बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
शनैश्चरचाराध्यायः २१३
अथ विशाखास्थस्य गुरोः कृत्तिकास्थस्य सौरस्य तथानयोरेकर्षगतयोः फलमाह—
यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षयातः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोर्भमेकम् ॥१९॥
जब विशाखा नक्षत्र में गुरु और कृत्तिका नक्षत्र में शनैश्चर बैठा हो तो उस समय
प्रजाओं में भयंकर अनीति उत्पन्न होती है तथा जब एक ही नक्षत्र में दोनों बैठे हों तो उस
समय नगरों में परस्पर द्वेष उत्पन्न होता है।।१९।।
यदा यस्मिन् काले महेन्द्रमन्त्री बृहस्पतिर्विशाखासु यातः प्राप्तस्तथा भानोरादित्यस्य
सुतः पुत्रः सौरो दहनर्क्षं कृत्तिकायां यातस्तदा तस्मिन् काले प्रजानां लोकानामनयो दुर्नयो-
ऽतिघोरो भयावहो भवति। तयोरेवंगुरुसौरयोरेकं भमेकनक्षत्रं गतयोः पुरस्य नगरस्य प्रभेदो
भवति। तथा च पराशरः—
कृत्तिकासु शनैश्चारी विशाखासु बृहस्पतिः।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत्।।
एकं नक्षत्रमासाद्य दृश्येते युगपद्यदि।
अन्योन्यभेदं जानीयात्तदा पुरनिवासिनाम्।।
गुरुसौरयोरेकस्थौ द्विस्वभावराशिस्थौ तदाप्यनिष्टफलमभिहितम्। तथा च देवलः—
मीने धनुषि कन्यायां मिथुने सगुरुः शनिः।
तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत्।। इति।।१९।।
अथ वर्णस्वरूपमाह—
अण्डजहा रविजो यदि चित्रः क्षुद्भयकृद्यदि पीतमयूखः ।
शस्त्रभयाय च रक्तसवर्णो भस्मनिभो बहुवैरकरश्च ॥२०॥
यदि शनैश्चर का वर्ण अनेक वर्णों का हो तो पक्षियों का नाश, पीला हो तो दुर्भिक्ष, रक्त
वर्ण का हो तो युद्ध और भस्म के सदृश वर्ण का हो तो प्रजाओं में द्वेष होता है।।२०।।
रविजः शनैश्चरो यदि चित्रश्चित्रवर्णो नानाकारो दृश्यते। तदा अण्डजहा अण्डजान्
पक्षिणो हन्ति। यदि पीतमयूखः पीतरश्मिर्दृश्यते तदा क्षुद् दुर्भिक्षं करोति। रक्तसवर्णो
रक्ताभः शस्त्रभयाय संग्रामाय भवति। भस्मनिभो भस्मसदृशकान्तिर्बहुवैरकरः प्रजानां भवति।
तथा च पराशरः—
नीलपीतः क्षुधे। रक्तभस्मचित्रवर्णः शस्त्रवैरकरोऽण्डजाभिहन्ता। यद्वर्णस्तद्वर्णविनाशी
भवति।।२०।।
अन्यद्वर्णलक्षणमाह—
वैडूर्यकान्तिविमलः शुभकृत् प्रजानां
बाणातसीकुसुमवर्णनिभश्च शस्तः ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१४ बृहत्संहिता
यं चापि वर्णमुपगच्छति तत्सवर्णान्
सूर्यात्मजः क्षपयतीति मुनिप्रवादः ॥२१॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
शनैश्चरचाराध्यायः दशमः ॥१०॥
यदि शनैश्चर का वर्ण वैडूर्य मणि के समान निर्मल हो तो प्रजाओं को शुभ करने
वाला होता है। बाण या अतसी पुष्प के समान काला हो तो भी शुभ है। साथ ही शनैश्चर
जिस तरह के वर्ण को धारण करे, उसके समान वर्ण वाले मनुष्यों का नाश करता है।
जैसे—श्वेत वर्ण का हो तो ब्राह्मण का, रक्त वर्ण का हो तो क्षत्रिय का, पीत वर्ण का हो
तो वैश्य का तथा कृष्ण वर्ण का हो तो शूद्र का नाश करता है। इस प्रकार प्राचीन मुनियों
का वचन है।
इति 'विमला' हिन्दीटीकायां शनैश्चरचाराध्यायो दशमः ॥१०॥
सूर्यात्मजः सौरो वैडूर्यकान्तिविमलो वैडूर्यस्य मणेरिव कान्तिः प्रभा विमला निर्मला
यस्य स तथाभूतः प्रजानां लोकानां शुभकृत्। शुभं श्रेयः करोति। तथा बाणपुष्पाणामतिकृष्ण-
वर्णानामतसीकुसुमानां चातिनीलवर्णानां वर्णनिभस्तत्सदृशकान्तिः शस्तः प्रशस्तः। यं
चापि वर्णमुपगच्छतीति। यादृशं वर्णं सितं रक्तं पीतं कृष्णमुपगच्छति समाश्रयति तत्स-
वर्णांस्तत्समानवर्णान् द्विजादीन् क्षपयति नाशयति। तद्यथा—श्वेतवर्णो ब्राह्मणान्नाशयति।
रक्तः क्षत्रियान्। पीतो वैश्यान्। कृष्णः शूद्रानिति। इत्येवम्प्रकारो मुनीनां गर्गादीनां प्रवादो
वचनमित्यर्थः। तथा च गर्गः—
भवत्यर्कात्मजे रूक्षे श्यावपीतारुणप्रभे।
तदात्मकानां भावानां क्षुच्छस्त्राग्निकृतं भयम्।।
तथा पराशरश्च—
पाण्डुः स्निग्धोऽमलः श्यामो विस्तृतार्चिः शनैश्चरः।
मार्गस्थश्च प्रसव्यश्च नक्षत्राद्वित्त इष्यते।। इति।।२१।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
शनैश्चरचारो नाम दशमोऽध्यायः ॥१०॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ केतुचाराध्यायः
अथ केतुचारो व्याख्यायते। तत्रादावेवाऽऽगमप्रदर्शनार्थमाह—
गार्गीयं शिखिचारं पाराशरमसितदेवलकृतं च।
अन्यांश्च बहून् दृष्ट्वा क्रियतेऽयमनाकुलश्चारः ॥१॥
गर्ग, पराशर, असित, देवल और अन्य आचार्यों के भी किये हुये केतुचार को
देखकर यह अनाकुल ( निःसन्देहात्मक ) केतुचार को कहते हैं।।१।।
गार्गीयं गर्गप्रोक्तम्। शिखिचारं केतुचारम्। तथा पाराशरं पराशरकृतम्। असित-
नामाचार्यस्तत्कृतम्। देवलकृतं देवलविरचितं च। एतान् केतुचारान् दृष्ट्वा अवलोक्य।
तथा अन्यानपि काश्यपऋषिपुत्रनारदवज्रादिविरचितान् बहून् प्रभूतान् दृष्ट्वा मया अयम-
नाकुलो निःसन्देहः केतुचारः क्रियते विरच्यत इति।।१।।
अथोदयास्तमयलक्षणमाह—
दर्शनमस्तमयो वा न गणितविधिनास्य शक्यते ज्ञातुम्।
दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ॥२॥
गणित के द्वारा केतु का अस्त या उदय नहीं जान सकते; क्योंकि दिव्य ( आकाश
में उत्पन्न ), आन्तरिक ( ग्रह और नक्षत्रस्थान से भिन्न स्थान में उत्पन्न ), भौम ( पृथ्वी
पर उत्पन्न ) —ये तीन प्रकार के केतु होते हैं। इसलिए उत्पातरूप होने के कारण गणित
से इनका उदयास्त नहीं जाना जा सकता।।२।।
अस्य केतोर्दर्शनमुदयोऽस्तमयोऽदर्शनं वा गणितविधिना गणितविधानेन न ज्ञातुं
वेदितुं शक्यते। यस्मात् केतवस्त्रिविधास्त्रिप्रकारा दिव्यान्तरिक्षभौमाः। दिव्याकाशे भवा
दिव्याः। अन्तरिक्षे भवा आन्तरिक्षाः। ग्रहनक्षत्रस्थानं विहायान्यत्राऽऽकाशे ये दृश्यन्ते ते
आन्तरिक्षाः। भूमौ भवा भौमाः। इति हेतोरुत्पातरूपत्वादेषामुदयास्तमयौ न ज्ञायेते इति।
अथ केतूनां दिव्यवर्जितानामन्येषां स्वरूपमाह—
अहुताशेऽनलरूपं यस्मिंस्तत्केतुरूपमेवोक्तम्।
खद्योतपिशाचालयमणिरत्नादीन् परित्यज्य ॥३॥
खद्योत, पिशाचालय ( यक्ष का स्थान ), मणि ( चन्द्रकान्त इत्यादि ), रत्न ( मरकत
इत्यादि ), आदि ( काच आदि ) —इनको छोड़कर अग्नि से भिन्न जिस-किसी स्थान में
अग्नि के समान रूप दृष्टिगोचर हो, वहाँ केतु का रूप समझना चाहिये।।३।।
अहुताशेऽग्निवर्जिते यस्मिन् देशेऽनलरूपमग्निरूपं दृश्यते तदेव केतुरूपमुक्तं कथितम्।
किन्तु खद्योत इन्द्रगोपकः कृमिविशेषः। पिशाचालयो यक्षस्थानम्। मणयश्चन्द्रकान्तप्रभृतयः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१६ बृहत्संहिता
रत्नानि मरकतप्रभृतीनि। आदिग्रहणादन्यान्यपि काचप्रभृतीनि तेजोरूपाणि। एतानि परित्यज्य
त्यक्त्वा। यत एषां स्वभावादेवानलरूपं दृश्यते। एतानि परित्यज्यान्यद्यदनल-रूपमहुताशे
दृश्यते तत्केतुरूपमिति॥३॥
अथ दिव्यान्तरिक्षभौमानां केतूनां लक्षणमाह—
ध्वजशस्त्रभवनतरुतुरगकुञ्जराद्येष्वथान्तरिक्षास्ते ।
दिव्या नक्षत्रस्था भौमाः स्युरतोऽन्यथा शिखिनः ॥४॥
ध्वज, शस्त्र, गृह, वृक्ष, घोड़ा, हाथी आदि में जिस केतु का दर्शन हो, वह आन्तरिक्ष
नक्षत्रों में दिव्य और इनसे भिन्न स्थानों में भौम केतु होता है॥४॥
ध्वजश्चिह्नम्। शस्त्रमायुधादि। भवनं गृहम्। तरुर्वृक्षः। तुरगोऽश्वः। कुञ्जरो हस्ती।
आदिग्रहणादन्येषु चतुष्पदादिषु दृश्यन्तेऽनलरूपास्ते केतव आन्तरिक्षाः। तथा नक्षत्राणां
तारकाणां च मध्ये ये केतवो दृश्यन्ते ते दिव्या नक्षत्रस्थाः अतोऽस्मादुक्ताद्येऽन्यथा
अन्ये भूमौ दृश्यन्ते ते भौमाः शिखिनः केतव इति॥४॥
अथ केतूनां मतान्तरेण संख्यामाह—
शतमेकाधिकमेके सहस्रमपरे वदन्ति केतूनाम् ।
बहुरूपमेकमेव प्राह मुनिर्नारदः केतुम् ॥५॥
कोई एक सौ एक, दूसरे एक सहस्त्र और नारद मुनि अनेक रूप वाला केवल एक ही
केतु कहते हैं॥५॥
एके मुनयः पराशरादय एकाधिकं शतं केतूनां वदन्ति कथयन्ति। तथा च पराशरः—
तद्यथा—'शतमेकोत्तरं केतूनां भवति। तेषां षोडश मृत्युनिःश्वासजाः। द्वादशाऽ-
ऽदित्यसम्भवाः। दश दक्षमखविलयने रुद्रक्रोधजाः। सप्त पैतामहाः। पञ्चदश उद्दालकऋषेः
पुत्राः। सप्तदश मरीचिकश्यपललाटजाः। पञ्च प्रजापतिहास्यजाः। त्रयो विभावसुजाः। धूमो-
द्भवश्चैकः। चतुर्दश मथ्यमानेऽमृते सोमेन सह सम्भूताः। एकस्तु ब्रह्मकोपजः' इति।
सहस्रमपरे वदन्तीति । अपरे अन्ये गर्गादयः सहस्रं केतूनां वदन्ति। तथा च गर्गः—
अतीतोदयचाराणामशुभानां च दर्शने।
आगन्तूनां सहस्रं स्याद् ग्रहाणां तन्निबोध मे।।
बहुरूपमेकमेवेति । नारदाख्यो मुनिरेकमेव केतुं प्राहोक्तवान्। तन्मते एक एव
केतुस्तस्य च बहूनि रूपाणि। स एव दिव्यान्तरिक्षभौम इत्यर्थः। तथा च नारदः—
दिव्यान्तरिक्षगो भौम एकः केतुः प्रकीर्तितः।
शुभाशुभफलं लोके ददात्यस्तमयोदयैः।। इति ।।५।।
एवं मतान्तराण्युक्त्वा स्वसिद्धान्तमाह—
यद्येको यदि बहवः किमनेन फलं तु सर्वथा वाच्यम् ।
उदयास्तमयैः स्थानैः स्पर्शैराधूमनेर्वणैः ॥६॥
CC-0. JK Sanskrit Academy, Jammpu. Digitized by S3 Foundation USA
केतुचाराध्यायः २१७
एक या अनेक केतु हों, इसका मुझसे कोई प्रयोजन नहीं; बल्कि उदय, अस्त, उसके
स्थान, स्पर्श ( ग्रह या नक्षत्र के साथ स्पर्श ) और आधूम ( श्वेत, रक्त, पीत, कृष्ण
वर्णों ) के द्वारा मुझे केवल फल कहना है।।६।।
फलं शुभाशुभम्। वाच्यं वक्तव्यम्। उदयास्तमयौ यथा—कस्यां दिशि उदितः
कस्यामेवास्तमितः। स्थानं यथा—कस्मिन्नाकाशभागे कस्य ग्रहस्य नक्षत्रस्य वा समीपे
उदितोऽस्तमितश्च। स्पर्शनकम्। तेन ग्रहो नक्षत्रं वा स्पृष्टम्। आधूमनः शिखयाऽभिधूमितः।
वर्णः सितरक्तपीतकृष्णादिकः। एवमादिभिस्तस्य फलं वाच्यम्। तस्माद्यद्येको बहवो यदि
वा भवन्तु किमनेन का नः क्षतिरिति।।६।।
अथ केतुचारे येषां केतूनां नाम निर्दिष्टं कियन्तं कालं यावत्फलपाको भविष्यति
तेषामिति फलपाकनियमार्थमाह—
यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः।
मासैरब्दांश्च वदेत् प्रथमात् पक्षत्रयात् परतः ॥७॥
जितने दिन तक केतु देखने में आवे, अस्त के ४५ दिन बाद से उतने मास तक और
जितने मास तक देखने में आवे, अस्त के ४५ दिन बाद से उतने वर्ष तक फल देता है।
यावन्त्यहानि यावन्ति दिनानि दृश्यो दर्शनपथं गतः। कः केतुरिति सम्बध्यते।
फलपाकः। फलस्य पाकः फलपाकः। तस्य तावन्तो मासाः। तस्य केतोस्तावतो मासान्
दृश्यदिनतुल्यांस्तावत्संख्यान् मासान् फलपाकं वदेद् ब्रूयात्। मासैरब्दांश्च वदेत्। प्रथमात्
पक्षत्रयात् परत इति। मासैः पुनरब्दान् संवत्सरान् वदेत्। माससंख्यादर्शने मासतुल्यानि
वर्षाणि वदेत्। यावत्संख्यान् मासान् दृश्यो भवति तावत्संख्यानि वर्षाणि तस्य फलपाकं
वदेत्। कस्मात् कालात् प्रभृति? इत्यत आह—प्रथमात् पक्षत्रयात् परतः। सर्वेषां केतूनां
त्विदं सामान्यम्। यावन्ति दिनानि दृश्यः केतुस्तस्माद्दर्शनादूर्ध्वं प्रथमं पक्षत्रयं पञ्चचत्वा-
रिंशद्दिनानि यावन्ति निष्फलानि। तस्मात् पक्षत्रयात् परतस्तावतो मासान् फलपाकः।
अथ मासा दृश्यन्ते तदा तस्मादेव दर्शनात् परतः पक्षत्रयमतिक्रम्य मासतुल्यानि वर्षाणि
वदेत्। प्रथमात् पक्षत्रयात् परत इति यदुक्तं तत्सर्वत्र फलपाके। दर्शनादूर्ध्वं प्रथमं पक्षत्रयं
यावन्निष्फलं भवति।
अत्र केचिद् व्याख्याविप्रतिपत्तिं प्रदर्शयन्ति। यदुक्तं मासैरब्दांश्च वदेत् प्रथमात् पक्ष-
त्रयात् परतः। तत्र पक्षत्रयं यावद्दिनसंख्या गृह्यते। पक्षत्रयादूर्ध्वं यदा दृश्यते केतुस्तदा
माससंख्यातुल्यानि वर्षाणि वदेत्।
अत्र सन्देहव्युदासार्थं गर्गोक्तं नियामकमभिलिख्यते। तथा च गर्गः—
यावन्त्यहानि दृश्यः स्यात्तावन्मासान् फलं भवेत्।
मासांस्तु यावद् दृश्येत तावतोऽब्दांश्च वैकृतम्।।
त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम्।
सद्यस्कमुदिते केतौ फलं नेहाऽऽदिशेद् बुधः।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२१८ बृहत्संहिता
तथा च वृद्धगर्गः—
यावतो दिवसांस्तिष्ठेत्तावन्मासान् विनिर्दिशेत्।
त्रिपक्षात् परतश्चापि कर्म केतोः प्रपच्यते।।
तस्मात् कालात् परं ब्रूयात् फलमस्य शुभाशुभम्।
सद्यस्कमुदिते केतौ फलं नेहाऽऽदिशेद् बुधः।।
यद्येवं तदा द्वितीयव्याख्यानं न घटते, प्रथमव्याख्यानमेव ज्याय इति। यथा प्रथ-
तात् पक्षत्रयात् परतः। दर्शनादूर्ध्वं पक्षत्रयं यावन्निष्फलम्। पक्षत्रयात् परतः फलपाकस्य
कालसंख्या प्रवर्तते। यस्मादुक्तं 'सद्यस्कमुदिते केतौ फलं नेहाऽऽदिशेद् बुधः' इति।
यच्चोक्तं मासैरब्दांश्च वदेत् तदेकदेशेनापि मासप्रतिमासमेकद्वित्र्यादिदिनस्पर्शनेनापि
माससंख्या लभ्यत एव सर्वथा किमनेनास्माकमसद्विकल्पेन। दिवसैः पक्षत्रयात् परतो
मासान् वदेत् मासैस्तस्मादेव पक्षत्रयात् परतोऽब्दान् वदेत्। मासात् परतो दिनाधिक्ये
दृष्टेऽनुपातवशाद्वक्तव्यम्। यदि दिनत्रिंशता वर्षं लभ्यते तदेष्टदिनैः किमिति? तथा च
समाससंहितायाम्—
केचित् केतुसहस्रं शतमेकसमन्वितं वदन्त्येके।
नारदमत एकोऽयं त्रिस्थानसमुद्भवो विविधरूपः।।
दिव्यग्रहर्क्षजातास्तीव्रफला मन्दफलकरा भौमाः।
प्राणिध्वजादितुङ्गेषु चान्तरिक्षा न चान्यशुभाः।।
उदयास्तमयाधूमनसंयोगाकारमार्गदिग्द्यातैः ।
फलनिर्देशो दिवसैर्मासा मासैस्तु वर्षाणि।। इति।।७।।
अथ शुभस्य केतोर्लक्षणमाह—
ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः ।
उदितोऽथवाभिवृष्टः सुभिक्षसौख्यावहः केतुः ॥८॥
यदि छोटा, पतला, निर्मल, स्निग्ध, सरल, थोड़े ही दिनों में अदृश्य, श्वेत और
उदयकाल में वृष्टि हो तो वह केतु सुभिक्ष और सुख देने वाला होता है॥८॥
एवंविधः केतुर्दृष्टः सुभिक्षसौख्यावहः सुभिक्षं सौख्यमावहति करोति। कीदृशः ?
ह्रस्वोऽदीर्घः। तनुरस्थूलः। प्रसन्नो निर्मलः। स्निग्धः सुस्नेहः। ऋजुः स्पष्टः। अकुटिल
इत्यर्थः। अचिरसंस्थितः शीघ्रमेवादर्शनं यातः। शुक्लः श्वेतवर्णः। अथवोदित एवाभि-
वृष्टस्तस्मिन्नुदितमात्रे यदि वृष्टिर्भवति॥८॥
अथाशुभस्य केतोर्लक्षणमाह—
उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ॥९॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २१९
उक्त लक्षण से भिन्न लक्षण वाले केतु शुभ करने वाले नहीं होते तथा इन्द्रधनु, दो या
तीन शिखा वाले केतु विशेषकर अशुभ फल देते हैं।।९।।
ह्रस्वस्तनुः प्रसन्न इत्यस्मादुक्ताद्यो विपरीतरूपः केतुरुत्पन्नः स धूमकेतुः। स च न
शुभकरः शुभं फलं न करोति। पापं करोतीत्यर्थः। तथेन्द्रायुधानुकारी, इन्द्रायुधं चक्रचापं
तत्सदृशो न शुभकर एव। तथा द्वित्रिचूलो द्विशिखस्त्रिशिखश्च विशेषतो न शुभकर एव।
तथा च समाससंहितायाम्—
अचिरस्थितोऽभिवृष्टस्त्वृजुः स्मितः स्निग्धमूर्तिरुद्गुदितः।
ह्रस्वस्तनुः प्रसन्नः केतुर्लोकस्य भावाय।।
न शुभो विपरीतोऽतो विशेषतः शक्रचापसङ्काशः।
द्वित्रिचतुश्शूलो वा दक्षिणसंस्थश्च मृत्युकरः।। इति।।९।।
अधुना केतुसहस्रस्य लक्षणं सफलं विवक्षुस्तत्रादावेव रविजाः पञ्चविंशतिः केतवो
भवन्ति तेषां लक्षणमाह—
हारमणिहेमरूपाः किरणाख्याः पञ्चविंशतिः सशिखाः।
प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ॥१०॥
मुक्ताहार, मणि ( चन्द्रकान्त आदि ) और सुवर्ण के समान वर्ण वाले शिखासहित
केतु पच्चीस प्रकार के होते हैं। ये सूर्यपुत्र केतु पूर्व और पश्चिम तरफ दृश्य होते हैं। इनमें
से एक का भी यदि दर्शन हो तो राजाओं में परस्पर द्वेष उत्पन्न होता है।।१०।।
हारो मुक्ताहारः। मणयश्चन्द्रकान्तप्रभृतयः। हेम सुवर्णम्। एतेषां सदृशरूपाः समानवर्णा
ये केतवस्ते किरणाख्याः किरणसंज्ञाः। सशिखाः सचूलाः। ते च पञ्चविंशतिः। रविजाः
सूर्यपुत्राः प्रागपरदिशोर्दृश्याः। प्राक् पूर्वस्यामपरस्यां पश्चिमायां दिशि दृश्यन्ते। एतेषां
मध्ये एक एव दृश्यते न सर्वे युगपदिति सर्वत्रेयं परिभाषा। ते च नृपतिविरोधावहाः,
नृपते राज्ञो विरोधावहा विरोधप्रदाः। अनिष्टा इत्यर्थः। तथा च गर्गः—
शुद्धस्फटिकसङ्काशमृणालरजतप्रभाः ।
मुक्ताहारसुवर्णाभाः सशिखाः पञ्चविंशतिः।।
किरणाख्या रवेः पुत्रा दृश्यन्ते प्राग्दिशि स्थिताः।
तथा चापरभागस्था नृपतेर्भयदाश्च ते।। इति।।१०।।
अथाग्निपुत्रांस्तावत् आह—
शुकदहनबन्धुजीवकलाक्षाक्षतजोपमा हुताशसुताः ।
आग्नेय्यां दृश्यन्ते तावन्तस्तेऽपि शिखिभयदाः ॥११॥
तोता, अग्नि, बन्धुजीवक ( काला पुष्प ) लाख या रक्त के समान वर्ण वाले अग्नि
के पुत्र पच्चीस प्रकार के केतु होते हैं, जो अग्निकोण में दृश्य होते हैं। इनका दर्शन होने
पर अग्नि का भय होता है।।११।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२२० बृहत्संहिता
शुकः पक्षिविशेषो नीलपीतवर्णः। दहनोऽग्निः। बन्धुजीवकः पुष्पविशेषोऽतिलोहितः।
लाक्षा वृक्षनिर्यासः। क्षतजं रक्तम्। तदुपमास्तत्तुल्यवर्णाः। ते च तावन्तः पञ्चविंशतिः।
हुताशसुता अग्निपुत्राः। आग्नेय्यां पूर्वदक्षिणस्यां दिशि दृश्यन्ते। ते च दृष्टाः शिखिभयदा
अग्निभयप्रदा इत्यर्थः। तथा च गर्गः—
नानावर्णाग्निसङ्काशा दीप्तिमन्तो विचूलिनः।
सृजन्त्यग्निमिवाकाशात् सर्वे ज्यौतिषनाशनाः।।
तेऽग्निपुत्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः।
आग्नेय्यां दिशि दृश्यन्ते पञ्चविंशत्प्रकीर्तिताः।। इति।।११।।
अथ मृत्युसुतांस्तावत् एवाऽऽह—
वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च तेऽपि तावन्तः।
दृश्यन्ते याम्यायां जनमरकावेदितस्ते च।।१२।।
कुटिल शिखा वाले, रूक्ष और काले यम के पुत्र पच्चीस प्रकार के केतु हैं। ये दक्षिण
दिशा में उदित होते हैं। इनका दर्शन होने से पृथिवी पर मरी पड़ती है।।१२।।
वक्रशिखा अस्पष्टचूड़ास्ते च रूक्षा अस्निग्धाः। कृष्णाश्चासितास्तेऽपि तावन्तः
पञ्चविंशतिरेव। ते च मृत्युसुता मृत्योः पुत्राः। याम्यायां दक्षिणस्यां दिशि दृश्यन्ते विलो-
क्यन्ते। ते च जनमरकावेदिनः। जनानां मरकमावेदयन्ति कथयन्ति। तथा च गर्गः—
कृष्णा रूक्षा वक्रशिखा दृश्यन्ते याम्यदिक्स्थिताः।
पञ्चविंशा मृत्युसुताः प्रजाक्षयकराः स्मृताः।। इति।।१२।।
अथ भूपुत्रा द्वाविंशतिस्तानाह—
दर्पणवृत्ताकारा विशिखाः किरणान्विता धरातनयाः।
क्षुद्भयदा द्वाविंशतिरैशान्यमम्बुतैलनिभाः।।१३।।
वृत्ताकार, दर्पण के समान, शिखारहित, किरणों से युक्त, जल और तेल के समान
बाईस प्रकार के भूमिपुत्र केतु हैं। ये ईशान कोण में उदित होते हैं। इनका दर्शन होने से
दुर्भिक्ष होता है।।१३।।
दर्पणवद् वृत्तं परिवर्तुल आकारो येषां ते दर्पणवृत्ताकाराः। विशिखा विचूलाः।
किरणान्विता रश्मिसंयुक्ताः। धरातनया भूमिपुत्रास्ते च द्वाविंशतिरैशान्यां पूर्वोत्तरस्यां
दिशि दृश्यन्ते। अम्बुतैलनिभाः। अम्बु जलम्। तैलं प्रसिद्धम्। तन्निभाः। जलस्य तैलस्य
वा सदृश्यः कान्तयः। एते दृष्टा क्षुद्भयदाः क्षुद्भयं दुर्भिक्षं ददति। तथा च गर्गः—
समस्तवृत्ता विशिखा रश्मिभिः परिवारिताः।
अम्बुतैलप्रतीकाशा द्वाविंशद् भूसुताः स्मृताः।।
ऐशान्यां दिशि दृश्यन्ते दुर्भिक्षभयदास्तु ते।। इति।।१३।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२१
अथ चन्द्रसुताख्यस्तानाह—
शशिकिरणरजतहिमकुमुदकुन्दकुसुमोपमाः सुताः शशिनः।
उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ॥१४॥
चन्द्रकिरण, चाँदी, हिम, कुमुद या कुन्दपुष्प के समान वर्ण वाले तीन प्रकार के
चन्द्रपुत्र केतु हैं। ये उत्तर दिशा में उदित होते हैं। इनका दर्शन होने पर सुभिक्ष होता है।
शशिकिरणाश्चन्द्ररश्मयः। रजतं रूप्यम्। हिमं तुषारम्। कुमुदकुन्दकुसुमे पुष्पविशेषे
अतिशुक्लवर्णे। तदुपमास्तत्तुल्यवर्णास्त्रयः शिखिनः केतवश्चन्द्रस्य सुताः पुत्राः। उत्तरतः
सौम्यायां दिशि दृश्यन्ते अवलोक्यन्ते। ते च सुभिक्षावहाः सुभिक्षमावहन्ति कुर्वन्तीत्यर्थः।
तथा च गर्गः—
चन्द्ररश्मिसवर्णाभा हिमकुन्देन्दुसप्रभाः।
त्रयस्ते शशिनः पुत्रा सौम्याशास्थाः शुभावहाः॥ इति॥१४॥
अथ ब्रह्मदण्डाख्यस्य लक्षणमाह—
ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः।
अनियतदिक्सम्भवो विज्ञेयो ब्रह्मदण्डाख्यः ॥१५॥
ब्रह्मा का पुत्र, तीन शिखा वाला, तीन वर्णों से युक्त एक केतु है। यह सभी दिशाओं
में उदित होता है। जब इसका दर्शन होता है, उस समय सभी प्रदेशों का नाश होता है।
ब्रह्मसुतो ब्रह्मणः पुत्र एक एव। स च त्रिशिखस्त्रिचूडः। वर्णैः सितादिभिस्त्रिभिरुपल-
क्षितास्ताश्च शिखाः। स तु ब्रह्मदण्डाख्यो ब्रह्मदण्डसंज्ञो विज्ञेयो विज्ञातव्यः। अनियत-
दिक्सम्भवः। अनियतायामनिश्चितायां दिशि सम्भव उत्पत्तिर्यस्य। सर्वासु दिक्षु दृश्यत
इत्यर्थः। स तु युगान्तकरो युगस्यान्तं करोति। सर्वत्र क्षयकर इत्यर्थः। तथा च गर्गः—
एको ब्रह्मसुतः क्रूरस्त्रिवर्णस्त्रिशिखान्वितः।
सर्वास्वाशासु दृश्यः स्याद् ब्रह्मदण्डः क्षयावहः॥ इति॥१५॥
एकाधिकं शतं कथितमन्यानि नवशतान्येकोनानि कथयामीत्याह—
शतमभिहितमेकसमेतमेतदेकेन विरहितान्यस्मात्।
कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ॥१६॥
इस तरह एक सौ एक केतुओं के लक्षण कहे गये हैं। फिर आठ सौ निन्यानबे तरह
के उनके स्पष्ट लक्षण कहते हैं॥१६॥
एतदेकसमेतमेकेनाधिकं केतूनां शतमभिहितमुक्तम्। अस्मादेकाधिकाच्छतात् परत
एकेन विरहितान्येकोनानि नव शतानि केतूनां स्पष्टैः स्फुटैर्लक्षणैश्चिह्नैः कथयिष्ये
वक्ष्ये॥१६॥
२२२ बृहत्संहिता
अथ शुक्रपुत्रांश्चतुरशीतिसंख्यांस्तानाह—
सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ॥१७॥
विस्तीर्ण, शुक्ल और निर्मल शरीर वाले चौरासी प्रकार के शुक्रपुत्र केतु हैं। ये उत्तर
और ईशान कोण में उदित होते हैं तथा इनका दर्शन होने से तीव्र (अशुभ) फल होता है।
शुक्रसुता भार्गवपुत्राश्चतुरशीत्याख्याः । चतुरशीतिसंज्ञाश्चतुरशीतिसंख्याश्च। सौम्यै-
शान्योरुदयं यान्ति। सौम्या उत्तरा। ऐशानी पूर्वोत्तरा। तत उदयं यान्ति गच्छन्ति। ते च
विपुलसिततारका विपुला विस्तीर्णाः सिताः शुक्लास्तारका येषाम्। स्निग्धा निर्मलदेहाः।
ते तीव्रफला भवन्ति। अनिष्टफला इत्यर्थः। तथा च गर्गः—
स्थूलैकतारकाः श्वेताः स्नेहवन्तश्च सप्रभाः।
आर्चिष्मन्तः प्रसन्नाश्च तीव्रेण वपुषान्विताः।।
एते विसर्पका नाम शुक्रपुत्राः पुरोदयाः।
अशीतिश्चतुरश्चैव लोकक्षयकराः स्मृताः।। इति।।१७।।
अथ षष्टिः शनैश्चरपुत्रांस्तानाह—
स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चराङ्गरुहाः ।
अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ॥१८॥
निर्मल, कान्ति से युक्त, दो शिखा वाले शनैश्चर के पुत्र साठ प्रकार के केतु हैं। ये
कनकसंज्ञक हैं और सभी दिशाओं में उदित होते हैं। इनके दर्शन होने से बहुत अशुभ फल
होते हैं॥१८॥
स्निग्धा निर्मलाः। प्रभासमेताः कान्त्यन्विता दीप्तिमन्तः। द्विशिखा द्विचूडास्ते च
षष्टिसंख्याः शनैश्चराङ्गरुहाः शनैश्चरपुत्राः। एते कनकसंज्ञाः कनककेतवः। सर्वत्र सर्वासु
दिक्षु दृश्याः। अतिकष्टफला अत्यशुभफलाश्च ते। तथा च गर्गः—
सुस्निग्धा रश्मिसंयुक्ता द्विशिखाः सप्ततारकाः।
षष्टिस्ते कनका घोराः शनैश्चरसुता ग्रहाः।। इति।।१८।।
अथ गुरुसुताः पञ्चषष्टिस्तानाह—
विकचा नाम गुरुसुताः सितैकताराः शिखापरित्यक्ताः ।
षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः ॥१९॥
श्वेत, एक तारे वाले, शिखारहित, निर्मल शरीर वाले पैंसठ प्रकार के बृहस्पति-पुत्र
केतु हैं। ये विकचसंज्ञक और दक्षिण दिशा में उदित होते हैं एवं इनका दर्शन होने से पाप
(अशुभ) फल होता है॥१९॥
षष्टिः पञ्चभिरधिका पञ्चषष्टिः केतवो विकचा नाम विकचसंज्ञा गुरुसुता बृहस्पति-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२३
पुत्राः। ते च सितैकताराः। सितः श्वेत एकस्तारको येषाम्। शिखापरित्यक्ताश्चूडारहिताः।
ते च स्निग्धा निर्मलदेहा याम्याश्रिता दक्षिणस्यां दिशि दृश्यन्ते। पापाः पापफला अनिष्ट-
फला इत्यर्थः। तथा च गर्गः—
शुक्लाः स्निग्धाः प्रसन्नाश्च महारूपाः प्रभान्विताः।
एकतारा वपुष्मन्तो विशिखा रश्मिभिर्वृताः।।
एते बृहस्पतेः पुत्राः प्रायशो दक्षिणाश्रयाः।
नामतो विकचा घोराः पञ्चषष्टिर्भयावहाः।। इति।। १९।।
अथैकपञ्चाशद् बुधपुत्रास्तानाह—
नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथेष्टदिक्प्रभवाः।
बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ॥२०॥
अस्पष्ट, सूक्ष्म शरीर वाले, लम्बे, श्वेत, सभी दिशाओं में उदित होने वाले, तस्कर-
संज्ञक बुध के पुत्र इक्यावन केतु हैं। इनका दर्शन होने से अशुभ फल होता है।।२०।।
तस्करसंज्ञास्तस्करनामान एकपञ्चाशत्केतवो बुधजाः सौम्यपुत्राः। नातिव्यक्ता नाति-
स्फुटाः। सूक्ष्मा अल्पदेहाः। दीर्घा आयामिनः। शुक्लाः श्वेतवर्णाः। यथेष्टदिक्प्रभवा यथे-
ष्टायां दिशि प्रभव उत्पत्तिर्येषाम्। सर्वासु दिक्षु दृश्यन्त इत्यर्थः। ते च पापफला अनिष्ट-
फलाः। तथा च गर्गः—
अरुन्धतिसमा रूक्षाः केचिदव्यक्ततारकाः।
सपाण्डुवर्णाः श्वेताभाः सूक्ष्मा रश्मिभिरावृताः।।
एते बुधात्मजा ज्ञेयास्तस्कराख्या भयावहाः।
एकाधिकास्ते पञ्चाशदथोत्पथचरा ग्रहाः।। इति।।२०।।
अथ षष्टिर्भौमपुत्रास्तानाह—
क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः।
नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ॥२१॥
रक्त या अग्नि के समान कान्ति वाले, तीन शिखा और तीन तारे वाले साठ प्रकार के
मङ्गल-पुत्र केतु हैं। ये उत्तर दिशा में उदित होते हैं और इनका दर्शन होने से अशुभ फल
होता है।।२१।।
कौङ्कुमानामानः षष्टिः केतवः कुजात्मजा अङ्गारकपुत्राः। क्षतजानलानुरूपाः। क्षतजं
रक्तमनलोऽग्निस्तदनुरूपास्तत्सदृशाः। अतिलोहिता इत्यर्थः। त्रिचूलतारास्त्रिशिखास्त्रि-
तारका येषाम्। ते च सौम्याशासंस्थिता उत्तरस्यां दिशि दृश्यन्ते। पापाः पापफलाश्च।
तथा च गर्गः—
त्रिशिखाश्च त्रिताराश्च रक्ता लोहितरश्मयः।
प्रायशश्चोत्तरामाशां सेवन्ते नित्यमेव ते।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२४ बृहत्संहिता
लोहिताङ्गात्मजा ज्ञेया ग्रहाः षष्टिः समासतः।
नामतः कौङ्कुमा ज्ञेया राज्ञां संग्रामकारकाः ।। इति ।। २१ ।।
अथ त्रयस्त्रिंशद्राहुपुत्रास्तानाह—
त्रिंशत्त्र्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
रविशशिगा दृश्यन्ते तेषां फलमर्कचारोक्तम् ॥२२॥
राहु के पुत्र तामस-कीलक संज्ञक तैंतीस प्रकार के केतु हैं। ये सूर्य-चन्द्रमण्डल में
दिखाई देते हैं। इनका फल सूर्यचाराध्याय में 'तामसकीलकसंज्ञा राहुसुताः केतवः' इत्यादि
पद्य में कहा गया है।।२२।।
त्रिंशत्यधिकास्त्रयस्त्रिंशत्केतवो राहोः सुताः स्वर्भानुपुत्राः । ते च नामतस्तामसकीलका
इति ख्याताः प्रसिद्धाः । ते च रविशशिगा अर्कचन्द्रमण्डलस्था दृश्यन्ते अवलोक्यन्ते।
तेषां च फलं शुभाशुभमर्कचारोक्तं सूर्यचारे कथितम्—'तामसकीलकसंज्ञा राहुसुताः
केवतः' इति। तथा च गर्गः—
कृष्णाभाः कृष्णपर्यन्ताः सङ्कुलाः कृष्णरश्मयः।
राहुपुत्रास्त्रयस्त्रिंशत् कीलकाश्चातिदारुणाः ।।
रविमण्डलगाश्चैते दृश्यन्ते चन्द्रगास्तथा ।।
तथा च पराशरः—
अपर्वण्येव दृश्यन्ते ह्यङ्गिरःकाककीलकाः ।
रवेरेवाङ्गिरा मध्ये ह्युभयोः काककीलकौ ।।
अङ्गिराः सरथो धन्वी दृश्यते पुरुषाकृतिः ।
काकः कालाकृतिर्घोरस्त्रिकोणे वापि लक्ष्यते ।।
मण्डलं कीलके मध्ये मण्डलस्यासितो ग्रहः ।
महानुपविरोधाय यस्यर्क्षं तस्य मृत्यवे ।। इति ।। २२ ।।
अथ विंशत्यधिकं शतमग्निपुत्राणामाह—
विंशत्याधिकमन्यच्छतमग्नेर्विश्वरूपसंज्ञानाम् ।
तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ।। २ ३ ।।
अतिशय जाज्वल्यमान मूर्ति वाले अग्नि के पुत्र एक सौ बीस प्रकार के केतु हैं। ये
विश्वरूपसंज्ञक और बड़े भयङ्कर अग्निभय देने वाले होते हैं।।२३।।
अन्यदपरं शतं विंशत्याधिकं केतूनामग्नेरग्निपुत्राणां विश्वरूपसंज्ञानां विश्वरूपनाम्नाम्।
कीदृशानाम्? ज्वालामालाकुलतनूनां ज्वालामालाभिराकुला व्याप्तास्तनवो मूर्तयो येषाम्।
तथा तीव्रानलभयदानां तीव्रं घोरमनलभयमग्निभीतिं ये ददति। तथा च गर्गः—
नानावर्णा हुताशाभा दीप्तिमन्तो विचूलिनः ।
सृजन्त्यग्निमिवाकाशे सर्वे ज्योतिर्विनाशनाः ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२५
तेऽग्निपुत्रा ग्रहा ज्ञेया लोकेऽग्निभयवेदिनः ।
विंशं ग्रहशतं घोरं विश्वरूपेति नामतः ।। इति ।। २३ ।।
अथ सप्तसप्ततिर्वायुपुत्रास्तानाह—
श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः ।
अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ।। २४।।
श्याम वर्ण लेते हुये लोहित वर्ण, ताराओं से रहित, चामर के समान, विस्तृत किरण
और रूक्ष सतहत्तर वायुपुत्र केतु होते हैं। ये सभी अरुणसंज्ञक और पाप फल देने वाले
होते हैं।।२४।।
अरुणाख्या अरुणसंज्ञाः सप्तसप्ततिः केतवो वायोः सुताः अनिलपुत्राः। श्यामारुणाः
श्यामलोहितवर्णाः। वितारास्तारकवर्जिताः। चामररूपा बालव्यजनाकृतयः। विकीर्णदीधितयो
व्याक्षिप्त रश्मयः। परुषा रूक्षाः। ते च पापदा दुष्टफलदाः। अत्र येषां दिङ्नियमो नास्ति
तेऽनियतदर्शनाः सर्वासपि दिक्षु दृश्यन्ते। तथा च गर्गः—
अताररूपप्रतिमा धूम्ररक्तसवर्णिनः।
वातरूपा इवाभान्ति शुष्कविस्तीर्णरश्मयः।।
सप्ततिः सप्त चैवान्ये वायुपुत्रान् प्रचक्षते।
लोकविध्वंसना रूक्षा नामतस्त्वरुणा ग्रहाः।। इति ।। २४ ।।
अथाष्टौ प्रजापतिसुता द्वे च शते चतुरधिके ब्रह्मणः पुत्रास्तानाह—
तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ ।
द्वे च शते चतुरधिके चतुरस्रा ब्रह्मसन्तानाः ।।२५।।
तारापुञ्ज के समान प्रजापति के पुत्र आठ प्रकार के केतु हैं। ये गणकसंज्ञक और
अनिष्ट फल देने वाले होते हैं। साथ ही चतुर्भुजाकार ब्रह्मा के पुत्र चतुरस्रसंज्ञक एक सौ
चार केतु हैं। ये भी अनिष्ट फल देने वाले होते हैं। ये दोनों केतु सभी दिशाओं में उदित
२२६ बृहत्संहिता
अथ द्वात्रिंशद्वरुणपुत्रानाह—
कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः ।
शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ॥२६॥
वंश और गुल्म (लता) के समान आकृति वाले, वरुण के पुत्र, कङ्कसंज्ञक और
चन्द्र के समान कान्ति वाले बत्तीस प्रकार के केतु हैं। ये सभी दिशाओं में उदित होते हैं
तथा इनका दर्शन होने से अशुभ फल होता है॥२६॥
द्वात्रिंशत्केतवः कङ्कनामानः। ते च वरुणजा यादसाम्पतेः पुत्राः। वंशगुल्मसंस्थाना
वंशगुल्मवत्संस्थानमाकृतिर्येषाम्। गुल्म एकमूलजो लतासमूहः। शशिवच्चन्द्रवत्प्रभया
कान्त्या समेताः संयुक्ताः। ते च तीव्रफलाः कष्टफलाः। प्रोक्ताः कथिताः। ते चानियत-
दिक्सम्प्रभवाः। तथा च गर्गः—
वंशगुल्मप्रतीकाशा महान्तः पूर्णरश्मयः।
काकतुण्डनिभैश्चापि रश्मिभिः केचिदावृताः॥
मयूखानुत्सृजन्तीव सुस्निग्धाः सौम्यदर्शनाः।
एते कष्टफलाः प्रोक्ता द्वात्रिंशद्वारुणा ग्रहाः।। इति।।२६।।
अथ षण्णवतिकालपुत्रानाह—
षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
पुण्ड्राभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ॥२७॥
काल के पुत्र, कबन्धसंज्ञक, छिन्न शिर वाले पुरुष के समान आकृति वाले और
अस्पष्ट तारा वाले छियानबे प्रकार के केतु हैं। ये समस्त दिशाओं में उदित होते हैं तथा
इनका दर्शन होने से पुण्ड्र देश में शुभ एवं अन्य देश में अशुभ फल होता है॥२७॥
कालसुताः कालपुत्राः कबन्धसंज्ञाः कबन्धनामानः। षण्णवतिः केतवः। ते च कबन्ध-
संस्थानाः। कबन्धश्छिन्नशिराः पुरुषस्तद्वत्संस्थानमाकृतिर्येषाम्। ते च विरूपताराः। विरूपा
अस्फुटास्तारका येषाम्। ते शिखिनः केतवः पुण्ड्राभयप्रदाः। पुण्ड्रा नाम जनपदा-
स्तेषामभयप्रदाः श्रेयस्कराः। स्युर्भवेयुः। अन्यत्र पुनर्भयदाः। ते चानियतदिक्सम्प्रभवाः।
तथा च गर्गः—
तारापुञ्जविरूपाश्च कबन्धाकृतिसंस्थिताः।
पीतारुणसवर्णाश्च भस्मकर्पूररश्मयः।।
कालपुत्राः कबन्धाश्च नवतिः षट् च ते स्मृताः।
लोके मृत्युकरा घोराः पुण्ड्राणामभयप्रदाः।। इति।।२७।।
अथ नव विदिकपुत्रान् सर्वेषां च संख्यानमन्येषां विशेषं च वक्ष्यामीत्याह—
शुक्लविपुलैकतारा नव विदिशां केतवः समुत्पन्नाः ।
एवं केतुसहस्रं विशेषमेषामतो वक्ष्ये ॥२८॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२७
श्वेत वर्ण, विस्तृत और एक तारा वाले, विदिशा के पुत्र नव प्रकार के केतु हैं। ये
विदिशा में उत्पन्न होते हैं तथा इनका दर्शन होने से अशुभ फल होता है। इस तरह कुल
एक सहस्र केतु हैं। अब आगे इनकी विशेषता कहते हैं॥२८॥
विदिशां दिगन्तरालानां नव समुत्पन्ना विदिक्पुत्रा इत्यर्थः। किम्भूताः शुक्ल-
विपुलैकताराः। शुक्लः श्वेतवर्णो विपुलो विस्तीर्ण एकस्तारको येषाम्। ते च विदिक्ष्वेव
दृश्यन्ते। दृष्टाश्च पापफलाः। तथा च गर्गः—
शुक्लैकतारा विपुला विदिक्पुत्रा नव ग्रहाः।
विदिक्षु संस्थितास्ते च दृश्यन्ते भयदायकाः॥
एवं केतुसहस्रमिति। एवं केतूनां सहस्रं कथितमुक्तम्। अतोऽनन्तरमेतेषामेव
केतूनां विशेषं विशेषलक्षणं वक्ष्ये कथयिष्ये॥२८॥
एषां मध्यात् केचिद् दृश्यन्ते न सर्व एव। तत्र ये दृश्यन्ते तेषां लक्षणं वक्तुकाम-
स्तत्रादावेव वसाकेतुलक्षणमाह—
उद्गायतो महान् स्निग्धमूर्तिरपरोदयी वसाकेतुः।
सद्यः करोति मरकं सुभिक्षमप्युत्तमं कुरुते ॥२९॥
उत्तर तरफ विस्तृत, स्थूल, निर्मल और पश्चिम दिशा में उदित होने वाला वसा नामक
केतु है। इसके उदयकाल से ही पृथिवी पर मरी पड़ती है तथा उत्तम सुभिक्ष होता है॥२९॥
उद्गायत उत्तरस्यां दिशि आयतो दीर्घः। महानतिस्थूलः। स्निग्धमूर्तिर्निर्मलतनुः।
अपरोदयी पश्चिमायां दिशि उदयं याति। स च नाम्ना वसाकेतुर्दृष्टः सद्य एव तस्मिन्नेवाहनि
मरकं करोति। उत्तममपि प्रधानं सुभिक्षं च कुरुते॥२९॥
अथास्थिकेतोः शस्त्राख्यस्य च लक्षणमाह—
तल्लक्षणोऽस्थिकेतुः स तु रूक्षः क्षुद्भयावहः प्रोक्तः।
स्निग्धस्तादृक् प्राच्यां शस्त्राख्यो डमरमरकाय ॥३०॥
पूर्वकथित वसा केतु की तरह उद्गायतादि लक्षणों से युत और रूक्ष अस्थि-केतु है।
यह दुर्भिक्ष करने वाला होता है तथा वसा केतु के लक्षणों से युत, निर्मल और पूर्व दिशा
में उदित होने वाला शस्त्र-केतु है। यह शस्त्रयुद्ध कराने वाला और मनुष्यों को मारने वाला
होता है॥३०॥
तदित्यनेन वसाकेतोः परामर्शः। अस्थिकेतुर्नाम केतुः स तल्लक्षणः। तल्लक्षणै-
र्वसाकेतोः सदृशैर्युक्तः—‘उद्गायतो महान् स्निग्धमूर्तिरपरोदयी’ इति। किन्त्वयं विशेषः—
स तु रूक्षो भवति स्नेहरहितः। दृष्टश्च क्षुद्भयावहो दुर्भिक्षभयप्रदः प्रोक्तः कथितः। स्निग्ध-
स्तादृगिति। तादृग् वसाकेतुसदृशः स्निग्धो निर्मलदेहः प्राच्यां पूर्वस्यां दिशि दृश्यते।
स तु शस्त्राख्यः शस्त्रकेतुसंज्ञो दृष्टो डमरमरकाय भवति। डमरं शस्त्रकलहं मरकं च करोति।
तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२२८ बृहत्संहिता
'एते षड्विंशतिरुदयैः फलमावेदयन्ति। तान् नामतो रूपतः फलतः कालतोऽभि-
धास्यामः। तत्र भार्गवास्त्रय उदयं यान्ति। एकैकशो वसास्थिशस्त्रकेतवः। तत्र वसाकेतुः
स्निग्धो महानुद्गायतशिखस्त्रिंशद्वर्षशतं प्रोष्य सम्प्लवे युगे पश्चिमोदितः सद्यो मरकफलः
सौभिक्षकरस्तु। रूक्षोऽस्थिकेतुरसौ भिक्षुकतुल्यप्रवासकालफलः। पूर्वेण स्निग्ध एव तु
शस्त्रकेतुः। राजविरोधमरकफलः समो रूक्षः'।।३०।।
अथ कपालकेतोर्लक्षणमाह—
दृश्योऽमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः।
प्राङ्नभसोऽर्द्धविचारी क्षुन्मरकावृष्टिरोगकरः।।३१।।
धूम्र वर्ण की किरणों वाला, अमावास्या में पूर्व तरफ उदित होने वाला और आकाश
के अर्द्ध भाग में विचरण करने वाला कपाल-केतु है। इसका दर्शन होने से पृथ्वी पर
दुर्भिक्ष, मरकी, अवृष्टि और रोग उत्पन्न होता है।।३१।।
कपालकेतुर्नाम केतुः स त्वमावास्यायां कृष्णपञ्चदश्यां प्राक् पूर्वस्यां दिशि दृश्य
उदयं याति। किम्भूत्तः? सधूम्ररश्मिशिखः। सधूम्रा रश्मिशिखा यस्य। किरणकान्तिर्धूम्र-
वर्णेत्यर्थः। नभसोऽर्द्धविचारी। नभस आकाशस्यार्द्धं यावद्विचरति गच्छति। स च क्षुन्मरका-
वृष्टिरोगकरः। क्षुद् दुर्भिक्षम्। मरकं जनक्षयम्। अवृष्टिं रोगांश्च करोति। तथा च पराशरः—
'अथादित्यानां कपालकेतुरुदयतेऽमावस्यायां पूर्वस्यां दिशि सधूम्रार्चिशिखो
नभसोऽर्द्धचरो दृश्यते। पञ्चविंशवर्षशतं प्रोष्य त्रींश्च पक्षानमृतजंस्य कुमुदकेतोश्चारान्ते
स दृष्ट एव दुर्भिक्षानावृष्टिव्याधिभयमरणोपद्रवान् सृजति। जगति यावतो दिवसान् दृश्यते
तावन्मासान् मासैर्वत्सरान् पञ्चप्रस्थं च शारदधान्यार्घं कृत्वा प्रजानामपयुङ्क्ते'।।३१।।
तथा रौद्रकेतुमाह—
प्राग्वैश्वानरमार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः।
नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः।।३२।।
पूर्व और अग्निकोण में उदित होने वाला शूलाग्र (तीन शिखा वाला), कपिश, रूक्ष
या ताम्र के समान किरण वाला और आकाश के तीन भाग में गमन करने वाला रौद्र-केतु
है। यह कपाल केतु की तरह फल देता है।।३२।।
रौद्रनामा केतुः प्राक् पूर्वस्यां दिशि वैश्वानरमार्गे दहनवीथ्यां दृश्यते। वैश्वानरसंज्ञितमार्गे
पूर्वाषाढोत्तराषाढयोः समीप इत्यर्थः। कीदृशः? शूलाग्रः। शूलाकृतिरग्रं यस्य केतोः स
शूलाग्रः। त्रिशिख इत्यर्थः। तस्यैव विशेषणं श्यावरूक्षताम्रार्चिः। रूक्षमस्निग्धमर्चिस्तेजः,
श्यावरूक्षं ताम्रं चार्चिस्तेजो यस्य स श्यावरूक्षताम्रार्चिः। नभसस्त्रिभागगामी नभस
आकाशस्य त्रिभागगमनशीलः। स च कपालतुल्यफलः कपालकेतोः समानफलः। एतदुक्तं
भवति—क्षुन्मरकावृष्टिरोगकर इति। आचार्येण शुक्रचारे वैश्वानरमार्गः प्रदर्शित एव 'अषाढा-
द्वयं दहना' इति। तथा च पराशरः—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २२९
'अथ दक्षयज्ञरुद्रक्रोधोद्भवः कलिकेतुस्त्रीणि वर्षशतानि नव च मासान् प्रोष्योदयते
पूर्वेण वैश्वानरमार्गे ह्यमृतजस्य मणिकेतोश्चारान्ते श्यावरूक्षताम्रारुणां शूलाकारसदृशीं शिखां
कृत्वा नभसस्त्रिभागचारी स शस्त्रभयरोगदुर्भिक्षाऽनावृष्टिमरकैर्यन्मासान् दृश्यते तावद्वर्षाणि
त्रिभागशेषां प्रजां कृत्वार्धं च शारदधान्यमाढकमस्तं व्रजति।' तथा च वृद्धगर्ग आह—
ज्येष्ठामूलमनूराधा या वीथी सम्प्रकीर्तिता।
तां च वीथीं समारुह्य केतुश्चेत् क्रीडते भृशम् ।।
दक्षिणाभिनतां कृत्वा शिखां घोरां भयङ्करीम् ।
शूलाग्रसदृशीं तीक्ष्णां श्यावताम्रारुणप्रभाम् ।।
पूर्वेण चोदितश्चैष नक्षत्राण्युपधूमयेत् ।
घोरं प्रजासु सृजति फलं मासे त्रयोदशे ।।
त्रिभागं नभसो गत्वा ततो गच्छत्यदर्शनम् ।
यावतो दिवसांस्तिष्ठेत्तावद्वर्षाणि तद्भयम् ।।
शस्त्राग्निभयरोगैश्च दुर्भिक्षमरणैर्हताः ।
पूर्यमाणाः प्रजा सर्वा विद्रवन्ति दिशो दश ।। इति ।। ३२ ।।
अथ चलकेतोर्लक्षणमाह—
अपरस्यां चलकेतुः शिखया याम्याग्रयाऽङ्गुलोच्छ्रितया ।
गच्छेद्यथा यथोदक् तथा तथा दैर्घ्यमायाति ।। ३३ ।।
सप्तमुनीन् संस्पृश्य ध्रुवमभिजितमेव च प्रतिनिवृत्तः ।
नभसोऽर्द्धमात्रमित्वा याम्येनास्तं समुपयाति ।। ३४ ।।
हन्यात् प्रयागकूलाद्यावदवन्तीं च पुष्करारण्यम् ।
उदगपि च देविकामपि भूयिष्ठं मध्यदेशाख्यम् ।। ३५ ।।
अन्यानपि च स देशान् क्वचित् क्वचिद्धन्ति रोगदुर्भिक्षैः ।
दश मासान् फलपाकोऽस्य कैश्चिदष्टादश प्रोक्तः ।। ३६ ।।
पश्चिम दिशा में उदित होने वाला, दक्षिण दिशा में एक अङ्गुल उच्छ्रित शिखा वाला,
जैसे-जैसे उत्तर तरफ जाय वैसे-वैसे दीर्घ होने वाला, सप्तर्षि, ध्रुवतारा और अभिजित्
नक्षत्र को स्पर्श करके लौटने वाला और आकाश के अर्द्ध भाग में जाकर दक्षिण दिशा में
अस्त होने वाला चल केतु है। इसका दर्शन होने से प्रयाग से लेकर अवन्ती तक के देश,
पुष्करारण्य नामक स्थान और उत्तर दिशा में देविका नदी तक के देश का नाश होता है;
लेकिन विशेषकर तथा मध्य देश का नाश होता है। साथ ही अन्य देशों का भी रोग और दुर्भिक्ष
के द्वारा नाश होता है। इसका फल दर्शनकाल से लेकर दश मास तक होता है और किसी
का मत है कि दर्शनकाल से लेकर अट्ठारह मासपर्यन्त फल प्राप्त होता है ।। ३३-३६ ।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
२३० बृहत्संहिता
अपरस्यां पश्चिमायां दिशि चलकेतुर्नाम दृश्यते। स च कीदृशः ? शिखया याम्याग्रया
अङ्गुलोच्छ्रितयोपलक्षितः। शिखा चूडा तया याम्याग्रया याम्यायां दक्षिणस्यां दिश्यग्रं
यस्याः। तथा अङ्गुलोच्छ्रितया अङ्गुलप्रमाणोच्चया। यथा यथा येन येन प्रकारेणोदगुत्तरां
दिशं गच्छेद्याति तथा तथा तेन तेन प्रकारेण दैर्घ्यं दीर्घतामायाति प्राप्नोति।
सप्तमुनीनिति। सप्तमुनीन् वसिष्ठादीन् संस्पृश्य तथा ध्रुवं ध्रुवतारकमभिजितं च
नक्षत्रं संस्पृश्य ततः प्रतिनिवृत्तः प्रत्यागतः। नभस आकाशस्यार्द्धमात्रमित्वा गत्वा प्राप्य
याम्येन दक्षिणस्यां दिशि अस्तमदर्शनं समुपयाति गच्छति।
हन्यात् प्रयागकूलादिति। स एव चलकेतुः प्रयागकूलादारभ्य यावदवन्तीं चोज्जयिनीं
तथा पुष्करारण्यं नाम स्थानं तावद्धन्यान्नाशयेत्। उदगपि चोत्तरस्यां दिश्यपि च यावद्देविकां
नदीं तावद्धन्यात्। मध्यदेशाख्यं मध्यदेशं भूयिष्ठमतिशयेन हन्यात्।
अन्यानपि च स देशानिति। स चलकेतुरन्यानपरान् देशानपि रोगदुर्भिक्षैः क्वचित्
क्वचिद्धन्ति नाशयति न सर्वत्र। अस्य केतोर्दश मासान् यावत्फलपाकः। दर्शनात् त्रिपक्षा-
त्परतो यावद्दशमासांस्तावदशुभं फलं ददाति। कैश्चिदन्यैर्गर्गादिभिरष्टादश मासान् यावत्
फलपाकः प्रोक्तं कथितः। तथा च पराशरः—
‘अथ पैतामहश्चलकेतुः पञ्चदशवर्षशतं प्रोष्योदितः पश्चिमेनाङ्गुलिपर्वमात्रां शिखां
दक्षिणाभिगतां कृत्वा जलकेतोश्चारान्ते नभसस्त्रिभागमनुचरन् यथा यथा चोत्तरेण व्रजति
तथा तथा शूलाग्राकारां शिखां दर्शयन् ब्रह्मनक्षत्रमुपसृत्य मनाग् ध्रुवं ब्रह्मराशिं सप्तर्षीन्
स्पृशन् नभसोऽर्द्धमात्रं दक्षिणमनुक्रम्यास्तं व्रजति। स स्वर्गे दारुणकर्मा। स्वर्गप्राप्तत्वादेव
च कृत्स्नमभिनिहन्ति लोकम्। अपि च भूमिं कम्पयित्वा दश मासान्मध्यदेशे भूयिष्ठं
जनपदमनवशेषं कुरुते। तेष्वपि क्वचित् क्वचिच्छस्त्रदुर्भिक्षव्याधिमरकभयैः क्लिशनात्य-
ष्टादश मासानि’ति। तथा च गर्गः—
क्षुच्छस्त्रमरकव्याधिभयैः सम्पीड़येत् प्रजाः।
मासान् दश तथाष्टौ च चलकेतुः सुदारुणः।। इति।।३३-३६।।
अथ श्वेतकेतुलक्षणमाह—
प्रागर्द्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च।
क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ।।३७।।
स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः।
दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ।।३८।।
श्वेत-केतु पूर्व दिशा में अर्द्धरात्रि के समय दृश्य होने वाला और दक्षिणस्थित शिखा
वाला है तथा अन्य 'क'संज्ञक केतु गाड़ी के जुए के समान आकृति वाला और पश्चिम दिशा
में अस्त होने वाला है। यदि निर्मल होकर ये दोनों सात दिन तक दिखाई दें तो सुभिक्ष और
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
केतुचाराध्यायः २३१
कल्याण करते हैं। यदि सात दिन से अधिक कनामक केतु दिखाई दे तो दश वर्ष तक
शस्त्र के कोप से मनुष्यों को पीड़ित करता है।।३७-३८।।
श्वेतकेतुर्नाम केतुः प्राक् पूर्वस्यां दिशि अर्द्धरात्रदृश्यः अर्द्धरात्रकाले दृश्यते। याम्याग्रो
दक्षिणदिक्शिखः। अन्यश्च द्वितीयः क इति कनामा केतुः। अपरे पश्चिमायां दृश्यते। तौ
च द्वावपि युगपत्तुल्यकालं सप्तदिनदृश्यौ सप्तदिनानि दृश्येते।
तौ च द्वावपि स्निग्धावतिनिर्मलौ दृष्टौ च सुभिक्षशिवदौ सुभिक्षं शिवं श्रेयश्च ददतः।
अथ यः कनामा स च यदि सप्तभ्यो दिनेभ्योऽधिकं दृश्यते तदा दशवर्षाणि शस्त्रप्रकोपकृतं
संग्रामजमुपतापमुपद्रवं जनयत्युत्पादयति। तथा च पराशरः—
'अथौद्दालकः श्वेतकेतुर्दशोत्तरं वर्षशतं प्रोष्य भटकेतोश्चारान्ते पूर्वस्यां दिशि दक्षिणा-
भिनतशिखोऽर्द्धरात्रकाले दृश्यः। तेनैव सह द्वितीयः कः प्रजापतिपुत्रः पश्चिमेन ग्रहके-
तोर्यूपसंस्थायी युगपद् दृश्यते। तावुभौ सप्तरात्रदृश्यौ दशवर्षाणि प्रजाः पीड्यन्ते। कः
प्रजापतिपुत्रो यद्यधिकं दृश्यते तदा दारुणतरं प्रजानां शस्त्रकोपं कुर्यात्तथैव स्नेहवर्णयुक्तौ
क्षेमारोग्यसुभिक्षदौ भवतः'।।३७-३८।।
अथ श्वेतलक्षणमाह—
श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः ।
विनिवर्ततेऽपसव्यं त्रिभागशेषाः प्रजाः कुरुते ॥३९॥
श्वेत नामक केतु जटा के सदृश, रूक्ष, कपिश और आकाश के तीन भाग तक जाकर
बायीं तरफ से होकर लौट आता है। इसका दर्शन होने से प्रजा का तृतीयांश मात्र शेष रहता
है अर्थात् दो भाग नष्ट हो जाते हैं।।३९।।
श्वेतनामा केतुर्जटाकारो जटासदृशः। रूक्षः परुषः। श्यावः कृष्णवर्णः। वियत्त्रिभागगतो
वियत्याकाशे त्रिभागं यावद् गच्छति ततोऽपसव्यमप्रदक्षिणं वामभागे विनिवर्तते विनिवृत्तिं
करोति। त्रिभागशेषास्तृतीयांशावशेषाः प्रजाः कुरुते। द्वौ भागौ क्षयं नयतीत्यर्थः। तथा
च पराशरः—
'अथ काश्यपः श्वेतकेतुः पञ्चदशवर्षशतं प्रोष्यैन्द्रांशः सहजस्य पद्मकेतोश्चारान्ते श्याव-
रूक्षो नभसस्त्रिभागमाक्रम्याग्रसव्यं निवृत्त्योर्ध्वं प्रदक्षिणजटाकारशिखः। स यावन्मासान्
दृश्यते तावद्वर्षाणि सुभिक्षमावहति। मध्यदेश आर्यगणानामौदीच्यैश्च भूयिष्ठं बहुशस्त्रि-
भागशेषां प्रजामवशोषयति।।३९।।
अथ रश्मिकेतोर्लक्षणमाह—
आधूम्रया तु शिखया दर्शनमायाति कृत्तिकासंस्थः ।
ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ॥४०॥
धूम्र वर्ण की शिखा वाला और कृत्तिका नक्षत्र में स्थित होने पर दिखाई देने वाला
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
२३२ वृहत्संहिता
रश्मि केतु है। इसका दर्शन होने से यह श्वेत की तरह फल ( त्रिभाग शेष प्रजा ) करता
है॥४०॥
आधूम्रवर्णया शिखयोपलक्षितस्तथा कृत्तिकासंस्थः समीपे दर्शनमुदयमायाति गच्छति
स रश्मिकेतुर्नाम केतुर्ज्ञेयो ज्ञातव्यः। स च श्वेतसमानं श्वेतकेतुसदृशं फलं धत्ते ददाति।
त्रिभागशेषा प्रजाः कुरुत इत्यर्थः। तथा च पराशरः—
'अथ रश्मिकेतुर्विभावसुजः प्रोष्य वर्षशतमावर्तकेतोश्चारान्ते उदितः कृत्तिकासु धूम्र-
शिखः श्वेतकेतोः सदृशफलः'॥४०॥
अथ ध्रुवकेतोर्लक्षणमाह—
ध्रुवकेतुरनियतगतिप्रमाणवर्णाकृतिर्भवति विष्वक् ।
दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ॥४१॥
सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
गृहिणामुपस्करेषु च विनाशिनां दर्शनं याति ॥४२॥
अनिश्चित गमन, प्रमाण, वर्ण और आकृति वाला, सभी दिशाओं में दिखाई देने वाला,
दिव्य, आन्तरिक्ष और भौम भेद से तीन प्रकार का होने वाला, निर्मल तथा शुभ फल देने
वाला ध्रुव केतु है। यह ध्रुवकेतु नाश होने वाले राजाओं के सेनाङ्ग ( अश्व, लगाम आदि )
में, नाश होने वाले देशों के गृह, वृक्ष और पर्वत में तथा नाश होने वाले गृहस्थों के
उपकरण द्रव्य में दिखाई देता है॥४१-४२॥
ध्रुवकेतुर्नाम केतुः स त्वनियतगतिप्रमाणवर्णाकृतिः। अनियता अनिश्चिता गतिर्गमनम्।
प्रमाणं स्थूलसूक्ष्ममध्यभावम्। वर्णः शुक्लकृष्णादिः। आकृतिराकारो यस्य स तथाभूतः।
स च विष्वक् समन्ततो भवति। सर्वासु दिक्ष्वित्यर्थः। स च दिव्यान्तरिक्षभौमस्त्रिप्रकारो
भवति। केचिद्विश्वे नानाकारो भवतीतीच्छन्ति। स च स्निग्धो निर्मलशरीरः। इष्टफलः
शुभफलो भवति।
एष चैवंविधानां विनाशिनां मुमूर्षूणां दर्शनमुदयं याति ग