बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 57, कुल 728 में से
संदर्भ में पढ़ेंसांवत्सरसूत्राध्यायः १७
हस्तोरुजानुगुल्फपादेषु सन्धयो यस्य। अविकलोऽव्यङ्गः परिपूर्णावयवः। चारुकरचरण-
नखनयनचिबुकदशनश्रवणललाटभ्रूत्तमाङ्गः। करौ हस्तौ। चरणौ पादौ। नखाः कररुहाः।
नयने चक्षुषी। चिबुकमधराधोभागः। दशना दन्ताः। श्रवणौ कर्णौ। ललाटं मुखपृष्ठभागः।
भ्रुवौ नयनोपरि रोमलेखे। उत्तमाङ्गं शिरः। एतानि चारूणि दर्शनीयानि यस्य। प्रशस्त-
लक्षणयुक्तानीत्यर्थः। वपुष्मान् वपुः शरीरं शोभनं विद्यते यस्य। रूपवानित्यर्थः। गम्भीरो-
दात्तघोषः गम्भीरः सानुनाद उदात्त उद्भटो घोषः शब्दो यस्य। मेघमृदङ्गसमध्वनिरित्यर्थः।
हि यस्मादर्थे। प्रायो बाहुल्येन शरीराकारानुवर्तिनः। शरीरस्याकारः शरीराकारस्तमनुवर्तन्ते
शरीराकारानुवर्तिनः। के ते गुणा दोषाश्च भवन्ति। शरीरस्य सादृश्यं गुणा दोषाश्चानुवर्तन्ते।
निर्दोषं शरीरं गुणा अनुवर्तन्ते। सदोषं शरीरं दोषाश्चानुवर्तन्त इति। तथा चोक्तम्—
‘यत्राकृतिस्तत्र गुणा भवन्ति’ इति।।२।।
अथ गुणानाह—
तत्र गुणाः—शुचिर्दक्षः प्रगल्भो वाग्मी प्रतिभानवान् देशकालवित्
सात्त्विको न पर्षद्वीरुः सहाध्यायिभिरनभिभवनीयः कुशलोऽव्यसनी
शान्तिकपौष्टिकाभिचारस्नानविद्याभिज्ञो विबुधार्चनव्रतोपवासनिरतः स्व-
तन्त्राश्चर्योत्पादितप्रभावः पृष्टाभिधाय्यन्यत्र दैवात्ययाद् ग्रहगणितसंहिता-
होराग्रन्थार्थवेत्तेति ॥३॥
दैवज्ञों के गुण कहते हैं—पवित्र, चतुर, सभा में बोलने वाला, वाचाल, प्रतिभाशाली,
देश-काल को जानने वाला, निर्मल चित्त वाला, सभी में निर्भय, सहपाठियों से पराजय
को नहीं पाने वाला, चेष्टाओं को जानने वाला, व्यसनों से रहित, शान्तिक ( उत्पातों के
निवारणार्थ वेदोक्त मन्त्र-पाठ-विनियोग का अनुष्ठान ), पौष्टिक ( आयु, धन आदि को
बढ़ाने वाली विद्या ), अभिचार ( मारण, मोहन, उच्चाटन, विद्वेषण, वशीकरण, स्तम्भन,
चालन आदि विद्या )—इनको जानने वाला, देवपूजन्, व्रत, उपवासों में निरत, अपने
शास्त्र द्वारा आश्चर्यजनक विषय लाकर प्रभाव को बढ़ाने वाला, प्रश्नोत्तर करने वाला,
दैवात्यय ( प्राकृतिक अशुभ उत्पात ) के निवारणार्थ बिना पूछे भी शान्तिकर्म बताने
वाला और ग्रहों की गणित, संहिता, होरा—इनके ग्रन्थों के अर्थ को जानने वाला दैवज्ञ
होना चाहिए।।३।।
तत्र गुणा इति। तत्र तस्मिन् सांवत्सरे शरीरे वा गुणाः। के ते? तद्यथा शुचिः
शास्त्रोक्तशौचानुष्ठाता परस्वदेवधनाद्यलुब्धश्च। दक्षश्चतुरः शीघ्रकारी। प्रगल्भः सभायां
वक्तुं शक्तः। वाग्मी प्रशस्ता शास्त्रार्थानुसारिणी वाग्यस्य। प्रतिभानवान् प्रतिभा एव
प्रतिभानम्, तद्विद्यते यस्यासौ प्रतिभानवान्। पृष्टः सन् पौर्वापर्यं शास्त्रं स्मृत्वोत्तरं
ददातीत्यर्थः। देशकालवित् देशवित्सर्वदेशेषु व्यवहारज्ञः। मध्यदेशादिष्वार्यदेशेषु यच्चेष्टितं
तज्जानाति। कालस्वरूपज्ञः पूर्वाह्नमध्याह्नाऽपराह्नादिषु कालेषु घर्मवर्षशीतसाधारणकालेषु
चेदं क्रियते इदं न क्रियत इति जानाति। अथवा देशमानूपजाङ्गलमरुभूमीत्यादिकं
बृ० भ० प्र०-२
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA