सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 49, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 49

शास्त्रोपनयनाध्यायः ९
स्कन्धत्रयेण गणितहोराशाखाख्येनाधिष्ठितं व्याप्तम्। तत्कात्स्न्र्योपनयस्येति । तस्य
ज्योतिःशास्त्रस्य कात्स्न्र्येन निरवशेषेणोपनयः कथनं यस्मिन् शास्त्रे तच्छास्त्रं संहितेति
मुनिभिर्गर्गादिभिर्नाम सङ्कीर्त्यते कथ्यते। तथा च भगवान् गर्गः—
गणितं जातकं शाखां यो वेत्ति द्विजपुङ्गवः। त्रिस्कन्धज्ञो विनिर्दिष्टः संहितापारगश्च सः।।
स्कन्धेऽस्मिन्निति । अस्मिन् ज्योतिःशास्त्रे ग्रहाणामादित्यादीनां या गतिर्गमनं प्रति-
राशौ सञ्चरणं सा येन ज्ञायते तद् गणितं तस्य च तन्त्रमिति संज्ञा। असौ गणितस्कन्ध-
स्तन्त्राभिधानः। होराऽन्योऽङ्गविनिश्चयश्च कथित इति । प्रतिष्ठायात्राविवाहादीनां लग्न-
ग्रहवशेन च शुभाशुभफलं जगति यया निश्चीयते सा होरा। अन्यो द्वितीयोऽङ्गविनिश्चयः।
होराख्यः कथित इति। होरास्कन्धो द्वितीयः। स्कन्धस्तृतीयोऽपर इति । अपरस्तृतीयोऽयं
स्कन्धो वक्ष्यमाणः शाखाख्य इति।।९।।
अथ स्कन्धत्रयविभागमाह—
वक्रानुवक्रास्तमयोदयाद्यास्ताराग्रहाणां करणे मयोक्ताः ।
होरागतं विस्तरशश्च जन्म यात्राविवाहैः सह पूर्वमुक्तम् ।।१०।।
मैंने करण ग्रन्थ (पञ्चसिद्धान्तिका) में ताराग्रहों (भौमादि पञ्च ग्रहों) के वक्र,
मार्ग, उदय आदि का वर्णन किया है तथा होरा (बृहज्जातक, बृहद्विवाहपटल आदि)
ग्रन्थों में जन्म, यात्रा, विवाह आदि का विस्तारपूर्वक वर्णन किया है।।१०।।
ताराग्रहा भौमादयस्तेषां वक्रं प्रतीपगमनम्। यथा भौमादिको ग्रहो मेषस्थो मीनं याति
स प्रतीपगतित्वाद्वक्रित इत्युच्यते। अनुवक्रं स्पष्टगतित्वम्। वक्रां गतिं त्यक्त्वा पुनः
स्पष्टां गतिमाश्रितोऽनुवक्रित इत्युच्यते। अस्तमयस्तेषामेव ग्रहाणां सूर्यवशेन भवति। यः
कश्चिच्चन्द्रादिको ग्रहः सूर्यसमीपवर्ती भवति स च रविकरनिकराभिभूतो गगने लोका-
नामालोकं नायाति तदास्तमित इत्युच्यते। तथा च स एव ग्रह आदित्यमण्डलाद्विप्रकृष्टो
यदा भवति तदा नभसि दृश्यते स चोदित इत्युच्यते। एवं वक्राऽनुवक्रास्तमयोदयाद्यास्तारा-
ग्रहाणाम्। आदिग्रहणात् परस्परं ग्रहाणां युद्धं चन्द्रेण नक्षत्रैश्च सह समागमो ज्ञेयः। एतदप्युप-
लक्षणार्थम्। मध्यगतिस्थितिनक्षत्रच्छेदः स्फुटगतिस्त्रिप्रश्नश्चन्द्रार्कग्रहणे उदयास्तमयौ शृङ्गोन्नतिः
समागमस्ताराग्रहसंयोग इत्येते मया करणे पञ्चसिद्धान्तिकायामुक्ताः कथिताः सर्व एव।
तथा होरागतं विस्तरशश्च जन्मेति । विस्तरशो विस्तरेण प्रदर्शनेन जन्म जातकं होरागतं
होराशास्त्रसम्बन्धी यात्राविवाहैः सह पूर्वमादावेवोक्तं कथितम्। एतदुक्तं भवति—बृहज्जातकं
बृहद्यात्रा बृहद्विवाहपटलं च मयादावेव विरचितमिति।।१०।।
अथात्र वक्ष्यमाणे स्कन्धेऽनुपयोगिकं त्यक्त्वा यत्सारं तद्वक्ष्यामीत्येतदाह—
प्रश्नप्रतिप्रश्नकथाप्रसङ्गान् स्वल्पोपयोगान् ग्रहसम्भवांश्च ।
सन्त्यज्य फल्गूनि च सारभूतं भूतार्थमर्थैः सकलैः प्रवक्ष्ये ।।११।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शास्त्रोपनयनाध्यायः प्रथमः।।१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA