बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)
Brihat Samhita Vol 1 with Vimala Hindi Commentary
आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा
पृष्ठ 112, कुल 728 में से
संदर्भ में पढ़ें७२ बृहत्संहिता
तथा तरवो वृक्षा ऋतुविपरीताः। तेषां ऋतौ स्वकालकुसुमफलानामभावः। अनृतौ
कुसुमफलान्युत्पद्यन्ते। तथा मृगा अरण्यपशवः। पक्षिणः खगाश्च। दीप्ताः सूर्याभिमुख-
दीप्तस्थाः परुषरवाश्च भवन्ति। दिशां दाहा दिग्दाहाश्चासकृद्दृश्यन्ते। अत्रासिंस्तामस-
कीलकोदये निर्घातः। निर्घातलक्षणं वक्ष्यति—
पवनः पवनाभिहता गगनादवनौ यदा समापतति।
भवति तदा निर्घातः.....................................................।। इति।
महीकम्पो भूकम्पः। आदिग्रहणाद्रजोनीहारोल्कापातगन्धर्वनगराणि गृह्यन्ते। एते उत्पाता
भवन्ति॥९-१०॥
अथ तेषामुत्पातानां निष्फलमाह—
न पृथक् फलानि तेषां शिखिकीलकराहुदर्शनानि यदि।
तदुदयकारणमेषां केत्वादीनां फलं ब्रूयात् ॥११॥
यदि केतु, तामस, कीलक, राहु—इनका उत्पात होने के बाद सात दिन के अन्दर
दर्शन हो जाय तो पूर्ववर्णित उत्पात का कोई अलग फल नहीं होता। ये उत्पात इन केतु
आदि के उदय के कारण होते हैं अर्थात् पूर्व में इन उत्पातों का दर्शन हो जाने से केतु आदि
का दर्शन निश्चित होता है। यदि किसी समय किसी कारण से उत्पातों का दर्शन होने पर भी
तामस, कीलक आदि का दर्शन न हो तो इन उत्पातों के अनुसार ही फल कहना चाहिये।
तेषामम्भःकलुषादीनामुत्पातानां पृथक् फलानि न भवन्ति। यदि शिखिनः केतोः।
कीलकानां तामसकीलकानाम्। राहोः स्वर्भानोश्च दर्शनानि भवन्ति। अर्कचन्द्रयोरन्यतरस्य
ग्रहणं भवतीत्यर्थः। एतेषां सप्ताहान्तरदर्शने उत्पाता निष्फला ज्ञेयाः। तदुदयकारणमिति।
यतस्तामसकीलकानामुदयकारणमुदयनिमित्तानि सम्भवन्ति। अत एतेषां केत्वादीनां फलमेव
ब्रूयाद् वदेत्। केतुतामसकीलकराहूणामित्यर्थः। एतदुक्तं भवति—अम्भःकलुषादिभिरु-
त्पातैर्दृष्टैर्निश्चितं केत्वादीनामुदयो वक्तव्यः। अथ कदाचित्केत्वादीनां दर्शनं न भवति तदा
अम्भःकलुषादीनामेव फलं वदेत्॥११॥
अथ तामसकीलकानां दर्शनवशात् फलमाह—
यस्मिन् यस्मिन् देशे दर्शनमायान्ति सूर्यबिम्बस्थाः।
तस्मिंस्तस्मिन् व्यसनं महीपतीनां परिज्ञेयम् ॥१२॥
क्षुत्म्लानशरीरा मुनयोऽप्युत्सृष्टधर्मसच्चरिताः।
निर्मांसबालहस्ताः कृच्छ्रेणायान्ति परदेशम् ॥१३॥
तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः।
सन्तः सन्नशरीराः शोकोद्भववाष्परुद्धदृशः ॥१४॥
क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः।
स्वनृपतिचरितं कर्म न पुरा कृतं प्रब्रुवन्त्यन्ये ॥१५॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA