सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 181, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 181

राहुचाराध्यायः १४१
उल्का पतिता मन्त्रिणः सचिवस्य विनाशं करोति। नानावर्णा विविधकान्तयो घना
मेघा अतुलमतिभयं कुर्वन्ति। स्तनितं मेघशब्दस्तच्च गर्भविनाशं करोति। गर्भा गर्भलक्षणोक्ता
अत्र ज्ञेयाः। विद्युत्तडित्। नृपो राजा। दंष्ट्रिणः सर्पादयः। तेभ्यः परिपीडां करोति।
परिवेषो रुक्पीडां रोगव्यथां करोति। दिग्दाहो दिशां दाहो नृपभयमग्निभयेन सहितं
करोति। रूक्षः परुषः प्रबलश्चण्डो वायुश्चौरसमुत्थं तस्करोत्पन्नं भयं धत्ते ददाति।
निर्घातः शब्दस्तस्य च लक्षणं वक्ष्यति—'पवनः पवनाभिहतः' इति। सुरचापमिन्द्र-
धनुः। दण्डश्च रविकिरणजलदमरुतां संघातः। एतेषामन्यतमं क्षुद्भयं दुर्भिक्षभयं सपरचक्रं
परचक्रभयसहितं करोति। ग्रहयोर्युद्धे नृपाणां राज्ञां युद्धं भवति। केतुः शिखी च सन्दृष्ट-
स्तदेव नृपयुद्धं करोति।
सप्ताहान्तर्दिनसप्तमध्येऽविकृतस्याविकारस्य सलिलस्य पानीयस्य निपातैः सुभिक्ष-
मादेश्यं वक्तव्यम्। यच्च ग्रहणजं फलमशुभं तत्सर्वं नाशमुपयाति नश्यतीत्यर्थः। तथा
च समाससंहितायाम्—
परुषपवनाभ्रगर्जितविद्युत्परिवेषभूकम्पाद्याः।
सप्ताहान्तर्न शुभा ग्रहणनिवृत्तौ शुभा वृष्टिः।।
तथा च वृद्धगर्गः—
अथेन्दुग्रहनिर्मुक्ते सप्ताहान्तर्भवेद्यदि।
पांशुवर्षोऽन्ननाशः स्यान्नीहारो रोगवृद्धये।।
नृपनाशाय भूकम्प उल्का मन्त्रिविपत्तये।
रोगाय परिवेषः स्याद्भयायैवाभ्रसम्प्लवः।।
विद्युद्गर्भविनाशाय दिग्दाहोऽग्निविवृद्धये।
निर्घातेन्द्रधनुर्दण्डा दुर्भिक्षाय भयाय च।।
पवनः प्रबलो रूक्षश्चौरोपद्रवसूचकः।
सर्वोपद्रवनाशः स्यात् सम्यग्वृष्टिर्भवेद्यदि।।
यद्राहुचरितं प्रोक्तं चन्द्रग्रहणहेतुकम्।
तदेव सकलं सूर्ये वेदितव्यं शुभाशुभम्।। इति।।९२-९६।।
चन्द्रग्रहणानन्तरं यद्यर्कग्रहणं दृश्यते तदा फलमाह—
सोमग्रहे निवृत्ते पक्षान्ते यदि भवेद् ग्रहोऽर्कस्य।
तत्रानयः प्रजानां दम्पत्योर्वैरमन्योन्यम् ॥९७॥
यदि चन्द्र-ग्रहण के पन्द्रह दिन पश्चात् सूर्य-ग्रहण हो तो प्रजाओं में अनीति और
स्त्री-पुरुषों में द्वेष उत्पन्न होता है।।९७।।
सोमग्रहे चन्द्रग्रहणे निवृत्तेऽतीते पक्षान्ते दिनपञ्चदशकातपरतो यदि ग्रहो ग्रहणमर्कस्या-
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA