सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 345, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 345

तथा कोशला जनाः। कलिङ्गाः। वङ्गाः। वत्साः। मत्स्याश्च। एत एव मध्यदेशयुता
मध्यदेशेन समन्विता महतीं पीडां व्रजन्ति प्राप्नुवन्ति। नपुंसकाः क्लीबाः। शूरसेनाश्च
जना महतीं पीडां व्रजन्ति।
भृगुतनये शुक्रे कुजविजिते भौमहते बलमुख्यः सेनापतिस्तस्य वधो मरणं भवति।
नरेन्द्राणां राज्ञां संग्रामा युद्धानि भवन्ति। सौम्येन बुधेन जिते शुक्रे पार्वतीयाः पर्वतवासिनो
नाशमायान्ति। गवां च क्षीरविनाशो भवति। अल्पा वृष्टिश्च भवत्येव।
रविजेन शनैश्चरेण सिते शुक्रे विजिते गणमुख्या गणप्रधानाः। शस्त्रजीविनः शस्त्र-
वृत्तयः। क्षत्रं क्षत्रियवर्गः। जलजा जलोद्भव्वाश्च। निपीड्यन्ते पीडामुपयान्ति। तद्विशेषफलम्।
सामान्यं भक्तिफलमन्यत्। अन्यदपरं यत्स्वभक्तिफलमुक्तं तदपि हन्ति।।२१-२४।।
अथ सौरस्य ग्रहविजितस्य फलमाह—
असिते सितेन निहतेऽर्घवृद्धिर्हिविहगमानिनां पीडा।
क्षितिजेन तङ्गणान्ध्रोड्रकाशिबाह्लीकदेशानाम् ॥ २५॥
सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः।
सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ॥ २६ ॥
यदि शुक्र से पराजित शनि हो तो सभी द्रव्यों में मौल्य की वृद्धि, सर्प, पक्षी और
मानियों को पीड़ा होती है। यदि मङ्गल से पराजित हो तो तङ्गण, आन्ध्र, उड्र, काशी और
बाह्लीक देश में निवास करने वालों को पीड़ा होती है। यदि बुध से पराजित हो तो अङ्ग देश
में निवास करने वाले, क्रय-विक्रय से आजीविका चलाने वाले, पक्षी, पशु और हाथी
पीड़ित होते हैं। यदि गुरु से पराजित शनि हो तो अधिक स्त्री वाला देश, महिषक देश में
रहने वाले और शक देश में रहने वाले पीड़ित होते हैं।। २५-२६।।
असिते सौरे सितेन शुक्रेण निहते विजिते अर्धवृद्धिर्भवति सर्वद्रव्याणां सुलभत्वं
भवति। अहीनां सर्पाणां विहगानां पक्षिणां मानिनां मानयुक्तानां जनानां च पीडा भवति।
क्षितिजेनाङ्गारकेण सौरे विजिते सति तङ्गणा जनाः। अन्ध्राः। उड्राः। काशयः। बाह्लीकाः।
एतेषां जनानां ये देशास्तेषां पीडा भवति।
सौम्येन बुधेन मन्दे शनैश्चरे पराभूते। अङ्गा जनाः। वणिजः क्रयविक्रयजीविनः।
विहङ्गा पक्षिणः। पशवश्चतुष्पदाः। नागा हस्तिनः। एते सन्ताप्यन्ते पीड्यन्ते। तथा
गुरुणा बृहपतिना जिते सौरे स्त्रीबहुला ये देशाः। महिषकशकाश्च जनाः। सन्ताप्यन्ते
पीड्यन्ते।।२५-२६।।
अत्रैव विशेषमाह—
अयं विशेषोऽभिहितो हतानां
कुजज्ञवागीशसितासितानाम् ।