बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 110, कुल 728 में से
संदर्भ में पढ़ें७० बृहत्संहिता
अनिवृत्ते समे वापि निवृत्तः शस्यते रविः।
हीने भयावहो लोके दुर्भिक्षमकरप्रदः॥
विकृतगतिर्भयकृदिति। विकृता सविकारा गतिर्यस्यासौ विकृतगतिः। तथाभूतो
भयकृल्लोके भयं भीतिं करोति। अयननिवृत्तौ दृष्टायां पुनर्यदि प्रतीपगतित्वमर्कस्य दृश्यते
तदा विकृतगतिर्ज्ञातव्या।
पराशरतन्त्रेऽर्कस्य पञ्चधा गतिरुक्ता। तथा च—
पञ्चविधां गतिमुदयास्तमयोरन्तरे भजत्यूर्ध्वाम्।
तिर्यङ्मण्डलमधो नक्षत्रानुयायिनीमपि च॥
तिर्यग्गच्छति काष्ठायामूर्ध्वं गच्छति चोदये।
प्रातराशामनुक्रम्य मध्यं गच्छति भास्करः॥
मध्याह्ने तापयंल्लोकान्मण्डलं कुरुते गतिम्।
भ्रष्टस्त्वपि च मध्याह्नादधो गच्छति भास्करः॥
अस्तं गच्छन्नपि रविनक्षत्रमनुगच्छति।
एषापि यदि सविकारा दृश्यते तथापि भयकृत्॥ इति॥५॥
त्वष्टा नाम ग्रहस्तेनाच्छादनादर्कस्य यदशुभफलं तदाह—
सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते।
स निहन्ति सप्त भूपान् जनांश्च शस्त्राग्निदुर्भिक्षैः॥६॥
पर्व से भिन्न काल में त्वष्टा नाम का ग्रह सूर्यमण्डल को अन्धकारयुक्त करता हो तो
सात (१५वें अध्याय में नक्षत्र-कूर्म के विभाग से नव देशों के नव राजाओं में से सात)
राजाओं का नाश करता है और शस्त्र, अग्नि, दुर्भिक्ष—इनसे लोगों का नाश करता है॥६॥
त्वष्टा नाम ग्रहोऽर्कमण्डलं सूर्यबिम्बं पर्व विनाऽपर्वण्येव सतमस्कं तमसान्धकारेण
संयुक्तं कुरुते स तु दृष्टः सप्त भूपान्नक्षत्रकूर्मोक्तानां नवानां नृपाणां मध्यात् सप्तसङ्ख्यान्
भूपान् नृपान् निहन्ति घातयति। तथा शस्त्राग्निदुर्भिक्षैः शस्त्रेण सङ्ग्रामेणाग्निना हुतवहेन
दुर्भिक्षेण च जनांल्लोकान् निहन्ति। तथा च भगवान् पराशरः—
अपर्वणि शशाङ्कार्कौ त्वष्टा नाम महाग्रहः।
आवृणोति तमः श्यामः सर्वलोकविपत्तये॥ इति॥६॥
अथ तामसकीलकानामर्कमण्डलगतानां फलमाह—
तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत्।
वर्णस्थानाकारैस्तान् दृष्ट्वाऽर्के फलं ब्रूयात्॥७॥
राहु के पुत्र तैंतीस संख्यक केतु हैं। ये तामस, कीलक आदि नाम से प्रसिद्ध हैं।
इनको सूर्य (ग्रहणकालिक सूर्य) में देखकर वर्ण, स्थान और आकृति से फल कहना
चाहिये॥७॥