बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
ग्रहयुद्धाध्यायः २९९
अथ जयिनो लक्षणमाह—
उक्तविपरीतलक्षणसम्पन्नो जयगतो विनिर्देश्यः।
विपुलः स्निग्धो द्युतिमान् दक्षिणदिक्स्थोऽपि जययुक्तः ॥१०॥
पूर्वोक्त लक्षण से विपरीत लक्षणयुत (उत्तर दिशा में स्थित, स्निग्ध, कम्पन से
रहित, दूसरे ग्रह को प्राप्त करने वाला, ऊपर में स्थित और तेजस्वी) हो तथा दक्षिण में
स्थित होने पर भी यदि विपुल, निर्मल, कान्तियुत बिम्ब वाला ग्रह हो तो विजयी होता है।
दक्षिणदिक्स्थः परुष इत्यादिना ग्रन्थेन यल्लक्षणमुक्तं तस्माद्विपरीतलक्षणसम्पन्नः।
तद्यथोत्तरदिक्स्थः स्निग्धोऽवेपथुः सम्यक्प्राप्तो विपुल उपरिस्थितः। अविकृतस्तेजस्वी
स जययुक्तः। तथा च गर्गः—
द्युतिमान् रश्मिसम्पन्नः प्रसन्नो रजतप्रभः।
बृहद्रूपधरश्चैव यः समेत्य ग्रहो भवेत्॥
प्रभावर्णाधिको यश्च ग्रहमावृत्य तिष्ठति।
तादृशं जयिनं विन्द्याद् ग्रहं ग्रहसमागमे॥
एवंविधो ग्रहो जयगतो विनिर्देश्यो वक्तव्यः। तथा यो विपुलो बृहद्विम्बः। स्निग्धो
निर्मलः। द्युतिमान् कान्तियुक्तः। स दक्षिणस्यां दिशि स्थितोऽपि जययुक्त इति। एतत्
शुक्रस्य प्रायः सम्भवति। तथा च पुलिशाचार्यः—
सर्वे जयिन उदक्स्था दक्षिणदिक्स्थो जयो शुक्रः।। इति।।१०।।
अन्यदप्याह—
द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः।
तत्रान्योन्यं प्रीतिर्विपरीतावात्मपक्षघ्नौ ॥११॥
यदि समागम-समय में दोनों ग्रह किरणयुक्त, विपुल या स्निग्ध हों तो दोनों ग्रहों के
वर्गों में प्रीति और विपरीत हों तो अपने-अपने पक्षों का नाश करते हैं।।११।।
द्वावपि ग्रहौ मयूखयुक्तौ रश्मिजालेन महता संयुक्तौ। विपुलौ विस्तीर्णौ। स्निग्धौ
निर्मलौ। यदि समागमे संयोगे भवतः। तत्र तस्मिन् समागमे। अन्योन्यं परस्परं प्रीतिस्थौ
ग्रहौ येषामुक्तौ रविराक्रन्दो मध्य इत्यनेन तेषां प्रीतिर्मैत्री भवति। तावेव ग्रहौ विपरीतौ रश्मि-
रहितौ। अल्पौ रूक्षौ। यदि समागमे भवतस्तदात्मीयपक्षघ्नौ स्वं-स्वं पक्षं हतः।।११।।
अत्रापि विशेषमाह—
युद्धं समागमे वा यद्यव्यक्तौ स्वलक्षणैर्भवतः।
भुवि भूभूतामपि तथा फलमव्यक्तं विनिर्देश्यम् ॥१२॥
युद्ध (भौम आदि ग्रहों का परस्पर युद्ध) और समागम (चन्द्र के साथ सम्मेलन)
यदि अपने-अपने उक्त लक्षणों से अव्यक्त (अप्रकाशित) हो (जैसे युद्ध में कौन ग्रह
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
३०० बृहत्संहिता
विजयी और कौन ग्रह पराजित है—इसका ज्ञान न होता हो ) तथा समागम में ग्रह से
चन्द्रमा न उत्तर न दक्षिण; किन्तु मध्य में होकर गमन करता हो, तो पृथ्वी पर राजाओं को
भी अव्यक्त (सन्दिग्धात्मक) फल कहना चाहिये ।। १२ ।।
युद्धं ताराग्रहाणां भौमादीनां परस्परम्। समागम एषामेव चन्द्रमसा सह। युद्धं
समागमो वा यदि स्वलक्षणैर्युद्धसमागमोक्तैरव्यक्तावलक्ष्यौ भवतः। युद्धमात्रं जयपराजय-
रहितमित्यर्थः। यथा द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ विपरीतलक्षणस्थितौ वा तत्र
न ज्ञायते को जितः कश्च जयी। समागमे ग्रहाणां चन्द्रे ग्रहादुत्तरगते दक्षिणदिग्गते वा
यच्छुभाशुभफलमुक्तं तन्न यद्यव्यक्तः समागमो भवति। एतदुक्तं भवति—ग्रहाच्चन्द्रो नोत्तरेण
न च दक्षिणेन वा याति मध्येन गमनं करोति तदा तत्र भेदफलं वक्तव्यं न समागमोक्तं
फलं तदव्यक्तं समागमस्य। तथा तेनैव प्रकारेण भूमौ भूभृतां राज्ञामव्यक्तमलक्षमेव फलं
विनिर्देश्यं वक्तव्यम्। जये सत्यव्यक्तो जय आदेश्यः। पराजये पराजयः। एवं चन्द्रस्योत्तर-
गमनेन शुभं फलं वक्तव्यम्। दक्षिणेनाशुभं मध्येन मध्यफलमिति ।। १२ ।।
अथ भौमस्य सर्वग्रहविजितस्य फलमाह—
गुरुणा जितेऽवनिसुते बाह्लीका यायिनोऽग्निवार्ताश्च।
शशिजेन शूरसेनाः कलिङ्गशाल्वाश्च पीड्यन्ते ।। १३ ।।
सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति।
कोष्ठागारम्लेच्छक्षत्रियतपश्च शुक्रजिते ।। १४ ।।
यदि मङ्गल बृहस्पति से पराजित हो तो बाह्लीक देश में निवास करने वाले, विजय की
इच्छा करने वाले, अग्नि से जीवनयात्रा चलाने वाले—ये सब पीड़ित होते हैं। यदि बुध
से पराजित हो तो सूरसेन, कलिङ्ग और शाल्व देश में रहने वाले मनुष्य पीड़ित होते हैं।
यदि शनैश्चर से पराजित हो तो नगरों में निवास करने वाले विजयी और प्रजागण दुःखी
होते हैं। यदि शुक्र से पराजित हो तो कोष्ठागार (अन्तर्गृह = 'पुंसि कोष्ठोऽन्तर्जठरं
कुसूलोऽन्तर्गृहन्तथा' इत्यमरः), म्लेच्छ जाति और क्षत्रिय पीड़ित होते हैं।। १३-१४।।
अवनिसुतेऽङ्गारके गुरुणा बृहस्पतिना जिते पराजिते पराभूते बाह्लीका जनाः।
यायिनो जिगमिषवः। अग्निवार्ताः सुवर्णकारप्रभृतयः। एते पीड्यन्ते उपताप्यन्ते। शशिजेन
बुधेन जिते भौमे शूरसेना जनाः। कलिङ्गाः शाल्वाश्च पीड्यन्ते।
सौरेण शनैश्चरेणाऽऽरेऽङ्गारके विजिते पौरा नागरा जयन्ति विजयं प्राप्नुवन्ति। प्रजाश्च
सीदन्त्यवसादयन्ति। शुक्रजिते भौमे कोष्ठागाराणामवलम्बग्रामाणां म्लेच्छानां क्षत्रियाणां
च तापः सन्तापो भवति। पीडा भवतीत्यर्थः ।। १३-१४ ।।
अथ बुधस्य सर्वग्रहविजितस्य फलमाह—
भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः।
उत्तरदिक्स्थाः ऋतुदीक्षिताश्च सन्तापमायान्ति ।। १५ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहयुद्धाध्यायः ३०१
गुरुणा जिते बुधे म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः ।
त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥१६॥
रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
भृगुणा जितेऽग्निकोपः सस्याम्बुदयायिविध्वंसः ॥१७॥
यदि मङ्गल से बुध पराजित हो तो नदी, तपस्वी, अश्मक देश में निवास करने वाले,
राजा, उत्तर दिशा में निवास करने वाले और यज्ञ में दीक्षित मनुष्य पीड़ित होते हैं। यदि
बृहस्पति से पराजित हो तो म्लेच्छ जाति, शूद्र जाति, चोर, धनी, पुरों में रहने वाले, त्रिगर्त
देश में रहने वाले और पर्वत पर निवास करने वाले पीड़ित होते हैं तथा भूकम्प होता है।
यदि शनैश्चर से पीड़ित हो तो नाव चलाने वाले, योध (शत्रु वृत्ति वाले), जल से उत्पन्न
वस्तु, धनी और गर्भिणी स्त्री पीड़ित होती है। यदि शुक्र से पराजित बुध हो तो अग्नि का
प्रकोप, धान्य, मेघ और गमन करने वाले राजाओं का नाश होता है॥१५-१७॥
शशिजे बुधे भौमेनाङ्गारकेण हते वृक्षास्तरवः। सरितो नद्यः। तापसास्तपस्विनः।
अश्मका जनाः। नरेन्द्रा राजानः। उत्तरदिक्स्थाः सौम्याशानिवासिनो जनाः। ऋतुदीक्षिताः
सम्यग्यज्ञयाजिनः। एते एर्व एव सन्तापं पीडामायान्ति प्राप्नुवन्ति।
गुरुणा बृहस्पतिना जिते पराजिते बुधे म्लेच्छा जनाः। शूद्राः शूद्रजातयः। चौरास्त-
स्कराः। अर्थयुक्ताः सधनाः। पौरजनाः पुरवासिनः। त्रैगर्ता जनाः। पार्वतीयाः पर्वतवासिनः।
एते सर्व एव पीड्यन्ते उपताप्यन्ते। मही भूश्च कम्पते चलति।
रविजेन शनैश्चरेण बुधे ध्वस्ते विजिते नाविकाः कैवर्ताः। योधाः शत्रुवृत्तयः।
अब्जाः जलजाः। सधना ईश्वराः। गर्भिण्यः सगर्भाः स्त्रियः। एते सर्व एव पीड्यन्ते।
भृगुणा शुक्रेण विजिते बुधे। अग्निकोपो वह्निप्रकोपः। सस्यानां धान्यादीनामम्बुदानां च
मेघानां यायिनां यियासूनां च विध्वंसो विनाशो भवति॥१५-१७॥
अथ जीवस्य सर्वग्रहविजितस्य फलमाह—
जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ।
शाल्वा वत्सा वङ्गा गावः सस्यानि पीड्यन्ते ॥१८॥
भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः ।
सौरेण चार्जुनसायनवसातियौधेयशिबिविप्राः ॥१९॥
शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः ।
उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ॥२०॥
यदि शुक्र से बृहस्पति पराजित हो तो कुलूत, गान्धार, कैकय, मद्र, शाल्व, वत्स और
वङ्ग देश में निवास करने वाले मनुष्य, गौ तथा धान्य पीड़ित होते हैं। यदि मङ्गल से
पराजित हो तो मध्य देश, राजा और गौ पीड़ित होती है। शनि से पराजित हो तो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
" vs "सङ्घियों" vs "सद्गियों".
Wait, look at 'ङ्क', 'ङ्ग', 'ङ्घ':
In 'ङ्घ', ङ् is above घ.
Look at the middle character in line 28:
Top part: looks like ङ् or द्.
Bottom part: has two curves like घ or ध!
Wait! A 'घ' has two curves! A 'ग' has a loop and a bar.
Here the bottom has two curves! That is definitely 'घ'!
So top is 'ङ्' (or 'द्'), bottom is 'घ'!
In Sanskrit, is it 'द्घ' or 'ङ्घ'? It is 'ङ्घ'!
Word: "सङ्घियों" (or "सद्घियों" if misprinted, but standard is "सङ्घियों").
Wait, let's look at line 28 again:
"सङ्घियों में प्रधान" - this makes 1000% sense both semantically, contextually, and visually!
Wait, let me look at whether it's "सङ्घियों" or "सद्गियों" or "सङ्घियों":
Wait, can it be "सद्गियों"? No, "सद्गियों" is not a word in Hindi or Sanskrit.
"सङ्घियों" is a perfectly normal Hindi word (plural of सङ्घी, meaning संघ से सम्बद्ध लोग / संघ के सदस्य).
Wait, look at whether it's "
तथा कोशला जनाः। कलिङ्गाः। वङ्गाः। वत्साः। मत्स्याश्च। एत एव मध्यदेशयुता
मध्यदेशेन समन्विता महतीं पीडां व्रजन्ति प्राप्नुवन्ति। नपुंसकाः क्लीबाः। शूरसेनाश्च
जना महतीं पीडां व्रजन्ति।
भृगुतनये शुक्रे कुजविजिते भौमहते बलमुख्यः सेनापतिस्तस्य वधो मरणं भवति।
नरेन्द्राणां राज्ञां संग्रामा युद्धानि भवन्ति। सौम्येन बुधेन जिते शुक्रे पार्वतीयाः पर्वतवासिनो
नाशमायान्ति। गवां च क्षीरविनाशो भवति। अल्पा वृष्टिश्च भवत्येव।
रविजेन शनैश्चरेण सिते शुक्रे विजिते गणमुख्या गणप्रधानाः। शस्त्रजीविनः शस्त्र-
वृत्तयः। क्षत्रं क्षत्रियवर्गः। जलजा जलोद्भव्वाश्च। निपीड्यन्ते पीडामुपयान्ति। तद्विशेषफलम्।
सामान्यं भक्तिफलमन्यत्। अन्यदपरं यत्स्वभक्तिफलमुक्तं तदपि हन्ति।।२१-२४।।
अथ सौरस्य ग्रहविजितस्य फलमाह—
असिते सितेन निहतेऽर्घवृद्धिर्हिविहगमानिनां पीडा।
क्षितिजेन तङ्गणान्ध्रोड्रकाशिबाह्लीकदेशानाम् ॥ २५॥
सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ॥ २६ ॥
यदि शुक्र से पराजित शनि हो तो सभी द्रव्यों में मौल्य की वृद्धि, सर्प, पक्षी और
मानियों को पीड़ा होती है। यदि मङ्गल से पराजित हो तो तङ्गण, आन्ध्र, उड्र, काशी और
बाह्लीक देश में निवास करने वालों को पीड़ा होती है। यदि बुध से पराजित हो तो अङ्ग देश
में निवास करने वाले, क्रय-विक्रय से आजीविका चलाने वाले, पक्षी, पशु और हाथी
पीड़ित होते हैं। यदि गुरु से पराजित शनि हो तो अधिक स्त्री वाला देश, महिषक देश में
रहने वाले और शक देश में रहने वाले पीड़ित होते हैं।। २५-२६।।
असिते सौरे सितेन शुक्रेण निहते विजिते अर्धवृद्धिर्भवति सर्वद्रव्याणां सुलभत्वं
भवति। अहीनां सर्पाणां विहगानां पक्षिणां मानिनां मानयुक्तानां जनानां च पीडा भवति।
क्षितिजेनाङ्गारकेण सौरे विजिते सति तङ्गणा जनाः। अन्ध्राः। उड्राः। काशयः। बाह्लीकाः।
एतेषां जनानां ये देशास्तेषां पीडा भवति।
सौम्येन बुधेन मन्दे शनैश्चरे पराभूते। अङ्गा जनाः। वणिजः क्रयविक्रयजीविनः।
विहङ्गा पक्षिणः। पशवश्चतुष्पदाः। नागा हस्तिनः। एते सन्ताप्यन्ते पीड्यन्ते। तथा
गुरुणा बृहपतिना जिते सौरे स्त्रीबहुला ये देशाः। महिषकशकाश्च जनाः। सन्ताप्यन्ते
पीड्यन्ते।।२५-२६।।
अत्रैव विशेषमाह—
अयं विशेषोऽभिहितो हतानां
कुजज्ञवागीशसितासितानाम् ।
३०४ बृहत्संहिता
फलं तु वाच्यं ग्रहभक्तितोऽन्य-
द्यथा तथा घ्नन्ति हताः स्वभक्तीः ॥२७॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
ग्रहयुद्धाध्यायः सप्तदशः ॥१७॥
मङ्गल, बुध, बृहस्पति, शुक्र और शनि के ये विशेष फल कहे गये हैं, अवशिष्ट फल
ग्रह की भक्ति से कहना चाहिये। जिस तरह व्यक्त या अव्यक्त रूप से ग्रह पीड़ित होते हैं,
उसी प्रकार व्यक्त या अव्यक्त रूप से अपनी भक्ति का भी नाश करते हैं।।२७।।
इति 'विमला' हिन्दीटीकायां ग्रहयुद्धाध्यायः सप्तदशः ॥१७॥
कुजोऽङ्गारकः। ज्ञो बुधः। वागीशो बृहस्पतिः। सितः शुक्रः। असितः शनैश्चरः।
एषां हतानां जितानामयं विशेषोऽभिहित उक्तः। अन्यदपरं यत्फलं तद्ग्रहस्य भक्तितो
वाच्यम्। यथा येन प्रकारेण व्यक्तेनाऽव्यक्तेन वा हता जितास्तथा तेनैव प्रकारेण व्यक्तम-
व्यक्तं वा कृत्वा स्वभक्तीर्घ्नन्ति विनाशयन्तीत्यर्थः। तथा च पराशरः—
ग्रहस्य ये यस्य हताः स्वदेशाः पीडांशमृच्छन्ति त एव तस्य।
सम्प्राप्तवीर्यस्य जये समर्था भवन्ति तस्यर्द्धिचतुष्पदाद्याः।। इति।।२८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
ग्रहयुद्धंनाम सप्तदशोऽध्यायः ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ शशिग्रहसमागमाध्यायः
अथ शशिग्रहसमागमाध्यायो व्याख्यायते। तत्रादावेव चन्द्रमसो गतिलक्षणमाह—
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिणं तच्छुभदं नृपाणां याम्येन यातो न शिवः शशाङ्कः ॥१॥
यदि नक्षत्र या ग्रहों के निकटवर्ती होकर चन्द्रमा प्रदक्षिण क्रम से उत्तर तरफ होकर
गमन करे तो राजाओं का शुभ और दक्षिण तरफ होकर गमन करे तो अशुभ करने वाला
होता है।
विशेष—यह समागम जिन नक्षत्रों का शर चन्द्रशर से अल्प या तुल्य है, उन्हीं का
होता है। जैसे—कृत्तिका, रोहिणी, पुष्य, मघा, चित्रा, विशाखा, अनुराधा, ज्येष्ठा, शतभिषा,
रेवती—इन नक्षत्रों का शर चन्द्रशर से अल्प होने के कारण चन्द्र के साथ समागम होता
है। जिन नक्षत्रों का उत्तरशर चन्द्रशर से अधिक है, उनके सदा दक्षिण तरफ होकर और
जिनका दक्षिण शर चन्द्रशर से अधिक है, उनके सदा उत्तर होकर चन्द्र गमन करता
है॥१॥
शशाङ्कश्चन्द्रः। भानां नक्षत्राणां यथासम्भवमुत्तरेण यातो गतः। यथासम्भवमिति
निकटवर्तिनं प्रदर्शयति। येषां चन्द्रविक्षेपादूनो विक्षेपस्तत्तुल्यो वा तेषां प्रायेण सम्भवति।
यथा कृत्तिकारोहिणीपुष्यमघाचित्राविशाखानुराधाज्येष्ठशतभिषग्रेवतीनां सम्भवति। अन्येषां
कदाचित् सम्भवति दूरवर्तिनामुत्तरेण तस्य गमनं न सम्भवति। यथा स्वातिश्रवणधनिष्ठादिषु।
स्वातेः सप्तत्रिंशद् भागा उत्तरो विक्षेपः। चन्द्रस्य सार्द्धांश्चत्वारस्तस्य सर्वकालं दक्षिणेन
याति चन्द्रः। तेषां चन्द्रविक्षेपादधिक उत्तरतो विक्षेपस्तेषां सदैव दक्षिणेन याति। येषां
चन्द्रविक्षेपादधिको दक्षिणो विक्षेपस्तेषां सदैवोत्तरेण याति चन्द्रः। एवं भौमादीनां यथा-
सम्भवमपि योज्यम्। एवं येषां सम्भवति तेषां योज्यम्। ग्रहाणां भौमादीनां वोत्तरेण यातः
प्रदक्षिणं कृत्वा। तच्च प्रदक्षिणगमनं नृपाणां राज्ञां शुभं श्रेयस्करम्। याम्येन दक्षिणेन
शशाङ्को यातो न शिवो न शुभद इत्यर्थः। ग्रहाणामपि यथासम्भवं योज्यम्। तथा च
ऋषिपुत्रः—
दक्षिणेनापसव्यं स्यादुत्तरेण प्रदक्षिणम्।
ग्रहाणां चन्द्रमा ज्ञेयो नक्षत्राणां तथैव च॥
तथा च वृद्धगर्गः—
नक्षत्राणां ग्रहाणां वा यदा तूत्तरगः शशी।
तत्प्रदक्षिणमित्याहुर्भवेत् क्षेमसुवृष्टये॥
बृ० भ० प्र०-२०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३०६ बृहत्संहिता
नक्षत्राणां ग्रहाणां वा यदा दक्षिणतो व्रजेत्।
अपसव्यं तदेव स्यादवृष्टिभयलक्षणम्॥ इति॥१॥
अथाङ्गारकस्योत्तरगते चन्द्रे फलमाह—
चन्द्रमा यदि कुजस्य यात्युदक् पार्वतीयबलशालिनां जयः।
क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥
यदि मङ्गल के उत्तर तरफ होकर चन्द्र गमन करे तो पर्वत पर निवास करने वाले और
बलशालियों की विजय होती है, यायी मनुष्यों के साथ क्षत्रियगण प्रमुदित होते हैं तथा
पृथ्वी अधिक धान्यों से युत होती है॥२॥
कुजस्याङ्गारकस्य चन्द्रमाः शशी यद्युदगुत्तरेण याति गच्छति तदा पार्वतीयानां
पर्वतनिवासिनाम्। बलशालिनां बलेन ये शालन्ते श्लाघ्यन्ते तेषां च जयो भवति। तथा
च सयायिनो यायिभिः सहिताः क्षत्रियाः प्रमुदिता हृष्टा भवन्ति। तथा च वसुन्धरा भूः।
भूरिधान्येन बहुधान्येन मुदिता हृष्टा भवति॥२॥
अथ बुधस्याह—
उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च।
सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥३॥
यदि बुध के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी राजाओं की विजय,
सुभिक्ष, धान्यों की वृद्धि, लोगों को आन्तरिक तृष्टि और राजाओं के कोश की वृद्धि होती
है॥३॥
शशाङ्कश्चन्द्रः। स्वसुतस्यात्मीयपुत्रस्य बुधस्योत्तरत उत्तरेण यदि याति तदा पौराणां
नृपाणां जयो भवति सुभिक्षं च करोति। तथा च सस्यानां चयमुपचयं जनानां लोकानां
च हार्दिं तुष्टिं नराधिपतीनां राज्ञां कोशचयं भाण्डागारवृद्धिं च करोति॥३॥
अथ गुरोराह—
बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम्।
धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥
यदि बृहस्पति के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी, ब्राह्मण, क्षत्रिय,
पण्डित, धर्म, मध्यदेश—इन सबों की वृद्धि, सुभिक्ष और सम्पूर्ण प्रजा हर्षयुत होती है।
शशाङ्के चन्द्रे वृहस्पतेरुत्तरगे उत्तरस्यां दिशि स्थिते पौराणां जनानां द्विजानां ब्राह्म-
णानां क्षत्रियाणां राजन्यानां पण्डितानां विदुषां तथा धर्मस्य मध्यमस्य च देशस्य मध्यमदेशा-
ख्यस्य वृद्धिर्भवति। सुभिक्षं च भवति। तथा सर्वाः प्रजा मुदिता हृष्टा भवन्ति॥४॥
अथ शुक्रस्याह—
भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः।
यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
Here is the line-by-line transcription of the text from the provided image:
शशिग्रहसमागमाध्यायः ३०७
यदि शुक्र के उत्तर तरफ होकर चन्द्र गमन करे तो कोश, हाथी और घोड़ों की वृद्धि,
धनुर्धारी, पापी और जीतने की इच्छा रखने वालों की विजय तथा धान्यों की अच्छी
उत्पत्ति होती है।।५।।
भार्गवस्य शुक्रस्य शशी चन्द्रो यद्युदगुत्तरेण याति तदा कोशयुक्तानां सञ्चितभाण्डा-
गाराणां गजानां वाजिनामश्वानां च वृद्धिप्रदो भवति। तथा धनुष्मतां धनुर्भृतां यायिनां च
जिगमिषूणां विजयो भवति। सस्यानामपि चोत्तमा तदा तस्मिन् काले सम्पद्भवति। अपि-
शब्दोऽत्रातीवार्थे ।।५।।
अथ सौरस्याह—
रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः।
शकबाह्लिकसिन्धुपह्नवा मुदभाजो यवनैः समन्विताः ।।६।।
यदि शनैश्चर के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी और राजाओं की
विजय तथा शक, वाह्लिक, सैन्धव और पह्लवदेशवासी मनुष्य हर्षयुत होते हैं।।६।।
रविजस्य शनैश्चरस्य शशी चन्द्रः प्रदक्षिणमुत्तरगमनं चेद्यदि कुर्यात्तदा पुरभूभृतां
पुरनिवासिनां राज्ञां जयो भवति। तथा शका जनाः। बाह्लिकाः। सैन्धवाः। पह्लवाः। एते
सर्वे यवनैः समन्विताः मुदभाजो भवन्ति। मुदं हर्षं भजन्ते सेवन्ते। प्रहृष्टा भवन्तीत्यर्थः ।।६।।
अत्रैव विशेषमाह—
येषामुदग्गच्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च।
तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ।।७।।
जिन नक्षत्रों या ग्रहों के उत्तर तरफ होकर उत्पातरहित चन्द्र गमन करे उन नक्षत्रों या
ग्रहों के द्रव्यों की पुष्टि और दक्षिण तरफ होकर गमन करे तो हानि करता है।।७।।
येषां भानां नक्षत्राणां ग्रहाणां च भौमादीनां प्रालेयरश्मिर्हिमदीधितिश्चन्द्रः। उदगुत्तरेण
निरुपद्रव उत्पातरहितो गच्छति याति। तद्द्रव्याणि तेषां भग्रहाणां द्रव्याणि यान्युक्तानि
ग्रहभक्तिमध्ये नक्षत्रव्यूहे च। तथा ग्रहाणां मध्याद्ये पौरा नागरा ये चेतरे यायिनस्तांस्तथा
तद्भक्तिदेशांस्तेषां ग्रहाणां ये स्वभक्तौ देशा उक्तास्तांश्च पुष्णाति पुष्टिं नयति। याम्येन
दक्षिणेन गतस्तान्येव द्रव्यादीनि निहन्ति विनाशयति।।७।।
अत्रैव पुनरपि विशेषमाह—
शशिनि फलमुदक्स्थे यद् ग्रहस्योपदिश्टं
भवति तदपसव्ये सर्वमेव प्रतीपम्।
इति शशिसमवायाः कीर्तिता भग्रहाणां
न खलु भवति युद्धं साकमिन्दोर्ग्रहक्षैः ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शशि-
ग्रहसमागमाध्यायोऽष्टादशः ।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३०८ बृहत्संहिता
ग्रहों के उत्तरगत चन्द्र के जो फल कहे गये हैं, उनके विपरीत फल ग्रहों के
दक्षिणगत चन्द्र के होते हैं। इस तरह चन्द्र के साथ ग्रहों या नक्षत्रों के रहने को समागम,
रवि के साथ अस्त और कुजादि ग्रहों के परस्पर संयोगादि को युद्ध कहते हैं॥१८॥
इति 'विमला' हिन्दीटीकायां शशिग्रहसमागमाध्यायोऽष्टादशः ॥१८॥
शशिनि चन्द्रमसि ग्रहस्योदक्स्थे उत्तरस्यां दिशि स्थिते यत्फलमुपदिष्टमुक्तम्—
'चन्द्रमा यदि कुजस्य यात्युदक्' इत्यादिकम्, तत्सर्वमेव निःशेषमपसव्ये दक्षिणदिक्स्थे
चन्द्रे प्रतीपं विपरीतं भवति। इत्येवंप्रकारा भग्रहाणां भानां नक्षत्राणां ग्रहाणां च शशि-
समवायाश्चन्द्रसंयोगाः कीर्तिता उक्ताः खलु। खल्वित्ययं शब्दो निश्चयार्थे। इन्दोश्चन्द्रस्य
ग्रहैर्भौमादिभिर्ऋक्षैर्नक्षत्रैश्च साकं सह युद्धं न भवतीति किल सूर्यस्य ग्रहैः सह समागमो-
ऽस्तमयशब्दवाच्यः, चन्द्रेण सह समागमशब्दवाच्यः। भौमादीनां परस्परं युद्धशब्दवाच्य
इत्ययमस्मिन् शास्त्रे सिद्धान्तः। तथाऽऽचार्यविष्णुचन्द्रः—
दिवसकरेणास्तमयः समागमः शीतरश्मिसहितानाम्।
कुसुतादीनां युद्धं निगद्यतेऽन्योन्ययुक्तानाम्।। इति।
यैश्चोक्तमादित्यस्य जयपराजयं ते गोलवासनाबाह्याः।।१८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ शशिग्रह-
समागमो नामाष्टादशोऽध्यायः ॥१८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ ग्रहवर्षफलाध्यायः
अथ ग्रहवर्षफलाध्यायो व्याख्यायते। कस्य ग्रहस्य कस्मिन् वर्षे कीदृशानि शुभा-
शुभानि फलानि भवन्तीति। यत आचार्येण पूर्वमेव प्रतिज्ञातमासीत्—
वर्षे यद्यस्य फलं मासे च मुनिप्रणीतमालोक्य।
तत्तद्त्तैर्वक्ष्ये होरातन्त्रोत्तरविधाने।। इति।
तत्रादावेवादित्यस्य वर्षफलमाह—
सर्वत्र भूर्विरलसस्ययुता वनानि
दैवाद् बिभक्षयिषुदंष्ट्रिसमावृतानि।
नद्यश्च नैव हि पयः प्रचुरं स्रवन्ति
रुग्भेषजानि न तथातिबलान्वितानि ॥१॥
तीक्ष्णं तपत्यदितिजः शिशिरेऽपि काले
नात्यम्बुदा जलमुचोऽचलसन्निकाशाः।
नष्टप्रभर्क्षगणशीतकरं नभश्च
सीदन्ति तापसकुलानि सगोकुलानि ॥२॥
हस्त्यश्वपत्तिमदसह्यबलैरुपैता
बाणासनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
संवत्सरे दिनकरस्य दिनेऽथ मासे ॥३॥
सूर्य से वर्ष, मास या दिन में पृथिवी पर सब जगह अल्प धान्य, दैववश भक्षण की
इच्छा करने वाले दंष्ट्रीगण ( सर्प, सूअर आदि जन्तुओं ) से संयुत वन, नदियों में अल्प जल,
रोगनाश के लिये वीर्ययुत ओषधि का अभाव, शिशिर काल ( माघ-फाल्गुन ) में भी सूर्य
का भयङ्कर ताप, पर्वत के समान मेघ से भी अधिक वृष्टि का अभाव, आकाशस्थित नक्षत्र
और चन्द्र में दीप्ति का अभाव, तपस्वीगण शोकयुत और गौओं के समुदाय दुःखी होते हैं।
संग्राम में हाथी, घोड़ा, पदातियों से युत असह्य सैन्य, धनु, खड्ग और मुशलों से युत
मन्त्री आदि के साथ होकर राजा लोग देशों का नाश करते हुये विचरण करते हैं॥१-३॥
दिनकरस्यादित्यस्य संवत्सरे वर्षे दिने वा तद्वारे मासे वा ईदृशानि फलानि भवन्ति।
तथा च यवनेश्वरः—
अब्दाश्रयं लक्षणमीरितं यद् ग्रहस्वभावप्रभवं जनानाम्।
तदेव तन्मासदिनर्तुषूक्तं तदीश्वरस्थानविकल्पितं च।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१० बृहत्संहिता
एवं वर्षजं फलं मासदिवसहोरास्वपि बोद्धव्यम्।
तत्र रविवर्षे मासे दिने वा कीदृशानि फलानि? सर्वत्र सर्वस्मिन् देशे भूरवनिर्विर्-
लैस्तनुभिः स्वल्पैः सस्यैर्धान्यादिभिर्युता संयुक्ता भवति। तथैव वनानि अरण्यानि दंष्ट्रिभिः
सर्पवराहादिभिः समावृतानि संयुक्तानि भवन्ति। कीदृशैर्दंष्ट्रिभिः ? दैवाद्वैवहेतोर्ये बिभक्षयि-
षवो भक्षयितुमिच्छवस्तथाभूतैः। दैवशब्देन प्राक्कर्मोच्यते। तथा चोक्तम्—
प्राग्जन्मनि कृतं कर्म शुभं वा यदि वाऽशुभम्।
दैवशब्देन निर्दिष्टमिह जन्मनि तद्बुधैः ।। इति।
तस्माद्वनानि दैवाद् बिभक्षयिषुर्दंष्ट्रिसमावृतानि भवन्ति। नद्यः सरितः प्रचुरं प्रभूतं
पयो जलं न स्रवन्ति न स्यन्दन्ति। रुजां रोगाणामुपशमार्थं यानि च भेषजानि द्रव्याणि
तानि न तथा तेनैव प्रकारेणातिबलान्वितानि वीर्ययुक्तानि भवन्ति। रोगोपशान्तिं सम्यग्
न कुर्वन्तीत्यर्थः।
तथा अदितिज आदित्यः। शिशिरेऽपि काले माघफाल्गुनमासयोः शीतकालेऽपि
तीक्ष्णमतिचण्डं तपति सन्तापयति। अम्बुदा मेघा अचलसन्निकाशाः पर्वताकारा अपि
नातिजलमुचो न प्रभूतं जलं मुञ्चन्ति त्यजन्ति। तथा नभ आकाशं कीदृशं नष्टप्रभर्क्षगण-
शीतकरम्, नष्टप्रभो विगतकान्तिर्ऋक्षगणो नक्षत्रसमूहः शीतकरश्चन्द्रमा यत्र तत्। तापस-
कुलानि तपस्विनां वंशाः। सगोकुलानि गोकुलेन सहितानि सीदन्त्यवसादयन्ति।
तथा नृपा राजानो युधि संग्रामे नृपानुचरैः सचिवैर्लोकपालैः सह साकं देशान्
विषयान् घ्नन्तो जिघांसन्तो विचरन्ति गच्छन्ति। कीदृशा नृपाः? हस्त्यश्वपत्तिमदसह्यबलै-
रुपेताः। हस्तिनो गजाः। अश्वास्तुरगाः। पत्तयः पदातयो विद्यन्ते येषु बलेषु तानि। तथाभूतैः
हस्त्यश्वपत्तिमद्भिरसह्यैरनभिभवनीयैर्बलैः सैन्यैरुपेताः संयुक्ताः। तथा बाणासनासिमुशला-
तिशयाः। बाणा अस्यन्ते क्षिप्यन्ते येन तद्बाणासनं धनुः। असिः खड्गः। मुशल आयु-
धविशेषो मुशलाकार एव। तेषु अतिशयो यत्नो येषां ते तथाभूताः। तथा च यवनेश्वरः—
दिवाकराब्दे रणविग्रहाग्र्यक्षितीश्वरस्तीव्रविषज्वराग्निः।
अवर्षशुष्कद्रुमशुष्कसस्यप्रचण्डवह्ल्युग्रविषाक्षिरोगाः।।
तथा च समाससंहितायाम्—
तीक्ष्णोऽर्कः स्वल्पसस्यश्च गतमेघोऽतितस्करः।
बहूरगव्याधिगणो भास्कराब्दो रणाकुलः।।१९-३।।
अथ चन्द्रमस आह—
व्याप्तं नभः प्रचलिताचलसन्निकाशै-
र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः।
गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥४॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३११
तोयानि पद्मकुमुदोत्पलवन्त्यतीव
फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
गावः प्रभूतपयसो नयनाभिरामा
रामा रतैरविरतं रमयन्ति रामान् ॥५॥
गोधूमशालयवधान्यवरेक्षुवाटा
भूः पाल्यते नृपतिभिर्नगराकराढ्या ।
चित्यङ्किता क्रतुवरेष्टिविघुष्टनादा
संवत्सरे शिशिरगोरभिसम्पवृत्ते ॥६॥
चन्द्र के वर्ष, मास या दिन में चलित पर्वत, सर्प, कज्जल, भ्रमर और गवल
( महिषशृङ्ग ) के समान निर्मल जल से पृथ्वी को पूर्ण करते हुये तथा विरही जनों के
औत्सुक्यजनक गौरवयुत ध्वनियों से दिशाओं को पूर्ण करते हुये मेघों से आच्छादित
आकाश, कमल और कुमुद से युत जल, प्रफुल्लित वृक्ष और शब्दायमान भ्रमरों से युत
उपवन, अधिक दूध देने वाली गौ, नेत्रों से सुन्दरी स्त्री ( निरन्तर अपने पति को आनन्द
देने वाली ), गेहूँ, साठी, यव, श्रेष्ठ धान्य और इक्षुवाटों से युत, नागरिक आकरों ( अर्थोत्पत्ति
स्थानों ) से युत, अग्नि स्थानों से व्याप्त तथा श्रेष्ठ यज्ञ और इष्टि ( पुत्रकाम्यादि यज्ञ ) से
समन्वित पृथ्वी राजा से परिपालित होती है॥४-६॥
शिशिरगोः शीतरश्मेः संवत्सरे वर्षे अभिसम्पवृत्ते वर्तमाने मासे दिवसे वा ईदृशानि
फलानि भवन्ति। कैः ? पयोदैर्मेघैर्नभ आकाशं व्याप्तमाच्छादितं भवति। कीदृशैः पयोदैः ?
प्रचलिताचलसन्निकाशैः। प्रचलिता ये अचलाः पर्वताः तत्सन्निकाशैः तत्सदृशैः। तथा
व्यालाञ्जनालिगवलच्छविभिः। व्यालाः सर्पाः। अञ्जनं प्रसिद्धं कज्जलम्। अलिर्भ्रमरः।
गवलं महिषशृङ्गं तद्वच्छविः कान्तिर्येषां तैः। किं कुर्वद्भिः ? अमलाभिनिर्मलाभिरद्भिर्जलैर्गां
भूमिमखिलां निःशेषां पूरयद्भिराप्यायमानैः। तथा ध्वनितेन गर्जितेन चाशा दिशः पूरयद्भिः।
कीदृशेन? उत्कण्ठितेन विरहिणामौत्सुक्यजननेन। गुरुणा गौरवसंयुक्तेन दुःसहेनेत्यर्थः।
तोयानि जलान्यतीवात्यर्थम्। पद्मकुमुदोत्पलवन्ति। पद्मानि कुमुदानि उत्पलानि च
विद्यन्ते येषां तानि। तथाभूतानि उपवनानि उद्यानानि। फुल्लद्रुमाणि फुल्लाः कुसुमिता
द्रुमा वृक्षा येषु तानि। अलिभिर्भ्रमरैर्नादितानि कृतशब्दानि। तथा गावो धेनवः प्रभूतपयसो
बहुक्षीराः। रामाः स्त्रियः। अविरतमविरामं सन्ततं रामान् वल्लभान् पुरुषान् रतैः सुरतै
रमयन्ति क्रीडयन्ति। कीदृश्यो रामाः ? नयनाभिरामाः। नयनाभ्यां नेत्राभ्यामभिमुख्येन रम्यन्ते
यास्ताः, तथाभूताः। तथा भूरवनिः। नृपतिभी राजभिः पाल्यते अभिरक्ष्यते। कीदृशी भूः ?
गोधूमैः शालिभिर्यवैर्धान्यवरैः कलमशालिप्रभृतिभिरिक्षुवाटैश्च संयुक्ता। तथा नगराकराढ्या।
नगरैः पत्तनैराकरैराकरोत्पत्तिस्थानैराढ्या बहुला। चित्यङ्किता। चितिरग्निस्थानम्। ताभिरङ्किता
चिह्निता। क्रतुवरेष्टिविघुष्टनादा। क्रतुवरा यज्ञश्रेष्ठाः। इष्टयः पुत्रकाम्यादयस्तेषु विघुष्टो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१२ बृहत्संहिता
घोषितो यो नादो वेदशब्दस्तेन संयुता। तथा च यवनेश्वरः—
सम्पन्नसस्यक्षुपशष्पशालिप्ररूढगुल्मो बहुवर्षधारः।
रत्नौषधिस्नेहपटुप्रसेकश्चान्द्रो रतिस्त्रीसुखवर्धनोऽब्दः।।
तथा च समाससंहितायाम्—
बहुवर्षातिसस्यश्च गवां क्षीरप्रदायकः।
चन्द्राब्दः कामिनामिष्टश्चित्यङ्कितमहीतलः।। इति।।४-६।।
अथ भौमस्य वर्षफलमाह—
वातोद्धतश्चरति वह्निरतिप्रचण्डो
ग्रामान् वनानि नगराणि च सन्दिधक्षुः।
हाहेति दस्युगणपातहता रटन्ति
निःस्वीकृता विपशवो भुवि मर्त्यसङ्घाः ॥७॥
अभ्युन्नता वियति संहतमूर्तयोऽपि
मुञ्चन्ति कुत्रचिदपः प्रचुरं पयोदाः।
सीम्नि प्रजातमपि शोषमुपैति सस्यं
निष्पन्नमप्यविनयादपरे हरन्ति ॥८॥
भूपा न सम्यगभिपालनशक्तचित्ताः
पित्तोत्थरुक्प्रचुरता भुजगप्रकोपः।
एवंविधैरुपहता भवति प्रजेयं
संवत्सरेऽवनिसुतस्य विपन्नसस्या ॥९॥
मङ्गल के संवत्सर, मास या दिन में वायु से सञ्चालित ग्राम, वन और नगरों को दग्ध
करने की इच्छा रखने वाली भयङ्कर अग्नि चलती है। चोरों से निर्धन किये हुये पीड़ित
मनुष्यगण हाहाकार करते हैं। आकाश में संगठित मूर्ति वाले मेघ कहीं भी अधिक वृष्टि
नहीं करते। निम्न स्थान में उत्पन्न धान्य सूख जाते हैं तथा पके हुये धान्य भी वज्रपात
आदि उत्पातों से नष्ट हो जाते हैं। राजा लोग धर्मपालन में तत्पर नहीं रहते हैं। पैत्तिक रोगों
की अधिकता होती है। सर्पों से लोगों को पीड़ा होती है। इस तरह मङ्गल के स्वामित्व में
प्रजागण पीड़ित और धान्यों का नाश होता है।।७-९।।
अवनिसुतस्याङ्गारकस्य संवत्सरे वर्षे मासे दिवसे वा फलानीदृशानि भवन्ति।
कीदृशानि? वह्निरग्निर्वातेन मारुतेनोद्धतः सञ्चार्यमाणोऽतिप्रचण्डो दुःसहश्चरति। कीदृशः?
ग्रामान् वनानि नगराणि पत्तनादि च सन्दिधक्षुः। सन्दग्धुमिच्छुः। तथा भुवि भूमौ मर्त्यसङ्घा
मनुष्यसमूहाः। दस्यूनां चौराणां ये गणाः समूहास्तेषां पातैर्हताः परिपीडिताः सन्तो हाहेति
रटन्ति रणन्ति हाहाशब्दं कुर्वन्ति। कीदृशाः? निःस्वीकृता निर्द्धनीकृताः। विपशवो विगताः
पशवश्चतुष्पदा येभ्यः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१३
तथा पयोदा मेघा वियत्याकाशे अभ्युन्नताः अभिमुख्येनोच्चाः। संहतमूर्तयो घनदेहा
अपि कुत्रचिदपो जलं प्रचुरं बहु मुञ्चन्ति त्यजन्ति। तथा सीम्नि जलप्रवेशमार्गेऽपि प्रजातम्।
निम्ने प्रजातमिति केचित् पठन्ति। निम्ने प्रजातमुत्पन्नं सस्यं धान्यादिकं शोषं नीरसत्वमुपैति
प्राप्नोति। तथा निष्पन्नमपि सञ्जातमपि सस्यमपरे अन्ये शत्रव उत्पाता वा अविनयादनीत्या
अशनिप्रपातादिना वा हरन्त्यपनयन्ति।
तथा भूपा राजानः सम्यग्धर्मेणाभिपालने रक्षणे सक्तचित्तास्तत्परा न भवन्ति। तथा
पित्तोत्थानां रुजां रोगाणां प्रचुरता बाहुल्यं भवति। भुजगेभ्यः प्रकोपो लोकानां पीडा भवति।
एवंविधैरीदृशैर्दोषैरियं प्रजा जनसमूहा उपहता पीडिता भवति। तथा विपन्नसस्या च।
तथा च यवनेश्वरः—
रणप्रचण्डः क्षितिपोऽल्पसस्यो विशुष्कवारिद्रुमशष्पशीर्णः।
अङ्गारकाब्दः प्रचुररोगाग्निरातङ्कचौर्यक्षुद्वृष्टिदृष्टः॥
तथा च समाससंहितायाम्—
अग्नितस्कररोगाढ्यो नृपविग्रहदायकः।
गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम्॥ इति॥७-९॥
अथ बुधस्याह—
मायेन्द्रजालकुहकाकरनागराणां
गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः।
पिप्रीषया नृपतयोऽद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥१०॥
वार्ता जगत्यवितथा विकला त्रयी च
सम्यक् चरत्यपि मनोरिव दण्डनीतिः।
अध्यक्षरस्वभिनिविष्टधियोऽपि केचि-
दान्वीक्षिकीषु च परं पदमीहमानाः ॥११॥
हास्यज्ञदूतकविबालनपुंसकानां
युक्तिज्ञसेतुजलपर्वतवासिनां च।
हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
मासेऽथवा प्रचुरता भुवि चौषधीनाम् ॥१२॥
बुध के वर्ष, मास या दिन में प्रपञ्चों में कुशल, इन्द्रजाल विद्या को जानने वाले,
आश्चर्य देखने वाले, अर्थोत्पत्तिस्थान को जानने वाले, नगरों में रहने वाले, गान विद्या
जानने वाले, लेखक, गणितज्ञ और अस्त्र विद्या जानने वाले उन्नतियुत होते हैं। राजा लोग
परस्पर प्रीति बढ़ाने की इच्छा से आश्चर्यजनक और हर्षोत्पादक द्रव्य परस्पर एक-दूसरे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
३१४ बृहत्संहिता
को देने की इच्छा करते हैं। वार्ता ( कृषि, पशुपालन और वाणिज्य ) अवितथा ( सफल )
होती है। त्रयी ( ऋग्वेद, यजुर्वेद और सामवेद ) का अत्यधिक पाठ होता है। मनु राजा
से रचित दण्डनीति नामक पुस्तकोक्त नीति की तरह नीति चलती है अर्थात् जिस तरह मनु
राजा प्रजारक्षण करते थे, उसी तरह उस वर्ष के राजा अपनी प्रजा की रक्षा करते हैं। कोई
अध्यात्म विद्या ( योगशास्त्र ) में और कोई आन्वीक्षिकी ( तर्कविद्या ) में विरत होते हैं।
हास्यज्ञ, दूत, कवि, बालक, नपुंसक, युक्तिज्ञ, सेतु ( स्थल ), जल और पर्वत पर निवास
करने वाले प्रसन्न होते हैं तथा पृथ्वी पर ओषधियों की अधिकता होती है।।१०-१२।।
मृगलाञ्छनश्चन्द्रस्तस्माज्जातो बुधः स च स्वके आत्मीये अब्दे वर्षे मासे दिवसे वा
ईदृशानि फलानि करोति। कीदृशानि? मायेन्द्रजालकुहकाकरनागराणाम्। मायाविनां
प्रपञ्चकुशलानाम्। इन्द्रजालज्ञानां विस्मयदर्शिनाम्। कुहकविदाम आश्चर्यदर्शकानाम्। आकरे
र्थोत्पत्तिस्थाने कुशलानाम्। नागराणां नगरवासिनाम्। गान्धर्वविदां गेयज्ञानाम्। लेख्यविदां
चित्रज्ञानाम्। गणितविदां गणितप्रवीणानाम्। अस्त्रविदाम आयुधज्ञानां तद्वर्षे वृद्धिर्भवति। नृपतयो
राजानः प्रिप्रीषया परितोषेच्छया परस्परस्नेहोत्पादनेन अद्भुतदर्शनान्याश्चर्यवन्ति दर्शनानि
परस्परेभ्योऽन्योन्यं दित्सन्ति दातुमिच्छन्ति। कीदृशानि? तुष्टिजननानि हर्षोत्पादकानि।
वर्तनं वर्ता कृषिः पशुपाल्यं वाणिज्यं चेति। वार्ता जगति लोके अवितथा सत्यस्वरूपा
सफला भवन्ति। तद्वृत्तीनां प्रभूतलाभा भवन्तीति यावत्। त्रयी ऋग्यजुःसामलक्षणा
एषा चाविकला सम्पूर्णा भवति। लोकेऽत्यर्थं वेदाः पठन्ति। सम्यग्यथागमं शास्त्रविहिता
दण्डनीतिर्मनोरिव चरति। प्रजारक्षणं दण्डनीतिः। मनुर्नाम राजा अभूत्। तत्प्रणीता दण्डनीतिः
सम्यक् चरति। तेन यथा प्रजारक्षणं कृतं तथा तद्वर्षेऽपि राजा करोति। उक्तं च—
गोरक्षा कृषिवाणिज्यं सेवावर्जं परिग्रहम्।
वर्तनं जीवनं वार्ता जीवा तूज्जीवनं स्मृतम्।।
ऋचो यजूंषि सामानीत्येषा त्रय्यभिधीयते।
त्रय्यां धर्मस्थितिर्वृत्तौ दण्डनीत्यां च रक्षणम्।।
केचिदन्ये अध्यक्षरस्वभिनिविष्टधियः। अक्षरं परमात्म, तदधिकृत्य कृतं शास्त्रमध्यक्षरं
तत्र स्वभिनिविष्टा अभियुक्ता धीर्बुद्धिर्येषां ते तथाभूताः। केचिदप्यध्यात्मविद्यासु योगशास्त्रेषु
सक्ताः। अध्यक्षराः स्वभिनिविष्टधियोऽपि केचिदित्यन्ये पठन्ति। तथा अन्ये आन्वीक्षिकीषु
तर्कविद्यासु च परं प्रकृष्टं पदं स्थानं मोक्षाख्यमीहमाना वाञ्छां कुर्वाणास्तर्कनिरता भवन्ति।
तथा हास्यज्ञानामुपहासविदां विदग्धानाम्। दूतानां गमागमिकानाम्। कवीनां पण्डितानां
काव्यज्ञानाम्। बालानां शिशूनाम्। नपुंसकानां क्लीबानाम्। युक्तिज्ञानां युक्तिविदां
प्रयोगज्ञानाम्। सेतुवासिनां स्थलवासिनां सेतौ ये वसन्ति। जलवासिनां जलसमीपस्थितानाम्।
पर्वतवासिनां हार्दि चित्ते तुष्टिं करोति। तथा भुवि भूमौ औषधीनां प्रचुरता बाहुल्यं भवति।
तथा च यवनेश्वरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
ग्रहवर्षफलाध्यायः ३१५
सन्धानदानप्रयतः क्षितीशः स्वाध्यायतीर्थाध्वरभिर्द्विजौघः।
निराधिरुङ्मध्यमसस्यवर्षो बौधः सुहृत्स्नेहविवर्धनोऽब्दः ॥
तथा च समाससंहितायाम्—
ब्रह्मक्षत्रस्य सस्यानां जनानां च कलाविदाम्।
वृद्धिप्रदोऽब्दो बौधस्तु भूपसाम्यकरः क्षितौ ॥ इति ॥१०-१२॥
अथ गुरोर्वर्षफलमाह—
ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरत्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥१३॥
क्षितिरुत्तमसस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपरैरभिपालनप्रवृद्धा द्युचरस्पर्द्धिजना तदा विभाति ॥१४॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाभितर्पयद्भिः ।
सुरराजगुरोः शुभे तु वर्षे बहुसस्या क्षितिरुत्तमर्द्धियुक्ता ॥१५॥
गुरु के शुभ वर्ष, मास या दिन में यज्ञों में रात्रिवर्जित काल में श्रेष्ठ ब्राह्मण से
उच्चरित, विस्तीर्ण, स्वर्ग तक पहुँचने वाली, यज्ञ में विघ्न करने वाले राक्षसों के मन को
भेदन करने वाली और इन्द्रादि के मन को प्रसन्न करने वाली वेदध्वनि होती है। राजाओं
से अच्छी तरह परिरक्षित, उत्तम धान्य, बहुत हाथी, पदाति, घोड़ा, धन और विस्तृत
गोकुलों से पृथ्वी परिपूर्ण होती है। देवता के समान मनुष्य होते हैं। सदा भूमि को जल से
परिपूर्ण करते हुये उन्नत, विविध मेघों से आकाश व्याप्त होता है तथा बहुत तरह के धान्य
और समृद्धि से युत पृथ्वी होती है।
विशेष—यहाँ पर शुभ वर्ष इसलिये कहा गया है कि बृहस्पतिचारोक्त पिङ्गल-
कालयुत और रौद्रनामक बृहस्पति के वर्ष अशुभ हैं। अतः इस वर्ष का स्वामी होने पर
बृहस्पति का सम्पूर्ण फल नहीं प्राप्त होता; किन्तु प्रभव, शुक्ल, प्रमोद आदि वर्षों का
स्वामी होने पर बृहस्पति का सम्पूर्ण फल प्राप्त होता है॥१३-१५॥
सुरराज इन्द्रः। तस्य गुरुर्जीवः। तस्य सुरराजगुरोः शुभे शोभने वर्षे मासे दिवसे
वा फलान्येतानि भवन्ति। नन्वत्र सर्वग्रहाणां वर्षफलानि सामान्येनाभिहितानि भवन्ति।
अत्र तु किमर्थं शुभग्रहणमित्यत्रोच्यते—अथैकदेशे पिङ्गलकालयुक्तरौद्रसंज्ञानि वर्षाण्यशुभ-
फलान्युक्तानि। तेषु सत्यपि गुरौ वर्षपतित्वे न तथा फलानि परिपूर्णानि भवन्ति। यदा
तु पुनः प्रभवविभवशुक्लप्रमोदवर्षाणि शुभानि भवन्ति, तदा तेषु गुरौ वर्षपतित्वे सत्येतानि
परिपूर्णानि भवन्त्यत उक्तम्—शुभे तु वर्ष इति। कीदृशानि तानि फलानि? ध्वनिरुच्चरित
इति। द्विजोत्तमानां ब्राह्मणप्रधानानामध्वरे यज्ञे ध्वनिः शब्द उच्चरित उद्घोषो विपुलो
विस्तीर्णः। अनिशं रात्रिवर्जितम्। द्युगामी स्वर्गामी। विचरति गच्छति। कीदृशो ध्वनिः?
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
भिन्दन्? Yes, भिन्दन्.
विदारयन्। - correct.
तथा - correct.
अध्वरांशभाजां - correct.
Line 3:
यज्ञभागिनामिन्द्रादीनां हृदये चेतसि आनन्दकरः।
- यज्ञभागिनामिन्द्रादीनां: यज्ञ-भागिनाम्-इन्द्रादीनां -> यज्ञभागिनामिन्द्रादीनां.
- हृदये चेतसि आनन्दकरः। - correct.
Line 4:
क्षितिर्भूः। क्षितिपैर्भूम्यधिपतिभिः। अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
- क्षितिर्भूः।
- क्षितिपैर्भूम्यधिपतिभिः।
- अभिमुख्येन सम्यक् पालनेन रक्षणेन प्रवृद्धा
All correct.
Line 5:
वृद्धिं गता विभाति शोभते। तदा तस्मिन् वर्षे। कीदृशी? उत्तमसस्यवती। उत्तमानि
- वृद्धिं गता विभाति शोभते।
- तदा तस्मिन् वर्षे।
- कीदृशी?
- उत्तमसस्यवती।
- उत्तमानि
All correct.
Line 6:
प्रधानानि सस्यानि धान्यादीनि विद्यन्ते यस्याम्। अनेकैर्बहुभिर्द्विपैर्गजैः। पत्तिभिः पदातिभिः।
- प्रधा
ग्रहवर्षफलाध्यायः ३१७
तालाब से व्याप्त; अतः विविध वर्णों से युत पृथ्वी सम्पूर्ण भूषणों से युत स्त्री की तरह
शोभित होती है। पृथ्वी पर शत्रुपक्ष के बहुत सेनाओं को नाश करने से उद्घोषित जयशब्दों
से सभी दिशाओं को पूर्ण करने वाले राजवर्ग होते हैं। आनन्दयुत सज्जनगण, विनष्ट
दुर्जन-गण और अर्थोत्पत्तिस्थानों से युत पृथ्वी होती है। वसन्त समय में स्त्रियाँ आनन्दपूर्वक
बार-बार मद्यपान करती हैं, बाँसुरी और वीणा के साथ श्रवणसुखद गीत गाती हैं, अभ्यागत,
मित्र और बन्धुओं के साथ बार-बार भोजन करती हैं तथा सब जगह कामदेव का जय-
जयकार होता है ।। १६-१८ ।।
सितस्य शुक्रस्य अब्दे मासे दिने वा फलानीदृशानि भवन्ति। कीदृशानि? शालीक्षुम-
त्यपीति। धरा भूरभिनवाभरणोज्ज्वलाङ्गी योषा स्त्रीव भाति शोभते। अभिनवैर्नूतनैराभरणै-
रलङ्करणैरुज्ज्वलान्युपशोभितानि अङ्गान्यवयवानि यस्या योषायाः सा। कीदृशी धरा?
शालीक्षुमत्यपि शालयो धान्यादीनि। इक्षवश्च विद्यन्ते यस्यां तथाभूता सती। धरणीधराणां
पर्वतानां सदृशी तुल्या आभा आकृतिर्येषां ते तथाभूता ये धाराधरा मेघास्तैर्यदुज्झितं त्यक्तं
पयो जलं तेन परिपूर्णा वप्रास्तटा यस्याः। श्रीर्विद्यते येषां सरोरुहाणां पद्मानां तानि
श्रीमन्ति। तैः श्रीमत्सरोरुहैः। तथा ततं विस्तीर्णं यदम्बु जलं तच्च येषां तडागानां तैः
कीर्णा संयुक्ता अत एव विचित्रवर्णत्वाद्योषेव भाति। अभिनवाभरणोज्ज्वलाङ्गी योषा धरा-
साम्येनोपमानम्।
तथा क्षत्रं राजवर्गः क्षितौ भूमौ कीदृशं भवति? क्षपितभूरिबलारिपक्षम्। क्षपितं
विनाशितं भूरिबलं प्रभूतवीर्यमरिपक्षः शत्रुपक्षश्च येन। तथा योऽसौ उद्घुष्ट उद्घोषितो-
ऽनेको बहुप्रकारो यो जयशब्दस्तेन विराविताः कृतशब्दा आशाः दिशो यस्य तत् तथाभूतम्।
तथा गां भूमिमवनिपा राजानः पालयन्ति रक्षन्ति। कीदृशीम्? संहृष्टशिष्टजनदुष्टविनष्टवर्गाम्।
संहृष्टः प्रहर्षितः शिष्टजनः साधुलोको यस्याम्। तथा दुष्टानांमसाधूनां विशेषेण नष्टो वर्गः
समूहो यस्याम्। तथा नगरैः पत्तनैराकरैरर्थोत्पत्तिस्थानैश्चाढ्यां समृद्धाम्।
पेपीयत इति। मधौ वसन्ते मधु मद्यं पानविशेषः कामिनीभिर्विलासिनीभिः पेपीयते
अत्यर्थं पीयते पुनः पुनर्वा पीयते। वेणुर्वंशः। वीणा वल्लकी। ताभ्यां सह सवेणुवीणं
श्रवणहारि कर्णसुखकारि जेगीयते। अत्यर्थं पुनः पुनर्वा गीयते। अतिथिभिरागतैः सुहृद्भिर्मित्रैः
स्वजनैर्बन्धुजनैः सह साकमन्नं भोजनं बोभुज्यते। अत्यर्थं पुनः पुनर्वा भुज्यते। मदनस्य
कामस्य जयावघोषो जयशब्दोद्घोषणम्। अतीव कामासक्ता भवन्तीत्यर्थः। तथा च
यवनेश्वरः—
पर्याप्तसौख्यस्फुटसस्यमेघाः प्ररूढवल्लीवरशष्पपुष्पः।
कामप्रकामः क्षितिपो मुदाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः।।
तथा च समाससंहितायाम्—
सस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः।
कामिनां कामदः कामं सिताब्दो नृपशर्मदः।। इति।। १६-१८।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
३१८ बृहत्संहिता
अथ सौरस्याह—
उद्धतदस्युगणभूरिरणाकुलानि राष्ट्राण्यनेकपशुवित्तविनाकृतानि।
रोरूयमाणहतबन्धुजनैर्जनैश्च रोगोत्तमाकुलकुलानि बुभुक्षया च ॥१९॥
वातोद्धताम्बुधरवर्जितमन्तरिक्ष-
मारुग्णनैकविटपं च धरातलं द्यौः।
नष्टार्कचन्द्रकिरणातिरजोऽवनद्धा
तोयाशयाश्च विजलाः सरितोऽपि तन्व्यः ॥२०॥
जातानि कुत्रचिदतोयतया विनाश-
मृच्छन्ति पुष्टिमपराणि जलोक्षितानि।
सस्यानि मन्दमभिवर्षति वृत्रशत्रु-
र्वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥२१॥
शनि के वर्ष, मास या दिन में चोरों से सम्बन्धित युद्धों से व्याप्त, पशु और धानों से
रहित, संग्राम में बन्धुजनों के मरण से बार-बार रोते हुये वंशों से युत, प्रधान रोग तथा
क्षुधा से व्याकुल राष्ट्र होते हैं, वायु से उड़ाये गये मेघों से रहित आकाश होता है, अनेक
तरह से नष्ट वृक्षों से युत पृथ्वी होती है, सूर्य और चन्द्रकिरणों से रहित आकाश होता है,
धूलियों से स्थगित वापी, कूप और तालाब होते हैं तथा नदियों में अत्यन्त कम जल होता
है। इन्द्र अल्प वर्षा करता है, इसलिये कहीं-कहीं पर जल के बिना धान्य नष्ट हो जाते हैं
और कहीं-कहीं पर जल से सिक्त होकर पुष्ट होते हैं।।१९-२१।।
दिनकरसुतस्य सौरस्य वर्षे अब्दे प्रवृत्ते वर्तमाने मासे दिवसे वा सदा सर्वकालमेतानि
फलानि भवन्ति। कीदृशानि? उद्धतदस्युगणभूरिरणाकुलानि। उद्धत उद्गतो योऽसौ दस्युगणो
दस्यूनां चौराणां समूहस्तेन भूरि बहुप्रकारा ये रणाः संग्रामास्तैराकुलानि सोद्यमानि राष्ट्राणि
नृपकुलानि भवन्ति। तथा अनेके प्रभूता ये पशवश्चतुष्पदाः। वित्तानि धनानि। तैश्च विना-
कृतानि वर्जितानि रहितानि। हताः संग्रामे बन्धुजना येषां जनानां ते हतबन्धुजना रोरूय-
माणा अत्यर्थं रोदमानाश्च ते जनास्तैस्तथाभूतैर्जनैश्चाकुलानि सोद्यमानि कुलानि वंशाः। तथा
रोगोत्तमैर्गदप्रधानैर्बुभुक्षया क्षुधा वाऽऽकुलानि भवन्ति।
तथान्तरिक्षमाकाशं वातोद्धताम्बुधरवर्जितम्। वातेनोद्धताश्चालिता येऽम्बुदा मेघास्तै-
र्वर्जितं रहितम्। धरातलं भूतलम्। आरुग्णनैकविटपम्। आरुग्णा भग्ना नैका बहुप्रकारा
विटपाः शाखिनश्च यत्र धरातले तत्तथाभूतम्। द्यौराकाशम्। नष्टार्कचन्द्रकिरणा नष्टा अदर्शनं
गता अर्कचन्द्रयोः सूर्यशशिनोः किरणा रश्मयो यस्याम्। अतिरजसा सन्ततपांशुना अव-
नद्धा स्थगिता तोयाशया जलाधारा वापीकूपतडागादयः। विजला जलरहिताः सरितो
नद्यस्तन्व्यः स्वल्पजलाश्च भवन्ति।
अपिशब्दोऽत्र चार्थे। वृत्रशत्रुरिन्द्रः स्वल्पमभिवर्षति। केचित् सप्तम्यन्तं पठन्ति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA