बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 47, कुल 728 में से
संदर्भ में पढ़ें[header] शास्त्रोपनयनाध्यायः ७
तद्यथा—आकाशावाय्वग्निजलपृथिव्याख्यानि पञ्च महाभूतानि। आत्मा मनः कालो दिक्
चेति। तथा च तद्वाक्यम्—
खादीन्यात्मा मनः कालो दिशश्च द्रव्यसंग्रहः। इति।
द्रव्याश्रिताश्चतुर्विंशतिर्गुणाः। के ते? उच्यन्ते। तत्रात्मगुणा नव विशेषगुणाः। तद्यथा—
बुद्धिरिच्छा सुखं दुःखं प्रयत्नः संस्कारः पुण्यं पापं द्वेषश्चेति। तथा च—
'बुद्धीच्छासुखदुःखप्रयत्नसंस्कारपुण्यपापानि। द्वेषश्चे'ति।
नवामी गुणास्त्वनित्याः सुखदुःखादिभुजां कदाचिद् भवन्ति कदाचिन्न भवन्ति।
एते विशेषगुणाः। महाभूतानां खादीनां पञ्च यथाक्रमं शब्दादयो गुणाः समाश्रिताः। तथा
संख्या परिमाणं पृथक्त्वं संयोगविभागौ परत्वापरत्वे स्नेहो द्रवत्वं गुरुत्वं च। एते चतु-
र्विंशतिर्गुणाः। पञ्चविधं कर्म। उत्क्षेपणमधिक़्षेपणमाकुञ्चनं प्रसारणं गमनं चेति। सामान्यं
जातिः। सा च द्विविधा परमपरं च। सामान्यं परं सत्ताख्यं महाविषयत्वात्। यतो द्रव्या-
दयस्त्रयः पदार्थाः सत्तया व्याप्ताः। अपरं द्रव्यगुणकर्मत्वादि। नित्यद्रव्यवृत्तय उक्ता विशेषाः।
नित्यानि द्रव्याण्यात्माकाशपरमाणुप्रभृतीनि। अपृथक्सिद्धानामाधाराधेयभावः सम्बन्धः
समवाय इति। एतेषां षण्णां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसस्य मोक्षस्य
हेतुः। साधर्म्यं सादृश्यं वैधर्म्यं वैलक्षण्यं भेदो विशेष इति साधर्म्यवैधर्म्यज्ञानमवबोधो
निःश्रेयसस्य मोक्षस्य हेतुः। एवमेते द्व्यणुकादिक्रमेण कार्यं निर्वर्तयन्ति। चतुर्विधाः परमा-
णवः क्षितिजलाग्निवायूनाम्। द्वाभ्यां परमाणुभ्यां द्व्यणुकमारभ्यते त्रिभिः परमाणुभिस्त्र्यणु-
कमारभ्यत इति क्रमेण स्थूलकार्यस्य द्रव्यस्योत्पत्तिः। एवं जगत्सम्भवः।
कालं कारणमेक इति च। केऽपि कालकारणिकाः पौराणिकाः कालं कारण-
माहुरुक्तवन्तः। कालस्य लक्षणम्—
नित्यमेकं विभुं द्रव्यं परिमाणं क्रियावताम्।
व्यापारव्यतिरेकेण कालमेके प्रचक्षते॥
आदित्यग्रहतारादिपरिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः।। इति।
एवं जगतः कालः कारणं प्रजाः सृजति स एव संहरति। तथा च तद्वाक्यम्—
कालः सृजति भूतानि कालः संहरति प्रजाः।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।। इति।
यथा कालेन बलिरिन्द्रः कृतः कालेन ततो निवर्तितः काल एव पुनरेवं कर्तेति।
स्वभावमपर इति। अपरे अन्ये लौकायतिक़ाः स्वभावं जगतः कारणमाहुः।
स्वभावादेव जगद्विचित्रमुत्पद्यते स्वभावतो विलयं याति। तथा च तद्वाक्यम्—
कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च।
माधुर्यमिक्षोः कटुतां च निम्बे स्वभावतः सर्वमिदं प्रवृत्तम्।। इति।