सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 45, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 45

शास्त्रोपनयनाध्यायः ५
स्तमस्यपां मध्ये हैमे सौवर्णेऽण्डे तैजसे तेजोमये स्वभूर्शकले यस्याण्डस्यैकं शकलमेकं
खण्डं स्वर्गो द्वितीयं भूः। तथाभूते ब्रह्मा पितामहोऽभवद् जज्ञे। कीदृशो ब्रह्मा? अर्क-
शशिनयनः। अर्क आदित्यः शशी चन्द्रः। एतौ नयने नेत्रे यस्य स विश्वकृद्विश्वस्स्रष्टा।
एतदुक्तं भवति—तमोभूतेऽस्मिन् जगति भगवानव्यक्तः प्रजासिसृक्षुरादावपः ससर्ज, तासु
च वीर्यमुदसृजत्। ततस्तदण्डं सौवर्णं सहस्रांशुसत्रिभमभवत्, तस्मिन्नभ्यन्तरे ब्रह्मा जज्ञे,
ततः स भगवांस्तत्र परिवत्सरमुषित्वा स्वयमेव ध्यानात्तदण्डं द्विधाऽकरोत्। ताभ्यां शकला-
भ्यामेकं स्वर्गो द्वितीयं भूरिति निर्ममे। स ब्रह्मा सोमसूर्यनेत्रः सर्वलोकपितामहो विश्वकृदिति
स्मृतिकाराः। तथा च भगवान्मनुः—
आसीदिदं तमोभूतमप्रज्ञातलक्षणम्।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः॥
ततः स्वयम्भूर्भगवानव्यक्तं व्यञ्जयन्निदम्।
महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः॥
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ॥
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यमवासृजत्॥
तदण्डमभवद् हैमं सहस्रांशुसमप्रभम्।
तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते॥
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्।
स्वयमेवात्मनो ध्यानात्तदण्डमकरोद् द्विधा॥
ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे।
मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम्॥ इति॥६॥
अत्रैव पक्षान्तराण्याह—
कपिलः प्रधानमाह द्रव्यादीन् कणभुगस्य विश्वस्य।
कालं कारणमेके स्वभावमपरे परे जगुः कर्म॥७॥
जगत् की उत्पत्ति के विषय में अनेक प्रमाण मिलते हैं; जैसे कि कपिल मुनि प्रधान
( मूलप्रकृति ), कणाद द्रव्य आदि पदार्थ, कोई काल, दूसरे स्वभाव और मीमांसक कार्य
को जगत् की उत्पत्ति का कारण मानते हैं॥७॥
कपिलः सांख्याचार्यो जगतः कारणं प्रधानमाह कथयति। सत्त्वरजस्तमसां त्रयाणां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA