बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
शुक्रचाराध्यायः १९३
इन देशों में स्थित मनुष्यों को पीड़ा होती है। विदेह देश-स्थित जनों का मरण होता है
तथा गुहा में निवास करने वाले, यवन, शक और दासों की वृद्धि होती है॥२०-२१॥
धनिष्ठाद्यं धनिष्ठापूर्वकं षण्णक्षत्रम्—धनिष्ठा, शतभिषक्, पूर्वभद्रपदोत्तरभद्रपदा,
रेवती, अश्विनीति। एतत् षष्ठं मण्डलम्। तच्च शुभं शुभफलप्रदम्। भूरिधनगोकुलाकुलम्।
भूरि बहुलम्। धनं वित्तम्। गोकुलानि गोवाटाः। एतैराकुलं सोद्यमं व्याप्तम्। अनल्पधान्यं
प्रभूतशालिसंयुक्तम्। क्वचित् क्वचिच्च सभयं भीतिसंयुक्तं न सर्वत्र।
अत्रास्मिन् मण्डले यद्यपरो ग्रहः सितं शुक्रमारोहेत्तदा शूलिकाः। गान्धाराः। अवन्तयः।
एते जनाः प्रपीड्यन्ते। तथा वैदेहानां जनानां वधो मरणम्। प्रत्यन्ता गह्वरवासिनः। यवनाः।
शकाः। दासाः कर्मकराः। एतेषां परिवृद्धिर्भवति॥२०-२१॥
अथैषां मण्डलानां विशेषफलमाह—
अपरस्यां स्वात्याद्यं ज्येष्ठाद्यं चापि मण्डलं शुभदम्।
पित्र्याद्यं पूर्वस्यां शेषाणि यथोक्तफलदानि ॥२२॥
पूर्वोक्त मण्डलों में स्वाती आदि ( चतुर्थ ) और ज्येष्ठा आदि ( पञ्चम ) मण्डल
पश्चिम दिशा में शुभ करने वाले होते हैं। मघा आदि ( तृतीय ) मण्डल पूर्व दिशा में शुभद
होता है। शेष तीन मण्डलों ( प्रथम, द्वितीय और षष्ठ ) का यथोक्त फल समझना
चाहिये॥२२॥
अपरस्यां पश्चिमायां दिशि स्वात्याद्यं मण्डलं ज्येष्ठाद्यं च तच्छुभदम्। एतदुक्तं
भवति—अस्मिन् मण्डलद्वये शुक्र उदितः पश्चिमायां शुभफलदः। एवमेव पित्र्याद्यं मघाद्यं
मण्डलं पूर्वस्यां दिशि शुभदम्। शेषाण्यन्यानि मण्डलानि यथोक्तफलदानि यथा प्रागुक्तं
फलं तदेव प्रयच्छन्तीत्यर्थः। तथा च पराशरः—
'आद्यरोहितदारुणविरोचनोर्ध्वदण्डतीक्ष्णान्येतानि षण्मण्डलानि। तत्र भरण्यादीनि
चत्वारि चतुर्नक्षत्राणि। ज्येष्ठाद्ये द्वे पञ्चनक्षत्रे। आद्यमेव मण्डलचतुष्टयं वातमाहुस्तीक्ष्णं
व्याडममार्गम्। ऊर्ध्वदण्डं वैश्वानरमृते श्रवणात्। अथ मण्डलेषु विचरन् क्रमाद् गोब्रह्मचारि-
नृपतनयसुहृद्भूपालप्रजानामुपतापायेति। तेष्वेवोदयास्तमयौ कुर्वन् प्रथमेऽतीवसुभिक्षा-
याङ्गवङ्गशबरकलिङ्गाननयैः स्पृशति। अत्रैवान्यग्रहारूढोऽसौ माञ्जिष्ठपुरुषादशूरसेनपटच्चर-
पण्यागाराभावाय। द्वितीयेऽन्नसम्पत्प्रदोऽवन्त्यश्मकमालवपाण्ड्यकैकयोपद्रवाय च। तृतीये
शकसौराष्ट्रनृपान्यायान्यग्रहारूढः काश्मीरयवनक्षुद्रमालवकिरातशाकाननयेन स्पृशति। चतुर्थे
सुवर्षसस्यक्षेमाणि विधत्तेऽन्यग्रहारूढः सुभगान्श्वित्रांश्चोपतापयति। पञ्चमे मगधान् शूद्रान्
जनाननयैः स्पृशति। अत्रैवान्यग्रहारूढो व्याधिभयशस्त्रदुर्भिक्षावर्षाणि सृजति। विशेषतस्तु
कुरुपाञ्चालशाल्वेयशूरसेनपटच्चराहारभूतोऽभिपीड्यन्ते। षष्ठे बालगर्भान् बालान् शूद्रांश्च
हिनस्ति। यद्यारोहेत तदा काम्बोजैः सैन्धवो नृपतिः पराजयेत आवन्त्याश्मकाधिपती चोप-
सृज्येते।' अत्र मतभेदो वराहमिहिरेण सहास्ति। तथा च समाससंहितायाम्—
बृ० सं० प्र०-१३
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
१९४ बृहत्संहिता
भरणीरौद्रमघाऽनिलशक्रधनिष्ठादिसम्प्रवृत्तेषु।
चारोदयः शुभो मण्डलेषु हित्वैन्द्रयपित्र्याद्ये।। इति।।२२।।
अथ दिवादृष्टस्य शुक्रस्य विशेषफलमाह—
दृष्टोऽनस्तमितेऽर्के भयकृत् क्षुद्रोगकृत्समस्तमहः।
अर्द्धदिवसे च सेन्दुर्नृपबलपुरभेदकृच्छुक्रः॥२३॥
यदि शुक्र सूर्यास्त से पहले दिखाई दे तो भय करता है, दिन भर दिखाई दे तो दुर्भिक्ष
और रोग करता है तथा मध्याह्न काल में चन्द्र के साथ दिखाई दे तो राजा, सेना और नगर
में भेद-भाव उत्पन्न करता है॥२३॥
शुक्रो भार्गवोऽनस्तमिते नास्तमितेऽर्के सूर्ये दृष्टोऽवलोकितो भयकृद् भयं करोति।
तथा समस्तमहः सकलं दिनं दृष्टः क्षुद्रोगकृत्। क्षुद् दुर्भिक्षम्। रोगान् गदांश्च करोति।
तथा अर्द्धदिवसे मध्याह्नसमये सेन्दुः सचन्द्रः शुक्रो दृष्टो नृपबलपुरभेदकृद् भवति।
नृपस्य राज्ञो बलस्य सेनायाः परस्य नगरस्य भेदं पृथग्भावं करोति। तथा च पराशरः—
अहः सर्वं यदा शुक्रो दृश्यतेऽथ महाग्रहः।
तदान्वागन्तुभिर्ग्रामा बाध्यन्ते नगराणि च।। इति।।२३।।
अथ शुक्रस्य नक्षत्राणां भेदनात् फलमाह—
भिन्दन् गतोऽनलर्क्षं कूलातिक्रान्तवारिवाहाभिः।
अव्यक्ततुङ्गनिम्ना समा सरिद्भिर्भवति धात्री॥२४॥
यदि कृत्तिका नक्षत्र का भेदन करते हुए शुक्र गमन करे तो किनारा काटने वाली, जल
धारण करने वाली नदियों के द्वारा ऊबड़-खाबड़ स्थल लुप्त होकर पृथ्वी समान हो जाती
है अर्थात् नदी की बाढ़ से पृथ्वी भर जाती है॥२४॥
अनलर्क्षं कृत्तिकां भिन्दन् भित्त्वा यदि शुक्रो गतस्तदा सरिद्भिर्नदीभिः कूलातिक्रान्त-
वारिवाहाभिः कूलातिक्रान्तं वारि जलं वहन्ति याः। आत्मीयं प्रवाहमतिक्रम्यातिप्रभूतं जलं
वहन्तीत्यर्थः। तथाभूताभिः। धात्री भूरव्यक्ततुङ्गनिम्ना समा भवति। न व्यक्तमव्यक्तम्। तुङ्ग-
मुच्चम्। निम्नं नीचम्। अव्यक्तौ तुङ्गनिम्नौ यस्याः। अलक्षितोच्चनीचप्रदेशेत्यर्थः॥२४॥
अथ रोहिण्याः शकटभेदे फलमाह—
प्राजापत्ये शकटे भिन्ने कृत्वेव पातकं वसुधा।
केशास्थिशकलशबला कापालमिव व्रतं धत्ते॥२५॥
यदि रोहिणीशकट का भेदन करते हुये शुक्र गमन करे तो पातकी ( ब्रह्महत्या करने
वाले की तरह ) होकर पृथ्वी केश और अस्थिखण्डों से शबल ( विचित्र वर्ण की )
होकर कापालिक की तरह व्रत धारण करती है। जिस तरह ब्रह्महत्या करने वाले मनुष्य
पापशान्ति के लिये मनुस्मृति आदि के अनुसार केश और अस्थिखण्डों को धारण करके
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १९५
कापालिक-व्रत धारण करते हैं, उसी तरह केश और अस्थिखण्डों से व्याप्त होकर पृथिवी
कापालिक की तरह व्रत धारण करती है अर्थात् पृथिवी पर अत्यधिक मरी पड़ती है।।२५।।
प्राजापत्ये शकटे रोहिण्याः शकटे भिन्ने। शकटभेदलक्षणं गणितकारैरुक्तम्। तथा
च ब्रह्मसिद्धान्ते—
विक्षेपोऽंशाद्वितयादधिको वृषभस्य सप्तदशभागे।
यस्य ग्रहस्य याम्यो भिनत्ति शकटं स रोहिण्याः।।
तथा च भानुभट्टः—
वृषस्यांशे सप्तदशे विक्षेपो यस्य दक्षिणः।
अंशद्वयाधिको भिन्द्याद्रोहिण्याः शकटं तु सः।।
एवं रोहिण्याः शकटे शुक्रेण भिन्ने वसुधा भूः पातकं ब्रह्महत्यामिव कृत्वा केशैर्मूर्द्ध-
जैरस्थिशकलैरस्थिखण्डैः शबला मिश्रितशुक्लकृष्णा भवति। अतः कापालं व्रतमिव धत्ते
धारयति। ब्रह्महत्यायाः कापालं व्रतं प्रायश्चित्तम्। कापालिकश्च केशास्थिशकलैः शबलो
भवति।।२५।।
अथ मृगशिरआर्द्रयोराह—
सौम्योपगतो रससस्यसंक्षयायोशनाः समुद्दिष्टः ।
आर्द्रागतस्तु कोशलकलिङ्गहा सलिलनिकरकरः ।।२६।।
यदि शुक्र मृगशिरा नक्षत्र में आवे तो रस ( मधुर आदि ) और धान्यों का नाश करता
है। यदि आर्द्रा नक्षत्र में आवे तो कोशल तथा कलिङ्ग देश का नाश और अतिवृष्टि करता है।
उशनाः शुक्रः। सौम्योपगतो मृगशिरसि प्राप्तो रसानां मधुरादीनां सस्यानां च संक्ष-
याय विनाशाय समुद्दिष्टः कथितः। आर्द्रागतस्तु कोशलान् कलिङ्गांश्च हन्ति तथा सलिलं
जलं निकरं निवहं करोति। अतिवृष्टिं करोतीत्यर्थः।।२६।।
अथ पुनर्वसुतिष्ययोराह—
अश्मकवैदर्भाणां पुनर्वसुस्थे सिते महाननयः।
पुष्ये पुष्टा वृष्टिर्विद्याधररणविमर्दश्च ॥२७॥
यदि शुक्र पुनर्वसु नक्षत्र में स्थित हो तो अश्मक और विदर्भ देश में अनय ( उपद्रव )
होता है। यदि शुक्र पुष्य नक्षत्र में स्थित हो तो अधिक वृष्टि तथा विद्याधरों के युद्ध में
विमर्द होता है।।२७।।
पुनर्वसुस्थे सिते। अश्मकानां जनानां वैदर्भाणां च महाननय उपद्रवो भवति। तथा
पुष्ये तिष्यस्थे सिते पुष्टा बह्वी वृष्टिर्भवति। तथा विद्याधराणां देवयोनीनां रणे संग्रामे
विमर्दो भवति।।२७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१९६ बृहत्संहिता
अथाश्लेषामघयोराह—
आश्लेषासु भुजङ्गमदारुणपीडावहश्चरन् शुक्रः ।
भिन्दन् मघां महामात्रदोषकृद् भूरिवृष्टिकरः ॥२८॥
आश्लेषा नक्षत्र में गमन करता हुआ शुक्र लोगों को सर्पों से अत्यन्त पीड़ित करता है
तथा मघा नक्षत्र को भेदन करते हुये शुक्र हस्तिपति को पीड़ित और अतिवृष्टि करता है।
शुक्र आश्लेषासु चरंस्तिष्ठन् भुजङ्गमेभ्यः सर्पेभ्यो लोकानां दारुणां तीव्रां पीडां
वहेत् कुर्यात्। मघां भिन्दन् विदारयन् महामात्राणां हस्तिसाधनपतीनां दोषकृद् दोषं
करोति। केचिन्महामात्याः प्रधाना इतीच्छन्ति। भूरिवृष्टिकरो बहुवर्षकरः। भेदलक्षणं
गणितकारैरुक्तम्—
छादयति योगतारां मानाद्धोनाधिकाद् भविक्षेपात्।
स्फुटविक्षेपो यस्याधिकोनको भवति समदिक्स्थः।।
विक्षेपोऽन्त्ये सौम्ये तृतीयतारा
शुक्रचाराध्यायः १९७
जलस्योदकस्य च निरोधोऽवर्षणम्। चित्रास्थे शुक्रे कूपकृतां कूपकराणां खे अण्डजानां
पक्षिणां च पीडा भवति। वृष्टिश्च शोभना कालोपयोग्या भवति।।३०।।
अथ स्वातिविशाखयोराह—
स्वातौ प्रभूतवृष्टिर्दूतम्वणिग्नाविकान् स्पृशत्यनयः ।
ऐन्द्राग्नेऽपि सुवृष्टिर्वणिजां च भयं विजानीयात् ॥३१॥
स्वाती नक्षत्र में स्थित शुक्र अतिवृष्टि तथा दूत, वाणिज्य कर्म करने वाले, नाव
चलाने वाले—इनमें उपद्रव फैलाता है। विशाखा नक्षत्र में स्थित शुक्र सुन्दर वृष्टि तथा
वाणिज्य कर्म करने वालों को पीड़ित करता है।।३१।।
स्वातौ स्थिते शुक्रे प्रभूता बह्वी वृष्टिर्भवति। दूता गमागमिनः। वणिजः क्रयविक्रयज्ञाः
नाविका नौकर्णधाराः। एताननयः स्पृशति। सोपद्रवा भवन्तीत्यर्थः। ऐन्द्राग्ने विशाखायां
स्थिते सुवृष्टिः शोभना वृष्टिर्भवति। तथा वणिजां किरातानां च भयं भीतिं विजानीयाद्
विन्द्यात्।।३१।।
अथानुराधाज्येष्ठामूलेष्वाह—
मैत्रे क्षत्रविरोधो ज्येष्ठायां क्षत्रमुख्यसन्तापः ।
मौलिकभिषजां मूले त्रिष्वपि चैतेष्वनावृष्टिः ॥३२॥
अनुराधा नक्षत्र में स्थित शुक्र क्षत्रियों में विरोध, ज्येष्ठा में क्षत्रियों में प्रधान का नाश
और मूल में स्थित शुक्र प्रधान वैद्यों का नाश करता है तथा इन तीनों नक्षत्रों में जब तक
शुक्र बैठा रहता है तब तक अनावृष्टि करता है।।३२।।
मैत्रेऽनुराधायां क्षत्रविरोधः क्षत्रियाणामुपद्रवः। ज्येष्ठायां स्थिते शुक्रे क्षत्रमुख्यानां
क्षत्रियप्रधानानां सन्ताप उपद्रवः। मूले मौलिकानां मूलद्रव्यविक्रयिणां भिषजां वैद्यानां च
सन्तापः। एतेषु त्रिष्वप्यनुराधाज्येष्ठामूलेष्वनावृष्टिरवर्षणं भवति।।३२।।
अथ पूर्वाषाढोत्तराषाढश्रवणधनिष्ठास्वाह—
आप्ये सलिलजपीडा विश्वेशे व्याधयः प्रकुप्यन्ति ।
श्रवणे श्रवणव्याधिः पाखण्डिभयं धनिष्ठासु ॥३३॥
पूर्वाषाढ़ा नक्षत्र में स्थित शुक्र जल में उत्पन्न जीवों को पीड़ित, उत्तराषाढ़ा में रोगों की
उत्पत्ति, श्रवण में कर्णपीडा और धनिष्ठा में स्थित शुक्र पाखण्डियों में भय उत्पन्न करता
है।।३३।।
आप्ये पूर्वाषाढायां सलिलजैर्जलोद्भवैश्च प्राणिभिर्द्रव्यैश्च प्राणिनां पीडा भवति।
सलिलजानां पीडा भवति इति केचित्। विश्वेशे उत्तराषाढायां स्थिते शुक्रे व्याधयो
रोगाः प्रकुप्यन्ति बाहुल्येन भवन्ति। श्रवणे स्थिते श्रवणव्याधिः कर्णे रोगो भवति। धनिष्ठासु
स्थिते पाखण्डिभयम्। पाखण्डिनो वेदबाह्याः तेषु भयं भवति।।३३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१९८ बृहत्संहिता
अथ शतभिषक्पूर्वभद्रपदयोराह—
शतभिषजि शौण्डिकानामजैकभे द्यूतजीविनां पीडाम् ।
कुरुपाञ्चालानामपि करोति चास्मिन् सितः सलिलम् ॥३४॥
शतभिषा नक्षत्र में स्थित शुक्र शौण्डिकों ( मद्यविक्रेताओं = कलवारों ) को पीड़ित
करता है। पूर्वभाद्रपदा में स्थित शुक्र जुआरी लोग, कुरु तथा पञ्जाब देश में स्थित जनों को
पीड़ित और वृष्टि करता है।।३४।।
सितः शुक्रः शतभिषजि स्थितः शौण्डिकानां मद्यपानप्रसक्तानां पीडाकरः। अजैकभे
पूर्वभद्रपदायां स्थितो द्यूतजीविनां द्यूतेन ग्लहेन ये जीवन्ति तेषां पीडाकरः। कुरवः पाञ्चा-
लाश्च जनास्तेषामपि पीडां करोति। अपिशब्दो वार्थे। अस्मिन्नक्षत्रे स्थितः सितः शुक्रः
सलिलं जलं करोति।।३४।।
अथोत्तरभद्रपदारेवत्यश्विनीभरणीष्वाह—
आहिर्बुध्न्ये फलमूलतापकृद्यायिनां च रेवत्याम् ।
अश्विन्यां हयपानां याम्ये तु किरातयवनानाम् ॥३५॥
उत्तरभाद्रपदा में स्थित शुक्र फल-मूलों को, रेवती में पथिकों को, अश्विनी में अश्वपालकों
को तथा भरणी में स्थित शुक्र किरात तथा यवनों को पीड़ित करता है।।३५।।
आहिर्बुध्न्ये उत्तरभद्रपदायां फलानां मूलानां च तापकृत् पीडाकरः। रेवत्यां यायिनां
पथिकानां च पीडाकरः। अश्विन्यां हयपानामश्वपतीनां तापकृत्। याम्ये भरण्यां किरातानां
यवनानां जनानां च तापकृत् तापकरः। तथा च काश्यपः—
भेदयेत् कृत्तिकां शुक्रो बहुतोयं विमुञ्चति।
रोहिण्यां मरणं घोरं गृध्राकुलभयाकुलम्।।
मृगे तु सर्वसस्यानां क्षयं कुर्याद् भृगोः सुतः।
आर्द्रासु च कलिङ्गानां कोशलानां भयावहः।।
पुनर्वसौ विदर्भाणां पीडयत्युशनास्तथा।
पुष्ये पुष्टिं समायान्ति जनाः सस्यानि वृष्टयः।।
आश्लेषासूशना भेदात् पीडयेद् भुजगैः प्रजाः।
मघाभेदकरः शुक्रो महामात्रांश्च पीडयेत्।।
भाग्ये शबरविध्वंसं बहुवृष्टिं प्रमुञ्चति।
आर्यम्णे तु कुरुक्षेत्रं पाञ्चालांश्चोपतापयेत्।।
हस्ते चित्रकराणां तु पीडा वृष्टिक्षयो भवेत्।
सुवृष्टिं कूपकृत्पीडां चित्राभेदं यदा व्रजेत्।।
स्वास्तिभेदे सुवृष्टिं च वणिग्नाविकभीतिदः।
विशाखायां सुवृष्टिं च मैत्रे मित्रं विरुध्यति।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः १९९
ऐन्द्रे पौरविरोधः स्यान्मूले तु भिषजां भयम्।
आप्ये वैश्ये व्याधिभयं वैष्णवे कर्णवेदना।।
धनिष्ठासु कुकर्मस्थान् वारुणे शौण्डिकक्षयम्।
प्रोष्ठपादे पूर्वसक्तानहिर्बुध्न्ये फलक्षयः।।
यायिनां सनृपाणां च पौष्णे ज्ञेयं महद्भयम्।
अश्विन्यां हयपीडाकृद् भरण्यां कृषिजीविनाम्।। इति।
तथा च पराशरः—
'भाग्यार्यमानिलेन्द्राग्निप्रोष्ठपदरौद्रयाम्यतिष्यगतः स्निग्धो रश्मिवान् वर्षकरः। तत्र
प्राजापत्यत्वाष्ट्रेन्द्राग्निमैत्राणामुदग्मध्यदक्षिणेन व्रजेत् क्षेमसस्यवृष्टीनां प्रकृष्टमध्यान्तफलो
भवति। पित्र्याग्नेययोरुदग्मध्यगतः प्रजाहिताय। एवमेवाषाढादित्यरोहिणीषु मध्यगः पुरोधाय
च'।।३५।।
अथ शुक्रस्य तिथिष्वस्तमयोदयफलमाह—
चतुर्दशीं पञ्चदशीं तथाष्टमीं तमिस्रपक्षस्य तिथिं भृगोः सुतः ।
यदा व्रजेद् दर्शनमस्तमेति वा तदा मही वारिमयीव लक्ष्यते ।।३६।।
कृष्ण पक्ष की चतुर्दशी, अमावास्या और कृष्णपक्ष की अष्टमी तिथि में शुक्र का उदयं
या अस्त हो तो पृथ्वी जल से परिपूर्ण होती है।।३६।।
भृगोः सुतः शुक्रस्तमिस्रपक्षस्य कृष्णपक्षस्य चतुर्दशीं तिथिं पञ्चदशीममावास्याष्टमीं
वा समाश्रित्य यदा दर्शनमुदयं व्रजेत् सूर्यमण्डलादुद्गच्छति, अथवा अस्तमयमेति
तत्रैवादर्शनमायाति तदा मही भूः, वारिमयीव जलमयीव लक्ष्यते दृश्यते। अतिवृष्टिर्भव-
तीत्यर्थः। तथा च काश्यपः—
कृष्णपक्षे ह्यमावास्याचतुर्दश्यष्टमीषु च।
उदयं भार्गवः कुर्यात्तदा वृष्टिं प्रमुञ्चति।।
पराशरश्चात्र विशेषमाह—
कार्तिके तु यदा मासि कुरुतेऽस्तमयोदयौ।
तदाहां नवतिं पूर्णां देवो भुवि न वर्षति।।
वर्तमाने यदा शुक्रे कृत्तिकासु बृहस्पतिः।
उदेति तु तदा देवस्तां समां वर्षते समाम्।।
अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ।
आवृत्तिमार्गं कुर्वाते तदा वर्षति भार्गवः।।
अवार्षिके भे विचरन् यदि वर्षति भार्गवः।
वार्षकक्षर्गतो व्यक्तं षोडशार्चिर्न वर्षति।। इति।।३६।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२०० बृहत्संहिता
अथ गुरुशुक्रयोरन्योन्यं सप्तमस्थयोः फलमाह—
गुरुर्भृगुश्चापरपूर्वकाष्ठयोः
परस्परं सप्तमराशिगौ यदा।
तदा प्रजा रुग्भयशोकपीडिता
न वारि पश्यन्ति पुरन्दरोज्झितम्॥३७॥
यदि बृहस्पति और शुक्र परस्पर सप्तम राशि में स्थित हों तो रोग और अनेक प्रकार
के भय से प्रजागण पीड़ित होते हैं तथा अवृष्टि होती है॥३७॥
गुरुर्जीवः। भृगुः शुक्रः। एतावपरपूर्वकाष्ठयोः। अपरा पश्चिमा। पूर्वा प्राची। काष्ठा
दिक्। पश्चिमपूर्वयोर्दिशोः परस्परमन्योन्यं यदि च सप्तमराशिगौ भवतः। कदाचित् पूर्व-
काष्ठागतः शुक्लोऽपरकाष्ठागतो गुरुः। कदाचित् पूर्वकाष्ठागतो गुरुरपरकाष्ठागतः शुक्रः।
नन्वत्रापरपूर्वकाष्ठयोरित्यनेनैव सिद्धे सप्तमराशिग्रहणं किमर्थम्? उच्यते। यदि सप्तम-
राशिग्रहणं न क्रियते तदापरपूर्वस्थावन्येनापि प्रकारेण भवतः। एकः प्राक्कपाले स्थितो-
ऽपरोऽपरकपालस्थः। तदापरपूर्वकाष्ठास्थौ भवत इत्यतः सप्तमराशिग्रहणं कृतम्। तेनैत-
ज्ज्ञापयति—यथोदयास्तयो रेखासक्तयोरयं योगो भवति नान्यथा। एवं परस्परं सप्तमराशिगौ
यदा तस्मिन् काले प्रजा जनाः। रुग्भयशोकपीडिताः। रोगैर्भयेन शोकेन दुःखेन च पीडिता
उपहताः। पुरन्दरोज्झितमिन्द्रोत्सृष्टं वारि जलं न पश्यन्ति नावलोकयन्ति। अवृष्टिर्भवतीत्यर्थः।
नन्वत्र यथासंख्येनैवापरपूर्वकाष्ठागौ गुरुभृगू यदा भवतस्तदायं योगो भवति यथा,
तथा भृगुगुरुश्चेत्यनया पाठविप्रतिपत्त्या वा। यथासंख्येनैव कस्माद्योगो न भवति कथमनियमेन
भवति। तथा च पराशरेण गुरुभृगू अपरपूर्वकाष्ठास्थावभिहितौ। तथा च—
उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती।
पूर्वसन्ध्यागतौ स्यातां जनयेतां तदा भयम्॥
ऋषिपुत्रेण च भृगुगुरू अपरपूर्वकाष्ठास्थावभिहितौ। तथा चाह—
पृष्ठतस्तूशना यत्र पुरस्ताच्च बृहस्पतिः।
न च कश्चिद् ग्रहो मध्ये बुधो वाप्यथ दृश्यते॥
एकमार्गसमापन्नौ प्रेक्षमाणौ परस्परम्।
ते दिशौ पीडिते विन्द्यात् त्रीन् पक्षानभियोजयेत्॥
अत उभयदर्शनान्निर्णीयेते तथा ऋषीणामत्रैकवाक्यता नास्त्येवेति स्वयमेवमङ्गीकृतं
तैरिति। वयं त्वत्र ब्रूमः—
उभयदर्शनाद् गुरुभृगुभ्यामनियमोऽत्राऽऽचार्यस्याभिप्रेतस्तथा बृहज्जातकेऽपि प्रयोगः
कृत इति। ‘शूरस्तब्धौ विषमवधकौ सद्गुणाढ्यौ सुविज्ञौ। चार्वङ्गेष्टौ रविशशियुतेष्वार-
पूर्वांशकेषु’ इत्यत्र च नियमव्याख्यैव यथा तथा कृतैव। अत्रापि यथा तथा गुरुभृग्वोरपर-
पूर्वकाष्ठास्थयोरित्यनियमव्याख्यैव ज्यायसी। सति वा नियमे पाठविप्रतिपत्तिचोदने नावत-
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः २०१
रतीति। तथा च भद्रबाहौ पठ्यते—
प्रत्यूषे प्राक्स्थितः शुक्रः पृष्ठतश्च बृहस्पतिः ।
यदाऽन्योन्यं निरीक्षेते तदा चक्रं प्रवर्तते ।।
धर्मार्थकामा लुप्यन्ते प्रस्तावा वर्णसङ्कराः ।
नृपाणां च समुद्योगो यतः शुक्रस्ततो जयः ।।
अवृष्टिश्च भयं रोगं दुर्भिक्षं च तदा भवेत् ।
आढकेन तु धान्यस्य ग्राहकः स्यात्तदा प्रियः ।।
यदा तु पृष्ठतः शुक्रः पुरतश्च बृहस्पतिः ।
यदा वालोकयेतां तौ तावदेव फलं भवेत् ।।
तथा च गर्गः—
अन्योन्यमस्तसंस्थौ तु यदि शुक्रबृहस्पती।
पूर्वसन्ध्यागतौ घोरं जनयेतां महद्भयम् ।।
तस्मात् साधूक्तं गुरुः शुक्रः पृष्ठतः पुरतो वेति ।। ३७ ।।
अथ सर्वैर्ग्रहैः शुक्रस्याग्रवर्तिभिः फलमाह—
यदा स्थिता जीवबुधारसूर्यजाः
सितस्य सर्वेऽग्रपथानुवर्तिनः ।
नृनागविद्याधरसङ्गराः तदा
भवन्ति वाताश्च समुच्छ्रितान्तकाः ।। ३८ ।।
न मित्रभावे सुहृदो व्यवस्थिताः
क्रियासु सम्यग् न रता द्विजातयः ।
न चाल्पमप्यम्बु ददाति वासवो
भिनत्ति वज्रेण शिरांसि भूभृताम् ।। ३९ ।।
यदि शुक्र के आगे बृहस्पति, बुध, मंगल और शनि हों तो मनुष्य, नाग और विद्या-
धरों में युद्ध, भयङ्कर वायु से वृक्षादिकों का नाश, मित्रों में परस्पर मित्रता का अभाव,
ब्राह्मणों में कर्म का अभाव, वर्षा का बिल्कुल अभाव और वज्रपातों से पर्वतों का नाश
होता है ।। ३८-३९ ।।
यदा यस्मिन् काले जीवबुधारसूर्यजाः । जीवो बृहस्पतिः । बुधः सौम्यः । आरो भौमः ।
सूर्यजः शनैश्चरः । एते सर्व एव सितस्य शुक्रस्याग्रपथानुवर्तिनः स्थिताः । पुरःसरा
भवन्तीत्यर्थः । तदा तस्मिन् काले नृणां मनुष्याणां नागानां पन्नगानां विद्याधराणां देवयोनीनां
सङ्गराः संग्रामा भवन्ति । तथा वाता वायवः समुच्छ्रितान्तकाः । समुच्छ्रितानां पर्वतानां
वृक्षादीनामन्तकाः शृङ्गाग्रपातिनो भवन्तीति ।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२०२ बृहत्संहिता
न मित्रभाव इति। सुहृदो मित्राणि न मित्रभावे सुहृद्भावे व्यवस्थिताः संस्थिता
भवन्ति। मित्रतां न भजन्त इत्यर्थः। तथा द्विजातयो ब्राह्मणाः सम्यग्यथावद्विहितासु क्रिया-
स्वग्निहोत्राद्यासु न रताः सक्ता न भवन्ति। तथा वासव इन्द्रोऽल्पं स्तोकमप्यम्बु जलं न
ददाति न प्रयच्छति। न किञ्चिद्वर्षतीत्यर्थः। भूभृतां पर्वतानां वज्रेणोल्कया शिरांसि मस्त-
कानि भिनत्ति विदारयतीत्यर्थः॥३८-३९॥
एवं सर्वेषूक्त्वाऽधुनैकैकस्याग्रगतस्य वक्तुकामः शनैश्चरस्य तावदाह—
शनैश्चरे म्लेच्छविडालकुञ्जराः
खरा महिष्योऽसितधान्यशूकराः।
पुलिन्दशूद्राश्च सदक्षिणापथाः
क्षयं व्रजन्त्यक्षिमरुद्गदोद्भवैः ॥४०॥
यदि शुक्र के आगे शनैश्चर गमन करे तो म्लेच्छ जाति, बिल्ली, हाथी, गदहा, भैंस,
काले धान्य, सूकर, निषाद, शूद्र और दक्षिण दिशा में स्थित जन नेत्ररोग तथा वायु के
विकार से नष्ट होते हैं॥४०॥
शनैश्चरे शुक्रस्याग्रतः स्थिते म्लेच्छा जनाः। विडाला मार्जाराः। कुञ्जरा गजाः।
खरा गर्दभाः। महिष्यः प्रसिद्धाः। असितधान्यं कृष्णधान्यम्। शूकरा वराहाः। पुलिन्दा
निषादजनाः। शूद्रा जनाः। ते च सदक्षिणापथा दक्षिणदिग्निवासिभिर्जनैः सहिताः। एते
सर्व एव क्षयं विनाशं व्रजन्ति। कैः? अक्षिमरुद्गदोद्भवैः। अक्षिषु नेत्रेषु ये गदा रोगा
मरुता वायुना च ये गदास्तदुद्भवैस्तदुत्पन्नैर्दोषैरिति॥४०॥
अथ भौमेऽग्रतः स्थिते फलमाह—
निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजां
हुताशशस्त्रक्षुदवृष्टितस्करैः।
चराचरं व्यक्तमथोत्तरापथं
दिशोऽग्निविद्युद्रजसा च पीडयेत् ॥४१॥
यदि शुक्र के आगे मङ्गल गमन करे तो अग्नि, शस्त्र, क्षुधा, अवृष्टि और चोरों से
प्रजाओं का, उत्तर दिशा में स्थित जङ्गम तथा स्थावर प्राणियों का, अग्नि तथा विद्युत् और
धूलि से दिशाओं का नाश होता है॥४१॥
शुक्नो भार्गवः क्षितिजे भौमे अग्रतः पुरतः स्थिते सत्येवं प्रजां निहन्ति नाशयति।
कैः? हुताशशस्त्रक्षुदवृष्टितस्करैः। हुताशोऽग्निः। शस्त्रमायुधं संग्राम इत्यर्थः। क्षुद् दुर्भिक्षम्।
अवृष्टिरवर्षणम्। तस्कराश्चौराः। एतैः। तथोत्तरां दिशम्। चराचरम्। चरं जङ्गमाख्यमचरं
स्थावराख्यं व्यक्तं निःशेषं निहन्ति। तथा दिश आशाः। अग्निविद्युद्रजसा च पीडयेत्।
अग्निना हुतवहेन। विद्युता तडिता। रजसा पांशुना। एतैः पीडयेद् उपतापयेत्॥४१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः २०३
अथ बृहस्पतावग्रतः स्थिते फलमाह—
बृहस्पतौ हन्ति पुरःस्थिते सितः
सितं समस्तं द्विजगोसुरालयान्।
दिशं च पूर्वा करकासृजोऽम्बुदा
गले गदा भूरि भवेच्च शारदम् ॥४२॥
यदि शुक्र के आगे गुरु गमन करे तो सफेद वस्तु, ब्राह्मण, गौ तथा देवताओं के गृह
और पूर्व दिशा का नाश करता है, मेघ से ओले की वृष्टि होती है, लोगों के गले में रोग
होता है तथा शारदीय धान्य अधिक होता है॥४२॥
सितः शुक्रो बृहस्पतौ पुरःस्थिते अग्रवर्तिनि सति समस्तं निःशेषं यत्किञ्चित्सितं
शुक्लवर्णम्। तथा द्विजगोसुरालयान्। द्विजा ब्राह्मणाः। गावः। सुरा देवाः। एषामालयं
स्थानं हन्ति नाशयति। तथा दिशमाशां च पूर्वामैन्द्रीं हन्ति। अम्बुदा मेघाः करकासृजः
करकावृष्टिं सृजन्ति मुञ्चन्ति। गले कण्ठे गदा रोगा लोकानां भवन्ति। शारदं च सस्यं
भूरि बहु भवेत्॥४२॥
अथ बुधे अग्रतः स्थिते फलमाह—
सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद्
रोगान् पित्तजकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकान्।
हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ॥४३॥
यदि शुक्र के आगे बुध गमन करे तो वृष्टि, लोगों में पित्तज और कामला रोगों की
उत्पत्ति तथा ग्रीष्म में उत्पन्न होने वाले धान्यों को पुष्ट करता है एवं वनवासी, अग्निहोत्री,
वैद्य, योद्धा, घोड़ा, वैश्य, गौ, वाहन, राजा, सभी पीली वस्तुयें और पश्चिम दिशा का नाश
करता है॥४३॥
सौम्यो बुधो भृगुसुतस्य शुक्रस्य पुरोऽग्रतः। अस्तोदययोः। अस्तमितः सूर्यमण्डले
स्थित उदितस्तन्निर्गतो वा यथा तथावस्थितस्तोयकृद्भवति, तोयं जलं करोति। तथा
रोगान् ज्वरादीन् करोति। पित्तजकामलांश्च पित्तजै रोगैः सहिताः कामलाः पित्तजकामलास्तांश्च
कुरुते। ग्रैष्मिकान् ग्रीष्मजातांश्च सस्यादीन् पुष्णाति पुष्टिं नयति। तथा प्रव्रजितान् वनस्थान्।
आग्निहोत्रिकान् अग्निहोत्रे सक्तान्। भिषजो वैद्यान्। रङ्गोपजीव्यान् मल्लादीन्। हयानश्वान्।
वैश्यान् वैश्यजातीयान्। गास्तथा वाहनैरश्वादिभिश्च सह नरपतीन् नृपान्। पीतानि पीतवर्णानि
सर्वाणि द्रव्याणि। पश्चाद्दिशमपरां चाऽऽशां हन्यान्नाशयेत्॥४३॥
अथ वर्णलक्षणमाह—
शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२०४ बृहत्संहिता
हरितकपिलरूपे श्वासकासप्रकोपः
पतति न सलिलं खाद् भस्मरूक्षासिताभे ॥४४॥
यदि शुक्र का वर्ण अग्नि के समान हो तो अग्नि का भय, रक्त हो तो शस्त्रकोप,
कसौटी पर घिसे हुये सुवर्ण की रेखा के समान हो तो रोग, तोते के समान या पीला हो तो
श्वास और कास रोग की उत्पत्ति तथा भस्म की तरह रूक्ष या काला वर्ण हो तो अवृष्टि होती
है॥४४॥
दैत्यपूज्ये शुक्रे अनलाभे अग्निसदृशकान्तौ शिखिभयमग्निभीतिर्भवति। रक्ते लोहितवर्णे
शस्त्रकोपः संग्रामा भवन्ति। कनकस्य सुवर्णस्य याऽसौ निकषरेखा तद्वद् गौरवर्णे
व्याधयो रोगा भवन्ति। हरितरूपे शुकाभे कपिलरूपे च पिशङ्गवर्णे श्वासकासप्रकोपो भवति।
श्वासेन च कासेन च पीडा जनानां भवति। भस्माभे भस्मवर्णे। रूक्षाभे स्नेहरहिते। असि-
ताभे कृष्णकान्तौ। खादाकाशात् सलिलं जलं न पतति। देवो न वर्षतीत्यर्थः॥४४॥
अन्यदप्याह—
दधिकुमुदशशाङ्ककान्तिभृत् स्फुटविकसत्किरणो बृहत्तनुः ।
सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥४५॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
शुक्रचाराध्यायो नवमः ॥९॥
यदि दही, कुमुदपुष्प या चन्द्र की तरह कान्ति वाला, स्पष्ट विस्तृत किरण वाला,
विपुल मूर्त्ति वाला, सुन्दर गति वाला ( अवक्री ), विकाररहित और विजयी शुक्र हो तो
प्रजाओं को कृतयुग की तरह ( व्याधि, दारिद्र्य और शोक से रहित ) करता है॥४५॥
इति 'विमला'हिन्दीटीकायां शुक्रचाराध्यायो नवमः ॥९॥
ईदृग्रूपः सिताह्वयः सितनामा शुक्रः कृतयुगरूपकरः, कृतयुगस्य रूपं करोति, तद्धर्मानु-
प्रवृत्तेर्जना व्याधिदारिद्र्यशोकवर्जिता भवन्तीत्यर्थः। कीदृशः? दधिकुमुदशशाङ्ककान्तिभृत्।
दध्नः क्षीरविकारस्य। कुमुदस्य पुष्पविशेषस्य। शशाङ्कस्य चन्द्रस्य सदृशीं कान्तिमाभां
बिभर्ति धारयति। स्फुटविकसत्किरणः, स्फुटाः स्पष्टा विकसन्तो विस्तीर्णाः किरणा
रश्मयो यस्य तथाभूतः। बृहत्तनुर्विस्तीर्णदेहः। सुगतिः शोभनगतिः। अवक्रो ग्रहर्क्षाणा-
मुत्तरभागगतश्च। अविकृतो विकारवर्जित उत्पातरहितः। जयान्वितो जययुक्त इति। तथा
च पराशरः—
‘हिमकनकरजतशङ्खस्फटिकवैदूर्यमुक्तामधुघृतमण्डकुमुदशशाङ्कच्छविस्निग्धदीप्त-
प्रकान्तिप्रकाशः प्रसन्नार्चिरवनिपतिहितकरः प्रशान्तवैरो दुर्भिक्षारोगवृष्टिकरश्च। श्यावनील-
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
शुक्रचाराध्यायः २०५
रूक्षकपिलरक्तध्वस्तदीनाल्पलोष्टसन्निभः शस्त्रवैरव्याधिवर्षान्नक्षयकरः।' तथा च—
कूटाकारनिभः स्निग्धो मार्गस्थो रजतप्रभः।
भार्गवो विस्तृतार्चिश्च प्रजाभावकरः स्मृतः।। इति।
प्रावृषि शुक्रः प्राच्यां दिशि स्थितोऽल्पं जलं सृजति नित्यम्।
धान्यं च भूरि कुरुते तृणं च बहु जायते तत्र।।
अपरां निषेव्यमाणः काष्ठां शुक्रो जलं सृजति भूरि।
धान्यं कुरुते चाल्पं तृणं न बहु जायते तत्र।। इति।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
शुक्रचारो नाम नवमोऽध्यायः ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ शनैश्चरचाराध्यायः
अथ शनैश्चरचारो व्याख्यायते। तत्रादावेव शनैश्चरस्य नक्षत्रावस्थितिवशेन फलमाह—
श्रवणानिलहस्तार्द्राभरणीभाग्योपगः सुतोऽर्कस्य।
प्रचुरसलिलोपगूढां करोति धात्रीं यदि स्निग्धः ॥१॥
अहिवरुणपुरन्दरदैवतेषु सुक्षेमकृन्न चाति जलम्।
क्षुच्छस्त्रावृष्टिकरो मूले प्रत्येकमपि वक्ष्ये ॥२॥
यदि शनैश्चर श्रवण, स्वाती, हस्त, आर्द्रा, भरणी या पूर्वाफाल्गुनी नक्षत्र में स्थित
होकर निर्मल मूर्ति वाला हो तो पृथ्वी वृष्टि के जल से परिपूर्ण होती है। यदि आश्लेषा,
शतभिषा या ज्येष्ठा नक्षत्र में स्थित हो तो सुन्दर क्षेत्र और थोड़ी वृष्टि होती है। यदि मूल
में स्थित हो तो दुर्भिक्ष, युद्ध और वर्षा का अभाव होता है। इस तरह संक्षेप से फल कह
कर अब प्रत्येक नक्षत्र के फल कहते हैं॥१-२॥
श्रवणानिलेति। श्रवणम्। अनिलः स्वातिः। हस्तः। आर्द्रा। भरणी। भाग्यं पूर्व-
फल्गुनी। एतेषु नक्षत्रेष्वर्कस्य सुतः शनैश्चर उपगः प्राप्तः स्थित इत्यर्थः। तत्र यदि
स्निग्धो विमलमूर्तिर्भवति तदा धात्रीं भूमिं प्रचुरसलिलोपगूढां प्रचुरेण प्रभूतेन सलिलेन
पानीयेन उपगूढां छन्त्रां करोति। तथा च गर्गः—
याम्यवायव्यसावित्ररौद्रश्रवणसंस्थितः ।
भवेत् स्निग्धवपुः सौरो भाग्ये चैवातिवर्षदः।। इति।
अहिवरुणपुरन्दरदैवतेष्विति। अहिदैवतमाश्लेषा। वरुणदैवतं शतभिषक्। पुरन्दर
इन्द्रस्तद्दैवतं ज्येष्ठा। एतेष्ववस्थितः सौरः सुक्षेमकृत् शोभनं क्षेमं करोति। न चाति
जलम्, अति प्रभूतं जलमुदकं न करोति। क्षुच्छस्त्रावृष्टिकरो मूले। मूले स्थितः क्षुद्
दुर्भिक्षम्। शस्त्रं संग्रामः। अवृष्टिरवर्षणम्। एताः करोति। प्रत्येकमपि वक्ष्ये। एकमेकं
प्रति प्रत्येकम्। इदानीं प्रत्येकं नक्षत्रमधिकृत्य वक्ष्ये कथयिष्ये। तथा च गर्गः—
सार्पवारुणमाहेन्द्रनक्षत्रेषु च संस्थितः।
स्निग्धः सौरः क्षेमकरो नातिवृष्टिं प्रमुञ्चति।।
क्षुच्छस्त्रवृष्टिदो मूले सूर्यपुत्रः समास्थितः।। इति॥१-२॥
अथाऽश्विनीभरण्योः समवस्थितस्य सौरस्य फलमाह—
तुरगतुरगोपचारककविवैद्यामात्यहार्कजोऽश्विगतः।
याम्ये नर्तकवादकगेयज्ञक्षुद्रनैकृतिकान् ॥३॥
यदि शनैश्चर अश्विनी नक्षत्र में स्थित हो तो घोड़ा, घोड़े का उपचारक, कवि, वैद्य
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शनैश्चरचाराध्यायः २०७
और मन्त्रियों को नाश करता है। यदि भरणी नक्षत्र में स्थित हो तो नाचने, बजाने, गाने
वाले, अन्याय पथ पर चलने वाले तथा निषाद—इन सबों का नाश करता है।।३।।
अर्कजः सौरः। अश्विगतः अश्विन्यामवस्थितः। तुरगानश्वान्। तुरगाणां य उपचारकास्तान्
तुरगोपचारकान्। तथा कवीन् काव्यकुशलान्। वैद्यान् कायचिकित्सकान्। अमात्यान्
मन्त्रिणश्च। हन्ति नाशयति। याम्ये भरण्यां नर्तनं शिल्पमस्येति नर्तकः। वादनं शिल्पम-
स्येति वादकः। गेयं जानातीति गेयज्ञः। क्षुद्रोऽन्यायवर्ती। नैकृतिको निषादः। एतान् हन्ति
नाशयति।।३।।
अथ कृत्तिकारोहिण्योराह—
बहुलास्थे पीड्यन्ते सौरेऽग्न्युपजीविनश्चमूपाश्च।
रोहिण्यां कोशलमद्रकाशिपाञ्चालशाकटिकाः ॥४॥
यदि कृत्तिका नक्षत्र में शनैश्चर बैठा हो तो अग्नि से आजीविका चलाने वालों और
सेनापति का नाश करता है। यदि रोहिणी नक्षत्र में शनैश्चर स्थित हो तो कोशल, मद्र, काशी
तथा पाञ्चाल देश में रहने वाले मनुष्यों और गाड़ी से आजीविका चलाने वालों का नाश
करता है।।४।।
सौरे शनैश्चरे बहुलासु कृत्तिकास्ववस्थिते अग्न्युपजीविनोऽग्निवार्ताः सुवर्णकारलोहकारा-
यस्कारप्रभृतयः। चमूपाः सेनापतयः। एते पीड्यन्ते। रोहिण्यां स्थिते सौरे कोशला जनाः।
मद्राः। काशयः। पाञ्चालाः। एते जनाः। शाकटिकाः शकटोपजीविनः। एते पीड्यन्ते।।४।।
अथ मृगशिरआर्द्रयोराह—
मृगशिरसि वत्सयाजकयजमानार्यजनमध्यदेशाश्च।
रौद्रस्थे पारतरमठास्तैलिकरजकचौराश्च ॥५॥
यदि मृगशिर नक्षत्र में शनैश्चर स्थित हो तो वत्स देश में रहने वाले मनुष्य, याजक,
यजमान, प्रधान मनुष्य और मध्यदेश को पीड़ित करता है। यदि शनैश्चर आर्द्रा में स्थित हो
तो पारतर देश में रहने वाले, मद्र देश में रहने वाले, तेली, रजक (धोबी, रंगरेज) और
चोरों को पीड़ित करता है।।५।।
मृगशिरसि स्थिते सौरे वत्सजनाः। याजकाः। यजन्तीति याजका ऋत्विजः। यज-
माना याज्ञिकाः। आर्यजनाः प्रधानजनाः। मध्यदेशाः प्रसिद्धाः। एते पीड्यन्ते। रौद्रस्थे
आर्द्रस्थे पारतरा जनाः। मठा जना एव। तैलिकाः प्रसिद्धाः। रजका वस्त्ररागकृतः।
चौरास्तस्कराः। एते पीड्यन्ते।।५।।
अथ पुनर्वसुतिष्ययोराह—
आदित्ये पाञ्चनदप्रत्यन्तसुराष्ट्रसिन्धुसौवीराः।
पुष्ये घाण्टिकघौषिकयवनवणिक्कितवकुसुमानि ॥६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२०८ बृहत्संहिता
यदि पुनर्वसु नक्षत्र में शनैश्चर स्थित हो तो पञ्जाब, गुहा, सौराष्ट्र, सिन्धु के समीप
तथा सौवीर देश में रहने वाले लोगों को पीड़ित करता है। यदि शनैश्चर पुष्य नक्षत्र में
स्थित हो तो घण्टा बजाने वाले, घोषिक ( ढींढोरा पीटने वाले अथवा घोष-गुहा में
निवास करने वाले ), यवन, वणिक्, किरात, धूर्त और पुष्पों को पीड़ित करता है।।६।।
आदित्ये पुनर्वसौ स्थिते सौरे पाञ्चनदा जनाः। प्रत्यन्ता गह्वरवासिनः। सुराष्ट्रो देशः।
सैन्धवाः। सौवीराः। एते पीड्यन्ते। पुष्ये स्थिते सौरे घाण्टिका घण्टावादनं शिल्पमस्येति
घाण्टिकाः। घोषः शब्दोच्चारणं शिल्पमस्येति घोषिकाः श्रावका इत्यर्थः। अथवा घोषे
गह्वरे निवसन्ति ते घोषिकाः। यवना जनाः। वणिजः किराताः। कितवा द्यूतकराः। कुसु-
मानि पुष्पाणि। एतानि पीड्यन्ते।।६।।
आश्लेषामघयोराह—
सार्पे जलरुहसर्पाः पित्र्ये बाह्लीकचीनगान्धाराः ।
शूलिकपारतवैश्याः कोष्ठागाराणि वणिजश्च ॥७॥
यदि आश्लेषा नक्षत्र में शनैश्चर बैठा हो तो जल में उत्पन्न प्राणियों और सर्पों को
पीड़ित करता है। यदि मघा नक्षत्र में शनैश्चर बैठा हो तो बाह्लीक, चीन, गान्धार, शूलिक
और पारत देश में रहने वाले मनुष्य, वैश्य, कोष्ठागार, वणिक्, किरात—इनको पीड़ित
करता है।।७।।
सार्पे आश्लेषायां जलरुहा जलोद्भवाः प्राणिनो द्रव्याणि वा। सर्पा उरगाश्च पीड्यन्ते।
तथा च गर्गः—
भुजङ्गकच्छपग्राहनागमत्स्यसरीसृपान्।
हन्यादर्कसुतस्तिष्ठन्नक्षत्रे सर्पदैवते।।
पित्र्ये मघायां बाह्लीकाः। चीनाः गान्धाराः। शूलिकाः। पारताः। सर्व एव जनाः।
वैश्या वैश्यवर्णाः। कोष्ठागाराण्यविलयग्रामाः। वणिजश्च किराताः। पीड्यन्त इति सर्वत्र
योज्यम्।।७।।
अथ पूर्वफल्गुन्युत्तरफल्गुन्योराह—
भाग्ये रसविक्रयिणः पण्यस्त्रीकन्यकामहाराष्ट्राः ।
आर्यम्णे नृपगुडलवणभिक्षुकाम्बूनि तक्षशिला ॥८॥
पूर्वाफाल्गुनी नक्षत्र में स्थित शनैश्चर रस ( मधुर, अम्ल, लवण, तिक्त, कटु और
कषाय ) बेचने वाले, वेश्या, कुमारी, महाराष्ट्र देश में निवास करने वाले मनुष्य—इन
सबों को पीड़ित करता है। उत्तराफाल्गुनी नक्षत्र में स्थित शनैश्चर राजा, गुड़, नमक,
भिक्षुक, जल और तक्षशिला नगरी को पीड़ित करता है।।८।।
भाग्ये पूर्वफल्गुन्यां रसविक्रयिणः। रसाः षट् मधुराम्ललवणतिक्तकटुकषायाः। एषां
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शनैश्चरचाराध्यायः २०९
विक्रयकारिणः। पण्यस्त्रियो वेश्याः। कन्यकाः कुमार्यः। महाराष्ट्रा महाराष्ट्रदेशे ये जना
निवसन्ति। एते सर्व एव पीड्यन्ते। आर्यम्णे उत्तरफल्गुन्यां नृपा राजानः। गुडमिक्षु-
विकारः। लवणं प्रसिद्धम्। भिक्षुका यतयः। अम्बु पानीयम्। एतानि। तक्षशिला नगरी।
एते सर्व एव पीड्यन्ते।।८।।
अथ हस्ते स्थितस्याह—
हस्ते नापितचाक्रिकचौरभिषक्सूचिका द्विपग्राहाः।
बन्धक्यः कौशलका मालाकाराश्च पीड्यन्ते ॥९॥
हस्त नक्षत्र में स्थित शनैश्चर हजाम, चक्रिक ( कुम्भार, तेली आदि ), चोर, वैद्य,
शिल्पी, हाथी पकड़ने वाले, वेश्या, कोशल देश में निवास करने वाले, माली—इन सबों
को पीड़ित करता है।।९।।
हस्तस्थे सौरे नापिताः श्मश्रुकर्मविदः। चाक्रिकाश्चक्रेण चरन्ति चाक्रिकाः, कुम्भ-
कारतैलिकप्रभृतयः। चौरास्तस्कराः। भिषजो वैद्याः। सूचिकाः प्रसिद्धाः शिल्पिनः। द्विपा
हस्तिनस्तेषां ग्राहा बन्धकाः। बन्धक्यो वेश्याः। कौशलका जनाः। मालाकाराः पुष्प-
प्रदायकाः। एते सर्व एव पीड्यन्ते।।९।।
अथ चित्रास्वात्योराह—
चित्रास्थे प्रमदाजनलेखकचित्रज्ञचित्रभाण्डानि।
स्वातौ मागधचरदूतसूतपोतप्लवनटाद्याः ॥१०॥
यदि शनैश्चर चित्रा नक्षत्र में स्थित हो तो स्त्रीगण, लेखक, चित्रकार, भाण्ड ( अनेक
प्रकार के वैश्यों के धन = 'भाण्डं वणिङ्मूलधने भूषाश्वभूषयोरि'ति मेदिनी )—इन सबों
को पीड़ित करता है। यदि स्वाती नक्षत्र में शनैश्चर स्थित हो तो मागध ( कीर्ति गाने वाले
या मगध देश में रहने वाले ), गुप्तचर, दूत, सारथी, नाव पर चलने वाले, नट आदि—
इन सबों को पीड़ित करता है।।१०।।
चित्रास्थे सौरे प्रमदाजनः स्त्रीलोकः। लेखका लिपिज्ञाः। चित्रज्ञाश्चित्रकर्मविदः।
चित्रभाण्डानि नानावर्णानि भाण्डानि। बहुवर्णानीत्यर्थः। एतानि पीड्यन्ते। स्वातौ स्थिते
सौरे मागधा नाम श्रावका जना वा मगधवासिनः। चरा गूढपुरुषाः। दूता गमागमकारिणः।
सूताः सारथयः कथाश्रावका वा। पोतप्लवाः पोतः समुद्रो येनोत्तीर्यते तत्र ये प्लवन्ते,
पोतेन यान्तीत्यर्थः। नटा नृत्यज्ञाः। आदिग्रहणादन्येऽपि ये गीतवाद्यज्ञास्ते सर्व एव
पीड्यन्ते।।१०।।
अथ विशाखास्थिते आह—
ऐन्द्राग्नाख्ये त्रैगर्तचीनकौलूतकुङ्कुमं लाक्षा।
सस्यान्यथ माञ्जिष्ठं कौसुम्भं च क्षयं याति ॥११॥
बृ० भ० प्र०-१४
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१० बृहत्संहिता
यदि विशाखा नक्षत्र में शनि बैठा हो तो त्रिगर्त, चीन और कुलूत देश में रहने वाले
मनुष्य, कुङ्कुम, लाख, धान्य, मञ्जीठ और कुसुम्भ के पुष्पों का नाश करता है।।११।।
ऐन्द्राग्नाख्ये विशाखायां स्थिते सौरे त्रैगर्ता जनाः। चीनाः। कौलूताः कुलूतनिवासिनः।
कुङ्कुमं काश्मीरम्। लाक्षा जतु। सस्यानि प्रसिद्धानि। अथ माञ्जिष्ठम्। अथशब्दः स्वार्थे।
माञ्जिष्ठया रक्तं माञ्जिष्ठम्। कौसुम्भञ्च। एतत्सर्वं क्षयं याति नश्यतीत्यर्थः।।११।।
अथाऽनुराधायामाह—
मैत्रे कुलूततङ्गणखसकाश्मीराः समन्त्रिचक्रचराः ।
उपतापं यान्ति च घाण्टिका विभेदश्च मित्राणाम् ॥१२॥
यदि शनैश्चर अनुराधा नक्षत्र में स्थित हो तो कुलूत, तङ्गण, खस (नेपाल),
काश्मीर—इन देशों में स्थित मनुष्य, मन्त्री और चक्रचर (कुम्भार-तेली आदि), घण्टा
बजाने वाले और शिल्पियों को पीड़ित करता है तथा मित्रों में परस्पर भेदभाव उत्पन्न
कराता है।।१२।।
मैत्रेऽनुराधायां कुलूतो देशस्तत्र ये जनाः। तङ्गणा जनाः। खसाः पर्वतवासिनः।
काश्मीरा जनाः। किम्भूताः? समन्त्रिचक्रचराः, मन्त्रिभिः सचिवैश्चक्रचरैः कुम्भकारप्रभृतिभिः
सहिताः। एते सर्वे उपतापं यान्ति उपद्रवं प्राप्नुवन्ति। तथा घाण्टिका घण्टावादिनः शिल्पि-
नस्तेऽप्युपतापं यान्ति। तथा मित्राणां सुहृदां च परस्परं विभेदो विश्लेषो भवति।।१२।।
अथ ज्येष्ठामूलयोराह—
ज्येष्ठासु नृपपुरोहितनृपसत्कृतशूरगणकुलश्रेण्यः ।
मूले तु काशिकोशलपाञ्चालफलौषधीयोधाः ॥१३॥
ज्येष्ठा नक्षत्र में स्थित शनैश्चर राजा, पुरोहित, राजाओं से पूजित, शूर, गण (संन्यासियों
के मठ), प्रधान कुल और जनसङ्घियों को पीड़ित करता है। मूल में स्थित शनैश्चर काशी,
कोशल, पञ्जाब—इन देशों में रहने वाले मनुष्य, फल, औषध और युद्ध करने वालों को
पीड़ित करता है।।१३।।
ज्येष्ठासु स्थिते सौरे नृपा राजानः। पुरोहितास्तदाचार्याः। नृपसत्कृता राजपूजिताः।
शूराः संग्रामवीराः। गणाः समूहा मठप्रायाः। कुलानि प्रधानकुलानि। श्रेणी बहूनां समान-
जातीयानां सङ्घः। एते सर्व एवोपतापं यान्ति। मूले तु स्थिते सौरे काशयो जनाः। कोशलाः।
पाञ्चालाः। फलान्याम्रादीनि। ओषध्यः प्रसिद्धाः। योधाः संग्रामकुशलाः। एत एवोपतापं
यान्ति।।१३।।
अथ पूर्वाषाढायामाह—
आप्येऽङ्गवङ्गकौशलगिरिव्रजा मगधपुण्ड्रमिथिलाश्च ।
उपतापं यान्ति जना वसन्ति ये ताम्रलिप्त्यां च ॥१४॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
शनैश्चरचाराध्यायः २११
पूर्वाषाढ़ा में स्थित शनैश्चर अंग, वंग, कोशल, गिरिव्रज, मगध, पुण्ड्र, मिथिला और
ताम्रलिप्ती देश में निवास करने वाले मनुष्यों को पीड़ित करता है।।१४।।
आप्ये पूर्वाषाढायां स्थिते सौरे अङ्गा जनाः। वङ्गाः। कौशलाः। गिरिव्रजा जना एव।
मगधाः। पुण्ड्राः। मिथिलाश्च। एते सर्व एवोपतापं यान्ति उपद्रवं प्राप्नुवन्ति। ये च
जनास्ताम्रलिप्त्यां नगर्यां वसन्ति तेऽप्युपतापं यान्ति।।१४।।
अथोत्तराषाढायामाह—
विश्वेश्वरेऽर्कपुत्रश्चरन् दशार्णान्निहन्ति यवनांश्च।
उज्जायिनीं शबरान् पारियात्रिकान् कुन्तिभोजांश्च ।।१५।।
उत्तराषाढ़ा नक्षत्र में स्थित शनैश्चर दशार्ण देश में रहने वाले मनुष्य, यवन, उज्जायिनी
देश, शबर जाति, पारियात्र (पर्वत पर रहने वाले) और कुन्तिभोज देश में स्थित मनुष्यों
को पीड़ित करता है।।१५।।
विश्वेश्वरे उत्तराषाढायामर्कपुत्रः शनैश्चरश्चरंस्तिष्ठन् जनान् यवनांश्च निहन्ति नाशयति।
चशब्दः समुच्चये। उज्जायिनीं देशम्। शबरान् जनान्। पारियात्रिकान् पारियात्रे गिरौ ये
निसवन्ति तान्। कुन्तिभोजांश्च जनानेतांश्च निहन्ति नाशयति।।१५।।
अथ श्रवणधनिष्ठयोराह—
श्रवणे राजाधिकृतान् विप्राग्र्यभिषक्पुरोहितकलिङ्गान्।
वसुभे मगधेशजयो वृद्धिश्च धनेष्वधिकृतानाम् ।।१६।।
श्रवणा नक्षत्र में स्थित शनैश्चर राजा के अधिकारी, प्रधान ब्राह्मण, वैद्य और पुरोहितों
को पीड़ित करता है। धनिष्ठा नक्षत्र में स्थित शनैश्चर हो तो मगधेश्वर की विजय और
धनाधिकारी की वृद्धि होती है।।१६।।
श्रवणे स्थितः सौरो राजाधिकृतान्। राज्ञा नृपेणाधिकारे स्थापितान् नियोगिन
इत्यर्थः। विप्राग्र्यान् ब्राह्मणप्रधानान्। भिषजो वैद्याः। पुरोहिता आचार्याः। कलिङ्गा जनाः।
एतांश्च निहन्ति। वसुभे धनिष्ठायां स्थितः सौरो मगधेशस्य मगधाधिपतेर्जयः। तथा
धनेष्वधिकृतानां वित्तरक्षणे विनियुक्तानां वृद्धिर्भवति।।१६।।
अथ शतभिषक्पूर्वभद्रपदोत्तरभद्रपदास्वाह—
साजे शतभिषजि भिषक्कविशौण्डिकपण्यनीतिवृत्तीनाम्।
आहिर्बुध्न्ये नद्यो यानकराः स्त्रीहिरण्यं च ।।१७।।
यदि शनि शतभिषा या पूर्वाभाद्रपदा नक्षत्र में स्थित हो तो वैद्य, कवि, शौण्डिक
(मद्य बेचने वाले ), खरीद-बिक्री करने वाले और नीति शास्त्र जानने वाले पीड़ित होते
हैं। यदि उत्तराभाद्रपदा में शनैश्चर बैठा हो तो नदी-तीर में निवास करने वाले, रथाधिकारी,
शिल्पी, स्त्री और सुवर्ण का नाश करता है।।१७।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१२ बृहत्संहिता
शतभिषजि साजे पूर्वभद्रपदासहिते स्थितः सौरौ भिषजो वैद्याः। कवयः काव्यज्ञाः।
शौण्डिका मद्यपानप्रसक्ताः। पण्यवृत्तयः क्रयविक्रयजीविनः। नीतिवृत्तयो नीतिशास्त्रज्ञाः।
एतान् पीडयति। आहिर्बुध्न्ये उत्तरभद्रपदायां नद्यः सरितः। नदीतीरे ये निवसन्ति। तथा
यानकरा रथाधिकारकाः शिल्पिनस्तक्षकाः। स्त्रियो योषितः। हिरण्यं सुवर्णादि। एतान्
निघ्नन्ति।।१७।।
अथ रेवत्यामाह—
रेवत्यां राजभृताः क्रौञ्चद्वीपाश्रिताः शरत्सस्यम्।
शबराश्च निपीड्यन्ते यवनाश्च शनैश्चरे चरति ॥१८॥
यदि रेवती नक्षत्र में शनैश्चर बैठा हो तो राजा के आश्रय में रहने वाले, क्रौञ्च द्वीप में
रहने वाले, शारदीय धान्य, शबर जाति और यवन पीड़ित होते हैं।।१८।।
रेवत्यां शनैश्चरे चरति स्थिते सति राजभृता राज्ञा नृपेण ये भृताः पोषिता धृता वा।
तथा क्रौञ्चद्वीपे य आश्रिताः स्थिताः। शरत्सस्यं धान्यानि। शबरा जनाः। यवना म्लेच्छ-
जातयः। एते पीड्यन्ते। तथा च पराशरः—
‘आग्नेये प्रविचरन्नग्निस्थूलशूरसेनाहिताग्निलोहकारधातुकाराङ्गनाशौण्डिकाग्न्युपजीविन
उपतापयति। प्राजापत्ये मद्रकपाञ्चालकाशिकोशलाङ्गशाकटिकाः कन्यकाश्चोपतप्यन्ते।
सौम्ये यजमानयाजकार्याजनमध्यदेशवत्सजनपदाः। रौद्रे पारतरमठतैलिकरजकदस्यवः।
आदित्ये सुराष्ट्रसिन्धुसौवीरपञ्चनदप्रत्यन्ता विधवाश्च। पुष्ये पुष्पमानकघाण्टिकघौषिक-
पोतयात्रिकयवनवणिग्दूताः। आश्लेषासु सर्पाः सलिलजाश्च। मघासु शूलिकबाह्लिक-
तैलिकगान्धारवैद्यपारतदरदशिल्पिकोष्ठागाराणि। भाग्ये रसविक्रयिपण्यस्त्रीकन्यामहाराष्ट्राः।
आर्यम्णे नृपनृपपत्नीसुततिललवणगुडभिक्षुककूपकूर्चधरतक्षशिलादर्शनिवासिनः। हस्ते
हस्तिहस्तिग्राहकस्तेनभिषग्जकसूचिकनापितमालाकारबन्धकीकोशलाः। त्वाष्ट्रे प्रमदाले-
खकचित्रकरचित्रभाण्डानि। स्वातौ दूतचरसूतमागधप्लवकनटनर्तकगायनवादकपोतयात्रिकाः।
ऐन्द्राग्ने त्रैगर्तचीनकौलूतलाक्षाकुङ्कुमकुसुम्भमाञ्जिष्ठपीतकुसुमशस्यानिविग्रहकामाश्च। अनु-
राधासु खसतङ्गणकौलूतकाश्मीरचक्रचरमन्त्रिघाण्टिकाः। अस्मिन् मित्रभेदं च विन्द्यात्।’
ऐन्द्रे जातिगणकुलश्रेणीश्रेष्ठनृपनृपतिसत्कृतपुरोहितान्। मूले काशिकौशलपाञ्चा-
लमूलफलौषधियोधान्। पूर्वाषाढास्वङ्गमगधवङ्गपुण्ड्रकौशलमिथिलागिरिव्रजताम्रलिप्ति-
निवासिनः। उत्तराषाढास्ववन्तिशबरकुन्तिभोजदशार्णेयपारियात्रिकान्। वैष्णवेऽग्निदेश-
कलिङ्गेशविद्वद्विप्राश्रमभिषग्राजाधिकृतपुरोहितान्। श्रविष्ठासु मगधाधिपतिविजयाय विविध-
वसुनिचयाय तदधिकृतानामर्थैशांश्च पीडयति। शतभिषजि भिषङ्-मद्यसुरासवक्रयविक्रय-
वनितोपजीविदस्यूपाखण्डिनिवासिनः। प्राक्प्रोष्ठपदायां द्रविडकर्णाटवर्तिचोलपाण्ड्यसिंहल-
महेन्द्रनगरनिवासिनः। उत्तरभद्रपदायां स्त्रीहिरण्यनिचयतक्षकशमीधान्यनदनदीपान् युग्मकरान्।
रेवत्यां शरत्सस्यराजभृतशबरवनवासिक्रौञ्चद्वीपनिवासिनः। अश्विन्यामश्वारोहाश्वपालवैद्या-
मात्यकविनायकान्। भरणीषु वादकगायननर्तकक्षुद्रनैकृतिकान् पीडयति।।१८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA