सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

बृहद्देशी (मतंग मुनि - राग-पद्धति का विश्व में सर्वप्रथम प्रतिपादक ग्रन्थ)

The Brihaddeshi of Sri Matanga Muni

मतंग मुनि (सम्पादक: के. साम्बशिव शास्त्री) द्वारा

DevanagariSanskritpublished175 पृष्ठ

८६ बृहद्देशी

प्रयोगः। मध्यमो वादी। षड्जः संवादी। ऋषभपञ्चमावनुवा-
दिनौ। विवादी नास्ति। शृङ्गारहास्यौ रसौ। मध्यमादिमूर्च्छना।
अवरोही वर्णः। प्रसन्नान्तोऽलङ्कारः। त्रिषु मार्गेषु गीयते।
दक्षिणे कला वृत्तौ कला चित्रे कला। स्वरपदेषु चच्चत्पुटा-
दितालः। आक्षिप्तिका। शुद्धपञ्च(मा? म)ः षड्जोदीच्यवती-
जातिः स्मृतः।
षड्जांशो मध्यमन्यासः स्वल्प(वि? द्वि)श्रुतिकस्वरः॥
स्यात् षड्जमध्यमाजातेः शुद्धः साधारितस्तथा।
अस्यार्थः—शुद्धसाधारितो रागः षड्जग्रामसंबन्धः।
षड्जमध्यमजातेरुत्पन्नत्वात्। तारषड्जो ग्रहोंऽशश्च। मध्यमो
न्यासश्च। निषादगान्धारयोरल्पत्वम्। पूर्णश्चायम्। गर्भ-
सन्धौ विनियोगः। वीररौद्रादिको रसः। षड्जा(ति? दि)-
मूर्च्छना। अवरोही वर्णः। प्रसन्नान्तोऽलङ्कारः। दक्षिणे कला
वृत्तौ कला चित्रे कला। स्वरपदगीते चच्चत्पुटादितालः।
कैशिकीषड्जमध्यभ्यां शुद्धकैशिकमध्यमः॥ ३२०॥
षड्जांशो मध्यमन्यासस्त्यक्त(स्त्रि? त्रि)श्रुतिपञ्चमः।
अस्यार्थः—शुद्धकैशिकमध्यमो रागः षड्जग्रामस-
म्बन्धः। कैशिकीषड्जमध्यमाजात्योः समुत्पन्नत्वात्। (ननु?)
कैशिकी मध्यमग्रामसम्बद्धा, षड्जमध्यमा षड्जग्रामसम्बन्धा,
अत उभयग्रामतास्तीति भावः। तारषड्जोऽस्य ग्रहोंऽशश्च।
मध्यमो न्यासः। निषाद्गान्धारयोरल्पत्वम्। पञ्चमर्षभयो-
र्लोपः। निषादोऽत्र काकलिषाडवश्च। निर्वहणे चास्य प्रयोगः।
षड्जादिमूर्च्छना। रौद्रवीरादिको रसः। प्रसन्नान्तोऽलङ्कारः।

[रागलक्षणम् ।] [८७]

षड्जांशैः पञ्चमो न्यासः कैशिकीजातिसम्भवः ॥ ३२१॥
तथा कार्मारवीजातेः स्वरैः पूर्णश्च कैशिकः ।
अस्यार्थः—शुद्धकैशिको नाम मध्यमग्रामसम्बन्धः ।
कैशिकीकार्मारवीजात्योः समुत्पन्नत्वात् । तारषड्जोऽस्य ग्रहः
अंश(स्व?श्च)। पञ्चमो न्यासः। निषादोऽत्र काकली। पूर्णस्वरश्चा-
यम्। चित्रस्याष्टादशाङ्गस्य निर्वहणे विनियोगः। वीररौद्रादिको
रसः। षड्जादिमूर्छना । आरोही वर्णः। प्रसन्नादिरलङ्कारः। द-
क्षिणे कला वृत्तौ कला चित्रे कला। स्वरपदगीते चञ्चत्पुटादि-
तालः । ननु एते ग्रामविशेषसम्बन्धाः । कु(तोऽ)यं विशेष-
लाभः । उच्यते । भरतवचनादेवासौ विशेषो लभ्यते । तथा-
चाह भरतमुनिः — “जातिसम्भूतत्वाद् ग्रामरागाणामि”ति ।
यत् किञ्चिदेतद् गीयते लोके तत् सर्वजातिषु स्थितमिति
वचनात् । तथा काश्यपेनाप्युक्तं —
“षाडवे मध्यमग्रामे पञ्चमः ककुभस्तथा ।
षड्जे साधारितश्चैव तथा कैशिकमध्यमः ॥”
ननु अ(यं? मी) विनियोगविशेषाः कस्माल्लभ्यन्ते ।
वचनादेव लभ्यन्ते । तथाचाह भरतः —
“मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत् ।
गर्भे साधारितश्चैवावमर्शो + तु पञ्चमः ॥
संहारे कैशिकः प्रोक्तः पूर्वरङ्गे तु षाडवः ।
चित्रस्याष्टादशाङ्गस्य त्वन्ते कैशिकमध्यमः ।
शुद्धानां विनियोगोऽयं ब्रह्मणा समुदाहृतः ।”
इदानीं भिन्नानां लक्षणमाह —

८८ बृहद्देशीयां

श्रुतिभिन्नो जातिभिन्नः शुद्धभिन्नः स्वरैस्तथा ॥ ३२२ ॥
चतुर्भिर्भिद्यते यस्मात् तस्माद् भिन्नक उच्यते ।
ननु भिन्नशब्देन किमभिधीयते । किं विदारितोऽर्थः,
एतस्मादयं व्यतिरिक्त इत्यर्थो वा भिन्नशब्दः । एतन्न वाच्यम् ।
भिन्नोऽत्र विकृत उच्यते । विकृतत्वं च पूर्वोक्तश्रुतिभिन्ने-
त्यादिलक्षणात् । ननु पञ्चसु रागेषु मध्ये भिन्नषड्जस्य लक्ष-
णमुच्यते ।
“यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते ।”
इत्यादावेवाभिधानं कुतः । सत्यमुक्तं, मुख्यत्वादस्य । मुख्यत्वं
च यथा शुद्धगीतिषु शुद्धषाडबस्य एवं भिन्नगीतिषु भिन्न-
षड्जस्येति तद्भेदादस्येति । इदानीं भिन्नानां प्रागुक्तलक्षण-
प्रकटनार्थं तत्रादौ स्वरभिन्नस्य लक्षणमुच्यते —
यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते ॥ ३२३ ॥
विवादी वानुवादी वा स्वरभिन्नः स उच्यते ।
अस्यार्थः—मध्यमग्रामाश्रितस्य शुद्धषाडबस्य योऽसा
मध्यमो ग्रहांशः तत्स्थाने धैवतोऽपि वादित्वे(न ?) नानुवादि-
त्वेन वा गृहीतो भवति । मध्यमस्वरस्य संवादी त्यज्यते न्यस्यते
वा तदासौ स्वरभिन्न उच्यते । भिन्नषड्जः अत्र वचनाद्
वादी, धैवतः पुनर्बहुप्रयोगो भवति ।
धैवतांशो मध्यमान्तः पञ्चमर्षभवर्जितः ॥ ३२४ ॥
षड्जोदीच्यवती(जमा ? जातो) भिन्नषड्जः स्मृतो बुधैः ।
भिन्नषड्जः (षड्जः ?) षड्जग्रामसंबन्धः षड्जोदीच्य-

वतीजातेर्जातत्त्वात् । धैवतो ग्रहोऽंशश्च । मध्यमो न्यासः ।
ऋषभपञ्चमहीन औडुवितः । निषाद्गान्धारौ काकल्यन्तरौ ।
सर्वोपकरणप्रवृत्तस्य विजातीयो निरर्णानिवृत्तस्य(?) मृगयायां
प्रवृत्तस्य नायकस्य प्रवेशादिकासु अस्य विनियोगः । बीभ-
त्सभयानकौ रसौ । धैवतादिमूर्छना । सञ्चारी वर्णः । प्रसन्नादि-
रलङ्कारः । दक्षिणे कला वृत्तौ कला चित्रे कला । स्वरपदगीते
चच्चत्पुटादितालः । पञ्चमस्य स्थाने स्थाने विवादित्वेन गृहीतो
भवति । पञ्चमस्य श्वसंवादित्वेन(?) वर्ज्यते कदाचिद्सौ भिन्न-
पञ्चमः स्वरभिन्नोऽभिधीयते । लक्षणं च तद्यथा --
शुद्धपञ्चमवत् प्रोक्तः स्वर(न्धै ? षै)भिन्नपञ्चमः ॥३२५॥
धैवतांशः पञ्चमान्तः सूत्रधारप्रवेशने ।
अस्यार्थः--भिन्न(सं ? ) पञ्चमो मध्यमग्रा(म)संबन्धः
षड्जोदीच्यवतीजातेः मध्यमा (पञ्चमी) जात्योर्जातत्वात् ।
ग्रहोऽंशश्च धैवतः। पञ्चमो न्यासः । निषादोऽत्र काकली । क-
चिन्निषादस्यापि प्रयोगः । सम्पूर्णश्चायम् । सूत्रधारप्रवेशोऽस्य
विनियोगः । बीभत्सभयानकौ रसौ । धैवतादिमुर्छना ।
सञ्चारी वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वृत्तौ कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
इदानीं जातिभिन्नस्य लक्षणमाह --
जातीनामंशकं स्थाय( ? ) स्वल्पकरतु बहुरतथा ॥ ३२६॥
अल्पत्वं च बहुत्वं च प्रयोगाल्पबहुत्वतः ।
सूक्ष्मातिसूक्ष्मैर्व्यक्तैश्च जातिभिन्नः स उच्यते ॥ ३२७ ॥
ञ

९० बृहद्देश्या
अस्यार्थः- शुद्धकैशिकमध्यो हि कैशिकीषड्जमध्य-
माजात्योर्जात(य ?)ः । भिन्नकैशिकमध्यस्तु षड्जमध्यमजाते-
र्जातत्वात् तदंशग्राहित्वेन मस्थायिवर्णग्राहित्वेन च सूक्ष्मा-
(ति)सूक्ष्मैः प्रयोगैश्च जातिभिन्नो भवे(दि)त्यर्थः । लक्षणं
चास्य यथा -
स्यात् षड्जमध्यमाजा(तै ? ते)र्भिन्नकैशिकमध्यमः ।
षड्जांशो मध्यमन्यासो मन्द्रैस्तु गमकैर्युतः ॥ ३२८ ॥
भिन्नकैशिकमध्यमः षड्जग्रामसंबन्धः षड्जमध्यम-
जातेरुत्पन्नत्वात् । षड्(जोऽंश ? जो )स्यग्रहोऽंशश्च । मध्यमो
न्यासः । मन्द्रगमकश्च । निषादोऽत्र काकली । पूर्णश्चायम् ।
दानवीरे चास्य प्रयोगः । वीररौद्रादिको रसः । षड्जादि-
मूर्छना । वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला
वार्त्तिके कला चित्रे कला । चच्चत्पुटादितालः ।
शुद्धभिन्नस्य लक्षणमाह -
परित्यजन्नन्यजातिं स्वजातिकुलभूषणः ।
स्वकं कुलं तु संगृह्णन् शुद्धभिन्नः प्रकीर्तितः ॥३२९।
अस्यार्थः- अन्यां जातिं परिहरन् स्वजातिकुलभूषितं
स्वमूलं तु संगृह्णन्निति । शुद्धस्य लक्षणं समग्रं भिन्नकैशिक-
स्यापि विद्यते । तर्हि को भेदः । (कटी ? गी)तिकृतो भेदः । शुद्ध-
कैशिको हि शुद्धगत्या गीयते, भिन्नकैशिकस्तु भिन्नगीत्या
गीयते । एतदुक्तं भवति - येन संस्थानेन रागीयन्ते शुद्ध-
कैशिकेन तेन (स्थं ?) संस्थानेन भिन्नकैशिके रागीयत(१)
इति । लक्षणं चास्य यथा -

रागलक्षणम् । ९१
शुद्धकैशिकवद् रूपस्वरैर्भिन्नकैशिकः ।
षड्जांशः पञ्चमन्यासः सम्पूर्णः सप्तभिः स्वरैः ॥ ३३० ॥
अस्यार्थः — भिन्नकैशिको मध्यमग्रामसम्बन्धः कै-
शिकीकार्मारवीजात्युत्पन्नत्वात् । अहाँऽशश्च षड्जः । पञ्चमो
न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम् । शुद्धकैशिक
उदयं ( ?) यद्यपि रागः तथापि भेदोऽस्ति । मन्द्रबहुलोऽयम् ।
येन संस्थाने(न) शुद्धकैशिके स्वरालापः क्रियते, तत्संस्थानं
विहा(य) तैरेव स्वरैरालापः कर्तव्यः । विभिन्नकैशिके हि ता-
रस्वरैरालापः कर्तव्य इति । रूपान्यत्वेनार्य भिद्यते । दानवीरे
चास्य विनियोगः । वीररौद्रादिको रसः । षड्जादिमूर्च्छना ।
वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
साम्प्रतं भिन्नतानस्य लक्षणमाह —
चतुःश्रुतिस्वरो यत्र भिन्नो द्विश्रुतिकेन तु ।
(आधा ? गान्धा)रो द्विश्रुतिश्चैव श्रुतिभिन्नः स उच्यते ॥
अस्यार्थः—चतुःश्रुतेः पञ्चमस्य यदा श्रुतिद्वयं गृ-
ह्णाति निषादः तदासौ श्रुतिभिन्नोऽभिधीयते । ननु मध्यम-
ग्रामे पञ्चमस्य त्रिश्रु(ति)कत्वात् कथं श्रुतिद्वयं गृह्णाति नि-
षादः । उच्यते । भूतपूर्वन्यायेन चतुःश्रुतिरुच्यते । यथा भि-
न्नकैशिकरागे त्रिश्रुतिपञ्चमस्य चश्रुतित्वमाश्रित्य लोपः
कृतः षड्जग्रामे, एवमत्रापि भविष्यतीति न दोषः । लक्षणं
चास्य तयथा —-

९२ बृहद्देश्यां
तानस्तु मध्यमन्यासः पञ्चमांशोऽल्पसप्तमः ।
मध्यमापञ्चमीजात्योर्ऋषभेण तु दुर्बलः ॥ ३३२ ॥
अस्यार्थः — भिन्ननासिका(?) मध्यमग्रामसंबन्धः,
मध्यमापञ्चमीजात्युत्पन्नत्वात् । पञ्चमो ग्रहोऽशश्च । मध्यमो
न्यासः । मध्यमनिषादयोरल्पत्वम् (?) । निषादोऽत्र काकली ।
पूर्णश्चायम् । प्रौढकरुणेऽस्य प्रयोगः । पञ्चमादिमूर्च्छना ।
सञ्चारी वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला
चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
भिन्नानां ग्रामविभागस्तु काश्यपेनोक्तः । तथाच —
“भिन्नषड्जस्तु षड्जे स्याद् भिन्नकैशिकमध्यमः ।
पञ्चमः कैशिकस्ताने मध्यमग्रामसंश्रितः ॥”
इति भिन्नाः समाख्याता गौडकान् शृणु साम्प्रतम् ।
ननु गौडाः कथम् । उच्यते गौडगीतिसंबन्धत्वात् ।
किं लक्षणम् । उच्यते । तथथा —
ओहाडी मन्त्रजा(?) + तु प्रयोगै(र्द्रु ? र्हु)तकम्पितैः ॥
अविश्रामेण त्रिस्थाने गौडगीतिरुदाहृता ।
गौडपञ्चमस्य लक्षणं —
गौडपञ्चमनिष्पत्तौ धैवतीषड्जमध्यमे ॥ ३३४ ॥
धैवतांशो मध्यमान्तो (वि ? र)हितः पञ्चमेन तु ।
अस्यार्थः—गौडपञ्चमः षड्जग्रामसम्बन्धः, धैवती-
षड्जमध्यमाजात्योः समुत्पन्नत्वात् । धैवतोंऽशो ग्र(ह)श्च ।
मध्यमो न्यासः । निषादगान्धारौ काकल्यन्तरौ । पञ्चमरहितोऽयं

रागलक्षणम् । ९३
षड्स्वरः। उद्भटनाट्ये विप्रलम्भशृङ्गारे चास्य विनियोगः ।
बीभत्सभयान(क)रसौ रसः। धैवतादिमूर्च्छना । आरोही वर्णः।
प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे
कला । स्वरपदगीते चच्चत्पुटतालः ।
उत्पन्नः कैशिकीषड्जमध्यमाजातितो मतः ॥ ३३५ ॥
षड्जांशः पञ्चमन्या(सः) सम्प्रोक्तो गौडकैशिकः ।
अस्यार्थः — गौडकैशिको रा(मो ? गो) मध्यमग्राम-
सम्बन्धः । कैशिकीषड्जमध्यमाभ्यां जातः । षड्जोऽस्य
ग्रहोऽशश्च । पञ्चमो न्यासः । निषादोऽत्र काकली । पूर्ण-
श्चायम् । तथा प्रयोगोऽस्ति । त्रिश्रुतिकत्वात् पञ्चमस्य,
चतुःश्रुतिकत्वाद् धैवतस्य मध्यमग्रामसम्बन्ध एवासौ रागः ।
यद्यपि ग्रामद्वयजातौ जातः, तथापि षड्जोऽस्य ग्रामः, न
मध्यमः । तथा दर्शनात् । करुणे चास्य विनियोगः । वीरा-
दिको रसः । षड्जादिमूर्च्छना । आरोही वर्णः । प्रसन्नादिर-
लङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरप-
दगीते चच्चत्पुटादितालः ।
षड्जांशो मध्यमन्यासः षड्जमध्यम(वा ? या)कृतः ॥
परिपूर्णस्वरः प्रोक्तो गौडकैशिकमध्यमः ।
अस्यार्थः — गौडकैशिकमध्यमः षड्जग्रामसम्बन्धः
प(ड्ज)मध्यमाजाते(त ?)र्जातत्वात् । षड्जोऽस्य ग्रहोऽशश्च ।
मध्यमो न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम्। भयानके

चास्य विनियोगः। वीरादिको रसः। षड्जादिमूर्छना। आरोही
वर्णः। प्रसन्नमध्योऽलङ्कारः। दक्षिणे कला वार्त्तिके कला चित्रे
कला। स्वरपदगीते चच्चत्पुटादितालः।
इदानीं गौडानां ग्रामविभागमाह —
गौडपञ्चम(ग ? क): षड्जे गौडकैशिकमध्यमः ॥ ३३७ ॥
गौडकैशिकरागस्तु मध्यमग्रामसंश्रयः।
त्रयो गौडाः समाख्याता रागान् वक्ष्याम्यतः परम्॥
ननु बेसराणां कथं रागशब्दः प्रवर्तते। आ(टो ? तो)
पदेशात्। तथाचाह कश्यपः —
“चतुर्णामपि वर्णानां योगा रागः + शोभना (?)।
स सर्वो दृश्यते येन तेन रागा इति स्मृताः ॥”
दुर्गशक्तिमते रागा एव बेसरा गण्यन्ते। तथाचाह
दुर्गशक्तिः —
“स्वराः सरन्ति यह्वेगात् तस्माद् बेसराकाः स्मृताः।”
दुर्गशक्तिमते बेसरषाडब एव मुख्यः, षाडबत्वेन क्रमायात-
त्वात्। कश्यपमते तु टक्कराग एव मुख्यः, लक्ष्मीप्रीतिकर-
त्वात्। तथधा —
षड्जांशन्याससंयुक्तष्टकरागोऽल्पपञ्चमः।
कार(णा ? णं चा)स्य निर्दिष्टे धैवतीषड्जमध्यमे ॥ ३३९ ॥
अस्यार्थः — टक्करागः षड्जग्रामसम्बन्धः, धैवती-
षड्जमध्यमासमुत्पन्नत्वात्। षड्जोऽस्य ग्रहोऽशश्च न्यासश्च।
निषादपञ्चमयोरत्राल्पत्वम्। निषादगान्धारावत्र काकल्य-
न्तरौ। पूर्णश्चायम्। शुद्धवीरेऽस्य प्रयोगः। वीराद्भुतौ

राग्लक्षणम् । ९५

रसौ । षड्जादिमूर्छना । वर्णः सञ्चारी । प्रसन्नान्तो-
ऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वर-
पदगीते चच्चत्पुटादितालः ।
अंशश्च षड्जो न्यासश्च कारणं षड्जमध्यमा ।
सौवीरकस्य गान्धारो निषादश्चापि दुर्बलः ॥ ३४० ॥
अस्यार्थः — सौवीरकः षड्जग्रामसम्बन्धः षड्ज-
मध्यमाजातेर्जातत्वात् । षड्जोऽस्य ग्रहोऽशो न्यासश्च । गा-
न्धारनिषादयोरल्पत्वम् । निषादः काकली । पूर्णश्चायम् । गृह-
मेधिनां संयमिनां तापसानां च प्रवेशादिके चरिते शान्तरसे
चास्य विनियोगः । वीरादिको रसः षड्जादिमूर्छना । आरोही
वर्णः। प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे
कला । स्वरपदगीते चच्चत्पुटे तालः ।
पञ्चमांशस्तदन्तश्च पञ्चमीमध्यमोद्भवः ।
स्वल्पद्विश्रुतिकश्चैव ज्ञेयो मालवपञ्चमः ॥ ३४१ ॥
अस्यार्थः—मालवपञ्चमो मध्यमग्रामसम्बन्धः, मध्य-
मापञ्चमीसमुत्पन्नत्वात् । पञ्चमोंऽशो ग्रहो न्यासश्च । निषादगा-
न्धारयोरल्पत्वम् । निषादोऽत्र काकली । पूर्णस्वरश्चायम् । विप्र-
लम्भशृङ्गारे कञ्चुकिप्रवेशे चास्य विनियोगः । पञ्चमादिमूर्छना ।
रसौ शृङ्गारहास्यौ । आरोह्यादिवर्णः । प्रसन्नादिरलङ्कारः ।
दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते
चच्चत्पुटादितालः ।
मध्यमांशस्तथा न्यासः कारणं षड्जमध्यमा ।
द्विश्रुतिभ्यां विहीनस्तु भवेद् बेसरषाडवः ॥ ३४२ ॥

९६ बृहद्देश्यां
अस्यार्थः— वेसरपाडवः षड्जग्रामसंबन्धः, षड्ज-
मध्यमाजातत्वात् । मध्यमोंऽशो ग्रहो न्यासश्च । (गान्धार-
निषादयोरल्पत्वम् ।) गान्धारनिषादौ काकल्यन्तरौ । नित्यं
पूर्णस्वरश्चायम् । शान्तरसे चास्य प्रयोगः । शृङ्गारहास्यौ रसौ ।
मध्यमादिमूर्च्छना । आरोही वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे
कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादि-
तालः ।
स्यात् षड्जमध्यमाजातेः पञ्चम्याश्च विनिर्गतः ।
घोट्टरागश्च विज्ञेयः पञ्चमोंऽशो(ऽन्त)मध्यमः ॥ ३४३ ॥
अस्यार्थः—घोट्टरागः षड्जग्रामसंबन्धः षड्जमध्य-
मापञ्चमीजात्योर्जातत्वात् । यद्यप्युभयग्रामसंभूतजातिद्वयसमु-
त्पन्नः, तथापि पञ्चमस्य चतुःश्रुति(श्रुति?)कत्वात् षड्जग्राम-
संबन्धः । पञ्चमो ग्रहोंऽशश्च । मध्यमो न्यासः । निषादगान्धार-
योरल्पत्वम् । निषादोऽत्र काकली । पूर्णस्वरश्चायम् । उत्सवे
चास्य विनियोगः । शान्तादिको रसः पञ्चमादिमूर्च्छना ।
आरोही वर्णः । प्रसन्नान्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके
कला चित्रे कला । स्वरपद्गीते चच्चत्पुटादितालः ।
षड्जांशन्याससंयुक्तो धैवत(न्त ?)र्ष(भ)वर्जितः ।
धैवत्यार्ष(भी ?भिका)सक्तो भिन्दोलः प्रेक्षके भवेत् ॥३४४॥
अस्यार्थः—भिन्दोलको मध्यमग्रामसंबन्धः धैवत्या-
र्षभीरहितः । उभयग्रामसंबन्धशेषस्वराख्यजातिसमुत्पन्नत्वादु-
भयग्रामिकत्वमेव युक्तम् । कथं मध्यमग्रामाश्रित इति । धै-
वतर्षभी(ही)नत्वान्मध्यमग्रामसंबन्ध एव । भरतकोहलादिभि-

[Header]
रागलक्षणम् । ९७

राचार्यैः षड्जग्रामधैवतर्षभलोपस्यानिष्टत्वात् केचित् षड्-
जग्रामाश्रित एवायमिति मन्यन्ते । चतुःश्रुतिकस्य पञ्चमस्या-
त्रोपलम्भात् । धैवतस्य चानाशित्वं तानविषयमेव द्रष्टव्यं न
सर्वत्रेति । एतच्चायुक्तम् । एवं हि सति ग्राममू(र्च्छ)नाभेदो न
स्यादिति । षड्जोऽस्य ग्रहोऽंशो न्यासश्च । निषादोऽत्र काकली ।
धैवतऋषभहीन(श्च ?)मौडवितम् । सम्भोगशृङ्गारेऽस्य विनि-
योगः । वीरादिरसः । मूर्छना(दि ?)षड्जादिः। वर्ण आरोही ।
प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला ।
स्वरपदगीते चच्चत्पुटादितालः ।
धैवतांशस्तदन्तश्च स्वल्पद्विश्रुतिकस्वरः ।
धैवतीमध्यमाजात्योः सञ्जातष्टक्ककैशिकः ॥ ३४५ ॥
अस्यार्थः—धैवतीमध्यमाजात्योर्जातत्वाट्टक्ककैशिकः
षड्जग्रामसंबन्धः । ननु (यस्याज ? उभय)ग्रामसंबन्धिन्यो-
र्जा(न्यो ? ल्योः) समुत्पन्नोऽयं रागः षड्जग्रामसंबन्ध इति
(कथं)वक्तुं युक्तम् । अस्य प्रयोगे चतुःश्रुतिसंबन्धः पञ्चम
उपलभ्यते । (पञ्चमे धैवतेन भिन्नामयोर्भेदकारिणौ ?) । अतः
पञ्चमस्य चतुःश्रुतिकत्वात् षड्जग्रामसम्बन्ध एवायं रागः ।
ग्रहोऽशो न्यासश्च धैवतः । निषादगान्धारौ चात्र काकल्य-
न्तरौ । पूर्णस्वरश्चायम् । कश्यपमते निषादगान्धारयोर्लोपा-
दयमौडुवितः । उङ्घटनाट्ये कामग्रस्ततत्कञ्चुकिप्रवेशे चास्य
विनियोगः । बीभत्सा दिरसः । मध्यमादिधैवता(?) मूर्छना ।
आरोही वर्णः । दक्षिणे कला वार्त्तिके कला चित्रे कला ।
स्वरपदगीते चच्चत्पुटादितालः ।

९८ बृहद्देश्यां
कैशिकीजातिसम्भूतः षड्जांशन्याससंयुतः ।
दुर्बलो धैवतेन स्याद् रागो मालवकैशिकः ॥ ३४६ ॥
पञ्चमं केचिदिच्छन्ति हास्याद्या + + कर्मणि ।
गान्धारं च तथा चान्ये तद्धि लक्ष्ये न दृश्यते ॥ ३४७॥
अस्यार्थः—मालवकैशिको मध्यमग्रामसम्बन्धः, कै-
शिकीजातेर्जातत्वात् । षड्जो ग्रहोंऽशो न्यासश्च। धैवतस्या-
त्राल्पत्वम् । प्रयोगो निषादोऽत्र काकलिः । पूर्णस्वरश्चायम् ।
विप्रलम्भे शृङ्गारे चास्य विनियोगः । वीरादिको रसः । षड्जा-
दिमूर्छना । आरोही वर्णः । अलङ्कारः प्रसन्नमध्यमः । दक्षिणे
कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादि-
तालः ।
इदानीं वेसराणां ग्रामविशेषो दृश्यते —
टक्करागश्च सौवीरस्तथा वै टक्ककैशिकः ।
बोट्टरागश्च षड्जाख्ये भवेद् वेसरषाडवः ॥ ३४८ ॥
हिन्दोलकस्तु विज्ञेयो मध्य(म)ग्रामसम्भवः ।
मालवपञ्चमश्चैव मालवकैशिकस्तथा ॥ ३४९ ॥
इति वेसरकाः प्रोक्ताः सर्वे निश्चितलक्षणाः ।
स्वराणां दृश्यते वेगस्तेन वेगस्वराः स्मृताः ॥ ३५० ॥
शुद्धा भिन्नाश्च गौडाश्च तथा वेगस्वराः परे ।
कथिताः साम्प्रतं वक्ष्ये सप्त साधारणंस्ततः ॥ ३५१ ॥
ननु साधारणा(नां) कथं साधारणत्वम् । उच्यते ।
पूर्वोक्तानां सर्वेषां रागाणां या गीतयस्ताभि(र्जीं ? र्जा)यमा

रागलक्षणम् । ९९
नत्वात् तेषां साधारणत्वम् । एतत् साधारणगीत्या गीयमान-
त्वात् । तथा चाह कश्यपः —
"पञ्च साधारणाः प्रोक्ताः सर्वगीतिसमाश्रयाः ।"
ननु काश्यपमुनिना न(क ?)र्तरागस्य किमित्यादौ नि-
र्देशः कृतः । उच्यते । उद्धटचारिमण्डलादौ विनियुज्यमान-
त्वाद् मुख्यत्वमिति कश्यपमते । दुर्गशक्तिमते तु षड्जकै-
शिक एव मुख्यः । कुतः । षाडवत्वेन क्रमायातत्वात् । त-
द्यथा —
पञ्चमांशो मध्यमान्तः पञ्चमीमध्यमोद्भवः ।
नर्तरागस्तु विज्ञेयः स्वल्प(वि?हि)श्रुतिकस्वरः ॥ ३५२ ॥
अस्यार्थः—नर्तरागः मध्यमग्रामसम्बन्धः, पञ्चमीम-
ध्यमोद्भवत्वात् । पञ्चमो ग्रहोऽशश्च । मध्यमो न्यासः निषादगा-
न्धारयोरत्राल्पत्वम् । निषादोऽत्र काकली । उद्धटचारिमण्डला-
(जौ ? दौ) चास्य विनियोगः । शृङ्गारादिरसः । पञ्चमादिमूर्छना-
अलङ्कारः प्रसन्नमध्यमः । वर्णः सञ्चारी इति कश्यपमते ।
दुर्गशक्तिमते तु अयमेव रागः पञ्चमीधैवतीजात्योर्जायते ।
षड्जग्रामसंबन्ध एव योद्धव्यः । कुतः। पञ्चमस्य चतुःश्रुति-
कत्वात्, धैवतस्य त्रिश्रुतिकत्वात् षड्जग्रामसंबन्धः ।
स्यात् पा(जि ? ङ्जी)धैवतीजात्योः षड्जन्यासांशसंयुतः ।
दुर्बलः पञ्चमो यत्र *काकल्यः (?)परिकीर्तितः ॥ ३५३ ॥
अस्यार्थः —शकः षड्जग्रामसम्बन्धः पाङ्गीधैव-
तीसमुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽशो न्यासश्च । (पञ्चमस्या-

  • 'स शकः' इति पाठः स्यात् ।

१०० बृहद्देश्या
ल्पत्वम् ।) निषादगान्धारौ चात्र काकल्यन्तरौ । पूर्णस्वर-
श्चायम् । वीराद्भु(तो ? ते) हास्ये निर्वहणे चास्य विनियोगः ।
वीरादिको रसः । षड्जादिमूर्च्छना । आरोही वर्णः । प्रसन्न-
मध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला ।
स्वरपदगीते चञ्चत्पुटादितालः ।
मध्यमापञ्चमीजात्योधैवत्याश्च विनिस्सृतः ।
ककुभः पञ्चमन्यासो धैवतांशस्तु निर्मितः ॥ ३५४ ॥
अस्यार्थः—ककुभः षड्जग्रामसम्बन्धः मध्यमापञ्चमी-
धैवतीसमुत्पन्नोऽपि षड्जग्राम एव । कुतः । पञ्चमस्य चतुःश्रुति
कत्वाद्, धैवतस्य श्रुतिकत्वाच्च धैवतोऽस्यांशो ग्रहश्च । पञ्चमो
न्यासः । पूर्णस्वरश्चायम्। मध्यमकरणेऽस्य विनियोगः । करु-
णोऽस्य रसः । धैवतादिमूर्च्छना । आरोही वर्णः । प्रसन्नमध्यो-
ऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला स्वरपद-
गीते चञ्चत्पुटादितालः ।
षड्जांशो मध्यमन्यासः स्वल्पद्विश्रुति(क)स्वरः ।
शुद्धमध्यमिकाजातेर्भवेद् भम्माणपञ्चमः ॥ ३५५ ॥
अस्यार्थः — भम्माणपञ्चमो मध्यमग्रामसम्बन्धः,
शुद्धमध्यमाजातेः समुत्पन्नत्वात् । षड्जो । ग्रहोऽशश्च मध्यमो
न्यासः । निषादगान्धारयोरल्पत्वम्। निषादोऽत्र काकली। पूर्ण-
स्वरश्चायम् । पथि ग्रीष्मे श्रान्तेष्वरण्येषु चास्य विनियोगः ।
वीरादिरसः । षड्जादिमूर्च्छना । आरोही वर्णः । प्रसन्नमध्यो-
ऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वर-
पदगीते चञ्चत्पुटादितालः ।

रागलक्षणम् । १०१
षड्जमध्यनिषादाभ्यां रूपसाधारितो भवेत् ।
षड्जांशो मध्यमन्यासः पञ्चमर्षभस्वल्पकः ॥ ३५६ ॥
अस्यार्थः—रूपसाधारितः षड्जग्रामसम्बन्धः, षड्ज-
मध्यमानिषादसकाशादुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽशश्च ।
मध्यमन्यासः । (पञ्चमर्षभयोरल्पत्वम्) । निषादोऽत्र काक-
ली । पूर्णश्चायम् । वीरकरुणेऽस्य प्रयोगः । वीरादिरसः ।
षड्जादिमूर्छना । आरोही वर्णः । अलङ्कारः प्रसन्नमध्यः ।
दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चञ्च-
त्पुटादितालः ।
गान्धारीरक्तगान्धार्योर्जातो गान्धारपञ्चमः ।
गान्धारोऽस्य भवेदंशो न्यासो गान्धार एव च ॥ ३५७ ॥
अस्यार्थः—गान्धारपञ्चमो मध्यमग्रामसम्बन्धः, गा-
न्धारीरक्तगान्धारीसमुत्पन्नत्वात् । यद्यपि दुर्गशक्तिमते धैवती-
समुत्पन्नोऽसौ, तथापि पञ्चमस्य त्रिश्रुतिकत्वाद् उभय-
ग्रामजातिजातोऽपि मध्यसम्बन्ध एव । गान्धारोऽस्य ग्रहोऽशो
न्यासश्च । प्रयोक्तृप्रेक्षया गान्धारो धैवतो भवेत् । निषादोऽत्र
काकली । पूर्णश्चायम् । अद्भुते (ऽस्य विनियोगः ? ।) विस्मये
हास्ये चास्य विनियोगः । करुणो र(स)ः । गान्धारादिमूर्छना ।
सञ्चारी वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके
कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
धैवत्यार्ष(भी ? भिका)जात्योर्जातः पञ्चमषाडवः ।
ऋषभां (श) समायुक्तो मध्यमो न्यास एव च ॥ ३५८ ॥

१०२ बृहद्देश्यां
अस्यार्थः—पञ्चमषाड(वः) षड्जग्रामसंबन्धः । ऋ-
षभोऽस्य ग्रहोँऽशश्च । मध्यमो न्यासः, प्रयो(क्त ? क्तृ)-
प्रेक्षया क्वचिदंशोऽपि निषाँदोऽत्र काकली। पूर्णश्चायम्। उद्भ-
टचारिमण्डला(जौ ? दौ) विनियोगः । वीरादिरसः । ऋष-
भादिमूर्च्छना । प्रसन्नाद्यन्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके
कला चित्रे कला । स्वरपदगीते चञ्चत्पुटादितालः ।
ऋषभांशो मध्यमान्तः संपूर्णस्व(र)कस्तथा ।
आर्षभीमध्यमाजात्यो रेवगुप्तः प्रकीर्तितः ॥ ३५९ ॥
अस्यार्थः—रेवगुप्तः षड्जग्रामसंबन्धः । आर्षभीमध्य-
मजात्योरुत्पन्नोऽपि षड्जग्रामसंबन्ध एव । पञ्चमस्य चतुः-
श्रुतिकत्वात्। ऋषभोऽस्य ग्रहोँऽशश्च । न्यासो मध्यम एव च ।
निषादोऽत्र काकली । पूर्णस्वरश्चायम् । उद्भटचारिमण्डला-
(जौ ? दौ) विनियोगः । वीरादिरसः । ऋषभादिमूर्च्छना ।
आरोही वर्णः । प्रसन्नाद्यन्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके
कला चित्रे कला । चञ्चत्पुटादितालः ।
[इदानीं साधारणानां ग्रामविभागः प्रदर्श्यते —
हर्म्याणपञ्चमे ज्ञेयो मध्यमग्रामसम्भवः ।
गान्धारपञ्चमो नर्तः षड्(ज)कैशिक एव च ॥ ३६० ॥
रूपसाधारणः ?]
स्यात् षाड्जीधैवतीजात्योष्टक्करागस्तु सैन्धवः ।
षड्जांशन्याससंयुक्तः पञ्चमेन तु दुर्बलः ॥ ३६१ ॥
अस्यार्थः — टक्कसैन्धवरागः षड्जग्रामसंबन्धः ,

[Header] रागलक्षणम् । १०३
षाड्जीधैवतीसमुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽंशो न्यासश्च ।
निषादगान्धारौ (चित्रे ? चात्र) काकल्यन्त(रेण ? रौ) पञ्चम-
स्याल्पत्वम्। पूर्णस्वरश्चायम्। शुद्धवी(र्य ? रे)ऽस्य विनियोगः ।
वीरादिको रसः । षड्जादिमूर्छना । आरोही वर्णः । प्रसन्ना-
न्तोऽलंङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला। स्वर-
पदगीते चच्चत्पुटादितालः ।
इदानीं साधारणानां ग्रामविभागः प्रदर्श्यते —
भम्माणपञ्चमो ज्ञेयो मध्यमग्रामसम्भवः ।
गान्धारपञ्चमो नर्तः षड्जकैशिक एव च ॥ ३६२ ॥
रूपसाधारितो रागः शकः ककुभ एव च ।
रेवगुप्तस्तु षड्जाख्ये ज्ञेयः पञ्च(म)षाडवः ॥ ३६३ ॥
सप्त साधारणाः प्रोक्ता ग्रामद्वयस(माश्र)याः ।
ननु पूर्वोक्तानां मूर्छनाविशेषनिर्देशः कस्माज्ज्ञायत
इति । उच्यते । (आप्तवचनाद्) मूर्छनाविशेषो ज्ञायने ।
तथाचाह काश्यपः—

१०४ 'बृहद्देश्यां
मन्द्रतारौ तथा ज्ञात्वा योजनीयं मनीषिभिः ।
ग्रामरागाः प्रयोक्तव्या विधिवद् दशरूपके ॥
प्रवेशाक्षे(म ? प)नि(प्रः ? ष्काम)प्रासादिकमथान्तरम् ।
गानं पञ्चविधं यत् तद् रागैरेभिः प्रयोजयेत् ॥
पूर्वरङ्गे(तु) शुद्धा स्याद् भिन्ना प्रस्तावनाश्रया ।
वेसरामुखयोः कार्या गर्भे गौडी विधीयते ॥
*साधारितावमर्शे स्या + हणे स्यात् + सर्वदा (?) ।"
इति मतङ्गमुनिविरचितबृहद्देश्यां
रागलक्षणं तृतीयं समाप्तम् ॥
अथ भाषालक्षणम् ।
ग्रामरागा मया सर्वे कथिता लक्षणान्विताः ॥ ३६४ ॥
भाषाणां तु प्रवक्ष्यामि लक्षणं च ततः शृणु ।
भाषा चतुर्विधा प्रोक्ता मूलसङ्कीर्णदेशजाः ॥ ३६५ ॥
छायामात्राश्रयाः प्रोक्ता ग्रामरागे व्यवस्थिताः ।
काश्यप उवाच ।
"कीदृशी तु भवेद् भाषा सङ्कीर्णा देशजातरे (?) ।
छायामात्रानुगाः प्रोक्ता ग्रहांशन्याससंयुताः ॥
कतमा, षाडबा तत्र कतमौडुबिता भवेत् ।

  • पूर्णा तु कतमा ज्ञेया साधारणकृता तु सा ॥
    ग्रामरागेषु का कुत्र कीदृशी गी (तये ? यते) जनैः ।
    कतमा प्राप्यते भाषा विभाषा कतमा भवेत् ॥
  • 'साधारितावमर्शे स्यात् सन्धौ निर्वहणे तथा' इति सङ्गीतरत्नाक-
    रोद्धृतं भरतवाक्यं दृश्यते ।

भाषालक्षणम् । १०५
कतमान्तरभाषा वै कतमा स्यादनुक्रमात् ।
एतन्मे ब्रूहि तत्त्वेन महत् कौतूहलं हि मे ॥
याष्टिक उवाच ।
शृणुष्वावहितो भूत्वा भाषालक्षणमुत्तमम् ।
यत् पृथिव्यां प्रयत्नेन गीयते गीतवेदिभिः ॥
प्रकाशं नच लक्ष्यन्ते यत्नहीनैस्तु गायकैः ।
प्रगीतास्तु प्रसिध्यन्ति सुस्वराणां विशेषतः ॥
अहं ते कथयिष्यामि सर्वं तत्त्वेन लक्षणम् ।
पूर्वं ग्रामद्वयं प्रोक्तं ग्रामरागास्तदुद्भवाः ॥
ग्रामरागोद्भवा भाषा भाषाभ्यश्च विभाषिकाः ।
विभाषाभ्यश्च सञ्जातास्तथा चान्तरभाषिकाः ॥
टक्करागे दश द्वे च केचिदिच्छन्ति षोडश ।
तत ऊर्ध्वं निगद्यन्ते चाष्टौ मालवकैशिके ॥
ककु(भैः ? भे) सप्त वै प्रोक्ताः पञ्च हिन्दोलके स्मृताः ।
पञ्चमे दश विख्याता भिन्नषड्जे नव स्मृताः ॥
सौवीरके चतस्रस्तु चतस्रो भिन्नपञ्चमे ।
घोट्टरागे तथाप्येका तथा मालवपञ्चमे ॥
टक्ककैशिकजास्तिस्रो द्वे च बेसरषाडवे ।
भिन्नताने तथा ह्येका चैका गान्धारपञ्चमे ॥
पञ्च(मा ? म) षाडवे ह्येका इत्येतास्तु समासतः ।
भाषा विभाषाः कथितास्त्र्यधिका सप्ततिर्बुधैः ॥