सामग्री पर जाएँ
सर्वकोश
बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

बृहत्संहिता: प्रथम भाग (आचार्य वराहमिहिर - विमला हिन्दी व्याख्या, पं. अच्युतानन्द झा)

Brihat Samhita Vol 1 with Vimala Hindi Commentary

आचार्य वराहमिहिर (टीकाकार: पं. अच्युतानन्द झा) द्वारा

DevanagariHindipublished728 पृष्ठ

पृष्ठ 113, कुल 728 में से

संदर्भ में पढ़ें
पृष्ठ 113

आदित्यचाराध्यायः ७३
गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
सरितो यान्ति तनुत्वं क्वचित्क्वचिज्जायते सस्यम् ॥१६॥
जिन-जिन देशों में सूर्यबिम्बस्थित तामस-कीलक आदि का दर्शन हो, उन-उन
देशों में राजाओं को दुःख होता है। क्षुधा से पीड़ित मुनि लोग भी स्वधर्म एवं उत्तम
चरित्रों से हीन होकर दुर्बल बालक को हाथ में लेकर दूसरे देश में जाते हैं। सज्जनों के
धन को चोर अपहरण कर लेते हैं। अतः वे सज्जन दीर्घनिश्वास छोड़ने से संकुचित नेत्र
वाले, खिन्न शरीर वाले और शोक से उत्पन्न अश्रुप्रवाह से बन्द नेत्र वाले होते हैं। अपना
राजा और परराष्ट्र से पीड़ित दुर्बल मनुष्य निन्दा करते हुये पूर्वकृत अपने राजा के कर्तव्य
को दूसरे से कहते हैं। गर्भयुक्त होने पर भी मेघ अधिक जल नहीं देते, नदियाँ कृश
( अल्प जल वाली ) हो जाती हैं और धान की उत्पत्ति बहुत कम होती है।।१२-१६।।
यस्मिन् यस्मिन् देश इति । ते तामसकीलकाः सूर्यबिम्बस्था आदित्यमण्डलगताः ।
यस्मिन् यस्मिन् यत्र यत्र देशे दर्शनमायान्त्युपगच्छन्ति तस्मिंस्तत्र तत्र देशे महीपतीनां
भूमिपानां व्यसनं दुःखं परिज्ञेयं ज्ञातव्यम्।
क्षुत्प्रम्लानशरीरा इति । अपिशब्दः सम्भावनायां वर्तते। मुनयोऽपि ऋषयोऽपि
जितक्षुधः, क्षुत्प्रम्लानशरीराः, क्षुद्बुभुक्षा तया प्रकर्षेणातिशयेन म्लानानि शरीराणि देहा
येषां ते तथाभूताः, तथोत्सृष्टं त्यक्तं धर्मसच्चरितं शोभनचारित्रं च यैस्ते तथोक्ताः। तथा
निर्मांसा मांसरहिताः। दुर्बला ये बालाः शिशवोऽन्नाभावात्ते हस्तेषु करेषु येषां ते तथाभूताः।
कृच्छ्रेण क्लेशेन परदेशमन्यदेशं यान्ति प्राप्नुवन्ति।
तथा सन्तः साधवो जनास्तस्करविलुप्तवित्ताः, तस्करैश्चौरैर्विलुप्तं छिन्नं वित्तं धनं
येषाम्। तथा प्रदीर्घैरत्यायामवद्भिर्निःश्वासैः श्वसनैर्मुकुलिताः सङ्कुचिता अक्षिपुटा नेत्राच्छादनानि
येषाम्। तथा सन्नशरीराः, सन्नान्यवसादं गतानि शरीराणि देहा येषाम्। तथा शोकेन दुःखेन
यदुद्भवं बाष्पमश्रु तेन रुद्धे वृते दृशौ चक्षुषी येषां ते तथोक्ताः।
क्षामाः कृशाः जुगुप्समाना निन्दन्तो मनुजा मानवाः। यतः स्वनृपतिपरचक्रपीडिताः।
स्वनृपतिना आत्मीयेन राज्ञा परचक्रेण चान्यराष्ट्रेण पीडिता उपतप्ताः, अतो जुगुप्समानाः।
अन्येऽपरे एवं ब्रुवन्ति कथयन्ति च कथयेति च यथा यत्कर्मास्माभिरद्यानुभूयते तत्पुरा
पूर्वं स्वचरितमात्मनार्जितं न नृपतिचरितं राज्ञा वर्जितमिति।
गर्भेष्वपीति । वारिमुचो मेघा गर्भेष्वपि निष्पन्ना गर्भलक्षणयुक्ता अपि वृष्टिप्राप्त-
समये न प्रभूतं न बहु वारि पयो मुञ्चन्ति त्यजन्ति। तथा सरितो नद्यस्तनुत्वं स्वल्पतोयत्वं
यान्ति गच्छन्ति जलाभावात्। सस्यधान्यादिकं क्वचित्क्वचित्कुत्रचिज्जायते उत्पद्यते न
सर्वत्रेति।।१२-१६।।
अथ तेषामाकृतिवशेन फलमाह—
दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात् कबन्धसंस्थाने ।
ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलकेऽर्कस्थे ॥१७॥
CC-0. JK Sanskrit Academy, Jammmu. Digitized by S3 Foundation USA