बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 116, कुल 728 में से
संदर्भ में पढ़ें७६ बृहत्संहिता
शरदि कमलोदराभो हेमन्ते रुधिरसन्निभः शस्तः।
प्रावृट्काले स्निग्धः सर्वर्तुनिभोऽपि शुभदायी ॥२४॥
यदि सूर्यमण्डल शिशिर ऋतु में ताम्र या पीला, वसन्त ऋतु में हरा या कुङ्कुम के
समान, ग्रीष्म ऋतु में पाण्डु ( कुछ-कुछ सफेद ) या सुवर्ण के समान, वर्षाकाल में
सफेद, शरद ऋतु में कमल के गर्भ के समान और हेमन्त में रुधिर के समान हो तो शुभ
होता है। यदि वर्षाकाल में स्वच्छ या अन्य सब ऋतुओं के समान वर्ण का हो तो भी शुभ
फल देने वाला होता है॥२३-२४॥
ताम्रः कपिलो वार्क इति। शस्त इति सर्वत्र सम्बध्यते। शिशिरे माघफाल्गुनयोरर्क
आदित्यस्ताम्रवर्णः कपिलो वा कपिलवर्णः शस्तः शुभफल इत्यर्थः। मधौ वसन्ते चैत्रवैशाख-
योर्हरिकुङ्कुमच्छविर्हरितकान्तिः शुकाभः। कुङ्कुमवर्णश्च पीतलोहितवर्णः शस्त एव। ग्रीष्मे
ज्येष्ठाऽऽषाढयोः पाण्डुः पाण्डुरवर्ण ईषच्छुक्लः। कनकवर्णः सुवर्णकान्तिश्च शस्त एव। वर्षासु
वर्षाकाले श्रावणभाद्रयोः। शुक्लः श्वेतवर्णः शस्तः। चशब्दादापाण्डुकनकवर्णश्च शस्त एव।
शरदि शरत्काले। आश्वयुजकार्तिकयोः। कमलोदराभः कमलं पद्मं तस्योदरमभ्यन्तरं
तत्सदृशी भा कान्तिर्यस्य स तथाभूतः शस्तः। हेमन्ते मार्गपौषयोः। रुधिरवर्णो रक्तवर्णः
शस्तः। प्रावृट्काले वर्षासमये स्निग्धो विमलस्तथा सर्वर्तुनिभः सर्वेषां शिशिरादीनामृतूनां
ये वर्णा उक्तास्तेषां निभः सदृशस्तद्वर्णोऽपि शुभदायी शुभप्रदो भवति। तथा च समास-
संहितायाम्—
ताम्रघृतकनकमुक्ताकमलासुक्सन्निभः शुभः सविता।
शिशिरादिषु षट्सु ऋतुषु प्रावृषि सर्वर्तुसन्निभः स्निग्धः।।
तथा च वृद्धगर्गः—
शिशिरे ताम्रसङ्काशः कपिलो वापि भास्करः।
वसन्ते कुङ्कुमप्रख्यो हरितो वापि शस्यते।।
ग्रीष्मे कनकवैदूर्यं सर्वरूपो जलागमे।
शस्तः शरदि पद्माभो हेमन्ते लोहितप्रभः।।
एतत्स्वरूपं सवितुर्विपरीतमतोऽन्यथा।
तथा च पराशरः—
'शिशिरे ताम्रः कपिलो वा। वसन्ते कुङ्कुमाभो हरितो वा। ग्रीष्मे कनकवैदूर्यप्रभः।
प्रावृषि सर्ववर्णः। शरदि पद्माभो हेमन्ते रक्तवर्णो रश्मिः सर्वर्तुषु श्वेतः पाण्डुवर्णश्च
शस्यते विपरीतो विपरीतकारी'ति॥२३-२४॥
अन्यदप्याह—
रूक्षः श्वेतो विप्रान् रक्ताभः क्षत्रियान् विनाशयति ।
पीतो वैश्यान् कृष्णास्ततोऽपरान् शुभकरः स्निग्धः ॥२५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA