बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 53, कुल 728 में से
संदर्भ में पढ़ेंशास्त्रोपनयनाध्यायः १३
मर्कचन्द्रसम्भक्षणं च वरमभिवरयामास। तस्मै भगवानमरगुरुः स्वयम्भूः प्रहसन्नुवाच। अति-
वरमशक्तस्त्वमेतौ जरयितुं किन्त्वेवमस्त्वित्युक्त्वाऽन्तर्हिते भगवति दिनकररजनिकरावभिदुद्राव
राहुः। ततो हरिररिविमथनं चक्रमुपरि परिक्षिप्यास्य शिरश्छित्त्वोवाच। सर्वमवितथं पितामह-
वचो भवतु स्वे स्वे युगे पर्वणि ग्रहणं कुर्वन् जगतः शुभाशुभानां कर्ता भविष्यसीति।
भौमस्य यथा—अथ भगवान् जगदादिसर्ग एव प्राक् प्रजापतिः सिसृक्षयेश्वरः करेण
क्रोधात् स्वतेजसोऽभिनिष्यन्दमग्निं तेजस एव जुहाव। अथ तदग्नितोऽवनिमुपसृतमूर्व्य-
ग्निसर्वतेजोभिः सम्भृतमुदतिष्ठद्यं प्रजापतिं प्राजापत्यं भौममिति मन्यन्ते। स स्वयम्भुवो
नियोगादृक्षचक्रमनुचरन्नशेषग्रहसामान्यचाराद्वक्रानुवक्राभ्यां चराचरं जगद्विशिष्टाविशिष्टेन
कर्मणा युनक्तीति।
बुधस्य यथा—प्रागसुरसुरसन्निपातेऽसुरगुरुमाययाभिमुह्यन्तः सुराः स्वयम्भुवमभिसङ्ग-
म्योचुः। भगवन्निद्राभिभूताः स्मः। स्वपतां नो द्विषद्भिद्यातहेतुमभिध्यायस्वेति। स्वयम्भुवा
ग्रहपतिरपां तेजः सोमोऽभिध्यायोक्तः। सुतस्ते त्रिभुवनोद्भावनविलयनगोपायनप्रजापतिर्भविता।
सकलविबुधगणान् बुधोऽभिरक्षते। ततो जगदभिगुप्त्यर्थं गतिवर्णचारमार्गास्तमनोदय-
प्रवासैर्जगतः शुभाशुभकरो भवतीति।
बृहस्पतेर्यथा—अथामरवरगुरुमधिकृत्य गुरुर्भगवान् पराशरः शिष्येणाभिनन्दितः
सुरगुरुचरितमखिलमभिप्रणम्य गुरुमेवोवाच। आदिसर्ग एव पितामहोऽङ्गिरसं मनसाभिजज्ञे।
अङ्गिरसोऽभिमुखाद् ब्रह्मधामैव त्रिभुवनगोप्ता प्रजापतिर्भगवान् बृहस्पतिरजायत। तमुत्पन्न-
मात्रमेव स त्रैलोक्याधिपतिः पिनाकभृत् सुरवरगुप्त्यर्थं वराहं वरयामास। पितामहमिव त्वां
प्रभाप्रभावर्द्धिसिद्धियोगज्ञानमन्त्रब्रह्मकर्माप्युपस्थास्यन्ति। गुरुरपि च सुराणां जगति शुभा-
शुभकारी त्वमेव भवितेति।
शुक्रस्य यथा—प्राग्भगवन्तममलतपसमनेकर्षिगणपरिवृतमशक्तदृशमपगतसंशयमुपेत्य
संशयात् कौशिकः पराशरं विनयादवोचत्। भगवन्! दितिसुतगुरुचरितमिति यदग्रे भगवानु-
वाच तत्संशयो नः कथममरवरवपुषस्तस्यात्ताः प्रजाभावाभावास्तमुवाच भगवान् पराशरः।
प्रागादिसर्गे च भगवतस्त्रिलोचनस्य शम्भो रोरूयमाणस्य पितामहो भव इति यन्नामाकरोत्-
स्यापो मूर्तिः सा भृगुकन्यका यस्यामुशना यं शुक्रं जनयामास स पुराऽयुतवर्षकेण कण-
धूम्रव्रतेन त्रिभुवनगुरुं पिनाकिनमाराध्य सकलधनपतित्वममरवरवपुः प्रज्ञाप्रभावतपःश्रुत-
तेजोऽधिकत्वमसुरगुरुमर्कवर्षनिग्रहं प्रजापतित्वं च लेभे। तस्य भगवतश्चरितमुदयास्तम-
यर्क्षमार्गवर्णवीथीमण्डलैरुपदिशन्तीति।
सौरस्य यथा—अथ भगवतः पुरा आदियुग एवातिभासुरमभितपतो विवस्वतस्तेजसाऽ-
भिव्यथ्यमानेषु भूतेषु स्वयं स्वयम्भूभगवन्तं विवस्वन्तमुवाच। अलमतितेजसा। न देव-
देवा अपि तत्तेजसः परमं बलमतिसोढुं समर्थाः। किमङ्ग पुनः प्रजाः। प्रजापतिनेत्यादिष्टो रवि-
रतितेजोनिवारणादतिक्रुद्धः स्वभावात् क्रोधमेवापत्यं जनयामास यं शनैश्चरमित्याचक्षत इति।