सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 243, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 243

शुक्रचाराध्यायः २०३
अथ बृहस्पतावग्रतः स्थिते फलमाह—
बृहस्पतौ हन्ति पुरःस्थिते सितः
सितं समस्तं द्विजगोसुरालयान्।
दिशं च पूर्वा करकासृजोऽम्बुदा
गले गदा भूरि भवेच्च शारदम् ॥४२॥
यदि शुक्र के आगे गुरु गमन करे तो सफेद वस्तु, ब्राह्मण, गौ तथा देवताओं के गृह
और पूर्व दिशा का नाश करता है, मेघ से ओले की वृष्टि होती है, लोगों के गले में रोग
होता है तथा शारदीय धान्य अधिक होता है॥४२॥
सितः शुक्रो बृहस्पतौ पुरःस्थिते अग्रवर्तिनि सति समस्तं निःशेषं यत्किञ्चित्सितं
शुक्लवर्णम्। तथा द्विजगोसुरालयान्। द्विजा ब्राह्मणाः। गावः। सुरा देवाः। एषामालयं
स्थानं हन्ति नाशयति। तथा दिशमाशां च पूर्वामैन्द्रीं हन्ति। अम्बुदा मेघाः करकासृजः
करकावृष्टिं सृजन्ति मुञ्चन्ति। गले कण्ठे गदा रोगा लोकानां भवन्ति। शारदं च सस्यं
भूरि बहु भवेत्॥४२॥
अथ बुधे अग्रतः स्थिते फलमाह—
सौम्योऽस्तोदययोः पुरो भृगुसुतस्यावस्थितस्तोयकृद्
रोगान् पित्तजकामलांश्च कुरुते पुष्णाति च ग्रैष्मिकान्।
हन्यात् प्रव्रजिताग्निहोत्रिकभिषग्रङ्गोपजीव्यान् हयान्
वैश्यान् गाः सह वाहनैर्नरपतीन् पीतानि पश्चाद्दिशम् ॥४३॥
यदि शुक्र के आगे बुध गमन करे तो वृष्टि, लोगों में पित्तज और कामला रोगों की
उत्पत्ति तथा ग्रीष्म में उत्पन्न होने वाले धान्यों को पुष्ट करता है एवं वनवासी, अग्निहोत्री,
वैद्य, योद्धा, घोड़ा, वैश्य, गौ, वाहन, राजा, सभी पीली वस्तुयें और पश्चिम दिशा का नाश
करता है॥४३॥
सौम्यो बुधो भृगुसुतस्य शुक्रस्य पुरोऽग्रतः। अस्तोदययोः। अस्तमितः सूर्यमण्डले
स्थित उदितस्तन्निर्गतो वा यथा तथावस्थितस्तोयकृद्भवति, तोयं जलं करोति। तथा
रोगान् ज्वरादीन् करोति। पित्तजकामलांश्च पित्तजै रोगैः सहिताः कामलाः पित्तजकामलास्तांश्च
कुरुते। ग्रैष्मिकान् ग्रीष्मजातांश्च सस्यादीन् पुष्णाति पुष्टिं नयति। तथा प्रव्रजितान् वनस्थान्।
आग्निहोत्रिकान् अग्निहोत्रे सक्तान्। भिषजो वैद्यान्। रङ्गोपजीव्यान् मल्लादीन्। हयानश्वान्।
वैश्यान् वैश्यजातीयान्। गास्तथा वाहनैरश्वादिभिश्च सह नरपतीन् नृपान्। पीतानि पीतवर्णानि
सर्वाणि द्रव्याणि। पश्चाद्दिशमपरां चाऽऽशां हन्यान्नाशयेत्॥४३॥
अथ वर्णलक्षणमाह—
शिखिभयमनलाभे शस्त्रकोपश्च रक्ते
कनकनिकषगौरे व्याधयो दैत्यपूज्ये ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA