सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 347, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 347

अथ शशिग्रहसमागमाध्यायः
अथ शशिग्रहसमागमाध्यायो व्याख्यायते। तत्रादावेव चन्द्रमसो गतिलक्षणमाह—
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिणं तच्छुभदं नृपाणां याम्येन यातो न शिवः शशाङ्कः ॥१॥
यदि नक्षत्र या ग्रहों के निकटवर्ती होकर चन्द्रमा प्रदक्षिण क्रम से उत्तर तरफ होकर
गमन करे तो राजाओं का शुभ और दक्षिण तरफ होकर गमन करे तो अशुभ करने वाला
होता है।
विशेष—यह समागम जिन नक्षत्रों का शर चन्द्रशर से अल्प या तुल्य है, उन्हीं का
होता है। जैसे—कृत्तिका, रोहिणी, पुष्य, मघा, चित्रा, विशाखा, अनुराधा, ज्येष्ठा, शतभिषा,
रेवती—इन नक्षत्रों का शर चन्द्रशर से अल्प होने के कारण चन्द्र के साथ समागम होता
है। जिन नक्षत्रों का उत्तरशर चन्द्रशर से अधिक है, उनके सदा दक्षिण तरफ होकर और
जिनका दक्षिण शर चन्द्रशर से अधिक है, उनके सदा उत्तर होकर चन्द्र गमन करता
है॥१॥
शशाङ्कश्चन्द्रः। भानां नक्षत्राणां यथासम्भवमुत्तरेण यातो गतः। यथासम्भवमिति
निकटवर्तिनं प्रदर्शयति। येषां चन्द्रविक्षेपादूनो विक्षेपस्तत्तुल्यो वा तेषां प्रायेण सम्भवति।
यथा कृत्तिकारोहिणीपुष्यमघाचित्राविशाखानुराधाज्येष्ठशतभिषग्रेवतीनां सम्भवति। अन्येषां
कदाचित् सम्भवति दूरवर्तिनामुत्तरेण तस्य गमनं न सम्भवति। यथा स्वातिश्रवणधनिष्ठादिषु।
स्वातेः सप्तत्रिंशद् भागा उत्तरो विक्षेपः। चन्द्रस्य सार्द्धांश्चत्वारस्तस्य सर्वकालं दक्षिणेन
याति चन्द्रः। तेषां चन्द्रविक्षेपादधिक उत्तरतो विक्षेपस्तेषां सदैव दक्षिणेन याति। येषां
चन्द्रविक्षेपादधिको दक्षिणो विक्षेपस्तेषां सदैवोत्तरेण याति चन्द्रः। एवं भौमादीनां यथा-
सम्भवमपि योज्यम्। एवं येषां सम्भवति तेषां योज्यम्। ग्रहाणां भौमादीनां वोत्तरेण यातः
प्रदक्षिणं कृत्वा। तच्च प्रदक्षिणगमनं नृपाणां राज्ञां शुभं श्रेयस्करम्। याम्येन दक्षिणेन
शशाङ्को यातो न शिवो न शुभद इत्यर्थः। ग्रहाणामपि यथासम्भवं योज्यम्। तथा च
ऋषिपुत्रः—
दक्षिणेनापसव्यं स्यादुत्तरेण प्रदक्षिणम्।
ग्रहाणां चन्द्रमा ज्ञेयो नक्षत्राणां तथैव च॥
तथा च वृद्धगर्गः—
नक्षत्राणां ग्रहाणां वा यदा तूत्तरगः शशी।
तत्प्रदक्षिणमित्याहुर्भवेत् क्षेमसुवृष्टये॥
बृ० भ० प्र०-२०
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA