बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 240, कुल 728 में से
संदर्भ में पढ़ें२०० बृहत्संहिता
अथ गुरुशुक्रयोरन्योन्यं सप्तमस्थयोः फलमाह—
गुरुर्भृगुश्चापरपूर्वकाष्ठयोः
परस्परं सप्तमराशिगौ यदा।
तदा प्रजा रुग्भयशोकपीडिता
न वारि पश्यन्ति पुरन्दरोज्झितम्॥३७॥
यदि बृहस्पति और शुक्र परस्पर सप्तम राशि में स्थित हों तो रोग और अनेक प्रकार
के भय से प्रजागण पीड़ित होते हैं तथा अवृष्टि होती है॥३७॥
गुरुर्जीवः। भृगुः शुक्रः। एतावपरपूर्वकाष्ठयोः। अपरा पश्चिमा। पूर्वा प्राची। काष्ठा
दिक्। पश्चिमपूर्वयोर्दिशोः परस्परमन्योन्यं यदि च सप्तमराशिगौ भवतः। कदाचित् पूर्व-
काष्ठागतः शुक्लोऽपरकाष्ठागतो गुरुः। कदाचित् पूर्वकाष्ठागतो गुरुरपरकाष्ठागतः शुक्रः।
नन्वत्रापरपूर्वकाष्ठयोरित्यनेनैव सिद्धे सप्तमराशिग्रहणं किमर्थम्? उच्यते। यदि सप्तम-
राशिग्रहणं न क्रियते तदापरपूर्वस्थावन्येनापि प्रकारेण भवतः। एकः प्राक्कपाले स्थितो-
ऽपरोऽपरकपालस्थः। तदापरपूर्वकाष्ठास्थौ भवत इत्यतः सप्तमराशिग्रहणं कृतम्। तेनैत-
ज्ज्ञापयति—यथोदयास्तयो रेखासक्तयोरयं योगो भवति नान्यथा। एवं परस्परं सप्तमराशिगौ
यदा तस्मिन् काले प्रजा जनाः। रुग्भयशोकपीडिताः। रोगैर्भयेन शोकेन दुःखेन च पीडिता
उपहताः। पुरन्दरोज्झितमिन्द्रोत्सृष्टं वारि जलं न पश्यन्ति नावलोकयन्ति। अवृष्टिर्भवतीत्यर्थः।
नन्वत्र यथासंख्येनैवापरपूर्वकाष्ठागौ गुरुभृगू यदा भवतस्तदायं योगो भवति यथा,
तथा भृगुगुरुश्चेत्यनया पाठविप्रतिपत्त्या वा। यथासंख्येनैव कस्माद्योगो न भवति कथमनियमेन
भवति। तथा च पराशरेण गुरुभृगू अपरपूर्वकाष्ठास्थावभिहितौ। तथा च—
उदयास्तमयस्थौ तु यदा शुक्रबृहस्पती।
पूर्वसन्ध्यागतौ स्यातां जनयेतां तदा भयम्॥
ऋषिपुत्रेण च भृगुगुरू अपरपूर्वकाष्ठास्थावभिहितौ। तथा चाह—
पृष्ठतस्तूशना यत्र पुरस्ताच्च बृहस्पतिः।
न च कश्चिद् ग्रहो मध्ये बुधो वाप्यथ दृश्यते॥
एकमार्गसमापन्नौ प्रेक्षमाणौ परस्परम्।
ते दिशौ पीडिते विन्द्यात् त्रीन् पक्षानभियोजयेत्॥
अत उभयदर्शनान्निर्णीयेते तथा ऋषीणामत्रैकवाक्यता नास्त्येवेति स्वयमेवमङ्गीकृतं
तैरिति। वयं त्वत्र ब्रूमः—
उभयदर्शनाद् गुरुभृगुभ्यामनियमोऽत्राऽऽचार्यस्याभिप्रेतस्तथा बृहज्जातकेऽपि प्रयोगः
कृत इति। ‘शूरस्तब्धौ विषमवधकौ सद्गुणाढ्यौ सुविज्ञौ। चार्वङ्गेष्टौ रविशशियुतेष्वार-
पूर्वांशकेषु’ इत्यत्र च नियमव्याख्यैव यथा तथा कृतैव। अत्रापि यथा तथा गुरुभृग्वोरपर-
पूर्वकाष्ठास्थयोरित्यनियमव्याख्यैव ज्यायसी। सति वा नियमे पाठविप्रतिपत्तिचोदने नावत-
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA