बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
६६ बृहत्संहिता
भूपते राज्ञः। सबलस्य बलसहितस्य। स्वयशोऽभिविवृद्धये आत्मीयकीर्तिवृद्ध्यर्थम्।
आप्तः शास्त्रज्ञाततत्त्वार्थः। दैवविद्दैवज्ञो यथा हितमिच्छति श्रेय आकाङ्क्षते। तथा न पिता
जनक इच्छति न जननी माता न स्वजनो बन्धुजनो न सुहृन्मित्रं तथा हितमिच्छतीति।।४०।।
आवन्तरचित्ते सांवत्सरसूत्रमहोदधौ।
अर्थिनामुत्पलश्चक्रे स्वाप्तये विवृत्तिप्लवम्।। इति।।४०।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृतौ
सांवत्सरसूत्रनामाध्यायो द्वितीयः ॥२॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथादित्यचाराध्यायः
अथादित्यचारो व्याख्यायते। तत्र तावत्परमतेनायनयोर्लक्षणमाह—
आश्लेषार्द्धाद्दक्षिणमुत्तरमयनं रवेर्धनिष्ठाद्यम्।
नूनं कदाचिदासीद्येनोक्तं पूर्वशास्त्रेषु ॥१॥
यह निश्चित है कि किसी समय आश्लेषा के आधे भाग से रवि का दक्षिणायन और
धनिष्ठा के आदि भाग से उत्तरायण की प्रवृत्ति थी; नहीं तो पूर्वशास्त्र में इसकी चर्चा नहीं
होती॥१॥
यदुक्तं पराशरतन्त्रे—‘श्रविष्ठाद्यात् पौष्णान्तं चरतः शिशिरः। वसन्तः पौष्णान्ता-
द्रोहिण्यन्तम्। सौम्याद्यात् सार्पाद्धं ग्रीष्मः। प्रावृट् सार्पार्द्धाद्धस्तान्तम्। चित्राद्यादिन्द्रार्द्धं
शरद्धेमन्तो ज्येष्ठाद्धैद्वैष्णवान्तमि’ति।
तत्र रवेरादित्यस्याश्लेषार्द्धात् सार्पन्त्यपादद्वयाद्दक्षिणमयनं तथा धनिष्ठाद्यं वासव-
प्रारम्भमुत्तरमयनं नूनं निश्चितं कदाचिदुत्पातवशादासीद्भूत्। येन पूर्वशास्त्रेषु पाराशरादिषूक्तं
कथितम्। नूनमनुमाने वा॥१॥
अधुना स्वमतमाह—
साम्प्रतमयनं सवितुः कर्कटकाद्यं मृगादितश्चान्यत् ।
उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ॥२॥
इस समय कर्कादि से सूर्य के दक्षिणायन की और मकरादि से उत्तरायण की प्रवृत्ति
होती है। इस तरह कथित अर्थ के अभाव का नाम 'विकार' है। ये सब प्रत्यक्ष देखने से
स्पष्ट होते हैं॥२॥
साम्प्रतमिदानीं युक्तं वा। सवितुरादित्यस्य। कर्कटकाद्यं कुलीरप्रथममेकमयनं मृगादितो
मकरादितश्चान्यद् द्वितीयमुत्तरमयनम्। एवं कथितस्यार्थस्य यद्यभावोऽन्यथात्वं स्यात्तद्वि-
कृतिर्विकारः। तत्र च प्रत्यक्षपरीक्षणैर्द्दृश्यमानैर्व्यक्तिः स्पष्टता भवति। विकृतेरुपलम्भन-
मित्यर्थः॥२॥
तत्र च परीक्षणमाह—
दूरस्थचिह्नवेधादुदयेऽस्तमयेऽपि वा सहस्त्रांशोः ।
छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति ॥३॥
सूर्य के उदय-अस्तकाल में दूरस्थ चिह्न के वेध से अयन-गति की परीक्षा करनी
चाहिये अर्थात् दूर स्थित वृक्ष आदि के सामने सूर्य के उदय-अस्त देखकर परीक्षा करनी
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
६८ वृहत्संहिता
चाहिये। फिर दूसरे दिन वहाँ ही स्थित होकर परीक्षा करे कि सूर्य वृक्ष से दक्षिण या उत्तर
तरफ जा रहा है। जिस तरफ सूर्य खिसकता हो उसी अयन में सूर्य को कहना चाहिये
अथवा महामण्डल में छायाप्रवेश और निर्गमचिह्न से अयन जानना चाहिये।
उदाहरण—जल से समान की हुई भूमि पर इष्ट त्रिज्या व्यासार्ध से एक वृत्त बनाकर
उसमें दिग्ज्ञान करके पूर्वापंरा रेखा अंकित करे और वृत्तमध्य में शङ्कु-स्थापन करे। जिस
दिन मेषादि में रवि स्थित होता है, उस दिन उदय-अस्तकाल में शङ्कु की छाया ठीक
पूर्वापर रेखा पर पड़ेगी। बाद में मिथुनान्त कालपर्यन्त शङ्कु की छाया धीरे-धीरे पूर्वापर
रेखा से दक्षिण तरफ पड़ेगी। कर्कादि से कन्यान्त कालपर्यन्त धीरे-धीरे शङ्कु की छाया
उत्तर तरफ जायगी। फिर तुलादि स्थित रवि में शङ्कु की छाया ठीक मेषादि में स्थित रवि
की तरह पूर्वापर रेखा पर पड़ेगी। बाद में धन्वन्त बिन्दुपर्यन्त धीरे-धीरे पूर्वापर रेखा से
शङ्कु की छाया उत्तर तरफ पड़ेगी। फिर वहाँ से लौटकर मकरादि से मीनान्त तक शङ्कु
की छाया धीरे-धीरे दक्षिण तरफ पड़ेगी। जिस समय दो दिन की वृत्तपरिधिस्थ छायाग्रबिन्दु
एक जगह पड़े, उस दिन अयन की निवृत्ति समझनी चाहिये।।३।।
दूरे तिष्ठतीति दूरस्थम्। दूरस्थं तच्चिह्नं दूरस्थचिह्नं तेन वेधो दूरस्थचिह्नवेधस्तस्माद्
दूरस्थचिह्नवेधात् सहस्रांशोरादित्यस्योदये उदयकालेऽप्ययनचलनमन्वेष्यं यतो मकरादावा-
दित्यः प्रतिदिनमुत्तरां दिशं याति तथा कर्कटादिस्थितः प्रतिदिनं दक्षिणां दिशं यानि तेन
दूरस्थितं वृक्षादिकमुदयेऽस्तमयेऽथवा सवितुश्चिह्नं कृत्वा द्वितीयेऽपि दिने तत्रैव स्थित्वा
पुनरपि विचारः कार्यः किमयनचलननिवृत्तिर्जाता न वेति। एवं दिनसप्तकं यावद्गणितागत-
संक्रान्तिकालाद्यावत्कन्यान्तम्। तुलादौ पुनः प्राच्यपररेखायां पतति ततो बलात् प्राक् पश्चा-
च्चान्वेष्य किं स्फुटगणितागतसङ्क्रान्तिकालतुल्या जाता किमादौ किं पश्चाद्वेति। तथा
महत्यतिबृहन्मण्डले उदयास्तमयसमीप इत्यर्थः। छायाप्रवेशनिर्गमनेन वा यानि चिह्नानि
उपलक्षणानि तैरपि। वाशब्दः प्रकाराय। एतदुक्तं भवति—समायावमनौ वृत्तमुत्पाद्य दिग्ङ्कितं
कृत्वा शङ्कं तन्मध्ये विन्यसेत्। तत्र विषुवदिने सूर्योदयास्तमयोः प्राच्यपररेखायां तस्य
शङ्कोश्छाया पतति ततो यथायथाऽर्को मिथुनान्तं यावद्याति तथातथाऽर्कोदयकाले छाया
दक्षिणेन याति प्राच्यपररेखायाः। अस्तमयेऽप्येवम्। ततः कर्कटादौ स्थितेऽर्के प्रतिदिनं छायो-
त्तेरेण याति यावत्कन्यान्तम्। तुलादौ पुनः प्राच्यपररेखायां पतति ततो धनुरन्तं यावत् प्रति-
दिनमुत्तरेण याति ततो मकरादौ पुनः प्रतिदिनं दक्षिणेन याति यावन्मीनान्तम्। एवं मत्वा
ततोऽयननिवृत्तावासन्नायां तस्मिन् मण्डले यस्मिन् प्रदेशे पूर्वाह्ने छाया प्रविशति तत्र चिह्नं
कार्यम्। यत्र चापराह्ने निर्गच्छति चिह्नं कार्यम्। पुनरपि द्वितीयदिने तथास्थितस्य शङ्को-
श्छायाप्रवेशनिर्गमचिह्ने कार्ये। एवमन्वेष्यं प्रतिदिनं दिनसप्तकं यावत्। प्रथमदिनचिह्न-
कृतद्वितीयदिनचिह्नयोर्यदि साम्यमुत्पन्नं तदा तस्मिन् दिनेऽयननिवृत्तिरेवं तस्यां ज्ञातायां
विचारयेत् किमयननिवृत्तिः करणागतसङ्क्रान्तिकालतुल्या किमादौ किं पश्चाद्वेति। एवं
प्राकृतायां वैकृतायां वायननिवृत्तावन्वेषणं कार्यमिति।।३।।
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ६९
इदानीं वैकृते फलमाह—
अप्राप्य मकरमर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
कर्कटकमसम्प्राप्तो विनिवृत्तश्चोत्तरां सैन्द्रीम् ॥४॥
यदि मकर में नहीं प्रविष्ट होकर सूर्य दक्षिण तरफ लौट जाय तो पश्चिम और दक्षिण
दिशा में स्थित जनों का नाश करता है। यदि कर्क में प्रविष्ट नहीं होकर सूर्य उत्तर तरफ
लौट जाय तो पूर्व और उत्तर दिशा में स्थित जनों का नाश करता है॥४॥
अर्क आदित्यो मकरमप्राप्य मकरमगत्वा यदि विनिवृत्तो व्यावृत्तस्तदा सापरां याम्या-
मपरया पश्चिमया सह दक्षिणां दिशं हन्ति। तत्स्थान् जनान्नाशयतीत्यर्थः। तथा कर्कटकं
कुलीरमसम्प्राप्तोऽगतो यदि निवृत्तो भवति तदोत्तरामुदीचीं दिशं सैन्द्रीं सपूर्वां हन्ति। तत्स्थान्
जनान्नाशयतीत्यर्थः। तथा च गर्गः—
यदा निवर्ततेऽप्राप्तो धनिष्ठामुत्तरायणे।
आश्लेषां दक्षिणेऽप्राप्तस्तदा विन्द्यान्महद्भयम्॥ इति।
तथा च पराशरः—‘यद्यप्राप्तो वैष्णवमुद्गमार्गं प्रपद्यते। दक्षिणमाश्लेषां वा महा-
भयाय।’ इति॥४॥
अथाधिकतायां शुभमाह—
उत्तरमयनमतीत्य व्यावृतः क्षेमसस्यवृद्धिकरः ।
प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ॥५॥
यदि सूर्य उत्तर अयन को अतिक्रमण करके (मकर में प्रविष्ट होकर) उत्तर तरफ
लौटे तो लोगों का कल्याण और धान्य की वृद्धि करता है। यहाँ पर उत्तरायण का ग्रहण
उपलक्षण है; किन्तु दक्षिणायन में भी इसी तरह का फल कहना चाहिये अर्थात् कर्क में
प्रविष्ट होकर सूर्य दक्षिण तरफ लौटे तो भी लोगों का कल्याण और सत्य की वृद्धि करता
है। प्रकृतिस्थित (गणितागत अयननिवृत्ति और पूर्वकथित वेधीय अयननिवृत्ति एक काल
में) होने पर ही पूर्वकथित फल ठीक घटता है तथा विकारयुक्त गति होने पर सूर्य लोगों
में भय उत्पन्न करता है॥५॥
उष्णांशुरादित्य उत्तरमयनमतीत्यातिक्रम्य मकरं प्राप्य पश्चाद्यदि व्यावृतो निवर्तितस्तदा
क्षेमसस्यवृद्धिकरो भवति। लब्धपालनं क्षेमं करोति, लोके सस्यानां च वृद्धिकरो भवति।
तस्य च दिनाधिक्यादुत्तरायणग्रहणमुपलक्षणार्थम्। दक्षिणमयनमप्येवं ज्ञेयम्। तथा प्रकृतिस्थः
स्वभावस्थश्चाप्येवं क्षेमसस्यवृद्धिकृद्भवति। एतदुक्तं भवति—स्फुटगणितेन यस्मिन् दिने-
ऽयननिवृत्तिर्ज्ञाता तस्मिन्नेव दिने यदि छायाप्रवेशनिर्गमचिह्नैर्महति मण्डले दृष्ट्या दृश्यते
तदा प्रकृतिस्थः। तथा च भगवान् वृद्धगर्गः—
अयने सुप्रभः स्निग्धः सेवते यदि भास्करः।
सुवृष्टिं च सुभिक्षं च योगक्षेमं च निर्दिशेत्॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७० बृहत्संहिता
अनिवृत्ते समे वापि निवृत्तः शस्यते रविः।
हीने भयावहो लोके दुर्भिक्षमकरप्रदः॥
विकृतगतिर्भयकृदिति। विकृता सविकारा गतिर्यस्यासौ विकृतगतिः। तथाभूतो
भयकृल्लोके भयं भीतिं करोति। अयननिवृत्तौ दृष्टायां पुनर्यदि प्रतीपगतित्वमर्कस्य दृश्यते
तदा विकृतगतिर्ज्ञातव्या।
पराशरतन्त्रेऽर्कस्य पञ्चधा गतिरुक्ता। तथा च—
पञ्चविधां गतिमुदयास्तमयोरन्तरे भजत्यूर्ध्वाम्।
तिर्यङ्मण्डलमधो नक्षत्रानुयायिनीमपि च॥
तिर्यग्गच्छति काष्ठायामूर्ध्वं गच्छति चोदये।
प्रातराशामनुक्रम्य मध्यं गच्छति भास्करः॥
मध्याह्ने तापयंल्लोकान्मण्डलं कुरुते गतिम्।
भ्रष्टस्त्वपि च मध्याह्नादधो गच्छति भास्करः॥
अस्तं गच्छन्नपि रविनक्षत्रमनुगच्छति।
एषापि यदि सविकारा दृश्यते तथापि भयकृत्॥ इति॥५॥
त्वष्टा नाम ग्रहस्तेनाच्छादनादर्कस्य यदशुभफलं तदाह—
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते।
स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः॥६॥
पर्व से भिन्न काल में त्वष्टा नाम का ग्रह सूर्यमण्डल को अन्धकारयुक्त करता हो तो
सात (१५वें अध्याय में नक्षत्र-कूर्म के विभाग से नव देशों के नव राजाओं में से सात)
राजाओं का नाश करता है और शस्त्र, अग्नि, दुर्भिक्ष—इनसे लोगों का नाश करता है॥६॥
त्वष्टा नाम ग्रहोऽर्कमण्डलं सूर्यबिम्बं पर्व विनाऽपर्वण्येव सतमस्कं तमसान्धकारेण
संयुक्तं कुरुते स तु दृष्टः सप्त भूपान्नक्षत्रकूर्मोक्तानां नवानां नृपाणां मध्यात् सप्तसङ्ख्यान्
भूपान् नृपान् निहन्ति घातयति। तथा शस्त्राग्निदुर्भिक्षैः शस्त्रेण सङ्ग्रामेणाग्निना हुतवहेन
दुर्भिक्षेण च जनांल्लोकान् निहन्ति। तथा च भगवान् पराशरः—
अपर्वणि शशाङ्कार्कौ त्वष्टा नाम महाग्रहः।
आवृणोति तमः श्यामः सर्वलोकविपत्तये॥ इति॥६॥
अथ तामसकीलकानामर्कमण्डलगतानां फलमाह—
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत्।
वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात्॥७॥
राहु के पुत्र तैंतीस संख्यक केतु हैं। ये तामस, कीलक आदि नाम से प्रसिद्ध हैं।
इनको सूर्य (ग्रहणकालिक सूर्य) में देखकर वर्ण, स्थान और आकृति से फल कहना
चाहिये॥७॥
आदित्यचाराध्यायः ७१
राहुसुताः स्वर्भानुपुत्रास्त्रयस्त्रिंशत्केतवस्तामसकीलकसञ्ज्ञास्तामसकीलक इति तेषां
नाम। तान् तामसकीलकानर्केऽर्कमण्डले वर्णस्थानाकारैः, वर्णाः श्वेतादयः, स्थानं प्रवेशो
बिम्बैकभागः, आकार आकृतिर्ध्वाङ्क्षादिसदृशी, एतैर्वर्णस्थानाकारैर्दृष्ट्वा अवलोक्य लोके
जनपदे शुभाऽशुभफलं ब्रूयाद् वदेत्॥७॥
अथ तेषां शुभाऽशुभलक्षणमाह—
ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ।
ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि ॥८॥
ये तामस-कीलकसंज्ञक राहुपुत्र सूर्यमण्डल में अशुभ और चन्द्रमण्डल में प्रविष्ट
होने पर शुभ फल देते हैं। पर ध्वांक्ष (काक), कबन्ध (छिन्नमस्तक पुरुष) या प्रहरण
(खड्गादि) के समान उनकी आकृति दिखाई दे तो चन्द्रमण्डल में प्रविष्ट होने पर भी वे
पाप फल देते हैं॥८॥
ते तामसकीलकाश्चार्कमण्डले सूर्यबिम्बे गताः प्राप्ताः पापफला दुष्टफलप्रदा भवन्ति।
चन्द्रमण्डले शशिबिम्बे गताः सौम्याः शुभफलप्रदा भवन्ति। ध्वाङ्क्षः काकः। कबन्ध-
श्छिन्नशिराः पुरुषः। प्रहरणं खड्गादि। ध्वाङ्क्षकबन्धप्रहरणरूपास्तदाकृतयः। शशाङ्केऽपि
चन्द्रमण्डलेऽपि दृष्टाः पापाः पापफला भवन्ति। अनिष्टदानेतान् वर्जयित्वा अन्यरूपाश्चन्द्र-
मण्डले शुभदाः। अपिशब्दः सम्भावनायाम्। चन्द्रमण्डले येऽशुभास्ते सूर्यमण्डलेऽतीवा-
ऽशुभदा इति॥८॥
अथ तेषामुदयनिमित्तान्याह—
तेषामुदये रूपाण्यम्भः कलुषं रजोवृतं व्योम ।
नगतरुशिखरामर्दी सशर्करो मारुतश्चण्डः ॥९॥
ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः।
निर्घातमहीकम्पादयो भवन्त्यत्र चोत्पाताः॥१०॥
इन तामस-कीलक आदि के उदय होने से पहले विकारयुक्त जल, धूलि से व्याप्त
आकाशमण्डल, पर्वत, वृक्ष, शिखर—इन सबों का नाश करने वाला मिट्टी के कणों से
युक्त भयङ्कर वायु, ऋतु के विपरीत वृक्षों में फल-फूल, सूर्य की गर्मी से पशु-पक्षी आदि
जानवरों में व्याकुलता, दिशाओं में जलन, निर्घात (पवनः पवनाभिहतो गगनादवनौ यदा
समापतति भवति तदा निर्घात इति), भूकम्प—ये उत्पात होते हैं॥९-१०॥
तेषामिति। तेषां तामसकीलकानामुदये दर्शने रूपाण्येतानि लक्षणानि दृश्यन्ते।
तद्यथाऽम्भः पानीयं निमित्तं विना कलुषमप्रसन्नम्। व्योम आकाशं रजोवृतं रजसा व्याप्तम्।
तथा मारुतो वातश्चण्डः परुषो वाति वहति। कीदृशः। नगतरुशिखरामर्दी। नगानां पर्वतानां
तरूणां वृक्षाणां शिखराण्यग्राणि। आसमन्तात् मर्दयति लोडयति। सशर्करः शर्कराभि-
र्मृत्कणिकाभिः सहितः।
७२ बृहत्संहिता
तथा तरवो वृक्षा ऋतुविपरीताः। तेषां ऋतौ स्वकालकुसुमफलानामभावः। अनृतौ
कुसुमफलान्युत्पद्यन्ते। तथा मृगा अरण्यपशवः। पक्षिणः खगाश्च। दीप्ताः सूर्याभिमुख-
दीप्तस्थाः परुषरवाश्च भवन्ति। दिशां दाहा दिग्दाहाश्चासकृद्दृश्यन्ते। अत्रासिंस्तामस-
कीलकोदये निर्घातः। निर्घातलक्षणं वक्ष्यति—
पवनः पवनाभिहता गगनादवनौ यदा समापतति।
भवति तदा निर्घातः.....................................................।। इति।
महीकम्पो भूकम्पः। आदिग्रहणाद्रजोनीहारोल्कापातगन्धर्वनगराणि गृह्यन्ते। एते उत्पाता
भवन्ति॥९-१०॥
अथ तेषामुत्पातानां निष्फलमाह—
न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि।
तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ॥११॥
यदि केतु, तामस, कीलक, राहु—इनका उत्पात होने के बाद सात दिन के अन्दर
दर्शन हो जाय तो पूर्ववर्णित उत्पात का कोई अलग फल नहीं होता। ये उत्पात इन केतु
आदि के उदय के कारण होते हैं अर्थात् पूर्व में इन उत्पातों का दर्शन हो जाने से केतु आदि
का दर्शन निश्चित होता है। यदि किसी समय किसी कारण से उत्पातों का दर्शन होने पर भी
तामस, कीलक आदि का दर्शन न हो तो इन उत्पातों के अनुसार ही फल कहना चाहिये।
तेषामम्भःकलुषादीनामुत्पातानां पृथक् फलानि न भवन्ति। यदि शिखिनः केतोः।
कीलकानां तामसकीलकानाम्। राहोः स्वर्भानोश्च दर्शनानि भवन्ति। अर्कचन्द्रयोरन्यतरस्य
ग्रहणं भवतीत्यर्थः। एतेषां सप्ताहान्तरदर्शने उत्पाता निष्फला ज्ञेयाः। तदुदयकारणमिति।
यतस्तामसकीलकानामुदयकारणमुदयनिमित्तानि सम्भवन्ति। अत एतेषां केत्वादीनां फलमेव
ब्रूयाद् वदेत्। केतुतामसकीलकराहूणामित्यर्थः। एतदुक्तं भवति—अम्भःकलुषादिभिरु-
त्पातैर्दृष्टैर्निश्चितं केत्वादीनामुदयो वक्तव्यः। अथ कदाचित्केत्वादीनां दर्शनं न भवति तदा
अम्भःकलुषादीनामेव फलं वदेत्॥११॥
अथ तामसकीलकानां दर्शनवशात् फलमाह—
यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिम्बस्थाः।
तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम् ॥१२॥
क्षुत्म्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः।
निर्मांसबालहस्ताः कृच्छ्रेणायान्ति परदेशम् ॥१३॥
तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः।
सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः ॥१४॥
क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः।
स्वनृपतिचरितं कर्म न पुरा कृतं प्रब्रुवन्त्यन्ये ॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७३
गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
सरितो यान्ति तनुत्वं क्वचित्क्वचिज्जायते सस्यम् ॥१६॥
जिन-जिन देशों में सूर्यबिम्बस्थित तामस-कीलक आदि का दर्शन हो, उन-उन
देशों में राजाओं को दुःख होता है। क्षुधा से पीड़ित मुनि लोग भी स्वधर्म एवं उत्तम
चरित्रों से हीन होकर दुर्बल बालक को हाथ में लेकर दूसरे देश में जाते हैं। सज्जनों के
धन को चोर अपहरण कर लेते हैं। अतः वे सज्जन दीर्घनिश्वास छोड़ने से संकुचित नेत्र
वाले, खिन्न शरीर वाले और शोक से उत्पन्न अश्रुप्रवाह से बन्द नेत्र वाले होते हैं। अपना
राजा और परराष्ट्र से पीड़ित दुर्बल मनुष्य निन्दा करते हुये पूर्वकृत अपने राजा के कर्तव्य
को दूसरे से कहते हैं। गर्भयुक्त होने पर भी मेघ अधिक जल नहीं देते, नदियाँ कृश
( अल्प जल वाली ) हो जाती हैं और धान की उत्पत्ति बहुत कम होती है।।१२-१६।।
यस्मिन् यस्मिन् देश इति । ते तामसकीलकाः सूर्यबिम्बस्था आदित्यमण्डलगताः ।
यस्मिन् यस्मिन् यत्र यत्र देशे दर्शनमायान्त्युपगच्छन्ति तस्मिंस्तत्र तत्र देशे महीपतीनां
भूमिपानां व्यसनं दुःखं परिज्ञेयं ज्ञातव्यम्।
क्षुत्प्रम्लानशरीरा इति । अपिशब्दः सम्भावनायां वर्तते। मुनयोऽपि ऋषयोऽपि
जितक्षुधः, क्षुत्प्रम्लानशरीराः, क्षुद्बुभुक्षा तया प्रकर्षेणातिशयेन म्लानानि शरीराणि देहा
येषां ते तथाभूताः, तथोत्सृष्टं त्यक्तं धर्मसच्चरितं शोभनचारित्रं च यैस्ते तथोक्ताः। तथा
निर्मांसा मांसरहिताः। दुर्बला ये बालाः शिशवोऽन्नाभावात्ते हस्तेषु करेषु येषां ते तथाभूताः।
कृच्छ्रेण क्लेशेन परदेशमन्यदेशं यान्ति प्राप्नुवन्ति।
तथा सन्तः साधवो जनास्तस्करविलुप्तवित्ताः, तस्करैश्चौरैर्विलुप्तं छिन्नं वित्तं धनं
येषाम्। तथा प्रदीर्घैरत्यायामवद्भिर्निःश्वासैः श्वसनैर्मुकुलिताः सङ्कुचिता अक्षिपुटा नेत्राच्छादनानि
येषाम्। तथा सन्नशरीराः, सन्नान्यवसादं गतानि शरीराणि देहा येषाम्। तथा शोकेन दुःखेन
यदुद्भवं बाष्पमश्रु तेन रुद्धे वृते दृशौ चक्षुषी येषां ते तथोक्ताः।
क्षामाः कृशाः जुगुप्समाना निन्दन्तो मनुजा मानवाः। यतः स्वनृपतिपरचक्रपीडिताः।
स्वनृपतिना आत्मीयेन राज्ञा परचक्रेण चान्यराष्ट्रेण पीडिता उपतप्ताः, अतो जुगुप्समानाः।
अन्येऽपरे एवं ब्रुवन्ति कथयन्ति च कथयेति च यथा यत्कर्मास्माभिरद्यानुभूयते तत्पुरा
पूर्वं स्वचरितमात्मनार्जितं न नृपतिचरितं राज्ञा वर्जितमिति।
गर्भेष्वपीति । वारिमुचो मेघा गर्भेष्वपि निष्पन्ना गर्भलक्षणयुक्ता अपि वृष्टिप्राप्त-
समये न प्रभूतं न बहु वारि पयो मुञ्चन्ति त्यजन्ति। तथा सरितो नद्यस्तनुत्वं स्वल्पतोयत्वं
यान्ति गच्छन्ति जलाभावात्। सस्यधान्यादिकं क्वचित्क्वचित्कुत्रचिज्जायते उत्पद्यते न
सर्वत्रेति।।१२-१६।।
अथ तेषामाकृतिवशेन फलमाह—
दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने ।
ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७४ बृहत्संहिता
सूर्य के मण्डल में दण्ड की तरह केतु दिखाई दे तो राजा की मृत्यु, छिन्नमस्तक पुरुष
की तरह दिखाई दे तो व्याधि का भय, काक की तरह दिखाई दे तो चोर का भय और कील
की तरह दिखाई दे तो दुर्भिक्ष होता है।।१७।।
अर्कस्थे सूर्यमण्डलसंस्थिते। दण्डे दण्डाकारे चिह्ने। नरेन्द्रस्य राज्ञो मृत्युर्मरणं स्यात्।
कबन्धश्छिन्नशिराः पुरुषः। कबन्धसंस्थाने कबन्धाकारे चिह्नेऽर्कस्थे। व्याधिभयं रोगभयम्।
स्याद् भवेत्। ध्वाङ्क्षः काकस्तस्मिन्नर्कस्थे तस्करभयं चौरकृतं भयं वदेत्। कीलके कील-
काकारेऽर्कस्थे दुर्भिक्षमसुभिक्षं भवेत्।।१७।।
अन्यदप्याह—
राजोपकरणरूपैश्छत्रध्वजचामरादिभिर्विद्धः।
राजान्यत्वकृदर्कः स्फुलिङ्गधूमादिभिर्जनहा ।।१८।।
यदि सूर्यमण्डल राजा के उपकरणरूप छत्र, ध्वजा, चामर आदि से वेधित हो तो
राजा का परिवर्तन होता है और अग्निकण, धूम आदि से वेधित हो तो लोगों का नाश
करता है।।१८।।
राजा नृपस्तस्योपकरणानि हस्त्यश्वादयस्तद्रूपैस्तदाकारैरर्कः सूर्यो यदि विद्धो भवति।
तथा छत्रध्वजचामरादिभिः। छत्रमातपत्रम्। ध्वजं पताका। चामरं बालव्यजनम्। आदिग्रहणाद्
भृङ्गारकुम्भाकारैर्यद्यर्को विद्धो भवति तदा राजाऽन्यत्वकृत्, राज्ञोऽन्यत्वं करोति, अन्यो राजा
भवतीत्यर्थः। अथ स्फुलिङ्गैरग्निकणैर्धूमेन। आदिग्रहणाज्वालादिभिर्युक्तो भवति तदा
जनहा, जनान् हन्ति घातयतीत्यर्थः ।।१८।।
अन्यदप्याह—
एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय।
सितरक्तपीतकृष्णैस्तैर्विद्धोऽर्कोऽनुवर्णघ्नः ।।१९।।
यदि पूर्वोक्त सूर्यमण्डल के वेध करने वालों में से एक से सूर्य वेधित हो तो दुर्भिक्ष,
दो आदि से वेधित हो तो राजा का नाश और सफेद, लाल, पीला, काला—इन वर्णों से
वेधित हो तो क्रम से वर्णों का नाश करता है। जैसे—सफेद वर्ण से वेधित होने पर
ब्राह्मणों का, लाल वर्ण से वेधित होने पर क्षत्रियों का, पीले वर्ण से वेधित होने पर वैश्यों
का और काले वर्ण से वेधित होने पर शूद्रों का नाश करता है।।१९।।
एको वेधोऽर्कस्थो दुर्भिक्षमसुभिक्षं करोति। द्वावाद्यौ येषां ते द्व्याद्याः। द्वौ त्रयश्चत्वारो
वा वेधा नरपते राज्ञो विनाशायाभावाय स्युर्भवेयुः। अर्क आदित्यस्तैश्चिह्नैस्सितरक्तपीतकृष्णै-
र्विद्धोऽनुवर्णघ्नो भवति। अनु क्रमेण। वर्णान् द्विजादीन् हन्ति। तद्यथा—सितैः श्वेतवर्णै-
श्चिह्नैर्विद्धो ब्राह्मणान् हन्ति घातयति, रक्तवर्णैः क्षत्रियान्, पीतवर्णैर्वैश्यान्, कृष्णवर्णैः
शूद्रानिति।।१९।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७५
विशेषफलमाह—
दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः ।
आगच्छति लोकानां तेनैव भयं प्रदेशेन ॥२०॥
ये पूर्वकथित ध्वांक्ष आदि महा उत्पात सूर्यमण्डल में जिस तरफ दिखाई देते हैं, उस
दिशा में स्थित देशों के लोगों को भय होता है। जैसे—यदि उत्पात सूर्यबिम्ब में पूर्व तरफ
हो तो पूर्वीय देश में, दक्षिण की तरफ हो तो दक्षिणीय देश में, पश्चिम की तरफ हो तो
पश्चिमीय देश में और उत्तर की तरफ हो तो उत्तरीय देश में स्थित लोगों को भय होता है॥२०॥
ते महोत्पाता ध्वाङ्क्षप्रभृतयो रविबिम्बस्यार्कमण्डलस्योत्थिता उत्पन्ना यतो यस्यां
दिशि दृश्यन्ते, पूर्वस्यां दक्षिणस्यां पश्चिमायामुत्तरस्यां वा दिशि विदिक्षु वा तेनैव प्रदेशेन
लोकानां जनानां भयमागच्छति आयाति॥२०॥
अथार्करश्मिवशेन शुभाशुभफलमाह—
ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति ।
पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ॥२१॥
चित्रोऽथवापि धूम्रो रविरश्मिर्व्याकुलं करोत्यूर्ध्वम् ।
तस्करशस्त्रनिपातैर्यदि सलिलं नाशु पातयति ॥२२॥
सूर्य के ऊपरी भाग की किरणें ताम्र वर्ण की हों तो सेनापति का, पीले वर्ण की हों तो
राजा के पुत्र का और श्वेत वर्ण की हों तो पुरोहित का नाश होता है। साथ चित्र या धूम्र वर्ण
की हों तो चोरों या शस्त्रप्रहारों से लोग व्याकुल होते हैं। यदि उक्त उत्पात देखने के बाद
जल्दी वृष्टि न हो तो पूर्वोक्त फल होता है। यदि वृष्टि हो जाय तो पूर्वोक्त फल न होकर
लोगों का कल्याण होता है॥२१-२२॥
दिवसकर आदित्यः । ऊर्ध्वकर ऊर्ध्वरश्मिर्यदा दृश्यते। अधोभागे तस्य रश्मयो न
दृश्यन्त इत्यर्थः । स च ताम्रस्ताम्रवर्णश्च तदा सेनापतिं चमूनाथम्, विनाशयति घातयति ।
ऊर्ध्वकरः पीतवर्णश्च नरेन्द्रपुत्रं नृपसुतम्, हन्ति मारयति। ऊर्ध्वकरः श्वेतवर्णश्च पुरोहितं
मारयति।
चित्रोऽथवेति । खेरादित्यस्य सम्बन्धी रश्मिः करः । ऊर्ध्वं स्थितः स च चित्रो नाना-
वर्णोऽथवापि तु धूम्रवर्णस्तस्करशस्त्रनिपातैः, तस्कराश्चौराः, शस्त्रमायुधम्, तैस्तस्करशस्त्र-
निपातैश्चौरसङ्ग्रामोपमर्दनैर्व्याकुलं सोद्यमं देशं करोति, यद्याशु शीघ्रं सलिलं जलं न
पातयति न वर्षति तदैवम्। अथ सलिलपातं करोति तदा शिवमिति॥२१-२२॥
अथ भगवतो भास्करस्य ऋतुवर्णलक्षणमाह—
ताम्रः कपिलो वार्कः शिशिरे हरिकुङ्कुमच्छविश्च मधौ ।
आपाण्डुकनकवर्णा ग्रीष्मे वर्षासु शुक्लश्च ॥२३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७६ बृहत्संहिता
शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः।
प्रावृट्काले स्निग्धः सर्वर्तुनिभोऽपि शुभदायी ॥२४॥
यदि सूर्यमण्डल शिशिर ऋतु में ताम्र या पीला, वसन्त ऋतु में हरा या कुङ्कुम के
समान, ग्रीष्म ऋतु में पाण्डु ( कुछ-कुछ सफेद ) या सुवर्ण के समान, वर्षाकाल में
सफेद, शरद ऋतु में कमल के गर्भ के समान और हेमन्त में रुधिर के समान हो तो शुभ
होता है। यदि वर्षाकाल में स्वच्छ या अन्य सब ऋतुओं के समान वर्ण का हो तो भी शुभ
फल देने वाला होता है॥२३-२४॥
ताम्रः कपिलो वार्क इति। शस्त इति सर्वत्र सम्बध्यते। शिशिरे माघफाल्गुनयोरर्क
आदित्यस्ताम्रवर्णः कपिलो वा कपिलवर्णः शस्तः शुभफल इत्यर्थः। मधौ वसन्ते चैत्रवैशाख-
योर्हरिकुङ्कुमच्छविर्हरितकान्तिः शुकाभः। कुङ्कुमवर्णश्च पीतलोहितवर्णः शस्त एव। ग्रीष्मे
ज्येष्ठाऽऽषाढयोः पाण्डुः पाण्डुरवर्ण ईषच्छुक्लः। कनकवर्णः सुवर्णकान्तिश्च शस्त एव। वर्षासु
वर्षाकाले श्रावणभाद्रयोः। शुक्लः श्वेतवर्णः शस्तः। चशब्दादापाण्डुकनकवर्णश्च शस्त एव।
शरदि शरत्काले। आश्वयुजकार्तिकयोः। कमलोदराभः कमलं पद्मं तस्योदरमभ्यन्तरं
तत्सदृशी भा कान्तिर्यस्य स तथाभूतः शस्तः। हेमन्ते मार्गपौषयोः। रुधिरवर्णो रक्तवर्णः
शस्तः। प्रावृट्काले वर्षासमये स्निग्धो विमलस्तथा सर्वर्तुनिभः सर्वेषां शिशिरादीनामृतूनां
ये वर्णा उक्तास्तेषां निभः सदृशस्तद्वर्णोऽपि शुभदायी शुभप्रदो भवति। तथा च समास-
संहितायाम्—
ताम्रघृतकनकमुक्ताकमलासुक्सन्निभः शुभः सविता।
शिशिरादिषु षट्सु ऋतुषु प्रावृषि सर्वर्तुसन्निभः स्निग्धः।।
तथा च वृद्धगर्गः—
शिशिरे ताम्रसङ्काशः कपिलो वापि भास्करः।
वसन्ते कुङ्कुमप्रख्यो हरितो वापि शस्यते।।
ग्रीष्मे कनकवैदूर्यं सर्वरूपो जलागमे।
शस्तः शरदि पद्माभो हेमन्ते लोहितप्रभः।।
एतत्स्वरूपं सवितुर्विपरीतमतोऽन्यथा।
तथा च पराशरः—
'शिशिरे ताम्रः कपिलो वा। वसन्ते कुङ्कुमाभो हरितो वा। ग्रीष्मे कनकवैदूर्यप्रभः।
प्रावृषि सर्ववर्णः। शरदि पद्माभो हेमन्ते रक्तवर्णो रश्मिः सर्वर्तुषु श्वेतः पाण्डुवर्णश्च
शस्यते विपरीतो विपरीतकारी'ति॥२३-२४॥
अन्यदप्याह—
रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति ।
पीतो वैश्यान् कृष्णास्ततोऽपरान् शुभकरः स्निग्धः ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७७
यदि सूर्यमण्डल रूखा या सफेद हो तो ब्राह्मणों का, लाल वर्ण का हो तो क्षत्रियों
का, पीत वर्ण का हो तो वैश्यों का और कृष्ण वर्ण का हो तो शूद्रों का नाश करता है। यदि
पूर्वोक्त वर्ण स्निग्ध हो तो ब्राह्मण आदि वर्णों का शुभ करने वाला होता है।।२५।।
रूक्ष इति सर्वत्र सम्बध्यते। श्वेतः शुक्लवर्णो रूक्षः स्नेहरहितो विप्रान् ब्राह्मणान्।
विनाशयति हन्ति। रक्ताभो लोहितकान्ती रूक्षश्च क्षत्रियान् विनाशयति। पीतः पीतवर्णो
रूक्षो वैश्यान्नाशयति। कृष्णः कृष्णवर्णो रूक्षश्च ततोऽपरान् तदित्यनेन वैश्याः परामृश्यन्ते
तेभ्योऽपरानन्यान् शूद्रान् हन्तीति।
शुभकरः स्निग्ध इति। यथोक्तवर्णो यदि स्निग्धो भवति तदा तेषामेव शुभकरो
भवति। तथा श्वेतः स्निग्धो ब्राह्मणानां शुभकरो भवति, रक्ताभः स्निग्धः क्षत्रियाणाम्, पीतः
स्निग्धो वैश्यानाम्, कृष्णः स्निग्धश्च शूद्राणामिति।।२५।।
अथार्कस्य ऋतुष्वशुभवर्णानाह—
ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
हेमन्ते पीतोऽर्कः करोति न चिरेण रोगभयम् ॥२६॥
ग्रीष्म ऋतु में रक्त वर्ण का रविमण्डल भय उत्पन्न करने वाला होता है।, वर्षा ऋतु
में काला रविमण्डल अनावृष्टि करता है और हेमन्त ऋतु में पीत वर्ण का रविमण्डल शीघ्र
रोगभय करता है।।२६।।
अर्क आदित्यो रक्तो लोहितवर्णो ग्रीष्मे दृष्टो भयकृद् भयं करोति। वर्षासु वर्षाकाले।
असितवर्णः कृष्णवर्णोऽनावृष्टिं वृष्ट्यभावं करोति। हेमन्ते पीतः पीतवर्णो न चिरेण शीघ्र-
मेव रोगभयं गदभीतिं करोति। शेषर्त्तुषु न विशेषः पूर्वोक्तमेव शुभाशुभमिति।।२६।।
अन्यदप्याह—
सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्त्रांशुः ।
प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् ॥२७॥
यदि इन्द्रधनुष से सूर्यमण्डल खण्डित होता हो तो राजाओं में विरोध उत्पन्न करता है।
यदि वर्षाकाल में निर्मल कान्तियुक्त हो तो सद्यः ( उसी दिन ) वृष्टि करता है।।२७।।
सुरचापेति । सहस्रांशुरादित्यः। सुरचापमिन्द्रधनुस्तत्तुल्येन चिह्नेन पाटिता विदारिता
तनुर्मूर्तिर्यस्य तथाभूतो नृपते राज्ञो विरोधप्रदो भवत्यशुभ इत्यर्थः। प्रावृट्काले वर्षासमये
विमलद्युतिर्निर्मलकान्तिः सद्यस्तस्मिन्नेवाहनि वृष्टिं करोति वर्षतीत्यर्थः।।२७।।
वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पाभः ।
शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ॥२८॥
यदि वर्षाकाल में शिरीष-पुष्प की कान्ति के समान कान्ति वाला सूर्य-मण्डल हो तो
उसी दिन वृष्टि करता है। यदि मयूरपंख की तरह कान्ति वाला दिखलाई दे तो बारह वर्ष
पर्यन्त वृष्टि नहीं होती ।।२८।।
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
७८ बृहत्संहिता
वर्षकाले प्रावृट्समये शिरीषपुष्पाभः शिरीषपुष्पकान्तिसदृशो नीलपीत इत्यर्थः।
सद्यो वृष्टिं करोति। शिखी मयूरस्तस्य पत्रं पक्षस्तन्निभस्तत्तुल्यो मयूरचन्द्रिकाकारो द्वादश-
वर्षाणि सलिलं जलं न करोति न वर्षतीत्यर्थः। तथा च वृद्धगर्गः—
मयूरचन्द्रिकाभो वा यदा दृश्येत भास्करः।
पूर्णे तु द्वादशे वर्षे तदा देवः प्रवर्षति।। इति।।२८।।
अन्यदप्याह—
श्यामेऽर्के कीटभयं भस्मनिभे भयमुशन्ति परचक्रात् ।
यस्यर्क्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य ॥२९॥
यदि सूर्यविम्ब श्याम वर्ण का दिखलाई दे तो कीड़े का भय और भस्म की कान्ति की
तरह दिखलाई दे तो परराष्ट्र से भय होता है। जिस राजा के जन्मनक्षत्र में सूर्यमण्डल में
छिद्र दिखाई दे, उस राजा का नाश होता है॥२९॥
अर्के सूर्ये श्यामवर्णे कीटभयं कृमिभीतिः सस्यानां भवति। भस्मनिभे भस्मवर्णे पाण्डौ
रूक्षे परचक्रादन्यनृपाद्भयं भीतिमुशन्ति कथयन्ति। अर्क आदित्यो यस्मिन्नृक्षे नक्षत्रे स्थितः
सच्छिद्रो दृश्यते तन्नक्षत्रं यस्य क्षितीशस्य राज्ञः कूर्मविभागेन भवति तस्य विनाशो
मृत्युर्भवति॥२९॥
अन्यदप्याह—
शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः ।
शशिसदृशे नृपतिबधः क्षिप्रं चान्यो नृपो भवति ॥३०॥
यदि आकाश में खरहे के रुधिर के समान रक्त वर्ण का सूर्यमण्डल दिखलाई दे तो
युद्ध होता है। यदि चन्द्र के समान वर्ण का सूर्यमण्डल दिखलाई दे तो वर्तमान राजा का
नाश होकर उसके स्थान पर दूसरा राजा होता है॥३०॥
शशः प्राणिविशेषः। भानावादित्ये शशरुधिरनिभे शशलोहितवर्णे अतिरक्त इत्यर्थः।
नभस्तलस्थे मध्याह्ने मध्यस्थिते सङ्ग्रामा युद्धानि भवन्ति। नभस्तलग्रहणमुदयास्तमयकाल-
परिहारार्थम्। तत्र किल स्वभावादतिलोहितो रविर्भवति। तथा च गर्गः—
शशलोहितवर्णाभो यदा भवति भास्करः।
तदा भवन्ति सङ्ग्रामा घोरा रुधिरकर्दमाः।। इति।
शशिसदृशे चन्द्रनिभे विरश्मौ शीतले च नृपते राज्ञो बधो मरणं भवति। क्षिप्रं चाश्वे-
वान्योऽपरो नृपो राजा भवति॥३०॥
अन्यदप्याह—
क्षुन्मारकृद्धटनिभः खण्डो जनहा विदीधितिर्भयदः ।
तोरणरूपः पुरहा छत्रनिभो देशनाशाय ॥३१॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ७९
जिस देश में घड़े की आकृति के समान सूर्यमण्डल दिखलाई दे, उस देश में
क्षुधा से पीड़ित होकर मनुष्य प्राण-विसर्जन करते हैं। यदि खण्डाकार दिखलाई दे तो
लोगों का नाश करता है। यदि तेज से हीन दिखलाई दे तो भय देने वाला होता है। यदि
फाटक की तरह दिखलाई दे तो पुरों का नाश करता है और छत्र के समान दिखलाई दे
तो देश का नाश करता है।
घटनिभो घटाकारोऽर्कः। क्षुन्मारकृत्। क्षुद्दुर्भिक्षं मारं मरकं च करोति। खण्ड एक-
देशाद्धीनो जनहा। जनान् हन्ति घातयति। विदीधितिर्विगतरश्मिर्भयदो भीतिं ददाति। तोरण-
रूपस्तोरणाकारः पुरहा। पुरं नगरं हन्ति। छत्रनिभ आतपत्राकारो देशस्य जनपदस्य नाशाय
विघाताय भवति॥ ३१॥
अन्यदप्याह—
ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च।
कृष्णा रेखा सवितरि यदि हन्ति ततो नृपं सचिवः ॥३२॥
यदि सूर्यमण्डल ध्वजा या चाप की तरह काँपता हुआ रूखा दिखाई दे तो युद्ध होता
है। यदि सूर्यमण्डल में काली रेखा दिखाई दे तो मन्त्री के द्वारा राजा का वध होता है॥३२॥
ध्वजः प्रसिद्धो बहुपटरचितः पताकारूपः। चापं धनुः। भास्करे सूर्ये। ध्वजचापनिभे
तदाकृतौ। युद्धानि सङ्ग्रामा भवन्ति। वेपने कम्पमाने रूक्षे वाऽस्निग्धे युद्धान्येव भवन्ति।
सवितर्यादित्ये कृष्णवर्णरेखा यदि मध्ये दृश्यते तदा नृपं राजानं सचिवो मन्त्री हन्ति घात-
यति। केचित्पठन्ति नृपं सचिवम्। नृपं सचिवं च हन्ति। तथा च पराशरः—
‘विवर्णो भूमिवर्णो वा महाभयाय। श्यामो जनमरणाय। सुवर्णरजतपद्मनिभो विमलः
स्निग्धो जनहिताय। धूम्राभो वृष्टिनिग्रहाय। ऊर्ध्वदण्डो जटिलः शस्त्रकोपव्याधिमृत्युकरः।
महान् परिमण्डलः कुक्षिमान् विशालो घृतमण्डलनिभः क्षेमारोग्यकरः। संक्षिप्तः क्षयाय।
वज्राकारो दुर्भिक्षाय। सर्वतश्छिद्रो द्विधा वा दृश्यमानो मृत्युदेशं विनाशं वाऽऽचष्टे। शिरीष-
पुष्पसङ्काशो वार्षुके निष्प्रभो जनमारकरः। घटसंस्थः क्षुत्कृत्। ताम्रो रुधिराभो वा शस्त्र-
कोपकरः। खण्डच्छिद्रो भूपालविनाशाय च। पुण्ड्राकारः उलूकसंस्थानः उन्मादापस्मारकरः।
विरश्मिर्व्याधिभयकृत्। छत्राकारो देशविपर्ययकरः। शकटाकारश्च कबन्धाकृतिर्महासङ्ग्राम-
कृत्। तोरणसंस्थानः पुरनाशाय। अवर्णः प्रजानाशाय। प्रतिरूपः स्त्रीभयकारी। परुषो वेपनः
सस्यनाशनः। शरासनाकृतिर्ध्वजाभो वा सद्य आहवाय। विजयाकृतिर्गर्भविनाशी। परुषाकारो
रुधिरप्रभोऽनेकनृपतिहस्तोत्पाटनकरः। कृष्णवर्णो जगतः क्षयाय। अपर्वण्युपरक्तः सर्वलोक-
विनाशाय। व्यामिश्रवर्णो यावत्तद्दृश्यते तावत्परस्परं नृपविनाशाय। कृष्णरुधिरपीतवर्णो
जगत्क्षयकारी। वैदूर्यकृष्णबभ्रुवर्णः पशुवर्णोत्सादनकरः। मयूरचन्द्रिकाभो द्वादशवार्षिकी-
मनावृष्टिं धत्ते। एवमन्योन्यव्यामिश्रवर्णो युगान्तकारी भवती'ति॥३२॥
अन्यदप्याह—
दिनकरमुदयास्तसंस्थितमुल्काशनिविद्युतो यदा हन्युः।
नरपतिमरणं विन्द्यात्तदाऽन्यराजप्रतिष्ठा च॥३३॥
CC-0. JK Sanskrit Academy, Jammnu. Digitized by S3 Foundation USA
८० बृहत्संहिता
यदि उल्का, वज्र, बिजली उदयकालिक सूर्य पर गिरे तो वर्तमान राजा की मृत्यु और
उसके स्थान पर दूसरे की प्रतिष्ठा होती है।।३३।।
दिनकरमादित्यमुदयास्तसंस्थितमुदयरेखास्थमस्तस्थमपररेखास्थं वा यदा उल्का अश-
निर्विद्युद्वा आसां लक्षणं वक्ष्यति। एता हन्युस्ताडयेयुस्तदा तस्मिन् काले नरपतेर्मरणं मृत्युम्।
विन्द्याद्विजानीयात्। तथाऽन्यराजप्रतिष्ठा। अन्यस्य द्वितीयस्य राज्ञो नृपत्वे प्रतिष्ठा स्थिति-
स्तत्क्षणमेव भवति। तथा च पराशरः—
उदयास्तमये भानुमुल्का हन्यात् समुत्थिता।
प्रज्वलन्ती तदा राजा क्षिप्रं शस्त्रेण बध्यते।। इति।।३३।।
अन्यल्लक्षणमाह—
प्रतिदिवसमहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथवा ।
रक्तोऽस्तमेति रक्तोदितश्च भूपं करोत्यन्यम् ॥३४॥
यदि प्रत्येक दिन दोनों सन्ध्याओं ( उदय और अस्त ) में परिवेषयुक्त सूर्यमण्डल होता
हो या रक्त वर्ण का होकर उदय-अस्त होता हो तो निश्चय ही दूसरा राजा होता है।।३४।।
अहिमकिरण उष्णरश्मिः सूर्यः। प्रतिदिवसम्। दिवसं दिवसं प्रति प्रतिदिवसम्।
परिवेषी मण्डलवान् भवति। अथवा द्वयोः सन्ध्ययोरुदयास्तमयोः परिवेषी भवति।
अथवा रक्तवर्णोऽस्तमेत्यस्तं गच्छति रक्तवर्णश्चोदेति। एतदुक्तं भवति। यादृश एव लोहित-
वर्णस्तादृश एव सकलमहर्भूत्वा रक्तवर्ण एवास्तमेति। प्रतिदिवसं सर्वत्र सम्बध्यते।
तदा तस्मिन् प्रकारत्रये भूपं राजानमन्यं द्वितीयं करोति।।३४।।
अर्कस्य सन्ध्याकाले शुभाशुभलक्षणमाह—
प्रहरणसदृशैर्जलदैः स्थगितः सन्ध्याद्वयेऽपि रणकारी ।
मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ॥३५॥
यदि दोनों सन्ध्याओं में शस्त्र के समान स्वरूप वाले मेघ से सूर्यमण्डल आच्छादित
हो तो युद्ध कराने वाला; और हरिण, महिष, पक्षी, गधे या हस्ती के समान स्वरूप वाले
मेघ से आच्छादित हो तो भय देने वाला होता है।।३५।।
प्रहरणमायुधं खड्गादि। प्रहरणसदृशैरायुधाकृतिभिर्जलदैर्मेघैर्यदा सन्ध्याद्वये उदयास्त-
मयकाले स्थगित आच्छादितो भवति सूर्यस्तदा रणकारी सङ्ग्रामकृद्भवति। अपिशब्दः
सम्भावनायां वर्तते। तेनैकस्यां सन्ध्यायां द्वितीयास्यां वेत्यर्थः। मृग अरण्यप्राणी। महिषः
प्रसिद्धः। विहगः पक्षी। खरो गर्दभः। करभ उष्ट्रः। एषां सदृशरूपैस्तुल्याकारैर्यदा सन्ध्याद्वये
स्थगितो भवति, तदा भयदायी भयं भीतिं ददाति।।३५।।
अथाक्रान्तस्य नक्षत्रस्य सन्तापसंशोधने आह—
दिनकरकराभितापात्क्षमवाप्नोति सुमहतीं पीडाम् ।
भवति तु पश्चाच्छुद्धं कनकमिव हुताशेपरितापात् ॥३६॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
आदित्यचाराध्यायः ८१
अग्नि के परिताप से पीड़ित होकर जिस तरह सोना शुद्ध होता है, उसी तरह सूर्य के
परिताप से पीड़ित होकर नक्षत्र शुद्ध होता है॥३६॥
यस्मिन्नृक्षे नक्षत्रे दिनकरः सूर्यः स्थितस्तदृक्षं दिनकरकराभितापात्सूर्यरश्मिसन्तापात्
सुमहतीं पीडामतिरुजमवाप्नोति लभते। तदेव सूर्यमृक्षं पश्चादनन्तरं शुद्धं निर्दोषं भवति।
यथा कनकं सुवर्णं हुताशपरितापादग्निसन्तापेन शुद्धं निर्मलं भवति। तथा च पराशरः—
ग्रहोपसृष्टं नक्षत्रं सवितुर्योगमागतम्।
विशोधयति तत्पापं तुषाग्निरिव काञ्चनम्॥
तथा च वृद्धगर्गः—
यथाग्निना प्रज्वलिते गृहे तप्यन्त्यदूरिणः।
तथार्कस्याप्यदूरस्थमृक्षं तदपि तप्यते॥ इति॥३६॥
अथ प्रतिसूर्यलक्षणमाह—
दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितोऽनिलकृत्।
उभयस्थः सलिलभयं नृपमुपरि निहन्त्यधो जनहा॥३७॥
यदि सूर्यमण्डल की उत्तर दिशा में प्रतिसूर्य दिखलाई पड़े तो वृष्टि होती है, दक्षिण
दिशा में प्रतिसूर्य दिखलाई पड़े तो आँधी आती है, दोनों तरफ दिखलाई पड़े तो राजा का
और नीचे की तरफ दिखलाई पड़े तो वह प्रतिसूर्य लोगों का नाश करता है।
विशेष—सूर्योदय के बाद एक प्रहर तक जब एक छोटा मेघ का टुकड़ा आ जाता
है तब वह सूर्य की किरणों से चमकता हुआ द्वितीय सूर्य के समान लक्षित होता है, उसी
को ‘प्रतिसूर्य’ कहते हैं॥३७॥
दिवसकृत इति। उदयात्प्रभृति दिनप्रहरैकं यावत्तनुघनोऽर्कसमीपे यदा भवति
तदार्करश्मिवशात्तत्र द्वितीयोऽर्क इव लक्ष्यते, स प्रतिसूर्य उच्यते। एवमस्तमयेऽपि सम्भवति।
दिवसकृतः स प्रतिसूर्यः। आदित्यस्योदगुत्तरे यदा प्रतिसूर्यो दृश्यते तदा जलकृज्जलं
पानीयं करोति पर्जन्यवृष्टिर्भवति। दक्षिणस्थोऽर्कस्य वातकरो भवति। उभयस्थ उत्तर-
दक्षिणभागयोर्द्वयोरपि स्थितः सलिलभयं जलभीतिं करोति। तस्यैवार्कस्योपरि स्थितः प्रति-
सूर्यो नृपं राजानं हन्ति घातयति। अधःस्थितः प्रतिसूर्यो जनहा जनान् हन्ति॥३७॥
अन्यदप्याह—
रुधिरनिभो वियत्यवनिपान्तकरो न चिरात्।
परुषरजोऽरुणीकृततनुर्यदि वा दिनकृत्॥३८॥
असितविचित्रनीलपरुषो जनघातकरः।
खगमृगभैरवस्वररुतैश्च निशाद्युमुखे॥३९॥
आकाश में रुधिर के समान लाल वर्ण या धूलि के समुदाय से लाल वर्ण का
सूर्यमण्डल राजा का बहुत जल्दी नाश करता है। यदि सूर्यमण्डल कृष्ण, विचित्र या नील
बृ० भ० प्र०-६
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
८२ बृहत्संहिता
वर्ण का होकर देखने में भयङ्कर प्रतीत हो या सन्ध्याकाल में पक्षी अथवा जंगली जानवरों
के भयङ्कर शब्द सुनाई दें तो लोगों का नाश होता है।।३८-३९।।
दिनकृदादित्यो वियत्याकाशेऽकस्मादेव रुधिरनिभो रक्तवर्णो यदा दृश्यते तदा न
चिरात् शीघ्रमेवाऽवनिपस्य राज्ञोऽन्तकरो मृत्युकृद्भवति। वियद्ग्रहणमत्रोदयास्तमयौ विहा-
यान्यत्र ग्रहणार्थम्। परुषरजोऽरुणीकृततनुर्यदि वा। परुषेण रूक्षेण रजसा पांशुनारुणीकृता
लोहिता तनुर्मूर्तिर्यस्य तथाभूतोऽप्यवनिपान्तकरः शीघ्रमेव भवति। असितः कृष्णः। विचित्रो
नानावर्णः। नीलो नीलवर्णः। परुषो रूक्षः। एवंविधोऽर्को जनघातकरः। जनानां लोकानां
घातं करोति। खगाः पक्षिणो मृगा आरण्यजातयः। एतेषां भैरवा भीषणा ये स्वराः शब्दा-
स्तैर्यानि रुतानि तैर्यदा निशामुखेऽस्तमये द्युमुखे उदये च युक्तो भवति तदापि जनघातं
करोति।।३८-३९।।
अथ शुभलक्षणमाह—
अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः ।
अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ॥४०॥
इति श्रीवराहमिहिरकृतौ बृहत्संहितायामादित्यचारस्तृतीयोऽध्यायः॥३॥
स्वच्छ, अखण्डित, स्पष्ट, अतिशय स्वच्छ, दीर्घ किरण वाला, निर्विकार शरीर,
वर्ण और चिह्न वाला सूर्यमण्डल संसार का मङ्गल करने वाला होता है।।४०।।
इति 'विमला'हिन्दीटीकायामादित्यचाराध्यायस्तृतीयः ॥३॥
अमलवपुरिति। एवंविधो दिवाकरः सूर्यो जगति जनानां शिवं श्रेयः करोति। कीदृशो-
ऽमलवपुर्निर्मलशरीरः। अवक्रमण्डलः स्पष्टबिम्बः। तथा च पराशरः—
श्वेतः शिरीषपुष्पाभः पद्माभो रूप्यसन्निभः।
वैदूर्यघृतमण्डाभो हेमाभश्च दिवाकरः।।
वर्णैरेभिः प्रशस्तः स्यान्महास्निग्धः प्रतापवान्।
भावनः सर्वसस्यानां क्षेमारोग्यसुभिक्षदः।।
स्फुटविपुलामलदीर्घदीधितिः। स्फुटाः स्पष्टा। विपुला विस्तीर्णाः। अमला निर्मलाः।
दीर्घा आयामिनो रश्मयो यस्य। तथा च पराशरः—'स्निग्धाः परिपूर्णाः शुक्ला माञ्जिष्ठाः
पीता अत्यन्तगामिनो रश्मयः शस्यन्ते। रूक्षा अविच्छिन्नास्तनवो ह्रस्वा धूमाभा लोहितवर्णा
विगर्हिता' इति। अविकृततनुवर्णचिह्नभृत्। अविकृता निर्विकारा तनुर्मूर्तिस्तथाऽविकृतो
वर्णः कान्तिः। अविकृतं चिह्नं लक्ष्म। एतान्यविकृतानि बिभर्ति धारयति तथाभूत इति।।३९।।
इति श्रीभट्टोत्पलविरचितायां संहिताविवृत्तावादित्यचारो नामाध्यायस्तृतीयः ॥३॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
अथ चन्द्रचाराध्यायः
अथ चन्द्रचारो व्याख्यायते। तत्रादावेव रवेरुपरि चन्द्रमसमिच्छन्ति, तान् प्रत्याह—
नित्यमधःस्थस्येन्दोर्भाभिर्भानोः सितं भवत्यर्द्धम्।
स्वच्छाययाऽन्यदसितं कुम्भस्येवाऽऽतपस्थस्य ॥१॥
जिस तरह धूप में स्थित घड़े का सूर्य की तरफ का आधा भाग शुक्ल और विरुद्ध
दिशा में स्थित दूसरा आधा भाग अपनी छाया से ही कृष्ण वर्ण दिखाई देता है, उसी तरह
सदा सूर्य के अधोभाग में स्थित चन्द्र का सूर्य की तरफ का आधा भाग शुक्ल और विरुद्ध
अर्धभाग अपनी छाया से ही कृष्ण दिखाई देता है॥१॥
इन्दोश्चन्द्रस्य भानोरादित्यादधःस्थस्य भानवीभिर्भाभिः सूर्यरश्मिभिर्नित्यं सर्वकाल-
मेकमर्द्धदलं सितं शुक्लं भवति। यस्मिन् गोलकभागेऽर्करश्मयः पतन्ति तदेवार्द्धं शुक्लं
भवति। अन्यद् द्वितीयमर्द्धं स्वच्छायया कृष्णं नित्यमेव भवति। कथम्? उच्यते—
कुम्भस्येवाऽऽतपस्थस्य। कुम्भस्य यस्मिन्नर्द्धे रश्मयः पतन्ति तदर्द्धं शुक्लं दृश्यते।
अन्यदर्द्धं स्वच्छायया कृष्णं दृश्यते। तथा च ब्रह्मसिद्धान्ते—
रविदृष्टं सितमर्द्धं कृष्णमदृष्टं यथाऽऽतपस्थस्य।
कुम्भस्य तथासन्नं रवेरधःस्थस्य चन्द्रस्य।।
तथा च सूर्यसिद्धान्ते—
महतश्चाप्यधःस्थस्य नित्यं भासयते रविः।
अर्द्धं शशाङ्कबिम्बस्य न द्वितीयं कथञ्चन।। इति।।१।।
नन्विन्दुप्रकाशकोपलब्धात् स्वच्छाययान्यदसितमित्यस्य प्रत्यक्षबाधां मन्यमान आह—
सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम्।
क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥२॥
जिस तरह दर्पण पर गिरी हुई सूर्य की किरणों के प्रतिबिम्ब से घर के अन्दर का
अन्धकार नष्ट होता है, उसी तरह जलपिण्डात्मक चन्द्र के ऊपर गिरी हुई सूर्य की किरणों
के प्रतिबिम्ब से रात्रिसम्बन्धी अन्धकार नष्ट होता है॥२॥
शशिनि चन्द्रमसि सलिलमयेऽम्बुमये रवेरादित्यस्य सम्बन्धिन्यो दीधितयो रश्मयो
मूर्च्छितास्तत्र संलग्नाः प्रतिफलिता नैशं निशाभवं रात्र्युत्पन्नं तमोऽन्धकारं क्षपयन्ति
नाशयन्ति। यथा दर्पणोदरे आदर्शमध्ये द्वारप्रवेशे गृहस्य सूर्यरश्मयो निहिताः संरुद्धा
मन्दिरस्य गृहस्यान्तर्मध्ये तमः क्षपयन्ति तथेति। तथा च सूर्यसिद्धान्ते—
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
८४ बृहत्संहिता
तेजसां गोलकः सूर्यो ग्रहर्क्षाण्यम्बुगोलकाः।
प्रभावन्तो हि दृश्यन्ते सूर्यरश्मिविदीपिताः॥
तथा चाऽऽर्यभटः—
भूग्रहभानां गोलार्द्धानि स्वच्छायया विवर्णानि।
अर्द्धानि यथा सार्द्धं सूर्याभिमुखानि दीप्यन्ते।। इति।।२।।
अथ शशिनः पश्चिमदिग्भागात्सितवृद्धिः किमुपलभ्यते? तदर्थमाह—
त्यजतोऽर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम्।
दिनकरवशात्तथेन्दोः प्रकाशतेऽधः प्रभृत्युदयः ॥३॥
सूर्य के अधःप्रदेश को छोड़ते हुये चन्द्र का शुक्ल जिस-जिस तरह नीचे की तरफ
लटकता है, उसी तरह चन्द्र का उदित अधोभाग भी क्रम से प्रकाशित होता है।।३।।
शशिनश्चन्द्रमसोऽर्कतलं सूर्याधोभागं त्यजतो यथा येन प्रकारेण पश्चात्पश्चिमायां दिशि
शौक्ल्यं शुक्लत्वमवलम्बते आक्रमते। तथा तेनैव प्रकारेणेन्दोश्चन्द्रस्य दिनकरवशात्सूर्य-
हेतोरधःप्रभृति बुध्नभागादारभ्योदयः प्रकाशते विराजते इति। एतदुक्तं भवति। रवेरधोभाग-
स्थश्चन्द्रमा अमावास्यान्ते भवति तत्र च तस्य चन्द्रलोकस्य सूर्याभिमुखं गोलार्द्धं शुक्लं
भवति। अधःस्थितमवनिदृश्यभागं कृष्णवर्णं भवति। ततः प्रतिपदादिषु तिथिषु यथा
यथा स्वभोगतुल्येनार्कान्प्राङ्मुखः शीघ्रगतित्वायाति तथातथा दृष्टिवर्तिनं सितमधोभागे-
ऽवलम्बते। तथा च सूर्यसिद्धान्ते—
विप्रकर्षं यथा याति ह्यधःस्थश्चन्द्रमा रखेः।
तथातथाऽस्य भूदृश्यमंशं भासयते रखेः।। इति।।३।।
प्रतिदिनं कथं चन्द्रगोले शुक्लवृद्धिर्भवति तदर्थमाह—
प्रतिदिवसमेवमर्कात्स्थानविशेषेण शौक्ल्यपरिवृद्धिः।
भवति शशिनोऽपराह्ने पश्चाद्भागे घटस्येव ॥४॥
अपराह्न काल में आतप में स्थित घड़े के पश्चिम भाग में जिस तरह शुक्लता बढ़ती है,
उसी तरह प्रतिदिन रवि से स्थानविशेष (दूर-दूर) में गमन करने से चन्द्र का शुक्लत्व
बढ़ता है।।४।।
एवमनेन प्रकारेण शशिनश्चन्द्रस्यार्कादादित्यात् स्थानविशेषेण स्थानान्तरगमनेन
शौक्ल्यस्य शुक्लभावस्य परिवृद्धिर्वृद्धिरधिकतरा भवति। यथायथायतो राशिभोगवशेन
याति तथातथा तस्य शुक्लाधिक्यं भवति। यथाऽपराह्ने द्वितीये दिनार्द्धे पश्चाद्भागे पश्चिमार्द्धे
घटस्य कुम्भस्याऽऽतपस्थस्य शुक्लता भवति तथेति। एतदुक्तं भवति। यथा यथा चन्द्रः प्राङ्-
मुखो राशिवशेन याति तथातथा शौक्ल्यपरिवृद्धिर्भवति। यावच्छुक्लाष्टम्यर्द्धे राशिचयान्त-
रितस्यार्द्धशुक्लता भवति। पौर्णमास्यन्ते षड्राश्यन्तरितस्य सर्वशुक्लता भवति। ततो
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA
चन्द्रचाराध्यायः ८५
यथायथाऽर्कसन्निकर्षमायाति तथातथा शौक्ल्यहानिर्भवति। यावत्कृष्णाष्टम्यर्द्धे कृष्णार्द्धता
भवति। अमावास्यान्ते सर्वकृष्णता भवतीति।।४।।
अथ चन्द्रस्य नक्षत्रगमनेन शुभाशुभत्वमाह—
ऐन्द्रस्य शीतकिरणो मूलाषाढाद्वयस्य चायातः।
याम्येन बीजजलचरकाननहा वह्निभयदश्च ।।५।।
जिस समय चन्द्रमा ज्येष्ठा, मूल, पूर्वाषाढा, उत्तराषाढा—इन चार नक्षत्रों के दक्षिण
में होकर जाता है, उस समय बीज, जलचर और वन का नाश होता है। इससे यह सिद्ध
होता है कि उक्त नक्षत्रों के उत्तर में होकर यदि चन्द्र जाता हो तो शुभ होता है।।५।।
ऐन्द्रं ज्येष्ठा। मूलं नैर्ऋतम्। आषाढाद्वयं पूर्वाषाढोत्तराषाढे। शीतकिरणश्चन्द्रमा ऐन्द्रस्य
मूलाषाढाद्वयस्य च याम्येन दक्षिणेन यदा यातो गतस्तदा बीजानि यान्युप्यन्ते। जलचरा
जलप्राणिनः। काननानि वनानि च। हन्ति नाशयति। तथा वह्निभयदश्चाग्निभयदो भवति।
अथदिवोत्तरेण गतः शोभनः। ततो वक्ष्यति—
भानां यथासम्भवमुत्तरेण यातो ग्रहाणां यदि वा शशाङ्कः।
प्रदक्षिण तच्छुभदं नृपाणां याम्येन यातो न शिवः शशाङ्कः।। इति।।५।।
अन्येषामप्याह—
दक्षिणपार्श्वेन गतः शशी विशाखाऽनुराधयोः पापः।
मध्येन तु प्रशस्तः पितृदेवविशाखयोश्चापि ।।६।।
यदि विशाखा और अनुराधा के दक्षिण भाग में चन्द्रमा जाता हो तो पाप फल देने
वाला होता है। यदि मघा और विशाखा के मध्य में होकर चन्द्रमा जाता हो तो शुभ फल
देने वाला होता है।।६।।
विशाखाऽनुराधे प्रसिद्धे नक्षत्रे। अनयोः शशी चन्द्रो दक्षिणपार्श्वेन याम्यभागेन
गतो यातः। पापः पापफलदोऽनिष्टदो भवति। अथदिवोत्तरेण शुभः। पितृदेवो मघा। विशाखा
प्रसिद्धा। अनयोर्द्वयोर्मध्येनान्तरेण चन्द्रमा गतः प्रशस्तः। शुभफलदः। अपिशब्दो विशेषं
द्योतयति, तेन मघाविशाखयोरुत्तरेणापि गतश्चन्द्रः शुभफलदः। तथा च समाससंहितायाम्—
भवति विशाखाद्यानां षण्णां याम्येन पापदश्चन्द्रः।
उदगिष्टः सर्वेषां पित्र्येशविशाखयोश्चान्तः।।
तथा च पराशरः—
‘अथ मार्गेष्वाग्नेयादुत्तरोऽतिवर्षकरो मैत्रसावित्राभ्यां प्रजाहितकारी। ज्येष्ठाग्नेयमैत्र-
त्वाष्ट्राणां दक्षिणतश्चरन् पुष्कलाशुभदः। उपरिष्टाद्रौरोधिको धान्यविनाशी। अधो यव-
सम्पत्करः। मघाऽनुराधाभ्यां मध्येन गमनमतिशोभनम्। शिशिरग्रीष्मयोर्दक्षिणे च शुभदो
वर्षास्ववर्षकरः सर्वर्तुषु नैर्ऋतेऽपि विश्वदेवानां चे’ति।।६।।
CC-0. JK Sanskrit Academy, Jammu. Digitized by S3 Foundation USA