बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 242, कुल 728 में से
संदर्भ में पढ़ें२०२ बृहत्संहिता
न मित्रभाव इति। सुहृदो मित्राणि न मित्रभावे सुहृद्भावे व्यवस्थिताः संस्थिता
भवन्ति। मित्रतां न भजन्त इत्यर्थः। तथा द्विजातयो ब्राह्मणाः सम्यग्यथावद्विहितासु क्रिया-
स्वग्निहोत्राद्यासु न रताः सक्ता न भवन्ति। तथा वासव इन्द्रोऽल्पं स्तोकमप्यम्बु जलं न
ददाति न प्रयच्छति। न किञ्चिद्वर्षतीत्यर्थः। भूभृतां पर्वतानां वज्रेणोल्कया शिरांसि मस्त-
कानि भिनत्ति विदारयतीत्यर्थः॥३८-३९॥
एवं सर्वेषूक्त्वाऽधुनैकैकस्याग्रगतस्य वक्तुकामः शनैश्चरस्य तावदाह—
शनैश्चरे म्लेच्छविडालकुञ्जराः
खरा महिष्योऽसितधान्यशूकराः।
पुलिन्दशूद्राश्च सदक्षिणापथाः
क्षयं व्रजन्त्यक्षिमरुद्गदोद्भवैः ॥४०॥
यदि शुक्र के आगे शनैश्चर गमन करे तो म्लेच्छ जाति, बिल्ली, हाथी, गदहा, भैंस,
काले धान्य, सूकर, निषाद, शूद्र और दक्षिण दिशा में स्थित जन नेत्ररोग तथा वायु के
विकार से नष्ट होते हैं॥४०॥
शनैश्चरे शुक्रस्याग्रतः स्थिते म्लेच्छा जनाः। विडाला मार्जाराः। कुञ्जरा गजाः।
खरा गर्दभाः। महिष्यः प्रसिद्धाः। असितधान्यं कृष्णधान्यम्। शूकरा वराहाः। पुलिन्दा
निषादजनाः। शूद्रा जनाः। ते च सदक्षिणापथा दक्षिणदिग्निवासिभिर्जनैः सहिताः। एते
सर्व एव क्षयं विनाशं व्रजन्ति। कैः? अक्षिमरुद्गदोद्भवैः। अक्षिषु नेत्रेषु ये गदा रोगा
मरुता वायुना च ये गदास्तदुद्भवैस्तदुत्पन्नैर्दोषैरिति॥४०॥
अथ भौमेऽग्रतः स्थिते फलमाह—
निहन्ति शुक्रः क्षितिजेऽग्रतः प्रजां
हुताशशस्त्रक्षुदवृष्टितस्करैः।
चराचरं व्यक्तमथोत्तरापथं
दिशोऽग्निविद्युद्रजसा च पीडयेत् ॥४१॥
यदि शुक्र के आगे मङ्गल गमन करे तो अग्नि, शस्त्र, क्षुधा, अवृष्टि और चोरों से
प्रजाओं का, उत्तर दिशा में स्थित जङ्गम तथा स्थावर प्राणियों का, अग्नि तथा विद्युत् और
धूलि से दिशाओं का नाश होता है॥४१॥
शुक्नो भार्गवः क्षितिजे भौमे अग्रतः पुरतः स्थिते सत्येवं प्रजां निहन्ति नाशयति।
कैः? हुताशशस्त्रक्षुदवृष्टितस्करैः। हुताशोऽग्निः। शस्त्रमायुधं संग्राम इत्यर्थः। क्षुद् दुर्भिक्षम्।
अवृष्टिरवर्षणम्। तस्कराश्चौराः। एतैः। तथोत्तरां दिशम्। चराचरम्। चरं जङ्गमाख्यमचरं
स्थावराख्यं व्यक्तं निःशेषं निहन्ति। तथा दिश आशाः। अग्निविद्युद्रजसा च पीडयेत्।
अग्निना हुतवहेन। विद्युता तडिता। रजसा पांशुना। एतैः पीडयेद् उपतापयेत्॥४१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA