बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 42, कुल 728 में से
संदर्भ में पढ़ें२ बृहत्संहिता
शास्त्रमुपेयं ज्ञानम्। अथवा आब्रह्मादिविनिःसृतं वेदाङ्गममिति सम्बन्धः। अनेन शास्त्रेण च
यद्ग्रहनक्षत्रोत्थानां शुभाशुभानां दिव्वान्तरिक्षभौमानामुत्पातानां फलज्ञानं तदभिधेयम्।
जगतः शुभाशुभकथनं प्रयोजनं सम्यग्ज्ञानान्मोक्षावाप्तिरिति च प्रयोजनम्। किमेभिरुक्तै-
रित्यत्रोच्यते—श्रोतॄणां सम्बन्धाभिधेयप्रयोजनकथनाच्छास्त्रविषये श्रद्धा जायत इति। तथा
चोक्तमत्रार्थे—
सिद्धिः श्रोतॄप्रभृतीनां सम्बन्धकथनाद्यतः।
तस्मात् सर्वेषु शास्त्रेषु सम्बन्धः पूर्वमुच्यते।।
किमेवात्राभिधेयं स्यादिति पृष्टस्तु केनचित्।
यदि न प्रोच्यते तस्मै फलशून्यं तु तद्भवेत्।।
सर्वस्यैव हि शास्त्रस्य कर्मणो वापि कस्यचित्।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते।।
तस्मात् सम्बन्धाभिधेयप्रयोजनानि वक्तव्यानि। कस्याऽस्मिन् शास्त्रेऽधिकार इत्युच्यते—
द्विजस्यैव। यतस्तेन षडङ्गो वेदोऽध्येतव्यो ज्ञातव्यश्च। कानि तान्यङ्गानीत्युच्यते—
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं गतिः।
छन्दसां लक्षणं चैव षडङ्गो वेद उच्यते।।
सतामयमाचारो यच्छास्त्रप्रारम्भेष्वभिमतदेवतानमस्कारं कुर्वन्ति। तदयमप्यावन्तिकाचार्य-
मगधद्विजवराहमिहिरोऽर्कलब्धवरप्रसादो ज्योतिःशास्त्रसंग्रहकृद् गणितस्कन्धहोरास्कन्धौ
संक्षिप्तौ कृत्वा संहितास्कन्धं संक्षिप्तं चिकीर्षुरशेषविघ्नोपशान्तये भगवन्तं तत्प्रधानं सूर्य-
मादावेव प्रणनाम—जयतीति।
भगवान् सविता श्रीसूर्यो जयति सर्वोत्कर्षेण वर्तते। कीदृशः ? जगतः प्रसूतिः।
प्रसूयते उत्पद्यतेऽस्माज्जगदिति जगतः प्रसूतिः। यतस्तद्वशाद् वृष्टेः सम्भवस्ततोऽन्नं
ततः प्रजा इति। तथा च भगवान्मनुः—
अग्नौ हुताहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा।। इति।
विश्वात्मा विश्वस्य जङ्गमस्य स्थावररूपस्य चात्मा प्राणरूपेण हृदयान्तरस्थितः।
तथा च श्रुतिः—'सूर्य आत्मा जगतस्तस्थुषश्चे'ति।
जगतो जङ्गमस्य तस्थुषः स्थावरस्य सूर्य एवात्मा। सहजभूषणं नभसः। नभस आका-
शस्य सहजभूषणमकृत्रिममलङ्करणम्। यतो दृश्याकाशभागस्थेऽर्के सुतरां तस्य विराजनात्
सहजं भूषणम्। द्रुतकनकसदृशेति। द्रुतं गलितं कनकं सुवर्णं द्रुतकनकस्य सदृशास्तत्तुल्या
दशशतसंख्या ये मयूखाः किरणास्तेषां या माला प्रचयस्तयार्चितो व्याप्त इति। एवमिष्ट-
देवतासङ्कीर्तनात् कायवाङ्मनोभिः प्राधान्याद्धर्मः, धर्मेण चाधर्मनिवृत्तिः, तन्निवृत्तौ विघ्नो-
पशमस्तदुपशमादविघ्नेन शास्त्रपरिसमाप्तिरिति ।।१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA