बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 56, कुल 728 में से
संदर्भ में पढ़ेंअथ सांवत्सरसूत्राध्यायः
एवं स्वशास्त्रस्य स्वरूपप्रदर्शनेनोत्कर्षं प्रदर्श्याधुना कीदृग् ज्योतिःशास्त्रेऽधिकारीत्य-
तोऽधिकारिस्वरूपं प्रदर्शयितुमाह—
अथातः सांवत्सरसूत्रं व्याख्यास्यामः ॥१॥
इसके बाद इस अध्याय में सांवत्सरसूत्र (ज्योतिषी का लक्षण) कहते हैं ॥१॥
अथात इत्ययं समुदायः। अथातोऽस्माच्छास्त्रोपनयनादनन्तरं सांवत्सरसूत्रं
व्याख्यास्यामः कथयिष्यामः। अथवाऽथशब्दो मङ्गलार्थः। अतोऽस्माच्छास्त्रोपनयनादनन्तरं
सांवत्सरसूत्रं विविधैरथैंरा शास्त्रपरिसमाप्तेर्व्याख्यास्यामः कथयिष्यामः। संवत्सरं वेत्ति
सांवत्सरः। सूच्यते अर्थो येन तत्सूत्रं सांवत्सरसूत्रमित्यर्थः ॥१॥
तच्चाह—
तत्र सांवत्सरोऽभिजातः प्रियदर्शनो विनीतवेषः सत्यवागनसूयकः समः
सुसंहितोपचितगात्रसन्धिरविकलश्चारुकरचरणनखनयनचिबुकदशन-
श्रवणललाटभ्रूत्तमाङ्गो वपुष्मान् गभीरोदात्तघोषः। प्रायः शरीरकारानु-
वर्तिनो हि गुणा दोषाश्च भवन्ति ॥२॥
कुलीन, देखने में प्रिय, नम्र, सत्यवादी, दूसरे के गुणों में दोष नहीं निकालने वाला,
राग-द्वेष से रहित, दृढ़ और पुष्ट शारीरिक सन्धि वाला, सर्वाङ्गपूर्ण, श्रेष्ठ लक्षणों से युक्त
हाथ, पैर, नाखून, आँख, ठोढ़ी, दाँत, कान, मस्तक और शिर वाला, सुन्दर तथा बोलने में
गम्भीर और उदात्त ज्योतिषी होना चाहिये; क्योंकि शरीर की आकृति के अनुरूप ही दोष-
गुण होते हैं ॥२॥
तत्र सांवत्सर इति । तत्र तस्मिन् ज्योतिःशास्त्रे सांवत्सरो दैवज्ञः कीदृशः। संवत्सरो
वर्षं तत्र शुभाशुभज्ञानार्थं यः कृतो ग्रन्थः स सांवत्सरस्तमधीते वेद वा यः सोऽपि सांव-
त्सरः। स चाभिजातः कुलीनः सांवत्सरकुलप्रसूत इति केचित्। यदि तत्कुलेऽपि जातो
वक्ष्यमाणगुणलक्षणयुक्तो न भवति तत्किं तेन। तस्मात् सांवत्सरकुले निरवद्ये जातेना-
ऽन्यस्मिन् प्रधानकुले वा सांवत्सरकुलाच्च येन विद्या सागमा अधीता सोऽत्राभिजातो
विवक्षितः। प्रियदर्शनो दृश्यमानः सुखजनको विनीतवेष उद्भटो वेषः शरीरालङ्करणं
यस्य। आचार्येणान्यत्राप्युक्तम्—'सांवत्सरस्तस्य विनीतवेषः' इति।
सत्यवाक् अवितथभाषी। अनसूयकः अनिन्दकः। गुणेषु दोषाविष्करणमसूया।
असूया कुत्सा। न असूयकोऽनसूयकः। समो रागद्वेषरहितः। शत्रौ मित्रे च तुल्यस्नेह
इत्यर्थः। सुसंहतोपचितगात्रसन्धिः सुसंहता अतिसंलग्ना उपचिता मांसला गात्रेषु बाहु-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA