सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 52, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 52

यामास। न हि वेदमन्त्रकर्मणां यथावत्प्रयुक्तानां किञ्चिदप्यसाध्यं पश्यामस्तेषां शुद्धाशुद्ध-
मन्त्राचार्यप्रतिग्रहीतृदेशकालकरणद्रव्यसाधनसामग्र्यम्। इतरथा हि मिथ्या हीनमन्त्रप्रयोगा
यजमानस्यैवाभिचाराय भवन्ति। पुरा खलु सुराधिपत्यमाजिहीर्षुरतिप्रवृद्धवीर्योत्सेकाद्वृत्रः
पुरन्दरमभिचचार। अथैनं कर्मविधिसमाप्ताविन्द्रशत्रुवृद्धिवचनसुरापराधिनमिन्द्र एव शत्रु-
मभिवृद्धो वृत्रमभिजघान। एवमनियतकर्मारम्भाः शतशः सुरा विलयं जग्मुः। अतो विधिहीन-
कर्मारम्भादनारम्भ एव श्रेयान्। तत्राऽभिचारकर्माऽथर्ववेदमन्त्रोपदिष्टैरुपकल्पयेदित्यादि।
एवमादिकाः प्रश्नाः प्रतिप्रश्नाः कथाप्रसङ्गाः स्वल्पोपयोगाः प्रायो न कुत्रचिदुपयुज्यन्ते।
आचार्येण यद्यपि रोहिणीयोगादिष्वीषत्कथाप्रसङ्गः प्रदर्शितस्तथापि न दोषः। यत आचार्येण
सहृदयहृदयाह्लादकं शास्त्रं कृतं तावन्मात्रेण तेषां चित्तरञ्जनं भवति।
तथा ग्रहसम्भवांश्चेति। ग्रहाणामादित्यादीनां सम्भवा उत्पत्तयः। कुतः सूर्यादय
उत्पन्ना इति। तथा च भगवान् पराशरः—
'हिमवति हिमावदातेऽवनिधरवरशिखरविपरिवर्तितमिव विवस्वन्तं भगवन्तं
पराशरमभिसङ्गम्य विनयावनतः कौशिकोऽभ्युवाच— भगवन् ! सर्वात्मा कालगतिविधाता
सूर्यस्तस्य चरितमभिशुश्रूषामहे। द्वादश च श्रूयन्ते। एक एव तपन् दृश्यते। शीतोष्णवर्षा-
भ्रानिलानां कथमस्मात् प्रादुर्भावः। कथं चर्त्तवस्तन्मानमनुवर्तते। मार्गप्रमाणवर्णसंस्थानादि
शुभाशुभफलमखिलमभिव्याहर्तुमर्हसी'ति।
तमुवाच भगवान् पराशरः—पुरा खल्वपरिमितशक्तिप्रभाववीर्यायुरारोग्यसुखैश्वर्यधर्म-
सत्त्वशुद्धतेजसः पुरुषा बभूवुः। तेषां क्रमादपचीयमानसत्त्वानामुपचीयमानरजस्तमस्कानां
लोभः प्रादुरभवत्। लोभात् परिग्रहं परिग्रहाद् गौरवं गौरवाद्धालस्यमालस्यात्तेजोऽन्तर्दधे।
अथ भगवान् परमर्षिरचिन्त्यः पुरुषो नारायणः स्ववेद्यमाद्यमात्मानं द्वादशधा कश्यपाददिते-
र्जनयामास। येनानन्तं पुनर्जगदभवत्। यान् द्वादशादित्यानाचक्षते। इन्द्रो विष्णुर्विवस्वा-
न्मित्रोऽंशुमान् धाता त्वष्टा पूषा वरुणोऽर्यमा भगः सवितेति। अथ सवितारं पितामहोऽतितुष्टाव
वराहं चैनं वरयाञ्चकार। यथा द्वादशादित्येभ्यस्त्वामुपस्थास्यतीति। मत्तो योगस्तेजो रुद्रात्
स्वयमग्नीषोमौ वायुरमृतं मर्त्यं चेति। चन्द्रस्य पराशरमुनिना सम्भवो नोक्तः।
राहोर्यथा—अथ भगवन्तमनिलेबलसमीरितप्रोद्धतहूतवहप्रभाभासुरमवितथदर्शनमु-
दासीनमाश्रमस्थमभिसंक्रम्य कौशिको विनयात् पराशरमुवाच—भगवन् ! सकलभुवन-
विलयोद्भवस्थितिकरणौ कथमुपरज्येते सूर्याचन्द्रमसौ गृह्णाति को वा ग्रहो ग्रहणप्रयोजनं
फलं वा किमस्य ग्रहणे नियतमनियतं चेति।
तमुवाच भगवान् पराशरः—पुरा पुरुहूतपितरं कश्यपमपत्यार्थमकाले सिंहिका
अभियाचयामास। तस्यै मुनिरकालयाञ्चाकोपाद्दारुणं यमकालान्तकोपमं सुतमदात्। यं
राहुरित्याचक्षते कुशलाः। स जातमात्र एवाऽदितिसुतसङ्गरावमर्दादनु विमुखीकृतः क्रोधा-
द्धिमवति दिव्यमत्युग्रमयुतं वर्षाणां तपोऽतप्यत। स पितामहाद्दिवि चरणममरतां सुरविजय-