सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 352, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 352

३१० बृहत्संहिता
एवं वर्षजं फलं मासदिवसहोरास्वपि बोद्धव्यम्।
तत्र रविवर्षे मासे दिने वा कीदृशानि फलानि? सर्वत्र सर्वस्मिन् देशे भूरवनिर्विर्-
लैस्तनुभिः स्वल्पैः सस्यैर्धान्यादिभिर्युता संयुक्ता भवति। तथैव वनानि अरण्यानि दंष्ट्रिभिः
सर्पवराहादिभिः समावृतानि संयुक्तानि भवन्ति। कीदृशैर्दंष्ट्रिभिः ? दैवाद्वैवहेतोर्ये बिभक्षयि-
षवो भक्षयितुमिच्छवस्तथाभूतैः। दैवशब्देन प्राक्कर्मोच्यते। तथा चोक्तम्—
प्राग्जन्मनि कृतं कर्म शुभं वा यदि वाऽशुभम्।
दैवशब्देन निर्दिष्टमिह जन्मनि तद्बुधैः ।। इति।
तस्माद्वनानि दैवाद् बिभक्षयिषुर्दंष्ट्रिसमावृतानि भवन्ति। नद्यः सरितः प्रचुरं प्रभूतं
पयो जलं न स्रवन्ति न स्यन्दन्ति। रुजां रोगाणामुपशमार्थं यानि च भेषजानि द्रव्याणि
तानि न तथा तेनैव प्रकारेणातिबलान्वितानि वीर्ययुक्तानि भवन्ति। रोगोपशान्तिं सम्यग्
न कुर्वन्तीत्यर्थः।
तथा अदितिज आदित्यः। शिशिरेऽपि काले माघफाल्गुनमासयोः शीतकालेऽपि
तीक्ष्णमतिचण्डं तपति सन्तापयति। अम्बुदा मेघा अचलसन्निकाशाः पर्वताकारा अपि
नातिजलमुचो न प्रभूतं जलं मुञ्चन्ति त्यजन्ति। तथा नभ आकाशं कीदृशं नष्टप्रभर्क्षगण-
शीतकरम्, नष्टप्रभो विगतकान्तिर्ऋक्षगणो नक्षत्रसमूहः शीतकरश्चन्द्रमा यत्र तत्। तापस-
कुलानि तपस्विनां वंशाः। सगोकुलानि गोकुलेन सहितानि सीदन्त्यवसादयन्ति।
तथा नृपा राजानो युधि संग्रामे नृपानुचरैः सचिवैर्लोकपालैः सह साकं देशान्
विषयान् घ्नन्तो जिघांसन्तो विचरन्ति गच्छन्ति। कीदृशा नृपाः? हस्त्यश्वपत्तिमदसह्यबलै-
रुपेताः। हस्तिनो गजाः। अश्वास्तुरगाः। पत्तयः पदातयो विद्यन्ते येषु बलेषु तानि। तथाभूतैः
हस्त्यश्वपत्तिमद्भिरसह्यैरनभिभवनीयैर्बलैः सैन्यैरुपेताः संयुक्ताः। तथा बाणासनासिमुशला-
तिशयाः। बाणा अस्यन्ते क्षिप्यन्ते येन तद्बाणासनं धनुः। असिः खड्गः। मुशल आयु-
धविशेषो मुशलाकार एव। तेषु अतिशयो यत्नो येषां ते तथाभूताः। तथा च यवनेश्वरः—
दिवाकराब्दे रणविग्रहाग्र्यक्षितीश्वरस्तीव्रविषज्वराग्निः।
अवर्षशुष्कद्रुमशुष्कसस्यप्रचण्डवह्ल्युग्रविषाक्षिरोगाः।।
तथा च समाससंहितायाम्—
तीक्ष्णोऽर्कः स्वल्पसस्यश्च गतमेघोऽतितस्करः।
बहूरगव्याधिगणो भास्कराब्दो रणाकुलः।।१९-३।।
अथ चन्द्रमस आह—
व्याप्तं नभः प्रचलिताचलसन्निकाशै-
र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः।
गां पूरयद्भिरखिलाममलाभिरद्भि-
रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥४॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA