बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 174, कुल 728 में से
संदर्भ में पढ़ें१३४ बृहत्संहिता
सस्यानि प्रसिद्धानि। वृष्टिर्वर्षणं च। महागणा महासमूहाश्च। एते सर्वे प्रध्वंसं नाशमायान्ति
नाशं प्राप्नुवन्ति। तथा च ये नराः सौम्या दर्शनीया उत्तरदिग्वासिन इति। एते साल्वैः
समेताः सहिताश्च निषादानां प्राणिघातकानां संघाः समूहा प्रध्वंसमायान्ति ।।७६ ।।
अथाऽऽषाढ आह—
आषाढपर्वण्युदपानवप्रनदीप्रवाहान् फलमूलवार्त्तान्।
गान्धारकाश्मीरपुलिन्दचीनान् हतान् वदेन्मण्डलवर्षमस्मिन् ।।७७।।
यदि आषाढ मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो उदपान
(वापी, कूप, तालाब) के वप्र (तट) में रहने वाले मनुष्य, नदी का प्रवाह, फल-मूल
खाकर समय-यापन करने वाले, गान्धार, काश्मीर, पुलिन्द, चीन—इन सबों का नाश
करता है तथा संसार में मण्डलवृष्टि (कहीं-कहीं वर्षा) होती है।।७७।।
आषाढपर्वण्याषाढे मासे ग्रहणे उदपानं जलाधारो वापीकूपतडागादिस्तस्य चोदपानस्य
वप्रस्तटः। नदीप्रवाहः पुलिनविस्तरम्। फलमूलवार्त्ताः फलानि मूलानि वार्त्ता वर्तनं वृत्तिर्येषां
ते। तथा गान्धारा जनाः। काश्मीराः। पुलिन्दाः। चीनाः। एतान् सर्वान् हतान् नष्टानिति
वदेत्। सर्व एव नश्यन्तीत्यर्थः। अस्मिन् पर्वणि मण्डलवर्षं भवति। क्वचित् क्वचि-
द्वर्षतीत्यर्थः ।। ७७ ।।
अथ श्रावण आह—
काश्मीरान् सपुलिन्दचीनयवनान् हन्यात् कुरुक्षेत्रजान्
गान्धारानपि मध्यदेशसहितान् दृष्टो ग्रहः श्रावणे।
काम्बोजैकशफांश्च शारदमपि त्यक्त्वा यथोक्तान्निमा-
नन्यत्र प्रचुरान्नहृष्टमनुजैर्धात्रीं करोत्यावृताम् ।।७८ ।।
यदि श्रावण मास की अमा में सूर्य-ग्रहण और पूर्णिमा में चन्द्र-ग्रहण हो तो काश्मीर,
पुलिन्द, चीन, यवन, कुरुक्षेत्र, गान्धार, मध्य देश, कम्बोज—इन देशों में रहने वाले,
एकशफ (घोड़ा, गदहा), शरद ऋतु में उत्पन्न होने वाले अन्न—इन सबों का नाश करता
है; किन्तु उक्त देशों से अन्यत्र के मनुष्यगण अत्यधिक अन्न की उत्पत्ति से सुखी होकर
सम्पूर्ण संसार को व्याप्त कर लेते हैं।।७८ ।।
श्रावणे मासि ग्रहो ग्रहणं दृष्टः काश्मीरान् जनान् सपुलिन्दचीनयवनान् पुलिन्दचीनजा
जना यवनास्तैः सहितान्। तथा कुरुक्षेत्रजान् जनान्। गान्धारानपि। मध्यदेशसहितानेतान्
सर्वान् हन्यात् नाशयेत्। तथा काम्बोजान् जनान्। एकशफांश्च अश्वगर्दभान्। चशब्दः
समुच्चये। न केवलं यावत् शारदमपि शारदधान्यादिकान् एतानपि हन्ति। इमान् यथोक्तान्
काश्मीरादीन् त्यक्त्वा विहायान्यत्र देशेषु प्रचुरेण प्रभूतेनान्नेन ये हृष्टाः प्रहर्षिता मनुजा
नरास्तैर्धात्रीं भूमिमावृतां व्याप्तां करोति।।७८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA