बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 348, कुल 728 में से
संदर्भ में पढ़ें३०६ बृहत्संहिता
नक्षत्राणां ग्रहाणां वा यदा दक्षिणतो व्रजेत्।
अपसव्यं तदेव स्यादवृष्टिभयलक्षणम्॥ इति॥१॥
अथाङ्गारकस्योत्तरगते चन्द्रे फलमाह—
चन्द्रमा यदि कुजस्य यात्युदक् पार्वतीयबलशालिनां जयः।
क्षत्रियाः प्रमुदिताः सयायिनो भूरिधान्यमुदिता वसुन्धरा ॥२॥
यदि मङ्गल के उत्तर तरफ होकर चन्द्र गमन करे तो पर्वत पर निवास करने वाले और
बलशालियों की विजय होती है, यायी मनुष्यों के साथ क्षत्रियगण प्रमुदित होते हैं तथा
पृथ्वी अधिक धान्यों से युत होती है॥२॥
कुजस्याङ्गारकस्य चन्द्रमाः शशी यद्युदगुत्तरेण याति गच्छति तदा पार्वतीयानां
पर्वतनिवासिनाम्। बलशालिनां बलेन ये शालन्ते श्लाघ्यन्ते तेषां च जयो भवति। तथा
च सयायिनो यायिभिः सहिताः क्षत्रियाः प्रमुदिता हृष्टा भवन्ति। तथा च वसुन्धरा भूः।
भूरिधान्येन बहुधान्येन मुदिता हृष्टा भवति॥२॥
अथ बुधस्याह—
उत्तरतः स्वसुतस्य शशाङ्कः पौरजयाय सुभिक्षकरश्च।
सस्यचयं कुरुते जनहार्दिं कोशचयं च नराधिपतीनाम् ॥३॥
यदि बुध के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी राजाओं की विजय,
सुभिक्ष, धान्यों की वृद्धि, लोगों को आन्तरिक तृष्टि और राजाओं के कोश की वृद्धि होती
है॥३॥
शशाङ्कश्चन्द्रः। स्वसुतस्यात्मीयपुत्रस्य बुधस्योत्तरत उत्तरेण यदि याति तदा पौराणां
नृपाणां जयो भवति सुभिक्षं च करोति। तथा च सस्यानां चयमुपचयं जनानां लोकानां
च हार्दिं तुष्टिं नराधिपतीनां राज्ञां कोशचयं भाण्डागारवृद्धिं च करोति॥३॥
अथ गुरोराह—
बृहस्पतेरुत्तरगे शशाङ्के पौरद्विजक्षत्रियपण्डितानाम्।
धर्मस्य देशस्य च मध्यमस्य वृद्धिः सुभिक्षं मुदिताः प्रजाश्च ॥४॥
यदि बृहस्पति के उत्तर तरफ होकर चन्द्र गमन करे तो पुरवासी, ब्राह्मण, क्षत्रिय,
पण्डित, धर्म, मध्यदेश—इन सबों की वृद्धि, सुभिक्ष और सम्पूर्ण प्रजा हर्षयुत होती है।
शशाङ्के चन्द्रे वृहस्पतेरुत्तरगे उत्तरस्यां दिशि स्थिते पौराणां जनानां द्विजानां ब्राह्म-
णानां क्षत्रियाणां राजन्यानां पण्डितानां विदुषां तथा धर्मस्य मध्यमस्य च देशस्य मध्यमदेशा-
ख्यस्य वृद्धिर्भवति। सुभिक्षं च भवति। तथा सर्वाः प्रजा मुदिता हृष्टा भवन्ति॥४॥
अथ शुक्रस्याह—
भार्गवस्य यदि यात्युदक् शशी कोशयुक्तगजवाजिवृद्धिदः।
यायिनां च विजयो धनुष्मतां सस्यसम्पदपि चोत्तमा तदा ॥५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA