सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 349, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 349

Here is the line-by-line transcription of the text from the provided image:

शशिग्रहसमागमाध्यायः ३०७
यदि शुक्र के उत्तर तरफ होकर चन्द्र गमन करे तो कोश, हाथी और घोड़ों की वृद्धि,
धनुर्धारी, पापी और जीतने की इच्छा रखने वालों की विजय तथा धान्यों की अच्छी
उत्पत्ति होती है।।५।।
भार्गवस्य शुक्रस्य शशी चन्द्रो यद्युदगुत्तरेण याति तदा कोशयुक्तानां सञ्चितभाण्डा-
गाराणां गजानां वाजिनामश्वानां च वृद्धिप्रदो भवति। तथा धनुष्मतां धनुर्भृतां यायिनां च
जिगमिषूणां विजयो भवति। सस्यानामपि चोत्तमा तदा तस्मिन् काले सम्पद्भवति। अपि-
शब्दोऽत्रातीवार्थे ।।५।।
अथ सौरस्याह—
रविजस्य शशी प्रदक्षिणं कुर्याच्चेत्पुरभूभृतां जयः।
शकबाह्लिकसिन्धुपह्नवा मुदभाजो यवनैः समन्विताः ।।६।।
यदि शनैश्चर के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी और राजाओं की
विजय तथा शक, वाह्लिक, सैन्धव और पह्लवदेशवासी मनुष्य हर्षयुत होते हैं।।६।।
रविजस्य शनैश्चरस्य शशी चन्द्रः प्रदक्षिणमुत्तरगमनं चेद्यदि कुर्यात्तदा पुरभूभृतां
पुरनिवासिनां राज्ञां जयो भवति। तथा शका जनाः। बाह्लिकाः। सैन्धवाः। पह्लवाः। एते
सर्वे यवनैः समन्विताः मुदभाजो भवन्ति। मुदं हर्षं भजन्ते सेवन्ते। प्रहृष्टा भवन्तीत्यर्थः ।।६।।
अत्रैव विशेषमाह—
येषामुदग्गच्छति भग्रहाणां प्रालेयरश्मिर्निरुपद्रवश्च।
तद्द्रव्यपौरैतरभक्तिदेशान् पुष्णाति याम्येन निहन्ति तानि ।।७।।
जिन नक्षत्रों या ग्रहों के उत्तर तरफ होकर उत्पातरहित चन्द्र गमन करे उन नक्षत्रों या
ग्रहों के द्रव्यों की पुष्टि और दक्षिण तरफ होकर गमन करे तो हानि करता है।।७।।
येषां भानां नक्षत्राणां ग्रहाणां च भौमादीनां प्रालेयरश्मिर्हिमदीधितिश्चन्द्रः। उदगुत्तरेण
निरुपद्रव उत्पातरहितो गच्छति याति। तद्द्रव्याणि तेषां भग्रहाणां द्रव्याणि यान्युक्तानि
ग्रहभक्तिमध्ये नक्षत्रव्यूहे च। तथा ग्रहाणां मध्याद्ये पौरा नागरा ये चेतरे यायिनस्तांस्तथा
तद्भक्तिदेशांस्तेषां ग्रहाणां ये स्वभक्तौ देशा उक्तास्तांश्च पुष्णाति पुष्टिं नयति। याम्येन
दक्षिणेन गतस्तान्येव द्रव्यादीनि निहन्ति विनाशयति।।७।।
अत्रैव पुनरपि विशेषमाह—
शशिनि फलमुदक्स्थे यद् ग्रहस्योपदिश्टं
भवति तदपसव्ये सर्वमेव प्रतीपम्।
इति शशिसमवायाः कीर्तिता भग्रहाणां
न खलु भवति युद्धं साकमिन्दोर्ग्रहक्षैः ॥८॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां शशि-
ग्रहसमागमाध्यायोऽष्टादशः ।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA