिति कमलजकथिते शास्त्र उक्तिः। मदीये पुनः कुजदिनमनिष्टम्।
‘कु’शब्देन भूरित्युच्यते; ततो जातः कुजस्तस्य दिनं वारस्तच्चानिष्टमशोभनं सर्वकर्मणा-
मित्यक्तिः। तस्मान्नृकृतेर्मनुष्यरचितस्य शास्त्रस्य दिव्यकृतेर्देवरचितस्यार्थस्यात्रास्मिन्नर्थे
को विशेषः किमन्तरमिति भवन्त एव विचारयन्तु। अनेनर्षिकृतानां महत्त्वं स्वशास्त्रस्य
संक्षिप्तत्वं प्रकाशितं भवतीति। अथवा नृदिव्यकृते इति पाठे नृकृते दिव्यकृतेऽत्रास्मिन्
शास्त्रे को विशेष इति॥४॥
एवं स्वग्रन्थकरणे निर्दोषतां संस्थाप्य सकलमुनिनिबद्धशास्त्रसंग्रहकरणहेतुं दर्श-
यितुमाह—
आब्रह्मादिविनिःसृतमालोक्य ग्रन्थविस्तरं क्रमशः।
क्रियमाणकमेवैतत् समासतोऽतो ममोत्साहः ॥५॥
ब्रह्मा आदि मुनियों के द्वारा कहे गये शास्त्रों में अतिविस्तार देखकर क्रम से संक्षेप में
इस शास्त्र को बनाने के लिये यह मेरा उत्साह है॥५॥
ब्रह्मादिभ्यो यद्विनिःसृतं निर्गतं ग्रन्थविस्तरं विस्तीर्णशास्त्रं तच्चालोक्य दृष्ट्वा।
अथवा तस्माद् ग्रन्थविस्तरादालक्ष्य क्रमशः क्रमेण समासतः संक्षेपेणैतच्छास्त्रं क्रियमाणम्।
एवशब्दो निश्चयार्थे। मुनिभिः पारम्पर्येण संक्षिप्तीकृतमहमपि संक्षिप्तीकरोम्यतोऽस्माद्धेतो-
र्ममोत्साहः शृङ्गार इति। तथा च भगवान् गर्गः—
स्वयं स्वयम्भुवा सृष्टं चक्षुर्भूतं द्विजन्मनाम्।
वेदाङ्गं ज्योतिषं ब्रह्मपरं यज्ञहितावहम्॥
मया स्वयम्भुवः प्राप्तं क्रियाकालप्रसाधनम्।
वेदानामुत्तमं शास्त्रं त्रैलोक्यहितकारकम्॥
मत्तश्चान्यानृषीन् प्राप्तं पारम्पर्येण पुष्कलम्।
तैस्तदा स्रष्टृभिर्भूयो ग्रन्थैः स्वैः स्वैरुदाहृतम्॥ इति॥५॥
अस्मिन् शास्त्रे जगतः शुभाशुभकथनं तात्पर्यं तस्य च जगतः कुत उत्पत्तिरस्त्येत-
त्प्रदर्शयितुमाह—
आसीत्तमः किलेदं तत्रापां तैजसेऽभवद्धैमे।
स्वभूश्शकले ब्रह्मा विश्वकृदण्डेऽर्कशशिनयनः ॥६॥
यह सम्पूर्ण जगत् पहले अन्धकारमय था। वहाँ अन्धकार के विषयभूत जल में
तेजोमय एक सुवर्ण का अण्ड उत्पन्न हुआ। उसके दो टुकड़े स्वर्ग और पृथ्वीरूप हुये। इन
टुकड़ों में से सूर्य-चन्द्ररूप दो नेत्र वाले ब्रह्माजी उत्पन्न हुये॥६॥
किलशब्दोऽत्रागमप्रदर्शनार्थः। इदं जगत्किल तम आसीत्। अन्धकारमभूत् तस्मिं-
शास्त्रोपनयनाध्यायः ५
स्तमस्यपां मध्ये हैमे सौवर्णेऽण्डे तैजसे तेजोमये स्वभूर्शकले यस्याण्डस्यैकं शकलमेकं
खण्डं स्वर्गो द्वितीयं भूः। तथाभूते ब्रह्मा पितामहोऽभवद् जज्ञे। कीदृशो ब्रह्मा? अर्क-
शशिनयनः। अर्क आदित्यः शशी चन्द्रः। एतौ नयने नेत्रे यस्य स विश्वकृद्विश्वस्स्रष्टा।
एतदुक्तं भवति—तमोभूतेऽस्मिन् जगति भगवानव्यक्तः प्रजासिसृक्षुरादावपः ससर्ज, तासु
च वीर्यमुदसृजत्। ततस्तदण्डं सौवर्णं सहस्रांशुसत्रिभमभवत्, तस्मिन्नभ्यन्तरे ब्रह्मा जज्ञे,
ततः स भगवांस्तत्र परिवत्सरमुषित्वा स्वयमेव ध्यानात्तदण्डं द्विधाऽकरोत्। ताभ्यां शकला-
भ्यामेकं स्वर्गो द्वितीयं भूरिति निर्ममे। स ब्रह्मा सोमसूर्यनेत्रः सर्वलोकपितामहो विश्वकृदिति
स्मृतिकाराः। तथा च भगवान्मनुः—
आसीदिदं तमोभूतमप्रज्ञातलक्षणम्।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥
ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम्।
महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ॥
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमवासृजत्॥
तदण्डमभवद् हैमं सहस्रांशुसमप्रभम्।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद् द्विधा॥
ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे।
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम्॥ इति॥६॥
अत्रैव पक्षान्तराण्याह—
कपिलः प्रधानमाह द्रव्यादीन् कणभुगस्य विश्वस्य।
कालं कारणमेके स्वभावमपरे परे जगुः कर्म॥७॥
जगत् की उत्पत्ति के विषय में अनेक प्रमाण मिलते हैं; जैसे कि कपिल मुनि प्रधान
( मूलप्रकृति ), कणाद द्रव्य आदि पदार्थ, कोई काल, दूसरे स्वभाव और मीमांसक कार्य
को जगत् की उत्पत्ति का कारण मानते हैं॥७॥
कपिलः सांख्याचार्यो जगतः कारणं प्रधानमाह कथयति। सत्त्वरजस्तमसां त्रयाणां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६ बृहत्संहिता
गुणानां सुखदुःखमोहलक्षणानां प्रकाशप्रवृत्तिनियमार्थानां साम्यावस्था प्रधानमुच्यते। प्रधान-
मव्यक्तं प्रकृतिरिति पर्यायाः प्रकृतेर्महान् भवति महान् बुद्धिरध्यवसाय इति पर्यायाः।
तस्या बुद्धेः सत्त्वाधिकाया धर्मो ज्ञानं वैराग्यमैश्वर्यमिति धर्माः। तस्या एव तमोऽधिकाया
अधर्मोऽज्ञानमवैराग्यमनैश्वर्यमित्यध्यवसायो निश्चयः यथा पुरुष एवायं गौरेवायमश्व एवाय-
मिति। ततो महत्तत्त्वादहङ्कारो भवति। अभिमान इत्यर्थः। यथाहं कुलजोऽहं सुरूपोऽ-
हमीश्वर इत्यादि। अहङ्कारात् षोडशको गणो भवति। तद्यथा—एकादश करणानि सत्त्वा-
धिकादहङ्कारात्। तानि पञ्च बुद्धीन्द्रियाणि। श्रोत्रं त्वक् चक्षुषी जिह्वा नासिकेति। पञ्च
कर्मेन्द्रियाणि। वाक्पाणिपादपायूपस्थं चेति। एकादशं मनस्तच्च सङ्कल्पात्मकम्। सङ्कल्पोऽ-
भिलाषः स्पृहेति पर्यायाः। तमोऽधिकादहङ्कारात् पञ्च तन्मात्राणि भवन्ति। तद्यथा—
शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रमिति। एभ्यः पञ्चभ्यः पञ्च
महाभूतानि भवन्ति आकाशवाय्वग्निजलपृथिव्याख्यानि। तेभ्यः शरीरिणां शरीराणि। यतः
पञ्चमहाभूतमयानि शरीराणि। एवं प्रधानं चिद्रूपस्य पुरुषस्य विश्वं भोगार्थं मोक्षार्थं च
सृजति। भुक्तभोगस्य वैराग्योत्पादनं मोक्षावाप्तिरिति। तथा च कपिलाचार्यः—
प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः।
तस्मादपि षोडशकात् पञ्चभ्यः पञ्च भूतानि।।
अध्यवसायो धर्मो ज्ञानं वैराग्यमैश्वर्यम्।
सात्त्विकमेतद् रूपं तामसमस्माद्विपर्यस्तम्।।
अभिमानोऽहङ्कारस्तस्माद् द्विविधः प्रवर्तते सर्गः।
ऐन्द्रियमेकादशकं तन्मात्रपञ्चकश्चैव।।
सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात्।
भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम्।।
बुद्धीन्द्रियाणि कर्णत्वक्चक्षूरसननासिकाख्यानि।
वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाण्याह।।
सङ्कल्पकमत्र मनस्तच्चेन्द्रियमुभयथा समाख्यातम्।
अन्तस्त्रिकालविषयं तस्मादुभयप्रचारं तत्।।
रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः।
वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम्।।
स्वालक्षण्यं वृत्तिस्त्रयस्य सैषा भवत्यसामान्या।
सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च।।
युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा।
दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः।। इति।
द्रव्यादीन् कणभुगस्य विश्वस्येति। कणभुक् कणादोऽस्य विश्वस्य द्रव्यादीन् पदार्थान्
कारणमाह। द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट्पदार्थाः। तत्र द्रव्यं नवविधम्।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
[header] शास्त्रोपनयनाध्यायः ७
तद्यथा—आकाशावाय्वग्निजलपृथिव्याख्यानि पञ्च महाभूतानि। आत्मा मनः कालो दिक्
चेति। तथा च तद्वाक्यम्—
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः। इति।
द्रव्याश्रिताश्चतुर्विंशतिर्गुणाः। के ते? उच्यन्ते। तत्रात्मगुणा नव विशेषगुणाः। तद्यथा—
बुद्धिरिच्छा सुखं दुःखं प्रयत्नः संस्कारः पुण्यं पापं द्वेषश्चेति। तथा च—
'बुद्धीच्छासुखदुःखप्रयत्नसंस्कारपुण्यपापानि। द्वेषश्चे'ति।
नवामी गुणास्त्वनित्याः सुखदुःखादिभुजां कदाचिद् भवन्ति कदाचिन्न भवन्ति।
एते विशेषगुणाः। महाभूतानां खादीनां पञ्च यथाक्रमं शब्दादयो गुणाः समाश्रिताः। तथा
संख्या परिमाणं पृथक्त्वं संयोगविभागौ परत्वापरत्वे स्नेहो द्रवत्वं गुरुत्वं च। एते चतु-
र्विंशतिर्गुणाः। पञ्चविधं कर्म। उत्क्षेपणमधिक़्षेपणमाकुञ्चनं प्रसारणं गमनं चेति। सामान्यं
जातिः। सा च द्विविधा परमपरं च। सामान्यं परं सत्ताख्यं महाविषयत्वात्। यतो द्रव्या-
दयस्त्रयः पदार्थाः सत्तया व्याप्ताः। अपरं द्रव्यगुणकर्मत्वादि। नित्यद्रव्यवृत्तय उक्ता विशेषाः।
नित्यानि द्रव्याण्यात्माकाशपरमाणुप्रभृतीनि। अपृथक्सिद्धानामाधाराधेयभावः सम्बन्धः
समवाय इति। एतेषां षण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसस्य मोक्षस्य
हेतुः। साधर्म्यं सादृश्यं वैधर्म्यं वैलक्षण्यं भेदो विशेष इति साधर्म्यवैधर्म्यज्ञानमवबोधो
निःश्रेयसस्य मोक्षस्य हेतुः। एवमेते द्व्यणुकादिक्रमेण कार्यं निर्वर्तयन्ति। चतुर्विधाः परमा-
णवः क्षितिजलाग्निवायूनाम्। द्वाभ्यां परमाणुभ्यां द्व्यणुकमारभ्यते त्रिभिः परमाणुभिस्त्र्यणु-
कमारभ्यत इति क्रमेण स्थूलकार्यस्य द्रव्यस्योत्पत्तिः। एवं जगत्सम्भवः।
कालं कारणमेक इति च। केऽपि कालकारणिकाः पौराणिकाः कालं कारण-
माहुरुक्तवन्तः। कालस्य लक्षणम्—
नित्यमेकं विभुं द्रव्यं परिमाणं क्रियावताम्।
व्यापारव्यतिरेकेण कालमेके प्रचक्षते॥
आदित्यग्रहतारादिपरिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः।। इति।
एवं जगतः कालः कारणं प्रजाः सृजति स एव संहरति। तथा च तद्वाक्यम्—
कालः सृजति भूतानि कालः संहरति प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।। इति।
यथा कालेन बलिरिन्द्रः कृतः कालेन ततो निवर्तितः काल एव पुनरेवं कर्तेति।
स्वभावमपर इति। अपरे अन्ये लौकायतिक़ाः स्वभावं जगतः कारणमाहुः।
स्वभावादेव जगद्विचित्रमुत्पद्यते स्वभावतो विलयं याति। तथा च तद्वाक्यम्—
कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च।
माधुर्यमिक्षोः कटुतां च निम्बे स्वभावतः सर्वमिदं प्रवृत्तम्।। इति।
८ बृहत्संहिता
परे जगुः कर्मेति । परे अन्ये मीमांसका जगतः कर्म कारणं जगुरुक्तवन्तः। शुभा-
शुभकर्म प्राणिनां पुण्यापुण्यरूपं जगतः कारणं शुभेन कर्मणा शुभफलभोगी जायते
अशुभेन विपरीतमिति। तथा च—
पूर्वजन्मार्जितं यच्च कर्म पुंसां शुभाशुभम्।
तदेव सर्वजन्तूनां सृष्टिसंहारकारणम्।। इति।।७।।
एवमनेकजन्मकारणेषूक्तेषु किं जगत्कारणं निश्चितमित्यत्र निषेधमाह—
तदलमतिविस्तरेण प्रसङ्गवादार्थनिर्णयोऽतिमहान्।
ज्योतिःशास्त्राङ्गानां वक्तव्यो निर्णयोऽत्र मया ॥८॥
जगत् की उत्पत्ति के विषय में विस्तृत रूप से विचार करना व्यर्थ है; क्योंकि इस विषय
का वर्णन करने में भी अनेक अन्य अतिविस्तृत विषयों की आवश्यकता होगी। अतः इस
प्रसङ्ग को छोड़ कर प्रस्तुत ज्योतिष शास्त्र के अङ्गों का वर्णन करने का ही यहाँ मैने निर्णय
किया है।।८।।
अलमिति वारणपक्षहेतुर्दृष्टान्तैर्दर्शनान्तराणि निवर्त्य कारणनिश्चयः। स चेह प्रस्तुत:,
कुतो जगदुत्पत्तिरिति। प्रसङ्गादतिविस्तरेण वादः प्रसङ्गवादः, प्रसङ्गवादे अतिमहानतीवार्थस्य
निर्णयो विचारो य आरब्धस्तस्यालं भवतु। अनेनास्माकं न किञ्चित् प्रयोजनम्। यतो
मया एतस्मिन् शास्त्रे ज्योतिःशास्त्राङ्गानां निर्णयो वक्तव्यः। ज्योतिषि ग्रहनक्षत्रादीनि तान्यधि-
कृत्य कृतं शास्त्रं ज्योतिःशास्त्रं ग्रहनक्षत्रयोगेन जगतः शुभाशुभसम्भवात्। ज्योतिःशास्त्रे
यान्यङ्गानि गणितहोराशाखाख्यानि तेषां निर्णयो निश्चयो वक्तव्यः कथनीयः। यद्यपि गणित-
होरास्कन्धौ प्रागेवोक्तौ तथाप्यत्राङ्गत्वेनोदाहृतौ। पुरुषलक्षणादौ जातकं समागमादिषु गणित-
मिति। अथवा तदुक्तस्यात्र फलकथनं क्रियत इति।।८।।
अथ ज्योतिःशास्त्रस्वरूपं तत्र संज्ञान्तराण्याह—
ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितं
तत्कार्त्स्न्योपनयस्य नाम मुनिभिः सङ्कीर्त्यते संहिता।
स्कन्धेऽस्मिन् गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ॥९॥
अनेक भेदों से युत ज्योतिष शास्त्र के तीन स्कन्ध (संहिता, तन्त्र, होरा) हैं। इनमें से
जिसमें सम्पूर्ण ज्योतिष शास्त्र के विषयों का वर्णन हो, उसको 'संहिता' कहते हैं। जिसमें
गणित द्वारा ग्रहगति का निर्माण किया गया हो, उसको 'तन्त्र' कहते हैं। इनके अतिरिक्त
जातक, फल, मुहूर्त आदि का निर्णय जिसमें हो, उसको 'होरा' स्कन्ध कहते हैं।।९।।
ज्योतिःशास्त्रं कीदृशम्। अनेकभेदविषयम्। भेदो विशेषः। अनेको बहुप्रकारो भेदोऽ-
नेकभेदः। अनेकभेदो विषयो यस्य तद्भिद्यतेऽस्मादिति भेदः। यथा श्वेतवर्णयोगात् कृष्णो
वर्णो भिद्यते। एवं बहुप्रकारो भेदः स्कन्धत्रयमद्यनिर्दिष्टस्तस्य विषयं गोचरं स्कन्धत्रयाधिष्ठितं
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शास्त्रोपनयनाध्यायः ९
स्कन्धत्रयेण गणितहोराशाखाख्येनाधिष्ठितं व्याप्तम्। तत्कात्स्न्र्योपनयस्येति । तस्य
ज्योतिःशास्त्रस्य कात्स्न्र्येन निरवशेषेणोपनयः कथनं यस्मिन् शास्त्रे तच्छास्त्रं संहितेति
मुनिभिर्गर्गादिभिर्नाम सङ्कीर्त्यते कथ्यते। तथा च भगवान् गर्गः—
गणितं जातकं शाखां यो वेत्ति द्विजपुङ्गवः। त्रिस्कन्धज्ञो विनिर्दिष्टः संहितापारगश्च सः।।
स्कन्धेऽस्मिन्निति । अस्मिन् ज्योतिःशास्त्रे ग्रहाणामादित्यादीनां या गतिर्गमनं प्रति-
राशौ सञ्चरणं सा येन ज्ञायते तद् गणितं तस्य च तन्त्रमिति संज्ञा। असौ गणितस्कन्ध-
स्तन्त्राभिधानः। होराऽन्योऽङ्गविनिश्चयश्च कथित इति । प्रतिष्ठायात्राविवाहादीनां लग्न-
ग्रहवशेन च शुभाशुभफलं जगति यया निश्चीयते सा होरा। अन्यो द्वितीयोऽङ्गविनिश्चयः।
होराख्यः कथित इति। होरास्कन्धो द्वितीयः। स्कन्धस्तृतीयोऽपर इति । अपरस्तृतीयोऽयं
स्कन्धो वक्ष्यमाणः शाखाख्य इति।।९।।
अथ स्कन्धत्रयविभागमाह—
वक्रानुवक्रास्तमयोदयाद्यास्ताराग्रहाणां करणे मयोक्ताः ।
होरागतं विस्तरशश्च जन्म यात्राविवाहैः सह पूर्वमुक्तम् ।।१०।।
मैंने करण ग्रन्थ (पञ्चसिद्धान्तिका) में ताराग्रहों (भौमादि पञ्च ग्रहों) के वक्र,
मार्ग, उदय आदि का वर्णन किया है तथा होरा (बृहज्जातक, बृहद्विवाहपटल आदि)
ग्रन्थों में जन्म, यात्रा, विवाह आदि का विस्तारपूर्वक वर्णन किया है।।१०।।
ताराग्रहा भौमादयस्तेषां वक्रं प्रतीपगमनम्। यथा भौमादिको ग्रहो मेषस्थो मीनं याति
स प्रतीपगतित्वाद्वक्रित इत्युच्यते। अनुवक्रं स्पष्टगतित्वम्। वक्रां गतिं त्यक्त्वा पुनः
स्पष्टां गतिमाश्रितोऽनुवक्रित इत्युच्यते। अस्तमयस्तेषामेव ग्रहाणां सूर्यवशेन भवति। यः
कश्चिच्चन्द्रादिको ग्रहः सूर्यसमीपवर्ती भवति स च रविकरनिकराभिभूतो गगने लोका-
नामालोकं नायाति तदास्तमित इत्युच्यते। तथा च स एव ग्रह आदित्यमण्डलाद्विप्रकृष्टो
यदा भवति तदा नभसि दृश्यते स चोदित इत्युच्यते। एवं वक्राऽनुवक्रास्तमयोदयाद्यास्तारा-
ग्रहाणाम्। आदिग्रहणात् परस्परं ग्रहाणां युद्धं चन्द्रेण नक्षत्रैश्च सह समागमो ज्ञेयः। एतदप्युप-
लक्षणार्थम्। मध्यगतिस्थितिनक्षत्रच्छेदः स्फुटगतिस्त्रिप्रश्नश्चन्द्रार्कग्रहणे उदयास्तमयौ शृङ्गोन्नतिः
समागमस्ताराग्रहसंयोग इत्येते मया करणे पञ्चसिद्धान्तिकायामुक्ताः कथिताः सर्व एव।
तथा होरागतं विस्तरशश्च जन्मेति । विस्तरशो विस्तरेण प्रदर्शनेन जन्म जातकं होरागतं
होराशास्त्रसम्बन्धी यात्राविवाहैः सह पूर्वमादावेवोक्तं कथितम्। एतदुक्तं भवति—बृहज्जातकं
बृहद्यात्रा बृहद्विवाहपटलं च मयादावेव विरचितमिति।।१०।।
अथात्र वक्ष्यमाणे स्कन्धेऽनुपयोगिकं त्यक्त्वा यत्सारं तद्वक्ष्यामीत्येतदाह—
प्रश्नप्रतिप्रश्नकथाप्रसङ्गान् स्वल्पोपयोगान् ग्रहसम्भवांश्च ।
सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ।।११।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शास्त्रोपनयनाध्यायः प्रथमः।।१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१० बृहत्संहिता
शिष्यों के द्वारा किये गये प्रश्नों के प्राचीन मुनियों के द्वारा दिये गये उत्तर, अनेक
प्रकार के कथाप्रसङ्ग, सूर्य आदि ग्रहों की उत्पत्ति आदि थोड़े उपयोगी विषयों को
छोड़कर प्राणियों के हित के लिये समस्त प्रयोजनों से युत साररूप विषयों का इस ग्रन्थ
में वर्णन करता हूँ।।११।।
इति 'विमला' टीकायां शास्त्रोपनयनाध्यायः प्रथमः ॥१॥
प्रश्नो यथा। हिमवदादौ स्थितो गर्गादिको मुनिः शिष्येण क्रौष्टुकिपूर्वेण पृष्टः—
भगवन्! ज्योतिःशास्त्रं ज्ञातुमिच्छामि किं स्वरूपं केनोत्पादितं किं तेन करणमित्यादि।
प्रतिप्रश्नो यथा। गर्गादिको मुनिः शिष्यवचनं श्रुत्वाह—यत्त्वयाऽहं पृष्टस्तत्ते वक्ष्यामीति।
तथा च प्रश्नः—
हिमवच्छिखरे रम्ये नानाधातुविचित्रिते।
नानाद्रुमलताकीर्णे नानातीर्थसमाश्रिते।।
हंसकारण्डवक्रौञ्चचक्रवाकविराजिते ।
सिद्धगन्धर्वसङ्कीर्णे देवर्षिगणसेविते ।।
हुताग्निहोत्रमासीनमाश्रमे देवदर्शनम्।
वृद्धगर्गं द्विजश्रेष्ठं मुनिभिः परिवारितम्।।
अभिगम्य समीपस्थो विनयात् संश्रितव्रतः।
क्रौष्टुकिः परिपप्रच्छ प्रश्नं लोकानुकम्पया।।
भगवन् मुनिशार्दूल सर्वज्ञानविशारद।
ज्योतिषं श्रोतुमिच्छामि परं कौतूहलं हि नः।।
ज्योतिषं ज्ञानमुत्पन्नं कथमेतदनुत्तमम्।
केन वा पूर्वमेवोक्तमृषिणा दैवतेन वा।।
किमस्य कारणं लोके परिज्ञानाच्च किं फलम्।
नामतश्चानुपूर्वेण ब्रूहि मे मुनिसत्तम।।
इति मुनिप्रश्नः। तथा च प्रतिप्रश्नः—
एवमुक्तस्तु मुनिना वृद्धगर्गे महातपाः।
प्रोवाच तानृषीन् सर्वान् क्रौष्टुकिप्रमुखस्थितान्।।
श्रूयतां स्वर्ग्यमायुष्यं धर्म्यं पुण्यं यशस्करम्।
ज्ञानविज्ञानसम्पन्नं द्विजानां पावनं परम्।।
कालज्ञानमिदं पुण्यमाद्यं हि ज्ञानमुत्तमम्।
सिसृक्षुणा पुरा वेदानेतत्सृष्टं स्वयम्भुवा।।
वेदाङ्गमाद्यं वेदानां क्रियाणां च प्रसाधकम्।
ज्योतिर्ज्ञानं द्विजेन्द्राणामतो वेद्यं विदुर्बुधाः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शास्त्रोपनयनाध्यायः ११
ज्योतिश्चक्रे तु लोकस्य सर्वस्योक्तं शुभाशुभम् ।
ज्योतिर्ज्ञानं च यो वेत्ति स तु वेत्ति परां गतिम् ।।
चन्द्रनक्षत्रताराणां ग्रहाणां भास्करस्य च ।
ज्योतिषामपि यज्ज्योतिर्ज्योतिषामपि पावनम् ।।
तद्भावभाविनं युक्तं तं देवा ब्राह्मणं विदुः ।
तस्मात्पूर्वमधीयीत ज्योतिर्ज्ञानं द्विजोत्तमः ।।
धर्मसूत्रं ततः पश्चाद्यज्ञकर्मविधिक्रियाम् ।
यज्ञाश्चायुष्यहोमाश्च चूडोपनयनादि च ।।
साम्राज्यं पौर्णमास्यं च पितृदैवततर्पणम् ।
सर्वारम्भाश्च जगतो लोके च विविधाः क्रियाः ।।
न ज्यौतिषं विना तासां प्रवृत्तिरुपलभ्यते ।
आप्यायनं च देवानां यज्ञाः प्रोक्ताः क्रियाश्रयाः ।।
यज्ञार्थमपि च प्रोक्ताः स्वयं वेदाः स्वयम्भुवा ।
न ते च सम्प्रवर्तन्ते कालाज्ञानात् कथञ्चन ।।
यज्ञक्रिया अहोरात्रं क्रियाश्चान्या जगद्धिताः ।
तस्मात् पुण्यं समं वेदैर्यज्ञचक्षुः सनातनम् ।।
स्वर्ग्यमध्ययेयमव्यग्रैर्ब्राह्मणैः शंसितव्रतैः ।
ततः कालप्रसिद्ध्यर्थं राशयः पूर्वमीरिताः ।।
अहोरात्रविभागश्च तिथीनां च क्रियाविधिः ।
सोमसूर्यविलग्नानामृक्षाणां चापि निश्चयः ।।
आदानयोगभोगाश्च विसर्गाश्चार्कसोमयोः ।
दिनर्तुपक्षमासानां चन्द्रार्काणां विनिश्चयः ।।
कर्मोपभोगमानानां लेख्यप्रश्नविधिस्तथा ।
एवमाद्याः समस्ताश्च क्रिया ज्यौतिषसंश्रिताः ।। इति ।
एवमादिकाः प्रतिप्रश्नाः। तथान्यान् कथाप्रसङ्गानिति । आख्यायिका कथा तत्र
प्रसङ्गः प्रसक्तिः। यथा भगवता पराशरेण पुष्करस्थाने कथा कृता। पुरा खलु सुरासुराणां
महति महायुद्धे विग्रहे विपरीतविग्रहे भार्गवप्रयुक्ताभिचारोपहतवीर्यप्रभावाः सुराः शत्रुविक्रमो-
पहततेजसः स्वयम्भुवं शरणमभिजग्मुः। शुक्र एव वो गतिरित्यादिष्टाः सुराः शुक्रमभि-
समेत्याऽऽनतास्ते देवाः पवित्रैर्मन्त्रैराद्यैरभिष्टुतवन्तः। सर्वरत्नधनधान्याधिपत्यं यज्ञभागं चास्मै
दत्त्वा पैतामहा ऋषयो देवताश्च वरमभियाचायाम्बभूवुः। अनेकविधप्रयुक्तस्याद्यधर्मस्य परन्त-
पस्य यथा न स्यान्नाशस्तथा भगवान्नो विधत्ताम्। यथा च नो बृहस्पतिरुपाध्यायस्तथा भगवा-
नपि भवत्विति। शुक्रः परमपीत्युक्त्वा देवान् शान्तिस्वस्त्ययनादिभिः पुनस्तेजसाभिवर-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
यामास। न हि वेदमन्त्रकर्मणां यथावत्प्रयुक्तानां किञ्चिदप्यसाध्यं पश्यामस्तेषां शुद्धाशुद्ध-
मन्त्राचार्यप्रतिग्रहीतृदेशकालकरणद्रव्यसाधनसामग्र्यम्। इतरथा हि मिथ्या हीनमन्त्रप्रयोगा
यजमानस्यैवाभिचाराय भवन्ति। पुरा खलु सुराधिपत्यमाजिहीर्षुरतिप्रवृद्धवीर्योत्सेकाद्वृत्रः
पुरन्दरमभिचचार। अथैनं कर्मविधिसमाप्ताविन्द्रशत्रुवृद्धिवचनसुरापराधिनमिन्द्र एव शत्रु-
मभिवृद्धो वृत्रमभिजघान। एवमनियतकर्मारम्भाः शतशः सुरा विलयं जग्मुः। अतो विधिहीन-
कर्मारम्भादनारम्भ एव श्रेयान्। तत्राऽभिचारकर्माऽथर्ववेदमन्त्रोपदिष्टैरुपकल्पयेदित्यादि।
एवमादिकाः प्रश्नाः प्रतिप्रश्नाः कथाप्रसङ्गाः स्वल्पोपयोगाः प्रायो न कुत्रचिदुपयुज्यन्ते।
आचार्येण यद्यपि रोहिणीयोगादिष्वीषत्कथाप्रसङ्गः प्रदर्शितस्तथापि न दोषः। यत आचार्येण
सहृदयहृदयाह्लादकं शास्त्रं कृतं तावन्मात्रेण तेषां चित्तरञ्जनं भवति।
तथा ग्रहसम्भवांश्चेति। ग्रहाणामादित्यादीनां सम्भवा उत्पत्तयः। कुतः सूर्यादय
उत्पन्ना इति। तथा च भगवान् पराशरः—
'हिमवति हिमावदातेऽवनिधरवरशिखरविपरिवर्तितमिव विवस्वन्तं भगवन्तं
पराशरमभिसङ्गम्य विनयावनतः कौशिकोऽभ्युवाच— भगवन् ! सर्वात्मा कालगतिविधाता
सूर्यस्तस्य चरितमभिशुश्रूषामहे। द्वादश च श्रूयन्ते। एक एव तपन् दृश्यते। शीतोष्णवर्षा-
भ्रानिलानां कथमस्मात् प्रादुर्भावः। कथं चर्त्तवस्तन्मानमनुवर्तते। मार्गप्रमाणवर्णसंस्थानादि
शुभाशुभफलमखिलमभिव्याहर्तुमर्हसी'ति।
तमुवाच भगवान् पराशरः—पुरा खल्वपरिमितशक्तिप्रभाववीर्यायुरारोग्यसुखैश्वर्यधर्म-
सत्त्वशुद्धतेजसः पुरुषा बभूवुः। तेषां क्रमादपचीयमानसत्त्वानामुपचीयमानरजस्तमस्कानां
लोभः प्रादुरभवत्। लोभात् परिग्रहं परिग्रहाद् गौरवं गौरवाद्धालस्यमालस्यात्तेजोऽन्तर्दधे।
अथ भगवान् परमर्षिरचिन्त्यः पुरुषो नारायणः स्ववेद्यमाद्यमात्मानं द्वादशधा कश्यपाददिते-
र्जनयामास। येनानन्तं पुनर्जगदभवत्। यान् द्वादशादित्यानाचक्षते। इन्द्रो विष्णुर्विवस्वा-
न्मित्रोऽंशुमान् धाता त्वष्टा पूषा वरुणोऽर्यमा भगः सवितेति। अथ सवितारं पितामहोऽतितुष्टाव
वराहं चैनं वरयाञ्चकार। यथा द्वादशादित्येभ्यस्त्वामुपस्थास्यतीति। मत्तो योगस्तेजो रुद्रात्
स्वयमग्नीषोमौ वायुरमृतं मर्त्यं चेति। चन्द्रस्य पराशरमुनिना सम्भवो नोक्तः।
राहोर्यथा—अथ भगवन्तमनिलेबलसमीरितप्रोद्धतहूतवहप्रभाभासुरमवितथदर्शनमु-
दासीनमाश्रमस्थमभिसंक्रम्य कौशिको विनयात् पराशरमुवाच—भगवन् ! सकलभुवन-
विलयोद्भवस्थितिकरणौ कथमुपरज्येते सूर्याचन्द्रमसौ गृह्णाति को वा ग्रहो ग्रहणप्रयोजनं
फलं वा किमस्य ग्रहणे नियतमनियतं चेति।
तमुवाच भगवान् पराशरः—पुरा पुरुहूतपितरं कश्यपमपत्यार्थमकाले सिंहिका
अभियाचयामास। तस्यै मुनिरकालयाञ्चाकोपाद्दारुणं यमकालान्तकोपमं सुतमदात्। यं
राहुरित्याचक्षते कुशलाः। स जातमात्र एवाऽदितिसुतसङ्गरावमर्दादनु विमुखीकृतः क्रोधा-
द्धिमवति दिव्यमत्युग्रमयुतं वर्षाणां तपोऽतप्यत। स पितामहाद्दिवि चरणममरतां सुरविजय-
शास्त्रोपनयनाध्यायः १३
मर्कचन्द्रसम्भक्षणं च वरमभिवरयामास। तस्मै भगवानमरगुरुः स्वयम्भूः प्रहसन्नुवाच। अति-
वरमशक्तस्त्वमेतौ जरयितुं किन्त्वेवमस्त्वित्युक्त्वाऽन्तर्हिते भगवति दिनकररजनिकरावभिदुद्राव
राहुः। ततो हरिररिविमथनं चक्रमुपरि परिक्षिप्यास्य शिरश्छित्त्वोवाच। सर्वमवितथं पितामह-
वचो भवतु स्वे स्वे युगे पर्वणि ग्रहणं कुर्वन् जगतः शुभाशुभानां कर्ता भविष्यसीति।
भौमस्य यथा—अथ भगवान् जगदादिसर्ग एव प्राक् प्रजापतिः सिसृक्षयेश्वरः करेण
क्रोधात् स्वतेजसोऽभिनिष्यन्दमग्निं तेजस एव जुहाव। अथ तदग्नितोऽवनिमुपसृतमूर्व्य-
ग्निसर्वतेजोभिः सम्भृतमुदतिष्ठद्यं प्रजापतिं प्राजापत्यं भौममिति मन्यन्ते। स स्वयम्भुवो
नियोगादृक्षचक्रमनुचरन्नशेषग्रहसामान्यचाराद्वक्रानुवक्राभ्यां चराचरं जगद्विशिष्टाविशिष्टेन
कर्मणा युनक्तीति।
बुधस्य यथा—प्रागसुरसुरसन्निपातेऽसुरगुरुमाययाभिमुह्यन्तः सुराः स्वयम्भुवमभिसङ्ग-
म्योचुः। भगवन्निद्राभिभूताः स्मः। स्वपतां नो द्विषद्भिद्यातहेतुमभिध्यायस्वेति। स्वयम्भुवा
ग्रहपतिरपां तेजः सोमोऽभिध्यायोक्तः। सुतस्ते त्रिभुवनोद्भावनविलयनगोपायनप्रजापतिर्भविता।
सकलविबुधगणान् बुधोऽभिरक्षते। ततो जगदभिगुप्त्यर्थं गतिवर्णचारमार्गास्तमनोदय-
प्रवासैर्जगतः शुभाशुभकरो भवतीति।
बृहस्पतेर्यथा—अथामरवरगुरुमधिकृत्य गुरुर्भगवान् पराशरः शिष्येणाभिनन्दितः
सुरगुरुचरितमखिलमभिप्रणम्य गुरुमेवोवाच। आदिसर्ग एव पितामहोऽङ्गिरसं मनसाभिजज्ञे।
अङ्गिरसोऽभिमुखाद् ब्रह्मधामैव त्रिभुवनगोप्ता प्रजापतिर्भगवान् बृहस्पतिरजायत। तमुत्पन्न-
मात्रमेव स त्रैलोक्याधिपतिः पिनाकभृत् सुरवरगुप्त्यर्थं वराहं वरयामास। पितामहमिव त्वां
प्रभाप्रभावर्द्धिसिद्धियोगज्ञानमन्त्रब्रह्मकर्माप्युपस्थास्यन्ति। गुरुरपि च सुराणां जगति शुभा-
शुभकारी त्वमेव भवितेति।
शुक्रस्य यथा—प्राग्भगवन्तममलतपसमनेकर्षिगणपरिवृतमशक्तदृशमपगतसंशयमुपेत्य
संशयात् कौशिकः पराशरं विनयादवोचत्। भगवन्! दितिसुतगुरुचरितमिति यदग्रे भगवानु-
वाच तत्संशयो नः कथममरवरवपुषस्तस्यात्ताः प्रजाभावाभावास्तमुवाच भगवान् पराशरः।
प्रागादिसर्गे च भगवतस्त्रिलोचनस्य शम्भो रोरूयमाणस्य पितामहो भव इति यन्नामाकरोत्-
स्यापो मूर्तिः सा भृगुकन्यका यस्यामुशना यं शुक्रं जनयामास स पुराऽयुतवर्षकेण कण-
धूम्रव्रतेन त्रिभुवनगुरुं पिनाकिनमाराध्य सकलधनपतित्वममरवरवपुः प्रज्ञाप्रभावतपःश्रुत-
तेजोऽधिकत्वमसुरगुरुमर्कवर्षनिग्रहं प्रजापतित्वं च लेभे। तस्य भगवतश्चरितमुदयास्तम-
यर्क्षमार्गवर्णवीथीमण्डलैरुपदिशन्तीति।
सौरस्य यथा—अथ भगवतः पुरा आदियुग एवातिभासुरमभितपतो विवस्वतस्तेजसाऽ-
भिव्यथ्यमानेषु भूतेषु स्वयं स्वयम्भूभगवन्तं विवस्वन्तमुवाच। अलमतितेजसा। न देव-
देवा अपि तत्तेजसः परमं बलमतिसोढुं समर्थाः। किमङ्ग पुनः प्रजाः। प्रजापतिनेत्यादिष्टो रवि-
रतितेजोनिवारणादतिक्रुद्धः स्वभावात् क्रोधमेवापत्यं जनयामास यं शनैश्चरमित्याचक्षत इति।
[Page 14]
१४ | बृहत्संहिता
अगस्त्यस्य यथा—अथ भगवन्तममितयशसं पराशरं कौशिकोऽभ्युवाच। भगवन् !
याम्यायां दिशि ज्योतिष्मद्ग्रहरूपमुदितमालक्ष्यते नक्षत्रग्रहमार्गव्युत्क्रान्तचरितं न वेद्मि।
किं तत्किमर्थं वा प्राचीं दिशमपहाय दक्षिणेन प्रावृट्कालान्तोदितं शरत्कालान्तोदितं वा
कतिपयाहान्यदृश्यं भवति। तन्नो भगवन् ! वक्तुमर्हसीत्येवमुक्तो भगवानुवाच—श्रुतपूर्वस्ते
पृथिव्यां मेरुमन्दरातिरिक्तप्रभावः शैलराड् विन्ध्यो नाम। स स्ववीर्यबलसमुच्छ्रायविशेष-
मन्विष्यमाणो दिव्यं वर्षसहस्रमुग्रं तपस्तेपे। स पितामहादन्यहनीषुपातप्रमाणमुच्छ्रायेण
वर्द्धस्वेतीप्सितं वरं लेभे। तस्यातिवृद्ध्या दिवसकर आवृत्तस्तेनान्धमिव जगदभवत्।
ततो देवर्षिगन्धर्वोरगयक्षरक्षांसि पितामहमभिजग्मुः। भगवन् ! विन्ध्यवृद्ध्या जगदवसीदत
इत्यूचुः। ततः स्वयम्भुवा अगस्त्यनामा महर्षिरनेकवर्षसहस्रसम्भृततया ध्यात उक्तश्च।
त्वमेकः शक्तो विन्ध्यातिवृद्धिनिवर्तनं कर्तुं कृते चास्मिन् कर्मणि नभसि विराजिष्यसे।
दर्शनादेव ते जगति सर्वविघ्नविनाशो भविष्यति। एवमस्त्विति कृत्वा महर्षिरगमद्विन्ध्य-
सकाशम्। उवाचैनमनन्तरं मे प्रयच्छ तीर्थयात्रां करिष्यामि। अनागते च मयि त्वया न
वर्द्धितव्यम्। इत्येवमुपश्रुत्य तपःप्रभावविस्तरस्याभिज्ञो महर्षेर्विन्ध्याचलश्चलच्छिखरपादो
भयविषाद्विकलमतिरुवाच। भगवन् ! बृहदसङ्कीर्णमविषममनेकतरुगणोदकमेकदेश-
मार्गमायोजयिष्यामि येन भगवान् यास्यतीत्येवमुक्तो महर्षिश्चुकोप। क्रोधरक्तान्तनेत्रोऽवदत्।
ममाज्ञाक्षोभात् कदाचित् सर्वथैव न भविष्यसीति। ततः शैलस्तत्प्रभावभयभीतः स्वभाव-
मुपगतोऽनागते भगवति न वृद्धिं यास्यामीति। ततो महर्षिर्दक्षिणां दिशमगमत्। स एषो-
ऽगस्त्यः शैलवृद्धिव्याघातनिमित्तं न प्रत्येति दक्षिणस्यामुदेति तस्यामेवास्तं गच्छतीति।
केतोः केतुचारोक्ता एवोत्पत्तिः। तथा च भगवान् गर्गः—
जातस्तूशनसः शुक्रः सूर्यपुत्रः शनैश्चरः।
पुत्रः सोमस्य तु बुधो भूमेरङ्गारकः स्मृतः।।
पुत्रमङ्गिरसः प्राहुर्बृहद्वाक्यं बृहस्पतिम्।
राहुः स्वर्भानुपुत्रः स्यात् पुत्रः केतुर्विभावसोः।।
मनसा ब्रह्मणा ख्यातावुभौ सोमदिवाकरौ। इति।
ग्रहसम्भवानेतानपि स्वल्पोपयोगान् सन्त्यज्य त्यक्त्वा। तथा अन्यान्यपि फल्गून्यसाराणि
यान्ययुक्तिमद्भिर्गणितगोलबाह्यैर्विरुद्धान्यभिहितानि। यथा भुवनप्रविभागे भूमेर्महाप्रमाणत्वं
दर्पणोदराकारतां च कथयन्ति। मेरोश्च महाप्रमाणं वृत्तत्वं तत्पृष्ठासक्तो ध्रुवश्च ग्रहनक्षत्राणि
चावलम्बमानानि। तथा च भगवान् पराशरः—
सप्तषष्टिसहस्राण्यशीतियोजनकोट्यो भूर्यत्पृथिवीमण्डलं परमस्मादगम्यं तमः। तन्मध्ये
हिरण्मयो मेरुश्चतुरशीतियोजनसहस्रोच्छ्रितः षोडश चाधस्तात् त्रिगुणविस्तारायामो यं
स्वर्गमाचक्षते। तन्मध्येनार्कचन्द्रौ ज्योतिश्चक्रं च पर्येति। तथा च—
मेरोरर्धविभागे सूर्यश्चन्द्रो द्वितीयके त्वतटे।
ग्रहनक्षत्रतारकासहितौ द्वौ कृतैककालविभागौ।।
शास्त्रोपनयनाध्यायः १५
इति गोलकशास्त्रे निश्चयः। तस्य छायां निशामिच्छन्ति कुशलाः। एवमादिकं बहु-
प्रकारमस्माकं गोलज्ञानेन सिद्ध्यति। तथा च—
मेरोरर्धप्रमाणेन सूर्यस्य गतिरुच्यते।
भगणस्याथ पञ्चाशदादित्यादुपरि स्थिता।।
भगणात् सप्तषष्टिस्तु सोमस्य गतिरुच्यते।
अध्यर्धं तु गतेः सोमाद्भार्वगस्य गतिः स्मृता।।
बृहस्पतिर्बुधश्चैव प्राजापत्यः शनैश्चरः।
केतवश्च ग्रहाः सर्वे ज्ञेयाः सोमसमा गतौ।।
निमेषान्तरमात्रेण योजनानां शतं शतम्।
पर्येति भगवानर्को भावयन् भूतभावनः।।
अन्ते निम्नोन्नता मध्ये कूर्मपृष्ठोपमा मही।
त्रिगुणाद् भूपरीणाहादष्टभागो दिगन्तरम्।।
एवमादिकानि वाक्यानि निरुपपत्तिकानि गोलविरुद्धान्यसाराणि सन्त्यज्य यत्सारभूतं
श्रेष्ठं लोकप्रत्यक्षजननं भूतार्थं सत्यार्थं दृष्टप्रत्ययं सकलैः समग्रैः परिपूर्णैरर्थैरनाकाङ्क्षैः
प्रवक्ष्ये कथयिष्य इति।।१९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
शास्त्रोपनयनाध्यायः प्रथमः ।।१।।
🙞···🙜
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ सांवत्सरसूत्राध्यायः
एवं स्वशास्त्रस्य स्वरूपप्रदर्शनेनोत्कर्षं प्रदर्श्याधुना कीदृग् ज्योतिःशास्त्रेऽधिकारीत्य-
तोऽधिकारिस्वरूपं प्रदर्शयितुमाह—
अथातः सांवत्सरसूत्रं व्याख्यास्यामः ॥१॥
इसके बाद इस अध्याय में सांवत्सरसूत्र (ज्योतिषी का लक्षण) कहते हैं ॥१॥
अथात इत्ययं समुदायः। अथातोऽस्माच्छास्त्रोपनयनादनन्तरं सांवत्सरसूत्रं
व्याख्यास्यामः कथयिष्यामः। अथवाऽथशब्दो मङ्गलार्थः। अतोऽस्माच्छास्त्रोपनयनादनन्तरं
सांवत्सरसूत्रं विविधैरथैंरा शास्त्रपरिसमाप्तेर्व्याख्यास्यामः कथयिष्यामः। संवत्सरं वेत्ति
सांवत्सरः। सूच्यते अर्थो येन तत्सूत्रं सांवत्सरसूत्रमित्यर्थः ॥१॥
तच्चाह—
तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समः
सुसंहितोपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिबुकदशन-
श्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गभीरोदात्तघोषः। प्रायः शरीरकारानु-
वर्तिनो हि गुणा दोषाश्च भवन्ति ॥२॥
कुलीन, देखने में प्रिय, नम्र, सत्यवादी, दूसरे के गुणों में दोष नहीं निकालने वाला,
राग-द्वेष से रहित, दृढ़ और पुष्ट शारीरिक सन्धि वाला, सर्वाङ्गपूर्ण, श्रेष्ठ लक्षणों से युक्त
हाथ, पैर, नाखून, आँख, ठोढ़ी, दाँत, कान, मस्तक और शिर वाला, सुन्दर तथा बोलने में
गम्भीर और उदात्त ज्योतिषी होना चाहिये; क्योंकि शरीर की आकृति के अनुरूप ही दोष-
गुण होते हैं ॥२॥
तत्र सांवत्सर इति । तत्र तस्मिन् ज्योतिःशास्त्रे सांवत्सरो दैवज्ञः कीदृशः। संवत्सरो
वर्षं तत्र शुभाशुभज्ञानार्थं यः कृतो ग्रन्थः स सांवत्सरस्तमधीते वेद वा यः सोऽपि सांव-
त्सरः। स चाभिजातः कुलीनः सांवत्सरकुलप्रसूत इति केचित्। यदि तत्कुलेऽपि जातो
वक्ष्यमाणगुणलक्षणयुक्तो न भवति तत्किं तेन। तस्मात् सांवत्सरकुले निरवद्ये जातेना-
ऽन्यस्मिन् प्रधानकुले वा सांवत्सरकुलाच्च येन विद्या सागमा अधीता सोऽत्राभिजातो
विवक्षितः। प्रियदर्शनो दृश्यमानः सुखजनको विनीतवेष उद्भटो वेषः शरीरालङ्करणं
यस्य। आचार्येणान्यत्राप्युक्तम्—'सांवत्सरस्तस्य विनीतवेषः' इति।
सत्यवाक् अवितथभाषी। अनसूयकः अनिन्दकः। गुणेषु दोषाविष्करणमसूया।
असूया कुत्सा। न असूयकोऽनसूयकः। समो रागद्वेषरहितः। शत्रौ मित्रे च तुल्यस्नेह
इत्यर्थः। सुसंहतोपचितगात्रसन्धिः सुसंहता अतिसंलग्ना उपचिता मांसला गात्रेषु बाहु-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः १७
हस्तोरुजानुगुल्फपादेषु सन्धयो यस्य। अविकलोऽव्यङ्गः परिपूर्णावयवः। चारुकरचरण-
नखनयनचिबुकदशनश्रवणललाटभ्रूत्तमाङ्गः। करौ हस्तौ। चरणौ पादौ। नखाः कररुहाः।
नयने चक्षुषी। चिबुकमधराधोभागः। दशना दन्ताः। श्रवणौ कर्णौ। ललाटं मुखपृष्ठभागः।
भ्रुवौ नयनोपरि रोमलेखे। उत्तमाङ्गं शिरः। एतानि चारूणि दर्शनीयानि यस्य। प्रशस्त-
लक्षणयुक्तानीत्यर्थः। वपुष्मान् वपुः शरीरं शोभनं विद्यते यस्य। रूपवानित्यर्थः। गम्भीरो-
दात्तघोषः गम्भीरः सानुनाद उदात्त उद्भटो घोषः शब्दो यस्य। मेघमृदङ्गसमध्वनिरित्यर्थः।
हि यस्मादर्थे। प्रायो बाहुल्येन शरीराकारानुवर्तिनः। शरीरस्याकारः शरीराकारस्तमनुवर्तन्ते
शरीराकारानुवर्तिनः। के ते गुणा दोषाश्च भवन्ति। शरीरस्य सादृश्यं गुणा दोषाश्चानुवर्तन्ते।
निर्दोषं शरीरं गुणा अनुवर्तन्ते। सदोषं शरीरं दोषाश्चानुवर्तन्त इति। तथा चोक्तम्—
‘यत्राकृतिस्तत्र गुणा भवन्ति’ इति।।२।।
अथ गुणानाह—
तत्र गुणाः—शुचिर्दक्षः प्रगल्भो वाग्मी प्रतिभानवान् देशकालवित्
सात्त्विको न पर्षद्वीरुः सहाध्यायिभिरनभिभवनीयः कुशलोऽव्यसनी
शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्व-
तन्त्राश्चर्योत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिता-
होराग्रन्थार्थवेत्तेति ॥३॥
दैवज्ञों के गुण कहते हैं—पवित्र, चतुर, सभा में बोलने वाला, वाचाल, प्रतिभाशाली,
देश-काल को जानने वाला, निर्मल चित्त वाला, सभी में निर्भय, सहपाठियों से पराजय
को नहीं पाने वाला, चेष्टाओं को जानने वाला, व्यसनों से रहित, शान्तिक ( उत्पातों के
निवारणार्थ वेदोक्त मन्त्र-पाठ-विनियोग का अनुष्ठान ), पौष्टिक ( आयु, धन आदि को
बढ़ाने वाली विद्या ), अभिचार ( मारण, मोहन, उच्चाटन, विद्वेषण, वशीकरण, स्तम्भन,
चालन आदि विद्या )—इनको जानने वाला, देवपूजन्, व्रत, उपवासों में निरत, अपने
शास्त्र द्वारा आश्चर्यजनक विषय लाकर प्रभाव को बढ़ाने वाला, प्रश्नोत्तर करने वाला,
दैवात्यय ( प्राकृतिक अशुभ उत्पात ) के निवारणार्थ बिना पूछे भी शान्तिकर्म बताने
वाला और ग्रहों की गणित, संहिता, होरा—इनके ग्रन्थों के अर्थ को जानने वाला दैवज्ञ
होना चाहिए।।३।।
तत्र गुणा इति। तत्र तस्मिन् सांवत्सरे शरीरे वा गुणाः। के ते? तद्यथा शुचिः
शास्त्रोक्तशौचानुष्ठाता परस्वदेवधनाद्यलुब्धश्च। दक्षश्चतुरः शीघ्रकारी। प्रगल्भः सभायां
वक्तुं शक्तः। वाग्मी प्रशस्ता शास्त्रार्थानुसारिणी वाग्यस्य। प्रतिभानवान् प्रतिभा एव
प्रतिभानम्, तद्विद्यते यस्यासौ प्रतिभानवान्। पृष्टः सन् पौर्वापर्यं शास्त्रं स्मृत्वोत्तरं
ददातीत्यर्थः। देशकालवित् देशवित्सर्वदेशेषु व्यवहारज्ञः। मध्यदेशादिष्वार्यदेशेषु यच्चेष्टितं
तज्जानाति। कालस्वरूपज्ञः पूर्वाह्नमध्याह्नाऽपराह्नादिषु कालेषु घर्मवर्षशीतसाधारणकालेषु
चेदं क्रियते इदं न क्रियत इति जानाति। अथवा देशमानूपजाङ्गलमरुभूमीत्यादिकं
बृ० भ० प्र०-२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१८ बृहत्संहिता
हस्त्यश्वखरोष्ट्रनावादिषु मनुष्यगम्यं जानाति। कालं यात्रादाविदं योग्यमिदमयोग्यमिति
जानाति। अथवा देशविद्यथा—कश्मीरादिषु हिमप्रधानेषु बहुव्रीहिसम्भवं दृष्ट्वोत्पातं न
वक्ति मध्यदेशादौ वक्ति। कालविद्यथा—
चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु।
पत्राङ्कुरलतानां च विकाराः शिशिरे शुभाः।। इति।
सात्त्विको निर्मलचित्तः। भयहर्षशोकादिभिरनभिभवनीयः। न पर्षद्वीरुः। परिषदि सभा-
यामभीरुस्त्यक्तभयः। सहाध्यायिभिरनभिभवनीया। सह सार्द्धमध्ययनं पठनं कृतं यैस्ते सहा-
ध्यायिनस्तैः सहाध्यायिभिः समानतन्त्रैरनभिभवनीयो ज्ञेयः। कुशलः शिक्षित इङ्गितज्ञः।
अव्यसनी गीतवाद्यनृत्यस्त्रीद्यूतद्युनिद्रादिषु व्यसनेष्वसक्तः। शान्तिकपौष्टिकाभिचारस्नान-
विद्याभिज्ञः। उत्पातप्रतीकारार्थं वेदोक्तमन्त्रपाठविनियोगानुष्ठाता शान्तिकविद्याभिज्ञः। आयु-
र्धनादिवृद्धिकरणं पौष्टिकविद्या तदभिज्ञः। कृत्यावेतालोत्थापनमारणोच्चाटनविद्वेषणवशी-
करणस्तम्भनचालनादिकमभिचारविद्या तदभिज्ञः। स्नानविद्यासु नित्यनैमित्तिककाम्यक्रिया-
ङ्गस्स्वभिज्ञः। पुष्यस्नानादिषु वेत्ता। आभिमुख्येन जानातीत्यभिज्ञः। विबुधार्चनव्रतोपवास-
निरतः। विबुधा देवास्तेषामर्चनं पूजा आवाहनस्नानमाल्यानुलेपनधूपोपहारवाद्यगेयनृत्य-
स्तोत्रपाठादिका तस्यामभिज्ञः। व्रतानि कृच्छ्रपराकचान्द्रायणप्रभृतीनि। उपवासः अभोजनम्।
यथा—एकादश्यां न भुञ्जीतेत्यादि, एतेषु निरतः सक्तः। स्वतन्त्राश्चर्योत्पादितप्रभावः। स्व-
तन्त्रं ग्रहगणितं तत्रार्कचन्द्रग्रहणग्रहसमागमयुद्धानामनागताभिधायकत्वाद्यन्त्राणां कूर्ममयूर-
चापशङ्खघण्टापुरुषादीनां काष्ठादिविरचितानां स्वयमेव कालव्यञ्जकत्वाद्यदाश्चर्यं कुतूहलं
तेनोत्पादितो जनित आत्मनः प्रभाव उत्कर्षो येन। पृष्टाभिधायी परिपृष्टस्यार्थस्याभिधायको
वक्ता। नापृष्टस्य किन्त्वन्यत्र देवात्ययात्। दिव्यामन्तरिक्षभौमेषूत्पातेषु यद्भाव्यशुभं स देवात्य-
यस्तन्निवारणाय शान्त्यादिकमपृष्टेनाप्यभिधातव्यं वक्तव्यम्। ग्रहगणितसंहिताहोराग्रन्था-
र्थवेत्ता। ग्रहगणिते पञ्चसिद्धान्तिकायां संहितायां फलग्रन्थे होरायां जातकादौ ग्रन्थार्थवेत्ता
ग्रन्थज्ञोऽर्थज्ञश्च। सूत्रार्थपाठकस्तदर्थविदित्यर्थः॥३॥
अथान्यल्लक्षणमाह—
तत्र ग्रहगणिते पौलिशरोमकवासिष्ठसौरपैतामहेषु पञ्चस्वेतेषु सिद्धान्तेषु युग-
वर्षायनर्तुमासपक्षाहोरात्रयाममुहूर्तनाडीप्राणत्रुटित्रुट्यद्यवयवादिकस्य कालस्य
क्षेत्रस्य च वेत्ता ॥४॥
ग्रहगणित के प्रसंग में पौलिश, रोमक, वासिष्ठ, सौर, पैतामह—इन पाँच सिद्धान्तों में
प्रतिपादित युग, वर्ष, अयन, ऋतु, मास, पक्ष, अहोरात्र, प्रहर, मुहूर्त, घटी, पला, प्राण,
त्रुटि, त्रुटि के अवयव आदि कालों का तथा भगण, राशि, अंश, कला, विकला आदि क्षेत्रों
का ज्ञाता ज्योतिषी को होना चाहिये।
ब्राह्मस्फुट सिद्धान्त में युगों का प्रमाण—तैंतालीस लाख बीस हजार सौरवर्ष
(४३२००००) सन्ध्या सन्ध्यांशसहित चारो युग (एक महायुग) का मान है। इसके
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
सांवत्सरसूत्राध्यायः १९
दशमांश ४३२००० को चार से गुणा करने पर सन्ध्या-सन्ध्यांशसहित कृतयुग का
मान = १७२८०००, तीन से गुणा करने पर सन्ध्या-सन्ध्यांशसहित त्रेता का मान =
१२९६०००, दो से गुणा करने पर सन्ध्या-सन्ध्यांशसहित द्वापर का मान = ८६४०००
और एक से गुणा करने पर सन्ध्या-सन्ध्यांशसहित कलियुग का मान = ४३२०००
होता है।
सौरवर्ष-प्रमाण—मेष से लेकर मीनपर्यन्त जितने सायनकाल में रवि भोग करता
है, वह सौरवर्षकाल होता है। यह वर्षादि ३६५/१५/३०/२२/३० होते हैं।
अयनज्ञान-प्रमाण—मकरादि छः राशियों में यदि सूर्य हो तो उत्तरायण और कर्क
आदि छः राशियों में हो तो दक्षिणायन होता है।
मकर-कुम्भ के सूर्य में शिशिर ऋतु, मीन-मेष के सूर्य में वसन्त ऋतु, वृष-मिथुन
के सूर्य में ग्रीष्म ऋतु, कर्क-सिंह के सूर्य में वर्षा ऋतु, कन्या-तुला के सूर्य में शरत् ऋतु
और वृश्चिक-धनु के सूर्य में हेमन्त ऋतु होती है॥४॥
तत्रेति। तत्र तस्मिन् ग्रहगणिते पञ्चसिद्धान्ता भवन्ति। के ते? पौलिशरोमकवासिष्ठ-
सौरपैतामहाः, पुलिशसिद्धान्तः, रोमकसिद्धान्तः, वासिष्ठसिद्धान्तः, सूर्यसिद्धान्तः, ब्रह्म-
सिद्धान्त इति। एतेषु सिद्धान्तेषु पञ्चसु वेत्ताऽभिज्ञः। युगवर्षायनर्तुमासपक्षाहोरात्रयाम-
मुहूर्त्तनाडीविनाडीप्राणत्रुटित्रुट्याद्यवयवस्य कालस्य वेत्ता। युगानां कृतत्रेताद्वापरकलीनां
प्रमाणज्ञः। यथैतावद्भिः सौरैर्वर्षैः कृतयुगं भवति, एतावद्भिस्त्रेता, एतावद्भिर्द्वापरम्, एता-
वद्भिः कलिरिति। तद्यथा—खखखदन्ताब्धयः कलियुगपरिमाणं तदेव द्विगुणं द्वापरप्रमाणं
त्रिगुणं त्रेताप्रमाणं चतुर्गुणं कृतयुगप्रमाणं भवति। एतैः सर्वैरेकीकृत्य चतुर्युगप्रमाणं
भवति। तथा च ब्रह्मसिद्धान्ते—
खचतुष्टयरदवेदा ४३२०००० रविवर्षाणां चतुर्युगं भवति।
सन्ध्यासन्ध्यांशैः सह चत्वारि पृथक् कृतादीनि॥
युगदशभागो गुणितः कृतं चतुर्भिस्त्रिभिर्गुणस्त्रेता।
द्विगुणो द्वापरमेकेन सङ्गुणः कलियुगं भवति॥
तथा च पुलिशसिद्धान्ते दिव्येन मानेन पठ्यन्ते—
अष्टाचत्वारिंशत् पादविहीना क्रमात् कृतादीनाम्।
अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम्॥ इति।
तद्यथा—४८००। ३६००। २४००।१२००। एते दिव्येन मानेनातः षष्टिस-
मधिकशतत्रयेण गुणिता जाताः १७२८००० कृतम्। १२९६००० त्रेता। ८६४०००
द्वापरम्। ४३२००० कलिः। एवं युगानां वेत्ता।
यावता कालेनार्को द्वादशराशिकं भचक्रं मेषादिमीनान्तं भुङ्क्ते, तद्वर्षं तेन सौरवर्षप्रमा-
णेन युगसंख्यानम्। एवं रविराशिभोगो मासः। द्वादशभिर्मासैर्वर्षमिति। तथा च ब्रह्म-
सिद्धान्ते—'नृवत्सरोऽर्काब्दः' इति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA