बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 241, कुल 728 में से
संदर्भ में पढ़ेंशुक्रचाराध्यायः २०१
रतीति। तथा च भद्रबाहौ पठ्यते—
प्रत्यूषे प्राक्स्थितः शुक्रः पृष्ठतश्च बृहस्पतिः ।
यदाऽन्योन्यं निरीक्षेते तदा चक्रं प्रवर्तते ।।
धर्मार्थकामा लुप्यन्ते प्रस्तावा वर्णसङ्कराः ।
नृपाणां च समुद्योगो यतः शुक्रस्ततो जयः ।।
अवृष्टिश्च भयं रोगं दुर्भिक्षं च तदा भवेत् ।
आढकेन तु धान्यस्य ग्राहकः स्यात्तदा प्रियः ।।
यदा तु पृष्ठतः शुक्रः पुरतश्च बृहस्पतिः ।
यदा वालोकयेतां तौ तावदेव फलं भवेत् ।।
तथा च गर्गः—
अन्योन्यमस्तसंस्थौ तु यदि शुक्रबृहस्पती।
पूर्वसन्ध्यागतौ घोरं जनयेतां महद्भयम् ।।
तस्मात् साधूक्तं गुरुः शुक्रः पृष्ठतः पुरतो वेति ।। ३७ ।।
अथ सर्वैर्ग्रहैः शुक्रस्याग्रवर्तिभिः फलमाह—
यदा स्थिता जीवबुधारसूर्यजाः
सितस्य सर्वेऽग्रपथानुवर्तिनः ।
नृनागविद्याधरसङ्गराः तदा
भवन्ति वाताश्च समुच्छ्रितान्तकाः ।। ३८ ।।
न मित्रभावे सुहृदो व्यवस्थिताः
क्रियासु सम्यग् न रता द्विजातयः ।
न चाल्पमप्यम्बु ददाति वासवो
भिनत्ति वज्रेण शिरांसि भूभृताम् ।। ३९ ।।
यदि शुक्र के आगे बृहस्पति, बुध, मंगल और शनि हों तो मनुष्य, नाग और विद्या-
धरों में युद्ध, भयङ्कर वायु से वृक्षादिकों का नाश, मित्रों में परस्पर मित्रता का अभाव,
ब्राह्मणों में कर्म का अभाव, वर्षा का बिल्कुल अभाव और वज्रपातों से पर्वतों का नाश
होता है ।। ३८-३९ ।।
यदा यस्मिन् काले जीवबुधारसूर्यजाः । जीवो बृहस्पतिः । बुधः सौम्यः । आरो भौमः ।
सूर्यजः शनैश्चरः । एते सर्व एव सितस्य शुक्रस्याग्रपथानुवर्तिनः स्थिताः । पुरःसरा
भवन्तीत्यर्थः । तदा तस्मिन् काले नृणां मनुष्याणां नागानां पन्नगानां विद्याधराणां देवयोनीनां
सङ्गराः संग्रामा भवन्ति । तथा वाता वायवः समुच्छ्रितान्तकाः । समुच्छ्रितानां पर्वतानां
वृक्षादीनामन्तकाः शृङ्गाग्रपातिनो भवन्तीति ।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA