सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 54, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 54

[Page 14]

१४ | बृहत्संहिता

अगस्त्यस्य यथा—अथ भगवन्तममितयशसं पराशरं कौशिकोऽभ्युवाच। भगवन् !
याम्यायां दिशि ज्योतिष्मद्ग्रहरूपमुदितमालक्ष्यते नक्षत्रग्रहमार्गव्युत्क्रान्तचरितं न वेद्मि।
किं तत्किमर्थं वा प्राचीं दिशमपहाय दक्षिणेन प्रावृट्कालान्तोदितं शरत्कालान्तोदितं वा
कतिपयाहान्यदृश्यं भवति। तन्नो भगवन् ! वक्तुमर्हसीत्येवमुक्तो भगवानुवाच—श्रुतपूर्वस्ते
पृथिव्यां मेरुमन्दरातिरिक्तप्रभावः शैलराड् विन्ध्यो नाम। स स्ववीर्यबलसमुच्छ्रायविशेष-
मन्विष्यमाणो दिव्यं वर्षसहस्रमुग्रं तपस्तेपे। स पितामहादन्यहनीषुपातप्रमाणमुच्छ्रायेण
वर्द्धस्वेतीप्सितं वरं लेभे। तस्यातिवृद्ध्या दिवसकर आवृत्तस्तेनान्धमिव जगदभवत्।
ततो देवर्षिगन्धर्वोरगयक्षरक्षांसि पितामहमभिजग्मुः। भगवन् ! विन्ध्यवृद्ध्या जगदवसीदत
इत्यूचुः। ततः स्वयम्भुवा अगस्त्यनामा महर्षिरनेकवर्षसहस्रसम्भृततया ध्यात उक्तश्च।
त्वमेकः शक्तो विन्ध्यातिवृद्धिनिवर्तनं कर्तुं कृते चास्मिन् कर्मणि नभसि विराजिष्यसे।
दर्शनादेव ते जगति सर्वविघ्नविनाशो भविष्यति। एवमस्त्विति कृत्वा महर्षिरगमद्विन्ध्य-
सकाशम्। उवाचैनमनन्तरं मे प्रयच्छ तीर्थयात्रां करिष्यामि। अनागते च मयि त्वया न
वर्द्धितव्यम्। इत्येवमुपश्रुत्य तपःप्रभावविस्तरस्याभिज्ञो महर्षेर्विन्ध्याचलश्चलच्छिखरपादो
भयविषाद्विकलमतिरुवाच। भगवन् ! बृहदसङ्कीर्णमविषममनेकतरुगणोदकमेकदेश-
मार्गमायोजयिष्यामि येन भगवान् यास्यतीत्येवमुक्तो महर्षिश्चुकोप। क्रोधरक्तान्तनेत्रोऽवदत्।
ममाज्ञाक्षोभात् कदाचित् सर्वथैव न भविष्यसीति। ततः शैलस्तत्प्रभावभयभीतः स्वभाव-
मुपगतोऽनागते भगवति न वृद्धिं यास्यामीति। ततो महर्षिर्दक्षिणां दिशमगमत्। स एषो-
ऽगस्त्यः शैलवृद्धिव्याघातनिमित्तं न प्रत्येति दक्षिणस्यामुदेति तस्यामेवास्तं गच्छतीति।
केतोः केतुचारोक्ता एवोत्पत्तिः। तथा च भगवान् गर्गः—
जातस्तूशनसः शुक्रः सूर्यपुत्रः शनैश्चरः।
पुत्रः सोमस्य तु बुधो भूमेरङ्गारकः स्मृतः।।
पुत्रमङ्गिरसः प्राहुर्बृहद्वाक्यं बृहस्पतिम्।
राहुः स्वर्भानुपुत्रः स्यात् पुत्रः केतुर्विभावसोः।।
मनसा ब्रह्मणा ख्यातावुभौ सोमदिवाकरौ। इति।
ग्रहसम्भवानेतानपि स्वल्पोपयोगान् सन्त्यज्य त्यक्त्वा। तथा अन्यान्यपि फल्गून्यसाराणि
यान्ययुक्तिमद्भिर्गणितगोलबाह्यैर्विरुद्धान्यभिहितानि। यथा भुवनप्रविभागे भूमेर्महाप्रमाणत्वं
दर्पणोदराकारतां च कथयन्ति। मेरोश्च महाप्रमाणं वृत्तत्वं तत्पृष्ठासक्तो ध्रुवश्च ग्रहनक्षत्राणि
चावलम्बमानानि। तथा च भगवान् पराशरः—
सप्तषष्टिसहस्राण्यशीतियोजनकोट्यो भूर्यत्पृथिवीमण्डलं परमस्मादगम्यं तमः। तन्मध्ये
हिरण्मयो मेरुश्चतुरशीतियोजनसहस्रोच्छ्रितः षोडश चाधस्तात् त्रिगुणविस्तारायामो यं
स्वर्गमाचक्षते। तन्मध्येनार्कचन्द्रौ ज्योतिश्चक्रं च पर्येति। तथा च—
मेरोरर्धविभागे सूर्यश्चन्द्रो द्वितीयके त्वतटे।
ग्रहनक्षत्रतारकासहितौ द्वौ कृतैककालविभागौ।।