बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 355, कुल 728 में से
संदर्भ में पढ़ेंग्रहवर्षफलाध्यायः ३१३
तथा पयोदा मेघा वियत्याकाशे अभ्युन्नताः अभिमुख्येनोच्चाः। संहतमूर्तयो घनदेहा
अपि कुत्रचिदपो जलं प्रचुरं बहु मुञ्चन्ति त्यजन्ति। तथा सीम्नि जलप्रवेशमार्गेऽपि प्रजातम्।
निम्ने प्रजातमिति केचित् पठन्ति। निम्ने प्रजातमुत्पन्नं सस्यं धान्यादिकं शोषं नीरसत्वमुपैति
प्राप्नोति। तथा निष्पन्नमपि सञ्जातमपि सस्यमपरे अन्ये शत्रव उत्पाता वा अविनयादनीत्या
अशनिप्रपातादिना वा हरन्त्यपनयन्ति।
तथा भूपा राजानः सम्यग्धर्मेणाभिपालने रक्षणे सक्तचित्तास्तत्परा न भवन्ति। तथा
पित्तोत्थानां रुजां रोगाणां प्रचुरता बाहुल्यं भवति। भुजगेभ्यः प्रकोपो लोकानां पीडा भवति।
एवंविधैरीदृशैर्दोषैरियं प्रजा जनसमूहा उपहता पीडिता भवति। तथा विपन्नसस्या च।
तथा च यवनेश्वरः—
रणप्रचण्डः क्षितिपोऽल्पसस्यो विशुष्कवारिद्रुमशष्पशीर्णः।
अङ्गारकाब्दः प्रचुररोगाग्निरातङ्कचौर्यक्षुद्वृष्टिदृष्टः॥
तथा च समाससंहितायाम्—
अग्नितस्कररोगाढ्यो नृपविग्रहदायकः।
गतसस्यो बहुव्यालो भौमाब्दो बालहा भृशम्॥ इति॥७-९॥
अथ बुधस्याह—
मायेन्द्रजालकुहकाकरनागराणां
गान्धर्वलेख्यगणितास्त्रविदां च वृद्धिः।
पिप्रीषया नृपतयोऽद्भुतदर्शनानि
दित्सन्ति तुष्टिजननानि परस्परेभ्यः ॥१०॥
वार्ता जगत्यवितथा विकला त्रयी च
सम्यक् चरत्यपि मनोरिव दण्डनीतिः।
अध्यक्षरस्वभिनिविष्टधियोऽपि केचि-
दान्वीक्षिकीषु च परं पदमीहमानाः ॥११॥
हास्यज्ञदूतकविबालनपुंसकानां
युक्तिज्ञसेतुजलपर्वतवासिनां च।
हार्दिं करोति मृगलाञ्छनजः स्वकेऽब्दे
मासेऽथवा प्रचुरता भुवि चौषधीनाम् ॥१२॥
बुध के वर्ष, मास या दिन में प्रपञ्चों में कुशल, इन्द्रजाल विद्या को जानने वाले,
आश्चर्य देखने वाले, अर्थोत्पत्तिस्थान को जानने वाले, नगरों में रहने वाले, गान विद्या
जानने वाले, लेखक, गणितज्ञ और अस्त्र विद्या जानने वाले उन्नतियुत होते हैं। राजा लोग
परस्पर प्रीति बढ़ाने की इच्छा से आश्चर्यजनक और हर्षोत्पादक द्रव्य परस्पर एक-दूसरे
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA