बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
राहुचाराध्यायः १२५
अथ मध्यतमस आह—
मध्ये तमःप्रविष्टं वितमस्कं मण्डलं च यदि परितः ।
तन्मध्यदेशनाशं करोति कुक्ष्यामयभयं च ॥५१॥
यदि छाद्य बिम्ब का मध्य भाग राहु से ढका हो और चारो तरफ निर्मल हो तो
'मध्यतम' नामक ग्रास होता है। यह मध्यदेश का नाश और पेट की बीमारी उत्पन्न करता है।
विशेष—छाद्य ( सूर्य ) बिम्ब से छादक ( चन्द्र ) बिम्ब के अल्प होने के कारण
यह ग्रास सूर्यग्रहण में ही हो सकता है; जबकि छाद्य ( चन्द्र ) बिम्ब से छादक ( भूमा )
बिम्ब के अत्यधिक होने के कारण चन्द्रग्रहण में ऐसी स्थिति कभी नहीं हो सकती। अतः
सूर्यग्रहण वलयग्रहण और चन्द्रग्रहण खग्रास होता है॥५१॥
तमो राहुर्मध्येऽन्तर्यदि प्रविष्टो दृश्यते परितः समन्ततो मण्डलं वितमस्कं तमोरहितं
निर्मलं भवति तदा ग्रासो मध्यतमो नाम। तच्च मध्यदेशस्य नाशं विघातं करोति तथा
कुक्ष्यामयभयं कुक्षिरोगभयं च।
अस्य ग्रासस्य संस्थानमर्कग्रहण एव सम्भवति छादकस्येन्दोरल्पत्वात्। चन्द्रग्रहणे
छाद्यस्याल्पत्वाच्छादकस्य च भूच्छायाया महत्त्वात्र सम्भवति॥५१॥
अथ तमोऽन्त्याख्यस्याह—
पर्यन्तेष्वतिबहुलं स्वल्पं मध्ये तमस्तमोऽन्त्याख्ये ।
सस्यानामीतिभयं भयमस्मिंस्तस्कराणां च ॥५२॥
यदि सूर्य या चन्द्रमण्डल के प्रान्त भाग में अधिक और मध्य भाग में थोड़ा राहु
दृष्टिगोचर हो तो 'तमोऽन्त्य' नामक ग्रास होता है। इसमें धान्यों को ईति का और प्राणियों
को चोर का भय होता है॥५२॥
तमः पर्यन्तेषु बिम्बपरिध्यन्तर्भागेषु। अतिबहुलमतिघनं मध्ये मध्यभागे स्वल्पमत्यल्पं
दृश्यते तदा स ग्रासस्तमोऽन्त्याख्यो नाम। अस्मिंस्तमोऽन्त्याख्ये ग्रासे सस्यानामीतिभयं
भवति। ईतयः सस्योपद्रवाः। तथा च—
अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः।
अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः॥
आभ्यः सस्यानां भयं तथा तस्कराणां चौराणां भयं भवति। चौरकृता भीतिर्भवतीत्यर्थः।
तथा च पराशरः—
'तद्यथा—देशोपप्लवा ग्रसनारोहणोपघातोन्मर्दननिरोधपरिलेहनापसव्यसव्यान्तर्मध्यतम
उपप्लवाश्च। तत्रार्धत्रिभागग्रहणं ग्रसनं प्रख्यातनृपतिविप्रच्युताय। मण्डलमध्ये ग्रहावर्त-
नमारोहणं नरपतिक्षोभकरं प्रजानाशनम्। ईषद् ग्रहणमुपघातं जगद्धिताय। उन्मर्दनं चिरमर्केन्दु-
सकलमण्डलाक्रमणं प्रजाविद्रवकरम्। सर्वमण्डलधूमावरणं निरोधस्तदरोगक्षेमसुभिक्ष-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१२६ बृहत्संहिता
लक्षणम्। समन्ताद् जिह्वयेवाभिलेहनं परिलेहनं समानफलम्। पूर्वेण दक्षिणमपसव्यं प्रजा-
भयाय। अप्रदक्षिणं सव्यमभयाय। मण्डलान्तर्मध्ययोग्रहणमन्तर्मध्यं नृपतिक्षोभकरम्। महा-
तमसाऽऽवरणं तम उपप्लवः परस्परं म्लेच्छसङ्गरकृदि'ति। तथा च कश्यपः—
सव्यगे तु सुभिक्षं स्यादपसव्ये तु तस्कराः।
लीढे प्रजाः प्रहृष्टाः स्युर्व्यसनं लोकनाशनम्।।
निरोधे जनहर्षः स्यादारोहे नृपसंक्षयः।
आमर्दितं चापमर्दे स्वयं क्षुभ्यन्ति पार्थिवाः।।
स्वच्छं वर्णप्रदेशं यदाघ्रातं तद्विघातयेत्।
मध्ये तमसि सन्दृष्टे पीडयेद् मध्यदेशजान्।।
दृष्टे तमसि पर्यन्ते सस्यानामीतिजं भयम्।। इति।।५२।।
अथ राहोर्वर्णान् वक्तुकाम आह—
श्वेते क्षेमसुभिक्षं ब्राह्मणपीडां च निर्दिशेद्राहौ।
अग्निभयमनलवर्णे पीडा च हुताशवृत्तीनाम्॥५३॥
हरिते रोगोल्बणता सस्यानामीतिभिश्च विध्वंसः।
कपिले शीघ्रगसत्त्वम्लेच्छध्वंसोऽथ दुर्भिक्षम्॥५४॥
अरुणकिरणानुरूपे दुर्भिक्षावृष्टयो विहगपीडा।
आधूम्रे क्षेमसुभिक्षमादिशेन्मन्दवृष्टिं च॥५५॥
कापोतारुणकपिलश्यावाभे क्षुद्भयं विनिर्देश्यम्।
कापोतः शूद्राणां व्याधिकरः कृष्णवर्णश्च॥५६॥
विमलकमणिपीताभो वैश्यध्वंसी भवेत् सुभिक्षाय।
सार्चिष्मत्यग्निभयं गैरिकरूपे तु युद्धानि॥५७॥
दूर्वाकाण्डश्यामे हारिद्रे वापि निर्दिशेन्मरकम्।
अशनिभयसम्प्रदायी पाटलकुसुमोपमो राहुः॥५८॥
पांशुविलोहितरूपः क्षत्रध्वंसाय भवति वृष्टेश्च।
बालरविकमलसुरचापस्वरूपभृच्छस्त्रकोपाय ॥५९॥
यदि सूर्य या चन्द्र के ग्रहणकाल में राहु का वर्ण श्वेत हो तो क्षेम, सुभिक्ष और ब्राह्मणों
को पीड़ा होती है। अग्नि के समान वर्ण हो तो अग्निभय और अग्नि से जीवनयात्रा चलाने
वाले ( लोहार, सोनार आदि ) को पीड़ा होती है। हरित वर्ण हो तो रोगों की वृद्धि और
ईतियों के द्वारा धान्यों का नाश होता है। पीला हो तो जल्दी चलने वाले जानवर ( ऊँट
आदि ) और म्लेच्छ जाति का नाश तथा दुर्भिक्ष होता है। किञ्चित् लोहित वर्ण हो तो दुर्भिक्ष,
वर्षा का अभाव और पक्षियों को पीड़ा होती है। धूम्र वर्ण हो तो क्षेम, सुभिक्ष और थोड़ी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राहुचाराध्यायः १२७
वृष्टि होती है। कबूतर के समान लाल, कपिल और श्याम वर्ण हो तो क्षुधा और दुर्भिक्ष
का भय होता है। कबूतर के समान अथवा कृष्ण वर्ण हो तो शूद्रों के लिये रोग करने
वाला होता है। निर्मल मणि की तरह पीत वर्ण हो तो वैश्यों का नाश और सुभिक्ष करने
वाला होता है। अग्निज्वाला की तरह दिखाई दे तो अग्नि का भय करता है। गेरू के
समान दिखाई दे तो युद्ध होता है। यदि दूर्वादल की तरह श्याम वर्ण या हल्दी की तरह
पीत वर्ण का दिखाई दे तो मरकी पड़ती है। यदि पाटलपुष्प की तरह ( श्वेत के साथ
लोहित ) हो तो वज्र गिरने का भय रहता है और यदि पांशु ( धूलि ) या विलोहित
( मिश्रित ) वर्ण का राहु दृष्टिगोचर हो तो क्षत्रियों का और वृष्टि का नाश करने वाला
होता है॥५३-५९॥
राहौ तमसि श्वेते शुक्लवर्णे दृष्टे क्षेमसुभिक्षं ब्राह्मणानां च पीडां विनिर्दिशेत्।
अग्निवर्णेऽनलवर्णे अग्निसदृशे अग्निभयं हुताशभीतिस्तथा हुताशवृत्तीनामग्निवार्त्तानां
लोहकारसुवर्णकारादीनां पीडा भवति।
हरित इति । हरिते हरितवर्णे शुकाभे राहौ रोगाणामुल्बणता रोगप्राचुर्यम्। सस्या-
नामीतिभिरतिवृष्टिप्रभृतिभिरुपद्रवैश्च विध्वंसो विनाशो भवति। कपिले पिङ्गलाभे राहौ शीघ्र-
गाणां सत्त्वानामूष्ट्रादीनां तथा म्लेच्छानां ध्वंसो विनाशो दुर्भिक्षं च भवति। अथशब्दः स्वार्थे।
अरुणकिरणानुरूपे अरुणरश्मिसदृशे ईषल्लोहितवर्ण इत्यर्थः। दुर्भिक्षावृष्टयो भवन्ति।
विहगानां पक्षिणां च पीडा भवति। आधूम्रे धूम्रवर्णे क्षेमं सुभिक्षं चादिशेत्। मन्दां स्वल्पां
च वृष्टिमादिशेत्।
कापोतः कपोतवर्णः, तस्मिंस्तथा अरुणे लोहितवर्णे। कपिले कपिलवर्णे। श्यावे
श्याववर्णे क्षुद्भयं दुर्भिक्षभयं विनिर्दिश्यं वक्तव्यम्। कापोतः कपोतवर्णः कृष्णवर्णश्च शूद्राणां
व्याधिकरः पीडावहः।
विमलकमणेरिव पीता आभा कान्तिर्यस्य स विमलकमणिपीताभः, नीलपीत इत्यर्थः।
एवंविधे वैश्यध्वंसी वैश्यहन्ता भवेत् स्यात्। सुभिक्षाय भवेत् सुभिक्षकृद्भवेत्। सार्चिष्मति
सज्वाले राहावग्निभयं भवति। तथा गैरिकरूपे गैरिकसदृशे युद्धानि संग्रामा भवन्ति।
दूर्वाकाण्डश्यामे दूर्वाकाण्डवत् श्यामे शाद्वलप्रणालतुल्यवर्णे हारिद्रे वा अतिपीतवर्णे
मरकं निर्दिशेद्बदेत्। राहूर्यदि पाटलकुसुमोपमः पाटलपुष्पसदृशः श्वेतलोहित इत्यर्थः। तथा-
भूतोऽशनिभयसम्प्रदायी अशनिभयं ददाति।
पांशुरूपो विलोहितरूपश्च व्यामिश्रवर्णः क्षत्रध्वंसाय क्षत्रियाणां नाशाय वृष्टेश्च नाशाय
भवति। तथा बालरवेर्बालार्कस्य कमलस्य पद्मस्य व सुरचापस्येन्द्रधनुषः सदृशं तुल्यं रूपं
कान्तिं यदा बिभर्त्ति धारयति तदा शस्त्रकोपाय भवति शस्त्रकोपं करोति। युद्धानि भवन्ती-
त्यर्थः। तथा च पराशरः—
‘वर्णः कृष्णकपोतोऽतिवर्षाय शूद्रकुक्षिरोगाय तिलतोयवृद्धये दैत्यनाशाय च। पांशुधूम-
लोहितः क्षत्रियविनाशाय। बालार्कांशुकपिलो दुर्भिक्षाय। हारिद्रो व्याधये। दूर्वाङ्कुरसदृशो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१२८ बृहत्संहिता
जनमरकाय। पाटलकुसुमसन्रिकाशोऽशनिभयदो भवती'ति।।५३-५९।।
अधुनाऽर्कचन्द्रयोर्ग्रहदृष्टिफलान्याह—
पश्यन् ग्रस्तं सौम्यो घृतमधुतैलक्षयाय राज्ञां च।
भौमः समरविमर्दं शिखिकोपं तस्करभयं च ।।६०।।
शुक्रः सस्यविमर्दं नानाक्लेशांश्च जनयति धरित्र्याम्।
रविजः करोत्यवृष्टिं दुर्भिक्षं तस्करभयं च ।।६१।।
ग्रहणकालिक सूर्य या चन्द्र के ऊपर बुध की दृष्टि हो तो घी, शहद, तेल और
राजाओं का नाश करता है। यदि मंगल की दृष्टि हो तो युद्ध, अग्निभय और चोरों का भय
करता है। यदि शुक्र की दृष्टि हो तो पृथ्वी पर धान्यों का नाश और अनेक तरह के क्लेश
उत्पन्न करता है एवं यदि शनि की दृष्टि हो तो दुर्भिक्ष, अनावृष्टि और चोरों का भय करता
है।।६०-६१।।
सौम्यो बुधो ग्रस्तमर्कं चन्द्रं वा पश्यति तदा घृतमधुतैलानां राज्ञां नृपाणां च क्षयाय
नाशाय भवति। भौमश्चेत् पश्यति तदा समरविमर्दं युद्धं शिखिकोपमग्निप्रकोपं तस्करभयं
चौरभयं च करोति।
शुक्रश्चेत् पश्यति तदा सस्यविमर्दं सस्यविनाशं धरित्र्यां भूमौ नानाक्लेशान् अनेकान्
कृच्छ्रान् जनयत्युत्पादयति। रविजः सौरिश्चेत् पश्यति तदाऽवृष्टिमवर्षणं दुर्भिक्षं तस्करभयं
चौरभीतिं च करोति।।६०-६१।।
अधुना शुभदृष्टेः प्रशंसार्थमाह—
यदशुभमवलोकनाभिरुक्तं ग्रहजनितं ग्रहणे प्रमोक्षणे वा।
सुरपतिगुरुणावलोकिते तच्छममुपयाति जलैरिवाग्निरिद्धः ।।६२।।
ग्रहदृष्टिवश स्पर्श और मोक्षसमय में जो अशुभ फल कहे गये हैं, गुरु की दृष्टि से
उनका जल से प्रज्वलित अग्नि की तरह नाश होता है।।६२।।
पश्यन् ग्रस्तं सौम्य इत्यादिकाभिरवलोकनाभिर्दृष्टिभिर्ग्रहजनितं ग्रहोत्पादितं यदुक्तमशुभं
फलं ग्रहणकाले वा तत्सर्वं सुरपतिगुरुणा बृहस्पतिनाऽवलोकिते दृष्टे शमं शान्तिमुपयाति
गच्छति। यथा जलैरम्बुभिर्ऋद्धः प्रज्वलितोऽग्निर्हुतवह इति। ग्रहणे प्रमोक्षणे वेत्यत्र विकल्पः
कृतः। यदि कदाचिद् ग्रहणकाले योऽसौ दृश्यो द्रष्टा च ग्रहः स एव राश्यन्तरं संक्रामति,
तदा तानि फलानि न भवन्ति। तेन ग्रहणे मोक्षान्तदृष्टिफलमभिमतमिति।।६२।।
अथ प्रग्रहणकालाद् मोक्षान्तं यावद् ग्रहणसमयस्तन्मध्ये उत्पातैर्दृष्टैरन्यस्य ग्रहणस्य
परिज्ञानमाह—
ग्रस्ते क्रमान्निमित्तैः पुनर्ग्रहो मासषट्कपरिवृद्ध्या।
पवनोल्कापातरजः क्षितिकम्पतमोऽशनिनिपातैः ।।६३।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
राहुचाराध्यायः १२९
यदि सूर्य या चन्द्रग्रहण के समय में वायु, उल्कापात, धूलीवर्षण, भूकम्प, अन्धकार
और वज्रपात हो तो क्रमशः छः-छः की वृद्धि करके फिर ग्रहण की सम्भावना कहनी
चाहिये। जैसे ग्रहणसमय में वायु-प्रकोप हो तो वर्त्तमान ग्रहण-काल से छः मास बाद,
उल्कापात हो तो बारह मास बाद, धूली-वर्षण हो तो अट्ठारह मास बाद, भूकम्प हो तो
चौबीस मास बाद, अन्धकार हो तो तीस मास बाद और वज्रपात हो तो छत्तीस मास बाद
पुनः ग्रहण कहना चाहिये॥६३॥
अर्के चन्द्रे वा ग्रस्ते गृहीते सति यद्येत उत्पाता दृश्यन्ते तदा पुनर्भूयो मासषट्क-
परिवृद्ध्या षड्भिः षड्भिर्मासैर्ग्रहणं भवति। तद्यथा—प्रग्रहणकाले यदि पवनो वायुर्भवति
तदा तेनोत्पातेन पुनः षड्भिर्मासैर्ग्रहणं भवति। एवमुल्कापातेन द्वादशभिः। रजसा पांशु-
वर्षेणाष्टादशभिः। क्षितिकम्पेन भूचलनेन मासचतुर्विंशत्या तमसा मासत्रिंशता। अशनिपातेन
मासषट्त्रिंशता। तथा च पराशरः—
उपरक्ते यदा सूर्ये प्रबलाद्वाति मारुतः।
मासषट्के तदा विन्द्याद्राहोरागमनं ध्रुवम्॥
उल्कायां द्वादशे मासे रजसाष्टादशे तथा।
भूकम्पे च चतुर्विंशे त्रिंशे तमसि निर्दिशेत्॥
षट्त्रिंशेऽशनिपाते स्यात् सर्वेषु स्यात् षडुत्तरे॥ इति॥६३॥
अधुना भौमादीनां ग्रस्तानां फलमाह—
आवन्तिका जनपदाः कावेरीनर्मदातटाश्रयिणः।
दृप्ताश्च मनुजपतयः पीड्यन्ते क्षितिसुते ग्रस्ते॥६४॥
सूर्य या चन्द्र के साथ एक राशि में अल्पांशान्तर पर होकर कुजादि ग्रहों का यदि
शराभाव हो तो वे ग्रस्त कहे जाते हैं। इस तरह यदि मङ्गल ग्रस्त हो तो अवन्ती देश में
स्थित मनुष्य, कावेरी और नर्मदा नदी के तीर पर रहने वाले एवं गर्वयुत राजाओं को
पीड़ित करता है॥६४॥
अत्रादौ तावत्ताराग्रहाणां ग्रस्तत्वं व्याख्यायते। यो ग्रहोऽर्केण चन्द्रेण वा सहैकराशौ
भवति तत्र चेति विक्षिप्तो न भवति, तदा छादनात् ग्राहकस्य ग्रस्त इत्युच्यते। एवं क्षिति-
सुतेऽङ्गारके ग्रस्ते आवन्तिका इत्यवन्तिदेशभवा जनपदाः। तथा कावेरी नदी नर्मदा च तयो-
स्तटं तीरं ये समाश्रितास्तन्निवासिनः। तथा दृप्ता दर्पिष्ठा ये मनुजपतयो मनुष्याणां मनुजानां
पतयो राजानः, एते सर्व एव पीड्यन्ते॥६४॥
अथ बुधस्याह—
अन्तर्वेदीं सरयूं नेपालं पूर्वसागरं शोणम्।
स्त्रीनृपयोधकुमारान् सह विद्भिर्बुधो हन्ति॥६५॥
बृ० भ० प्र०-९
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१३० बृहत्संहिता
यदि बुध ग्रस्त हो तो अन्तर्वेदी ( गंगा-यमुना के मध्य का देश ), सरयू, नेपाल,
पूर्वी समुद्र, शोण नद, स्त्री, राजा, योद्धा, बालक, विद्वान्—इन सबों का नाश करता है।
अन्तर्वेदी गङ्गायमुनयोर्मध्यम्। सरयू पूर्वनदी। नेपालदेशः। पूर्वसागरः पूर्वसमुद्रः।
शोणो नदः। स्त्रियो योषितः। नृपा राजानः। योधाः संग्रामकुशलाः। कुमारा बालाः। प्रथम-
वयसश्च। एतान् सर्वान् विद्वद्भिः पण्डितैः सह बुधो ग्रस्तो हन्ति घातयन्ति।।६५।।
अथ जीवस्याह—
ग्रहणोपगते जीवे विद्वन्नृपमन्त्रिगजहयध्वंसः।
सिन्धुतटवासिनामप्युदग्दिशं संश्रितानां च ॥६६॥
यदि गुरु ग्रस्त हो तो पण्डित, राजा, मन्त्री, हस्ती, घोड़ा, सिन्धुनद के तट पर रहने
वाले, उत्तर दिशा में रहने वाले—इन सबों का नाश करता है।।६६।।
जीवे बृहस्पतौ ग्रहणोपगते ग्रहणं प्राप्ते विदुषां पण्डितानां नृपाणां राज्ञां मन्त्रिणां सचिवानां
गजानां हस्तिनां हयानामश्वानां च ध्वंसो विनाशो भवति। तथा सिन्धुर्नाम नदी तत्तटवासिनो
ये तेषामपि। तथोदग्दिशं संश्रितानामुत्तरदिग्वासिनां जनानां च ध्वंस एव भवति।।६६।।
अथ शुक्रस्याह—
भृगुतनये राहुगते दाशेरककैकयाः सयौधेयाः।
आर्यावर्त्ताः शिबयः स्त्रीसचिवगणाश्च पीड्यन्ते ॥६७॥
यदि शुक्र ग्रस्त हो तो दाशेरक, कैकय ( काश्मीर ), यौधेय और शिबि देश में
स्थित मनुष्य, स्त्री-गण, मन्त्री—इन सबों को पीड़ित करता है।।६७।।
भृगुतनये शुक्रे राहुगते ग्रस्ते सति दाशेरका जनाः। कैकयाः सयौधेयाः सह यौधे-
यैर्जनैः। आर्यावर्त्ताः प्रधानदेशजनाः। शिबयो जनाः। स्त्रियो योषितः। सचिवा मन्त्रिणः।
गणाः समूहाः। एते सर्व एव पीड्यन्ते उपतप्यन्ते।।६७।।
अथ सौरस्याह—
सौरे मरुभवपुष्करसौराष्ट्रिकधातवोऽर्बुदान्त्यजनाः।
गोमन्तपारियात्राश्रिताश्च नाशं व्रजन्त्याशु ॥६८॥
यदि शनैश्चर ग्रस्त हो तो मरुभूमि, पुष्कर और सौराष्ट्र देश के निवासी जन, अर्बुद
पर्वत पर निवास करने वाले मनुष्य, अन्त्यजन ( निकृष्ट जाति के मनुष्य ), गोस्वामी,
पारियात्र पर्वत पर रहने वाले—इन सबों का नाश होता है।।६८।।
सौरे शनैश्चरे ग्रस्ते मरुभवा मरुभूमावुत्पत्तियेषां ते। पुष्करजनाः। सौराष्ट्रिकाः। धातवो
धातुद्रव्याणि। अर्बुदजनाः अर्बुदः पर्वतस्तत्र ये निवसन्ति। अन्त्यजना निकृष्टजनाः। गोमन्तो
गोमिनः, केचिद् गोनन्द इति पठन्ति, गोनन्दा जनाः। पारियात्राश्रिताश्च पारियात्रः पर्वतस्तत्र
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राहूचाराध्यायः १३१
ये आश्रिताः स्थिता एते सर्व आशु क्षिप्रमेव नाशं व्रजन्ति गच्छन्ति।।६८।।
अथ मासफलं वक्तुकामस्तत्रादावेव कार्त्तिकस्याह—
कार्त्तिक्यामनलोपजीविमगधान् प्राच्याधिपान् कोशलान्
कल्माषानथ शूरसेनसहितान् काशींश्च सन्तापयेत्।
हन्यादाशु कलिङ्गदेशनृपतिं सामात्यभृत्यं तमो
दृष्टं क्षत्रियतापंद जनयति क्षेमं सुभिक्षान्वितम् ।।६९।।
यदि कार्तिक की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो अग्नि से
आजीविका करने वाले (लोहार, सोनार आदि), मगध देश में रहने वाले, पूर्व दिशा के
राजा, कोशल, कल्माष, शूरसेन और काशी में रहने वाले मनुष्य—इन सबों को पीड़ित
करता है। साथ ही मन्त्री और भृत्यों के साथ कलिङ्ग देश के राजा का नाश करता है एवं
क्षत्रियों को सन्तापित करता है। साथ ही संसार में क्षेम और सुभिक्ष करता है।।६९।।
कार्त्तिकस्येयं पौर्णमास्यामावास्या वा कार्त्तिकी। तस्यां कार्त्तिक्यां तमो दृष्टं राहुर्यदि
दृश्यते तदाऽनलोपजीविनोऽग्निवार्त्ताः सुवर्णकारप्रभृतयः। मगधा जनाः। प्राच्याधिपाः
पूर्वस्यां दिशि ये अधिपतयो राजानस्तान् तथा कोशलाञ्जनान्, कल्माषान् जनान्। अथशब्दः
स्वार्थे, तांश्च शूरसेनसहितान् शूरसेना जनास्तैः सहितान् तथा काशींश्च जनान् एतांश्च सर्वान्
सन्तापयेदुपतापयेत्। तथा कलिङ्गदेशे यो नृपती राजा तं सामात्यभृत्यम्। अमात्यैर्मन्त्रि-
भिर्भृत्यैश्च सर्वकर्मकरैः सहितमाश्वेव क्षिप्रं हन्यान्नाशयेत्। तथा क्षत्रियतापंद क्षत्रियाणां
राजन्यानां तापं ददाति। क्षेमं सुभिक्षान्वितं सुभिक्षसंयुक्तं जनयत्युत्पादति ।।६९।।
अथ मार्गशीर्षस्याह—
काश्मीरकान् कौशलकान् सपुण्ड्रान् मृगांश्च हन्यादपरान्तकांश्च।
ये सोमपास्तांश्च निहन्ति सौम्ये सुवृष्टिकृत् क्षेमसुभिक्षकृच्च ।।७०।।
यदि मार्गशीर्ष मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो
काश्मीर, कौशाल और पुण्ड्र देश में रहने वाले, मृग (वन के जन्तु), पश्चिम देशवासी
मनुष्य, सोमरस का पान करने वाले—इन सबों का नाश करता है तथा संसार में सुवृष्टि,
क्षेम और सुभिक्ष करता है।।७०।।
सौम्ये मार्गशीर्षमासे राहुर्दृष्टः काश्मीरकान् जनान्। कोशलांश्च सपुण्ड्रान् पुण्ड्रैर्जनैः
सहितान्। मृगा अरण्यप्राणिनस्तानपि। अपरान्तकान् जनान्। एतानपि हन्यान्नाशयेत्।
तथा ये सोमपाः सोमं पीतं यैस्ते कृतयज्ञास्तांश्च निहन्ति। सुवृष्टिकृत् शोभनां वृष्टिं करोति।
क्षेमसुभिक्षकृच्च क्षेमं सुभिक्षं च करोति।।७०।।
अथ पौषस्याह—
पौषे द्विजक्षत्रजनोपरोधः ससैन्धवाख्याः कुकुरा विदेहाः।
ध्वंसं व्रजन्त्यत्र च मन्दवृष्टिं भयं च विन्द्यादसुभिक्षयुक्तम् ।।७१।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१३२ बृहत्संहिता
यदि पौष मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो ब्राह्मण
और क्षत्रियों में उपद्रव, सैन्धव, कुकुर और विदेह देशवासियों का नाश होता है तथा
संसार में थोड़ी वृष्टि, भय और दुर्भिक्ष होता है।।७१।।
पौषे मासे तमसि दृष्टे द्विजानां ब्राह्मणानां क्षत्रजनानां चोपरोध उपद्रवो भवति। तथा
सैन्धवा जनाः सैन्धवेत्याख्या नाम येषां ते। कुकुराश्च जना एव सह सैन्धवाख्यैर्ये कुकुरा
वर्तन्ते ते ससैन्धवाख्याः कुकुराः। तथा विदेहजनाः। एते सर्वे ध्वंसं विनाशं व्रजन्ति गच्छन्ति।
अत्र च मन्दामल्पां वृष्टिं तथाऽसुभिक्षयुक्तं दुर्भिक्षसहितं भयं विन्द्याज्जानीयात्।।७१।।
अथ माघ आह—
माघे तु मातृपितृभक्तवसिष्ठगोत्रान्
स्वाध्यायधर्मनिरतान् करिणस्तुरङ्गान्।
वङ्गाङ्गकाशिमनुजांश्च दुनोति राहु-
र्वृष्टिश्च कर्षकजनाभिमतां करोति।।७२।।
यदि माघ मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो माता-
पिता के भक्त, वसिष्ठ-गोत्रोत्पन्न ब्राह्मण, स्वाध्याय और धर्म में निरत, हाथी, घोड़ा, वङ्ग,
अङ्ग और काशी देश में रहने वाले मनुष्य—इन सबों को पीड़ित करता है तथा संसार में
किसानों की इच्छा के अनुकूल वृष्टि होती है।।७२।।
माघमासे राहुर्दृष्टो मातृपितृभक्तान् जननीजनकतत्परान्, तथा वसिष्ठगोत्रान् वसिष्ठो
गोत्रं येषां द्विजानीनां तान्, तथा स्वाध्याये पाठे धर्मे च निरतान् सक्तान्, करिणो हस्तिनः,
तुरङ्गानश्वान्, वङ्गान् जनान् अङ्गानपि, काशिमनुजान् काशिदेशे मनुष्यान् अथवा मनुज-
शब्दः प्रत्येकं सम्बध्यते। वङ्गान् मनुजानङ्गमनुजान् काशिमनुजांश्च सर्वान् दुनोत्युपतापयति।
तथा कर्षकजनानां कृषिकराणामभिमताभीष्टां वृष्टिं च करोति।।७२।।
अथ फाल्गुन आह—
पीडाकरं फाल्गुनमासि पर्व वङ्गाश्मकावन्तिकमेकलानाम्।
नृत्यज्ञसस्यप्रवराङ्गनानां धनुष्करक्षत्रतपस्विनां च।।७३।।
यदि फाल्गुन मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो
बङ्गाल, अश्मक, अवन्ती और मेकल देश में रहने वाले, नाचने वाले, धान्य, उत्तम स्त्री,
धनुष बनाने वाले शिल्पी, क्षत्रिय, तपस्वी—इन सबों को पीड़ित करता है।।७३।।
फाल्गुने मासि पर्व ग्रहणं वङ्गानां जनानामश्मकानामावन्तिकानां मेकलानां पीडाकर-
मुपतापजनकम्। तथा नृत्यज्ञानां नाट्यविदां सस्यानां प्रवराङ्गनानां प्रधानस्त्रीणां धनुष्कराणां
शिल्पिनां क्षत्राणां क्षत्रियाणां तपस्विनां तपोनिरतानामेषां सर्वेषां पीडाकरमेव।।७३।।
अत्र चैत्र आह—
चैत्र्यां तु चित्रकरलेखकगेयसक्तान्
रूपोपजीविनिगमाञ्जहिरण्यपण्यान् ।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राहुचाराध्यायः १३३
पौण्ड्रौड्रकेकयजनानथ चाश्मकांश्च
तापःस्पृशत्यमरपोऽत्र विचित्रवर्षी ॥७४॥
यदि चैत्र मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो चित्रकार,
लेखक, गान विद्या जानने वाले, रूपोपजीवी (वेश्या आदि), निगम (वेद) को जानने
वाले, सोना बेचने वाले, पौण्ड्र, औड्र, केकय और अश्मक देश में रहने वाले पीड़ित होते
हैं। संसार में अमरप (इन्द्र) विचित्रवर्षी (विचित्रवर्षी = कहीं वृष्टि और कहीं नहीं वृष्टि
करने वाले) होते हैं॥७४॥
चैत्र्याममावास्यायां पौर्णमास्यां वा चित्रकराश्चित्रज्ञाः शिल्पिनः, लेखका लिपिज्ञाः,
गेयसक्ता गीतरता एतान्। तथा रूपोपजीविनो वेश्याजनाः। निगमा वेदपाठकाः। हिरण्यपण्याः
सुवर्णविक्रयिणः एतानपि। तथा पौण्ड्रा जनाः। औड्राः केकया एते सर्व एव जनाः।
अथशब्दः पादपूरणे। अश्मकांश्च जना एव, एतान् सर्वान् तापः सन्तापः स्पृशति। एते
पीडिता भवन्तीत्यर्थः। अत्रास्मिन् वर्षे अमरप इन्द्रो विचित्रवर्षी। विचित्रं नानाप्रकारं वर्षति।
क्वचिन्न वर्षति क्वचिद्वर्षतीत्यर्थः। केषाञ्चित् पाठः—अमरराडपि चित्रवर्णः॥७४॥
अथ वैशाख आह—
वैशाखमासे ग्रहणे विनाश-
मायान्ति कर्पासतिलाः समुद्गाः ।
इक्ष्वाकुयौधेयशकाः कलिङ्गाः
सोपप्लवाः किन्तु सुभिक्षमस्मिन् ॥७५॥
यदि वैशाख मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो कपास,
तिल और मूंग का नाश होता है। इक्ष्वाकु, यौधेय और कलिङ्ग देश में उपद्रव होते हैं;
किन्तु संसार में सुभिक्ष होता है॥७५॥
वैशाखमासे ग्रहणे कर्पासास्तिलाः समुद्गा मुद्गसहिता एते विनाशमायान्ति गच्छन्ति।
तथैक्ष्वाकवो जना यौधेयाः शका कलिङ्गा एते सर्वे सोपप्लवाः सोपद्रवाः। किन्तु पुन-
रस्मिन् ग्रहणे सुभिक्षं च भवति॥७५॥
अथ ज्येष्ठ आह—
ज्येष्ठे नरेन्द्रद्विजराजपत्न्यः सस्यानि वृष्टिश्च महागणाश्च।
प्रध्वंसमायान्ति नराश्च सौम्याः साल्वैः समेताश्च निषादसङ्घाः ॥७६॥
यदि ज्येष्ठ मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो राजा,
ब्राह्मण, राजपत्नी, धान्य, वृष्टि, महागण, उत्तर दिशा में रहने वाले मनुष्य, साल्व देशवासी,
निषाद—इन सबों का नाश होता है॥७६॥
ज्येष्ठे मासि पर्वणि ग्रहणे नरेन्द्रा राजानो द्विजा ब्राह्मणा राजपत्न्यो राजस्त्रियः।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१३४ बृहत्संहिता
सस्यानि प्रसिद्धानि। वृष्टिर्वर्षणं च। महागणा महासमूहाश्च। एते सर्वे प्रध्वंसं नाशमायान्ति
नाशं प्राप्नुवन्ति। तथा च ये नराः सौम्या दर्शनीया उत्तरदिग्वासिन इति। एते साल्वैः
समेताः सहिताश्च निषादानां प्राणिघातकानां संघाः समूहा प्रध्वंसमायान्ति ।।७६ ।।
अथाऽऽषाढ आह—
आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान्।
गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेन्मण्डलवर्षमस्मिन् ।।७७।।
यदि आषाढ मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो उदपान
(वापी, कूप, तालाब) के वप्र (तट) में रहने वाले मनुष्य, नदी का प्रवाह, फल-मूल
खाकर समय-यापन करने वाले, गान्धार, काश्मीर, पुलिन्द, चीन—इन सबों का नाश
करता है तथा संसार में मण्डलवृष्टि (कहीं-कहीं वर्षा) होती है।।७७।।
आषाढपर्वण्याषाढे मासे ग्रहणे उदपानं जलाधारो वापीकूपतडागादिस्तस्य चोदपानस्य
वप्रस्तटः। नदीप्रवाहः पुलिनविस्तरम्। फलमूलवार्त्ताः फलानि मूलानि वार्त्ता वर्तनं वृत्तिर्येषां
ते। तथा गान्धारा जनाः। काश्मीराः। पुलिन्दाः। चीनाः। एतान् सर्वान् हतान् नष्टानिति
वदेत्। सर्व एव नश्यन्तीत्यर्थः। अस्मिन् पर्वणि मण्डलवर्षं भवति। क्वचित् क्वचि-
द्वर्षतीत्यर्थः ।। ७७ ।।
अथ श्रावण आह—
काश्मीरान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रजान्
गान्धारानपि मध्यदेशसहितान् दृष्टो ग्रहः श्रावणे।
काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान्निमा-
नन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम् ।।७८ ।।
यदि श्रावण मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो काश्मीर,
पुलिन्द, चीन, यवन, कुरुक्षेत्र, गान्धार, मध्य देश, कम्बोज—इन देशों में रहने वाले,
एकशफ (घोड़ा, गदहा), शरद ऋतु में उत्पन्न होने वाले अन्न—इन सबों का नाश करता
है; किन्तु उक्त देशों से अन्यत्र के मनुष्यगण अत्यधिक अन्न की उत्पत्ति से सुखी होकर
सम्पूर्ण संसार को व्याप्त कर लेते हैं।।७८ ।।
श्रावणे मासि ग्रहो ग्रहणं दृष्टः काश्मीरान् जनान् सपुलिन्दचीनयवनान् पुलिन्दचीनजा
जना यवनास्तैः सहितान्। तथा कुरुक्षेत्रजान् जनान्। गान्धारानपि। मध्यदेशसहितानेतान्
सर्वान् हन्यात् नाशयेत्। तथा काम्बोजान् जनान्। एकशफांश्च अश्वगर्दभान्। चशब्दः
समुच्चये। न केवलं यावत् शारदमपि शारदधान्यादिकान् एतानपि हन्ति। इमान् यथोक्तान्
काश्मीरादीन् त्यक्त्वा विहायान्यत्र देशेषु प्रचुरेण प्रभूतेनान्नेन ये हृष्टाः प्रहर्षिता मनुजा
नरास्तैर्धात्रीं भूमिमावृतां व्याप्तां करोति।।७८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राहुचाराध्यायः १३५
अथ भाद्रपद आह—
कलिङ्गवङ्गान् मगधान् सुराष्ट्रान्
म्लेच्छान् सुवीरान् दरदाश्मकांश्च ।
स्त्रीणां च गर्भानसुरो निहन्ति
सुभिक्षकृद् भाद्रपदेऽभ्युपेतः ॥७९॥
यदि भाद्रपद मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो कलिङ्ग,
मगध, सौराष्ट्र, म्लेच्छ, सुवीर, दरद, अश्मक—इन देशों का और स्त्रियों के गर्भो का नाश
करता है तथा संसार में सुभिक्ष होता है ॥७९॥
असुरो राहुर्भाद्रपदे मास्यभ्युपेत आगतः कलिङ्गान् जनान्। वङ्गान्। मगधान्। सुराष्ट्रान्।
म्लेच्छान्। सुवीरान्। दरदान्। अश्मकान्। एतान् सर्वान्निहन्ति घातयति। केचिद्दरदाञ्छ-
कानिति पठन्ति। तथा स्त्रीणां योषितां गर्भान् निहन्ति। सुभिक्षकृत् सुभिक्षं करोति ॥७९॥
अथाश्वयुज्याह—
काम्बोजचीनयवनान् सह शल्यहृद्भि-
बर्ह्लीकसिन्धुतटवासिजनांश्च हन्यात् ।
आनर्त्तपौण्ड्रभिषजश्च तथा किरातान्
दृष्टोऽसुरोऽश्वयुजि भूरिसुभिक्षकृच्च ॥८०॥
यदि आश्विन मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो
कम्बोज, चीन और यवन देश में रहने वाले, शल्यचिकित्सक, बाह्लीक देश में रहने वाले,
सिन्धु नद के तट में रहने वाले, आनर्त और पौण्ड्र देश में रहने वाले, वैद्य, किरात—इन
सबों का नाश करता है तथा संसार में अधिक सुभिक्ष होता है॥८०॥
असुरो राहुरश्वयुजि मासि दृष्टः काम्बोजान् जनान्। चीनान् यवनान् एतान् सर्वान्
सह शल्यहृद्भिः शल्यहर्तृभिर्व्रणचिकित्सकैः सह। तथा वाह्लीकान् जनान्। सिन्धोर्नद्यास्तटे
ये निवसन्ति जनास्तांश्च। हन्यात् घातयेत्। चशब्दः सर्वत्रात्र समुच्चये। आनर्त्ता जनाः।
पौण्ड्राः। भिषजो वैद्याः। तथा किराता जनाः। एतान् सर्वान् हन्यान्नाशयेत्। तथा भूरिसु-
भिक्षकृच्च। भूर्यतिबाहुल्येन सुभिक्षं करोति। तथा च समाससंहितायाम्—
अश्वयुग्माघकार्त्तिकभाद्रपदेष्वागतः सुभिक्षकरः।
राहुरवशिष्टमासेष्वशुभकरो वृष्टिधान्यानाम्॥
तथा च पराशरः—'तत्र कार्त्तिके सुभिक्षक्षेमाय काशिकौशलशूरसेनाऽभावाय च। मार्ग-
शीर्षे मृगपौण्ड्रोसोमभयाय वृष्टये च। पौषे भयुदुर्भिक्षब्रह्मक्षत्रोपरोधाय। माघे शस्त्रप्रकोपाय
प्रावृड्वृद्धये वङ्गानर्त्तकयवनकाशिदेशोत्सादनकृत्। फाल्गुनेऽन्नसम्पच्च। नटनर्त्तकधनुष्क-
रसस्यविनाशाय चैत्रे। वैशाखेऽश्मकपौण्ड्रौड्रम्लेच्छवृक्षसस्याभावाय। ज्येष्ठे ज्येष्ठपत्नीगण-
मुख्यसस्योपद्रवाय। साल्वन्निषादवृष्टिसस्यघ्नमाषाढे। श्रावणे क्षेमसुभिक्षमन्यत्र चीनकाश्मीर-
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
१३६ बृहत्संहिता
पुलिन्दगान्धारेभ्यः। भाद्रपदे मगधदरदकलिङ्गवङ्गाऽनयाय सस्यक्षेमाय च। आश्वयुग्ग्रहणे
सुभिक्षक्षेमाय आवन्तिवाहीकानर्त्तकाम्बोजसैन्धवाऽऽमयाये'ति ।।८०।।
अथार्कशशिनोर्दश मोक्षा भवन्ति तेषां नामान्याह—
हनुकुक्षिपायुभेदा द्विर्द्विः सञ्छर्दनं च जरणं च।
मध्यान्तयोश्च विदरर्णामति दश शशिसूर्ययोर्मोक्षाः ।।८१।।
दक्षिण हनु, वाम हनु, दक्षिण कुक्षि, वाम कुक्षि, दक्षिण पायु, वाम पायु, सञ्छर्दन,
जरण, मध्य विदरन एवं अन्त्य विदरन—ये दश प्रकार के सूर्य और चन्द्र के मोक्ष होते
हैं।।८१।।
हनुकुक्षिपायुभेदा द्विर्द्विः। द्वौ द्वौ वारौ द्विर्द्विः। हनुभेदौ द्वौ। कुक्षिभेदौ द्वौ। पायुभेदौ
द्वाविति षट्। सञ्छर्दनं च जरणं च। चकार
राहूचाराध्यायः १३७
वक्त्रपीडां शस्त्रभयं संग्रामभीतिं च विन्द्याज्जानीयात्। सुभिक्षं च भवति। तथा च कश्यपः—
पूर्वोत्तरेऽपरो भेदो नृपपुत्रभयप्रदः।। इति।।८३।।
अथ दक्षिणकुक्षिविभेदलक्षणं सफलमाह—
दक्षिणकुक्षिविभेदो दक्षिणपार्श्वेन यदि भवेन्मोक्षः।
पीडा नृपपुत्राणामभियोज्या दक्षिणा रिपवः ॥८४॥
यदि चन्द्र-ग्रहण में दक्षिण पार्श्व में मोक्ष हो तो दक्षिण कुक्षिभेद नामक मोक्ष होता है।
इसमें राजकुमारों को पीड़ा और दक्षिण दिशा में स्थित शत्रुओं में लड़ाई होती है।
विशेष—गणित के द्वारा दक्षिण दिशा में होकर राहु का निकलना असम्भव है, फिर
भी यहाँ पर पूर्व-शास्त्रानुसार आचार्य ने कहा है। अतः जब ऐसी स्थिति हो तो उसको
उत्पातरूप समझना चाहिये।।८४।।
दक्षिणपार्श्वेन दक्षिणभागेन यदि मोक्षो भवेत् स दक्षिणकुक्षिविभेदो नाम मोक्षः।
तस्मिन्मोक्षे नृपपुत्राणां राजसुतानां पीडा भवति। तथा दक्षिणा रिपवो दक्षिणदिक्स्थाः
शत्रवोऽभियोज्याः। तेषामुद्योगः कार्य इत्यर्थः। एतदौत्पातिकम्। यतो गणितगोलवासनया
दक्षिणोत्तरयोर्दिशोर्ग्रासमोक्षौ न भवतः। कदाचिदपि आचार्येण पूर्वशास्त्रानुसारेणोक्तम्।
तथा च कश्यपः—
दक्षिणः कुक्षिभेदः स्याद्वामे मोक्षो भवेद्यदि।
राजपुत्रभयं तत्र दक्षिणाशाद्विषां वधः।। इति।।८४।।
अथ वामकुक्षिभेदं सफलमाह—
वामस्तु कुक्षिभेदो यद्युत्तरमार्गसंस्थितो राहुः।
स्त्रीणां गर्भविपत्तिः सस्यानि च तत्र मध्यानि ॥८५॥
यदि ग्रहण-काल में उत्तर तरफ होकर राहु निकलता ( उत्तर तरफ मोक्ष ) हो तो
वाम कुक्षि-भेद नामक मोक्ष होता है। इसमें स्त्रियों के गर्भो का नाश और मध्यम रूप से
धान्य होता है।।८५।।
राहुर्यद्युत्तरमार्गसंस्थितः उत्तरस्यां दिशि संस्थितो भवति तदा स वामकुक्षिविभेदो नाम
मोक्षः। तस्मिन् मोक्षे स्त्रीणां योषितां गर्भविपत्तिर्गर्भविनाशो भवति। तथा सस्यानि मध्यानि
भवन्ति नाल्पानि न बहूनीत्यर्थः। एतदौत्पातिकम्। तथा च कश्यपः—
सौम्यायां तु यदा मोक्षो वामकुक्षिविभेदतः।
स्त्रीणां गर्भविनाशाय सौम्याशाधिपतेर्वधः।। इति।।८५।।
अथ दक्षिणवामौ पायुभेदौ सफलावाह—
नैर्ऋतवायव्यस्थौ दक्षिणवामौ तु पायुभेदौ द्वौ।
गुह्यरुगल्पा वृष्टिर्द्वयोस्तु राज्ञीक्षयो वामे ॥८६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१३८ बृहत्संहिता
यदि मोक्षकाल में नैर्ऋत्य और वायव्य कोण में राहु दृष्टिगोचर हो तो क्रम से दक्षिण
पायु-भेद और उत्तर पायु-भेद नामक मोक्ष होता है। जैसे—नैर्ऋत्य कोण में मोक्ष हो तो
दक्षिण पायु-भेद और वायव्य कोण में मोक्ष हो तो वाम पायु-भेद नामक मोक्ष होता है।
दक्षिण पायु-भेद में गुदा और लिङ्ग में रोग एवं थोड़ी वृष्टि तथा उत्तर पायु-भेद में
राजपत्नी का नाश होता है॥८६॥
नैर्ऋत्यां दक्षिणपश्चिमायां दिशि व्यवस्थिते तमसि दक्षिणपायुभेदः। वायव्यस्थे
पश्चिमोत्तरस्यामवस्थिते वामपायुभेदः। पायुशब्देनापानस्थानमुच्यते। अनयोर्द्वयोरपि गुह्यरुग्
गुदरोगो भवति। गुह्यं लिङ्गं वा तत्र रोगो भवति। अल्पा स्वल्पा वृष्टिर्वर्षणं भवति।
वामस्य विशेषमाह—राज्ञीक्षयो वाम इति। वामकुक्षिभेदे राज्ञ्या राजपत्न्याः क्षयो मरणं
भवति। तथा च कश्यपः—
पायुभेदगते राहौ वायवीनैर्ऋताशयोः।
गुह्यरोगभयं विन्द्याद्वामे राज्ञीभयं तथा।। इति।।८६।।
अथ सञ्छर्दनलक्षणमाह—
पूर्वेण प्रग्रहणं कृत्वा प्रागेव चापसर्पेत।
सञ्छर्दनमिति तत्क्षेमसस्यहार्दिप्रदं जगतः ॥८७॥
यदि चन्द्रविम्ब के पूर्व भाग से स्पर्श करके राहु उसी तरफ से निकलता ( बिम्ब के
पूर्व भाग में ही स्पर्श और मोक्ष ) हो तो सञ्छर्दन नामक मोक्ष होता है। यह मोक्ष संसार
में क्षेम, धान्य और सन्तोष देने वाला होता है॥८७॥
पूर्वेण पूर्वस्यां दिशि प्रग्रहणं कृत्वा प्रागेव पूर्वस्यामेव यद्यपसर्पेत गमनं करोति स
मोक्षः सञ्छर्दनमिति। तच्च जगतो लोकस्य क्षेमप्रदं सस्यप्रदं हार्दिप्रदं तुष्टिप्रदं च
भवति। तथा च कश्यपः—
ग्रासमोक्षौ यदा पूर्वे छर्दनं तु तदा भवेत्।
क्षेमहार्दिप्रदं ज्ञेयं सस्यनिष्पत्तिकारकम्।। इति।।८७।।
अथ जरणं सफलमाह—
प्राक्प्रग्रहणं यस्मिन् पश्चादपसर्पणं तु तज्जरणम्।
क्षुच्छस्त्रभयोद्विग्ना न शरणमुपयान्ति तत्र जनाः ॥८८॥
यदि चन्द्र-विम्ब के पूर्व भाग में स्पर्श और पश्चिम भाग में मोक्ष हो तो जरण नाम
मोक्ष होता है। इसमें क्षुधा और युद्ध के भय से उद्विग्न होकर मनुष्य निःशरण होते हैं
अर्थात् उनकी रक्षा करने वाला कोई नहीं होता है॥८८॥
यस्मिन् प्रग्रहणे प्राक् पूर्वस्यां दिशि प्रग्रहणं कृत्वा पश्चात् पश्चिमायां दिशि अप-
सर्पणं गमनं यदि करोति तदा तज्जरणं नाम मोक्षः। तत्र तस्मिन् मोक्षे जना मर्त्याः क्षुच्छ-
स्त्रभयोद्विग्नाः। क्षुद्भयं दुर्भिक्षभयम्। शस्त्रभयं संग्रामभीतिः। तेनोद्विग्ना दुःखिता न शरण-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
"?
Wait! Look at what my screen is displaying:
"वि" + "द" + "र" + "ण" = वि-द-र-ण -> wait! On my system, did I type 'श' or 'ण'?
Wait, look at:
Letter 1: 'ण' (U+0923)
Letter 2: 'श' (U+0936)
In line 4:
अथ मध्यविदरणं सफलमाह—
Line 5:
मध्ये यदि प्रकाशः प्रथमं तन्मध्यविदरशं? NO!
तन्मध्यविदरशं? NO!
तन्मध्यविदरशं? NO!
It is तन्मध्यविदरशं? WAIT!
Let me look at line 5 again:
Does line 5 say तन्मध्यविदरशं or तन्मध्यविदरशं or तन्मध्यविदरशं?
Wait! Look at the letter in line 5:
त
न्
म
ध्
य
व
ि
द
र
ण
ं
Wait, is that a ण or a श?
Let me look at the image very carefully.
In line 5:
१४० बृहत्संहिता
दिशा, उत्तर के स्थान पर दक्षिण और दक्षिण के स्थान पर उत्तर दिशा की कल्पना करनी
चाहिये। इस प्रकार दिग्वैपरीत्य करके सभी दश मोक्षों का लक्षण और फल देखना
चाहिये।।९१।।
एते सर्वे मोक्षा ये चन्द्रमस्युक्तास्ते सर्वे भास्करे सूर्येऽपि वक्तव्याः कथनीयाः।
किन्त्वत्रायं विशेषः—यथा शशिनि चन्द्रे पूर्वा दिक् तथा रवावादित्ये पश्चिमा दिक् कल्प्या।
एतदुक्तं भवति—आदित्यस्य पश्चिमा दिक् पूर्वा, पूर्वा च पश्चिमा। दक्षिणा उत्तरा। उत्तरा
च दक्षिणा। विदिशश्चानेनैव वैलोम्येन परिकल्प्य चन्द्रवद् मोक्षा वाच्या इति।।९१।।
अथ ग्रहणे मुक्ते सप्ताहान्तःफलान्याह श्लोकपञ्चकेन—
मुक्ते सप्ताहान्तः पांशुनिपातोऽन्नसंक्षयं कुरुते।
नीहारो रोगभयं भूकम्पः प्रवरनृपमृत्युम् ।।९२।।
उल्का मन्त्रिविनाशं नानावर्णा घनाश्च भयमतुलम्।
स्तनितं गर्भविनाशं विद्युन्नृदंष्ट्रिपरिपीडाम् ।।९३।।
परिवेषो रुग्पीडां दिग्दाहो नृपभयं च साग्निभयम्।
रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ।।९४।।
निर्घातः सुरचापं दण्डश्च क्षुद्भयं सपरचक्रम्।
ग्रहयुद्धे नृपयुद्धं केतुश्च तदेव सन्दृष्टः ।।९५।।
अविकृतसलिलनिपातैः सप्ताहान्तः सुभिक्षमादेश्यम्।
यच्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ।।९६।।
मोक्ष के पश्चात् सात दिन के अन्दर रजोवर्षण हो तो अन्न का नाश, नीहार ( हिमवर्षण
‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिममि’त्यमरः ) हो तो रोग का भय, भूकम्प हो तो
प्रधान राजा का मरण, उल्कापात हो तो मन्त्री का नाश, नाना वर्ण का मेघ हो तो अतिशय
भय, मेघ का गर्जन हो तो गर्भ ( २१वें अध्याय में उक्त गर्भ-लक्षण ) का नाश, विद्युत्पात
हो तो राजा, सर्प, सूकर आदि को पीड़ा, परिवेष ( मण्डल, ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’
इत्यमरः ) हो तो रोग और पीडा, दिग्दाह हो तो राजभय और अग्निभय, कठोर प्रचण्ड
वायु बहे तो चोर का भय, निर्घात ( वायु से वायु अभिहत ) हो, इन्द्रधनुष दिखाई दे या
दण्ड ( रवि के किरण, मेघ और वायु का संघात ) हो तो दुर्भिक्ष और परराष्ट्र का भय,
ग्रहयुद्ध या केतु का दर्शन हो तो राजाओं में युद्ध और निर्मल जल की वर्षा हो तो सुभिक्ष
तथा ग्रहण में उत्पन्न अशुभ फलों का नाश होता है।।९२-९६।।
मुक्ते ग्रहणे सप्ताहान्तर्दिनसप्तकमध्ये यदि पांशुनिपातो भवति पांशुवर्षणं दृश्यते
तदान्नसंक्षयं दुर्भिक्षं कुरुते। एवं नीहारो रोगभयं करोति। भूकम्पः प्रवरस्य प्रधानस्य
नृपस्य राज्ञो मृत्युं मरणं करोति।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
राहुचाराध्यायः १४१
उल्का पतिता मन्त्रिणः सचिवस्य विनाशं करोति। नानावर्णा विविधकान्तयो घना
मेघा अतुलमतिभयं कुर्वन्ति। स्तनितं मेघशब्दस्तच्च गर्भविनाशं करोति। गर्भा गर्भलक्षणोक्ता
अत्र ज्ञेयाः। विद्युत्तडित्। नृपो राजा। दंष्ट्रिणः सर्पादयः। तेभ्यः परिपीडां करोति।
परिवेषो रुक्पीडां रोगव्यथां करोति। दिग्दाहो दिशां दाहो नृपभयमग्निभयेन सहितं
करोति। रूक्षः परुषः प्रबलश्चण्डो वायुश्चौरसमुत्थं तस्करोत्पन्नं भयं धत्ते ददाति।
निर्घातः शब्दस्तस्य च लक्षणं वक्ष्यति—'पवनः पवनाभिहतः' इति। सुरचापमिन्द्र-
धनुः। दण्डश्च रविकिरणजलदमरुतां संघातः। एतेषामन्यतमं क्षुद्भयं दुर्भिक्षभयं सपरचक्रं
परचक्रभयसहितं करोति। ग्रहयोर्युद्धे नृपाणां राज्ञां युद्धं भवति। केतुः शिखी च सन्दृष्ट-
स्तदेव नृपयुद्धं करोति।
सप्ताहान्तर्दिनसप्तमध्येऽविकृतस्याविकारस्य सलिलस्य पानीयस्य निपातैः सुभिक्ष-
मादेश्यं वक्तव्यम्। यच्च ग्रहणजं फलमशुभं तत्सर्वं नाशमुपयाति नश्यतीत्यर्थः। तथा
च समाससंहितायाम्—
परुषपवनाभ्रगर्जितविद्युत्परिवेषभूकम्पाद्याः।
सप्ताहान्तर्न शुभा ग्रहणनिवृत्तौ शुभा वृष्टिः।।
तथा च वृद्धगर्गः—
अथेन्दुग्रहनिर्मुक्ते सप्ताहान्तर्भवेद्यदि।
पांशुवर्षोऽन्ननाशः स्यान्नीहारो रोगवृद्धये।।
नृपनाशाय भूकम्प उल्का मन्त्रिविपत्तये।
रोगाय परिवेषः स्याद्भयायैवाभ्रसम्प्लवः।।
विद्युद्गर्भविनाशाय दिग्दाहोऽग्निविवृद्धये।
निर्घातेन्द्रधनुर्दण्डा दुर्भिक्षाय भयाय च।।
पवनः प्रबलो रूक्षश्चौरोपद्रवसूचकः।
सर्वोपद्रवनाशः स्यात् सम्यग्वृष्टिर्भवेद्यदि।।
यद्राहुचरितं प्रोक्तं चन्द्रग्रहणहेतुकम्।
तदेव सकलं सूर्ये वेदितव्यं शुभाशुभम्।। इति।।९२-९६।।
चन्द्रग्रहणानन्तरं यद्यर्कग्रहणं दृश्यते तदा फलमाह—
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य।
तत्रानयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥९७॥
यदि चन्द्र-ग्रहण के पन्द्रह दिन पश्चात् सूर्य-ग्रहण हो तो प्रजाओं में अनीति और
स्त्री-पुरुषों में द्वेष उत्पन्न होता है।।९७।।
सोमग्रहे चन्द्रग्रहणे निवृत्तेऽतीते पक्षान्ते दिनपञ्चदशकातपरतो यदि ग्रहो ग्रहणमर्कस्या-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४२ बृहत्संहिता
ऽऽदित्यस्य भवति तत्र तस्मिन् प्रजानां लोकानामनयो दुर्नयो भवति। दम्पत्योर्जायापत्यो-
रन्योन्यं परस्परं वैरं द्वेषो भवति।।९७।।
अथार्कग्रहाच्छशिग्रहणं दृष्टं फलमाह—
अर्कग्रहात्तु शशिनो ग्रहणं यदि दृश्यते ततो विप्राः।
नैकक्रतुफलभाजो भवन्ति मुदिताः प्रजाश्चैव ।।९८।।
इति श्रीवराहमिहिरकृतौ बृहत्संहितायां
राहुचाराध्यायः पञ्चमः ।।५।।
यदि सूर्य-ग्रहण के पन्द्रह दिन पश्चात् चन्द्र-ग्रहण हो तो ब्राह्मणगण अनेक यज्ञफल
को भोगने वाले और प्रजागण हर्षित होते हैं।।९८।।
इति 'विमला'हिन्दीटीकायां राहुचाराध्यायः पञ्चमः ।।५।।
अर्कग्रहादादित्यग्रहणादनन्तरं पक्षान्ते यदि शशिनश्चन्द्रमसो ग्रहणं दृश्यते अवलोक्यते।
ततो विप्रा ब्राह्मणा नैकक्रतुफलभाजो नैकानां बहूनां क्रतूनां यज्ञानां फलभागिनो भवन्ति।
तथा सर्वाः प्रजा मुदिता हृष्टा भवन्तीति।।९८।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
राहुचारो नाम पञ्चमोऽध्यायः ।।५।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ भौमचाराध्यायः
अथ भौमचाराध्यायो व्याख्यायते। तत्र भौमस्य पञ्चमुखानि भवन्ति। तद्यथा—
उष्णामश्रुमुखं व्यालं रुधिराननमेव च।
निस्त्रिंशमुशलं चेति पञ्च वक्त्राणि भूसुते।।
एतेषां लक्षणानि सफलानि वक्ष्यति। तत्रादावेवोष्णमुखस्य लक्षणं सफलमाह—
यद्युदयर्क्षाद्वक्रं करोति नवमाष्टसप्तमर्क्षेषु।
तद्वक्त्रमुष्णमुदये पीडाकरमग्निवार्त्तानाम् ॥१॥
मङ्गल के पाँच मुख ( उष्णामश्रुमुखं व्यालं रुधिराननमेव च। निस्त्रिंशं मुशलं चेति
पञ्चवक्त्राणि भूसुते।। ) होते हैं। उनमें पहले उष्णमुख नामक मंगल का लक्षण और
फल कहते हैं। जिस नक्षत्र में मङ्गल का उदय हो, उससे सप्तम, अष्टम या नवम नक्षत्र में
जाकर यदि वक्री हो तो वह वक्री मंगल 'उष्णमुख' कहलाता है। इस उष्णमुख वाले
मङ्गल के उदयकाल में अग्नि से आजीविका चलाने वाले ( सोनार, लोहार आदि ) को
पीड़ा होती है।।१।।
यस्मिन्नक्षत्रे स्थितोऽङ्गारक आदित्यमण्डलादुदयं करोति तदुदयर्क्षादुदयनक्षत्राद् नव-
माष्टसप्तमर्क्षेषु नवमे नक्षत्रे अष्टमे वा सप्तमे वा यदि वक्रं प्रतीपगमनं करोति तदा तद्व-
क्त्रमुष्णं नाम! तच्च भौमस्योदये रविमण्डलात् पुनरपि निर्गमेऽग्निवार्त्तानामग्निवृत्तीनां सुवर्ण-
कारलोहकारादीनां पीडाकरमुपतापकरम्। वक्रादनन्तरं यदार्कमण्डलेऽस्तमेष्यति तदैतत्फल-
मेषां सर्वेषां ज्ञेयम्। यत्र यद्यप्यसम्भवस्तत्रापि पूर्वशास्त्रानुसारेणाऽऽचार्येणोक्तम्। तथा
च वृद्धगर्गः—
उदयात् नवमे कुर्यादष्टमे सप्तमेऽपि वा।
निवृत्तिं लोहिताङ्गस्तु तदुष्णं वक्त्रमुच्यते।।
नरोऽग्निजीविनो ये च पचन्ति च दहन्ति च।
तेषामुत्पद्यते तापो जायते धनसंक्षयः।।
तथा च पराशरः—'तस्य पञ्चवक्त्राणि क्रमेणोपद्दिशन्ति। उष्णामश्रुमुखं व्यालं लोहि-
ताख्यं निस्त्रिंशमुशलं चेति। तत्रोदयर्क्षात् सप्तमाष्टनवमेषु नक्षत्रेषु निवृत्तः प्रजासंक्षयं विशेषतः
पचतां दहतां च पीडां धत्ते' ।।१।।
अथाश्रुमुखस्याह—
द्वादशदशमैकादशनक्षत्राद्वक्रिते कुजेऽश्रुमुखम्।
दूषयति रसानुदये करोति रोगानवृष्टिं च ॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
१४४ वृहत्संहिता
औदयिक नक्षत्र से दशम, एकादश या द्वादश नक्षत्र में यदि मङ्गल वक्री हो तो वह
अश्रुमुख कहलाता है। यह वक्र रसों में दोष उत्पन्न करता है तथा रोग की वृद्धि और
अनावृष्टि करता है॥१२॥
उदयनक्षत्राद् द्वादशे नक्षत्रे दशमे वैकादशे वा कुजेऽङ्गारके वक्रिते प्रतीपगतौ
अश्रुमुखं नाम वक्रम्। तच्चोदये पुनरर्कमण्डलान्निर्गमे रसान् मधुराराम्ललवणतिक्तकटुकषायान्
दूषयति सदोषान् करोति। ते च दुष्टा नराणां भक्षणमात्रात् पीडामुत्पादयन्ति। एवं रोगान्
करोति। तथा अवृष्टिमवर्षणं च करोति। तथा च गर्गः—
दशमैकादशे वापि द्वादशे वापि वक्रिते।
लोहिताङ्गे ग्रहे ज्ञेयं वक्रमश्रुमुखं च तत्॥
तत्र वर्षति पर्जन्यो दूषयित्वा शुभान् रसान्।
ते दुष्टा दूषयन्त्याशु नृणां धातून् तथा भृशम्॥
बहवो व्याधयः क्रूरा उत्पद्यन्ते शरीरिणाम्।
बहुभिः कारणैरेतैस्ततो लोकः प्रलीयते॥
तथा च पराशरः—‘दशमैकादशद्वादशेषु प्रदुष्टवातैरद्रव्यरसान् प्रजानां धातून् कोपयन्
व्याधीन् प्रवर्तयति’॥१२॥
अथ व्यालस्याह—
व्यालं त्रयोदशर्क्षाच्चतुर्दशाद्वा विपच्यतेऽस्तमये।
दंष्ट्रिव्यालम्गेभ्यः करोति पीडां सुभिक्षं च॥१३॥
जिस नक्षत्र में मङ्गल अस्त हो, उससे तेरहवें या चौदहवें नक्षत्र में जाकर वक्री हो तो
वह वक्र व्यालमुख कहलाता है। इसमें दंष्ट्री (सूकर, कुत्ता आदि), सर्प और मृग से
लोगों को पीड़ा होती है तथा संसार में सुभिक्ष होता है॥१३॥
उदयापेक्षया त्रयोदशर्क्षात् त्रयोदशनक्षत्राच्चतुर्दशाद्वा कुजे वक्रिते व्यालं नाम
वक्रम्। तच्चास्तमये विपच्यते। यस्मिन् काले भौमोऽर्कमण्डले पुरस्तादस्तमेति तत्र परि-
पाकमायाति। दंष्ट्रिणः सूकरकुक्कुरादयः। व्यालाः सर्पाः। मृगा आरण्यजातयः। तेभ्यः
सकाशात् पीडां लोकानां करोति सुभिक्षं च करोति। तथा च गर्गः—
त्रयोदशे च नक्षत्रे यदि वापि चतुर्दशे।
निवृत्तिं कुरुते भौमस्तद्वक्रं व्यालमुच्यते॥
भवन्ति प्रचुरा व्यालास्तेभ्यो लोकभयं वदेत्।
नृपाणामशुभं विन्द्यात् सस्यसम्पत्तिमादिशेत्॥
तथा च पराशरः—‘त्रयोदशचतुर्दशयोः सस्यदंष्ट्रिव्यालप्राबल्यं हिरण्यसञ्चयं च’
इति॥१३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA