सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

ो विद्यमानोऽपि नामुं बध्नाति पूर्ववत् ।`

  • Wait, प्रपञ्चो - standard.
  • : अहंताममताशून्यं ध्वस्ताज्ञानमनोमलम् ॥ ३२ ॥
  • : स्वाभाविकी व्यापकता निरुद्धा मनसास्य ताम् ।
  • : भूपः प्राप्य मनश्छेदाद्योगी ब्रह्मैव जायते ॥ ३३ ॥
    • Wait, look at भूपः: is it भूपः?
      Look at भू: भ with ू.
      Next: प with visarga ः.
      Yes, it clearly reads भूपः.
  • : यत्सुखं दिव्यरामायाः प्रसङ्गे सुरतोद्भवम् ।
  • : ततः कोटिगुणं प्राप्य योगी नात्रापि सज्जते ॥ ३४ ॥
  • : पुंप्रकृत्योर्युतिर्यवत्तावद्भोगः प्रवर्तते ।
  • : वियुक्ते पुरुषे शुद्धः स्वात्मानन्दोऽवशिष्यते ॥ ३५ ॥
  • : `अप्रतर्क्योऽप्रमेयश्च व्यापको विश्वतः स्
  • १२९ -
    सुखं दुःखं तथा मोह इच्छाद्वेषादयोऽपि च ।
    चतुष्ट्यान्तः करणमिति लिङ्गप्रविस्तरः ॥ ४३ ॥
    भासकस्तस्य सर्वस्य स्वयमात्मा चिदात्मकः ।
    मान दम्भं मदं हिसामक्षान्ति कुटिलात्मताम् ॥ ४४ ॥
    अशौचमत्तां संगो लौल्यमिन्द्रियवश्यता ।
    संसक्तिरिन्द्रियार्थेषु मनोऽहंकार एव च ॥ ४५ ॥
    संसारदुःखाज्ञान च दोषाणां चात्मनोऽबुधिः ।
    अलब्धिपरितापश्च पुत्रदारधनस्पृहा ॥ ४६ ॥
    वैषम्यं चापि चित्तस्थ स्वकीय परकीययोः ।
    तथेष्टानिष्टविषये रागद्वेषमतिः क्रमात् ॥ ४७ ॥
    मम चाननुसंधानं गाढदुःखेऽपि विस्मृतिः ।
    विषयासेविनां संगोविरक्तिर्मज्जनेषु च ॥ ४८ ॥
    बाह्यार्थमात्रनिष्ठत्वं लौकिकार्थविमर्शनम् ।
    एतदज्ञानमुदितं सकार्यं भवते मया ॥ ४९ ॥
    येनास्य जायते भ्रंशः स्वात्मानन्दमहायदात् ।
    तद्विरोधि भवेज्ज्ञानं स्वात्मसंसिद्धिकारणम् ॥ ५० ॥
    अनादिरस्य सम्बन्धः प्रकृत्या गुणरूपया ।
    गुणाश्चैव विकाराश्च तदुत्थाः सर्व एव हि ॥ ५१ ॥
    सर्वत्र प्रकृतिः कर्त्री भोक्ता पुरुष उच्यते ।
    साक्षी सर्वस्य लोकस्य स्वात्मचैतन्यदीपकः ॥ ५२ ॥
    स एकोऽपिद्विधा जातो जीवान्तर्यामिभेदतः ।
    एवं यो वेद देहेऽस्मिन् वर्तमानं महेश्वरम् ॥ ५३ ॥
    मायामोहसमुद्भूता न तस्य भवेद्वेदना ।
    केचित्तु ध्यानयोगेन ज्ञानयोगेन चापरे ॥ ५४ ॥
    अन्ये च कर्मयोगेन पश्यन्त्यात्मानमात्मनि ।
    विनश्वराणि भूतानि विषमाणि परस्परम् ॥ ५५ ॥
    समं स्थिरं च सर्वत्र तत्तत्त्वमविनश्वरम् ।
    शब्दात्संजायते ज्ञानं ब्रह्मात्मैक्यैकगोचरम् ॥ ५६ ॥
    तत्परोक्षं स्वानुभवादपरोक्षदशां नयेत् ।
    गुणानुबन्धनः पश्येत् सर्वानिव गुणान् पृथक् ॥ ५७ ॥
    प्रकृत्यैव च संजातान् सोऽकर्ता सर्ववस्तुषु ।
    पृथग्भूतान्यनेकानि यद्यैकत्वं प्रयान्ति हि ॥ ५८ ॥
    १७

य? No, wait!
Wait, what is between वपुषा and पुनः?
Let's spell:
Letter 1: यो
Letter 2: ज
Letter 3: wait, is it ा? No, look at the top line (shirorekha):
It goes continuously over यो, ज, ा?
Wait! Look at the letter:
It's यो
Then जा?
Wait! Is it यो जा य ते or यो ज य ते?
Wait, look at योजयते vs योजायते:
Actually, let's look at the meaning:
"जीवं सानुशयं सृष्टेर्वपुषा योजयते पुनः"
Grammar: "जीवं सानुशयं सृष्टेः वपुषा योजयते पुनः" -> "मयि संलीनं सानुशयं जीवं सृष्टेः (सृष्टौ) वपुषा योजयते (भगवान् योजयति / योजयते) पुनः".
It is causative present of युज्: योजयति / योजयते (yojayate)!
"योजायते" does not exist in Sanskrit.
Now look closely at the print: it is indeed योजयते! The printer has `यो

– १३१ –
विश्राम्यतिगुणेष्वेव तदेवं कर्तृताखिला ।
ततः परमकर्त्तारं पश्येदात्मानमात्मना ॥ ९ ॥
सोऽविद्यामखिलां हित्वा परं ब्रह्माधिगच्छति ।
तावज्जन्मजरामृत्युदुःखदोषानुशीलनम् ॥ १० ॥
यावन्नित्यमकत्तारमात्मानं नावबुध्यते ।
सर्वाणि गुणकार्याणि सम्प्रवृत्तानि यो नरः ॥ ११ ॥
मिथ्यात्वनिश्चयात्स्वप्नवद्यो वेत्ति स पण्डितः ।
न रज्यति न वा द्वेष्टि स्वस्वरूपैकसंस्थितः ॥ १२ ॥
जानानः सुखदुःखादिपरिणामं गुणात्मकम् ।
स्वयंज्योतिःस्वभावत्वादात्मानं परमार्थतः ॥ १३ ॥
द्वेषशून्यं निर्विकारं सत्यं निश्चित्य निर्गुणम् ।
यः स्वरूपेऽवतिष्ठेत स ज्ञानीत्युच्यते बुधैः ॥ १४ ॥
स्वप्रकाशं चिदानन्दं केवलं सर्वसंशयम् ।
यः पश्यति स्व

?
Wait, wait! Let me look really, really closely at the letter.
Is it 'स' or 'भ'?
Wait! Look at the prompt image, line 10:
"भक्तेश्चापि सुभिद्धाया" or "सुसिद्धाया"?
Look at the character after 'सु':
It has an upper circle/loop just like 'भ' in 'भक्तेश्चापि'!
Wait, really? Let's compare the first letter of line 10 ('भ') and this letter:
Line 10 begins with 'भ' (in भक्तेश्चापि). It has a small circle at the top-left, a vertical stroke going down, a bottom-left loop with a horizontal stroke to the right vertical stem.
Now look at the letter in question:
Wait! It has a circle at the top left?
NO! It's an 'इ' matra going over it!
Wait, look at the bottom-left of that letter: does it have a loop like 'भ'?
NO! It has a diagonal leg going down-left, exactly like 'स'!
Ah! It's a 'स'! But wait, why did it look weird? Because of the i-matra touching the left curve of 'स'.
Wait, what about 'सिद्धाया'? But wait, is it 'सुसिद्धाया' or 'सुभिद्धाया'?
Wait, is there any reason for it to be 'सुसिद्धाया'?

– १३३ –
शुद्धेन भक्तियोगेन न तु मां समुपासते ।
मत्स्वरूपैकसम्बद्धा भक्तिर्मत्प्रेमलक्षणा ॥ १६ ॥
तया मां स्ववशे कृत्वा कश्चित् साक्षात्करोत्यपि ।
यावतीर्देवता लोकैरूपास्यन्ते गुणात्मिकाः ॥ १७ ॥
तासामहमधिष्ठाता स्वाधिदैविकरूपतः ।
मूले सिक्ते सुसिक्तैः किं पत्रशाखादिभिः पृथक् ॥ १८ ॥
असिक्ते चापि सिक्तैः किं पत्रशाखादिभिः पृथक् ।
इति ज्ञात्वा भजेन्नित्य मामेवैकं विशेषतः ॥ १९ ॥
विशुद्धात्मिकया भक्त्या मत्स्वरूपैक संस्थया ।
विशुद्धचित्तसंस्कारैर्जातश्रद्धो विरक्तिमान् ॥ २० ॥
ब्रह्मानन्दपदे स्थित्वा ज्ञानी नाद्रियते ततः ।
उत्कृष्टं पूर्णपाथोधिं दुर्लभं दैवतैरपि ॥ २१ ॥
भक्तिमात्रैकलभ्यं च काश्चित्प्रेमाणमाप्नुयात् ।
ज्ञानं चैवापि वैराग्यं भक्तेः पूर्वाङ्गमिष्यते ॥ २२ ॥
अथवा पूर्वसंस्कारादकस्मात्सम्प्रजायते ।
कुतोऽपि परितुष्टेन मया दत्ता प्रसादवत् ॥ २३ ॥
पूर्वभक्तिः पराभक्तिसाधनात्मामुपेयुषी ।
स्वात्मानं नाशयित्वापि कार्यमस्य प्रसाधयेत् ॥ २४ ॥
माहात्म्यज्ञानयोगार्थं भक्तेरुद्बोधसिद्धये ।
मत्स्वरूपं विजानीयाद्वेदानाम्प्यगोचरम् ॥ २५ ॥
अक्षरोपादेयमिदमखिलं विश्वमण्डलम् ।
मन्निमित्तं विजानीहि लीलावेशवशात्मनो ॥ २६ ॥
एताः सर्गविसर्गाद्या मम लीलाविनिश्चिताः ।
ताभिर्युक्तः सदा जीवानधिष्ठाय भुनज्म्यहम् ॥ २७ ॥
अधिभूतं तथाध्यात्ममाधिदैविकमेव च ।
त्रीणि त्रीणि स्वरूपाणि सर्वस्येति विनिश्चितम् ॥ २८ ॥
अहमेवास्मि सर्वेषु तेषु नास्त्यत्र संशयः ।
तस्मात्सर्वत्र मामेव नित्यं संस्मर संस्मर ॥ २९ ॥
मनश्च भक्तियोगेन मय्येव विनिवेशय ।
अनन्यगं यदा चित्तमभ्यासेन प्रजायते ॥ ३० ॥
तदा मामभ्युपैत्येव पूर्णं श्रीपुरुषोत्तमम् ।
सर्वेशं सर्ववशिनं सर्वज्ञं सर्वरूपिणम् ॥ ३१ ॥

  • १३४ -
    ज्ञानक्रियोभययुतं सर्वस्याधारमव्ययम् ।
    विश्वतोमुखमानन्दमनन्तं चित्प्रकाशिनम् ॥ ३२ ॥
    अणुं महान्तमचलमव्यक्तं प्रकृतेः परम् ।
    एवं ध्यानं समभ्यस्य चित्तं कुर्याद्धिशे सदा ॥ ३३ ॥
    अन्तकालेऽपि च ततो मामुपैति न संशयः ।
    जीवशक्तिं सुसंहृत्य जीवं ध्यायेच्चिदुज्ज्वलम् ॥ ३४ ॥
    रामेति राममन्त्रेण परे ब्रह्मणि योजयेत् ।
    परं ब्रह्म यथोक्तं मत्स्वरूपं भावयन् सदा ॥ ३५ ॥
    विशते शुद्धभावेन प्रेमाख्येनोपबृंहितः ।
    एवं मयि सुसंगम्य पुनर्जन्म न चाप्नुयात् ॥ ३६ ॥
    ततो दुःखालयो घोरः संसारो विनिवर्तते ।
    ब्रह्मलोकात्परं स्थानं यतो नावर्तते पुनः ॥ ३७ ॥
    तत्स्थानं समुपैत्येष भक्तियोगप्रभावतः ।
    द्विपराद्धं विधेरायुस्तदन्तेभूतभौतिकाः ॥ ३८ ॥
    महाभूते विलीयन्ते तच्च मय्यहमव्ययः ।
    जागर्मि सर्वदा भानः सदानन्दपदस्थितः ॥ ३९ ॥
    तस्य मे प्राप्त्युपायस्तु भक्त्यन्यो नैव विद्यते ।
    तपःस्वाध्याययोगाद्यैर्भक्तिः साध्यास्ति केवलम् ॥ ४० ॥
    भावशुद्ध्या भवेद्भक्तिस्तस्माद्भावं विशोधयेत् ।
    अपरे त्वासुरे सर्गे सम्भूतास्तत्तामसा जनाः ॥ ४१ ॥
    मत्स्वरूपं न जानन्ति तस्मान्नैव भजन्ति ते ।
    मूढा वितथकर्माणो वितथाज्ञानवैभवाः ॥ ४२ ॥
    विज्ञाय सगुणाकारमात्मौपम्येन मामपि ।
    अवज्ञावञ्चितात्मानो न विजानन्ति तत्त्वतः ॥ ४३ ॥
    ते वै दूरतरा मत्तो न कदाचिद्भवाम्बुधेः ।
    मुक्ता भवन्त्यपसदाः सदेवासुरयोनयः ॥ ४४ ॥
    देवाश्चैवासुराश्चैव जीवाः सामान्ययोनयः ।
    तत्र देवाः सदा मुक्ताः सामान्याः साधनव्रजैः ॥ ४५ ॥
    आसुरा नैव मुच्यन्ते जन्मकोटिशतैरपि ।
    तस्माद्विद्वन् मुक्तोऽसि देवसृष्ट्येकसम्भवः ॥ ४६ ॥
    मान्वशोचः कदापि त्वमनुतिष्ठमतं मम ।
    इदं ते ज्ञानमतुलमुपदिष्टं परन्तप ॥ ४७ ॥
  • १३५ -
    एतद्विज्ञाय सततं कुरु सृष्टिं मदाज्ञया ।
    न भविष्यति ते मोहः प्रजासर्गं प्रवर्तय ॥ ४८ ॥
    इति ते प्रतिजानेऽहं मा ग्लासीस्त्वंमनागपि ।
    मां विद्धिशुद्धभावेन मयि बुद्धिं निवेशय ॥ ४९ ॥
    मामुपात्स्व च मय्यास्स्व मयि सर्वं विचिन्तय ।
    कर्माणि मयि सन्यस्य ज्ञानं कुरु मदाश्रयम् ॥ ५० ॥
    मामेव यजमानस्त्वं वीतशोको भविष्यसि ।
    इदं शास्त्र मया पूर्वं ब्रह्मणे प्रतिबोधितम् ॥ ५१ ॥
    ब्रह्मा प्राह प्रसादेन सनकादीन् महामुनीन् ।
    सनत्कुमारो भगवान् नारदायोपदिष्टवान् ॥ ५२ ॥
    एवं परम्परायातमिदं ज्ञानं सनातनम् ।
    त्वं चापि निजपुत्राय मनवे शुद्धचेतसे ॥ ५३ ॥
    सरहस्यमिदं ज्ञानं काले समुपदेक्ष्यसि ।
    स आकर्ण्याखिलं त्वत्तो विमलं मन्मतं प्रभो ।
    भवानिव यथेदानीं चित्ते निर्वृतिमेष्यति ॥ ५४ ॥
    इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
    सरयूतपत्तौ वैवस्वतोपाख्याने ज्ञानोपदेशो नाम
    षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥
    ✤
    सप्तचत्वारिंशोऽध्यायः
    विवस्वानुवाच
    उपदिश्य परं गुह्यमिदं ज्ञान मयाच्युतः ।
    ज्ञात्वा मां गतसंदेहं तत्रैवान्तरधीयत ॥ १ ॥
    इदं ते सनिगदितं रहस्यं वैष्णवं मतम् ।
    हृदि निश्चित्य न पुनः शोकमेवं प्रयास्यसि ॥ २ ॥
    निर्भयो वीतशोकश्च प्रवर्तय विशेषतः ।
    प्रजासर्गमिमं तात यथेच्छा पारमेश्वरी ॥ ३ ॥
    नह्यसौ बाधकः कच्चिज्ज्ञानिनः शुद्धचेतसः ।
    ब्रह्मण्यारोप्यमाणत्वाद्वार्धितः स्वयमेव तत् ॥ ४ ॥
  • १३६ -
    पुराऽऽज्ञा मम संजाता देवदेवस्य वै हरेः ।
    सदा मां भज भावेन प्रजाश्च विविधाः सृज ॥ ५ ॥
    माया भगवतः सा वै ज्ञानिनां नैव बाधिका ।
    कुतस्तरां तदीयानां भक्तानां तन्मयात्मनाम् ॥ ६ ॥
    श्रीशुक उवाच
    स्वपितुर्मतमाज्ञाय यथोक्तं हरिणा पुरा ।
    प्रावर्तयत्प्रजासर्गं देवो वैवस्वतो मनुः ॥ ७ ॥
    वीतशोको गतग्लानिर्गा‌र्हस्थ्यधर्ममाश्रितः ।
    मनो निवेश्य परमे ब्रह्मणि क्षतसंशयः ॥ ८ ॥
    यज्ञानुष्ठानपरमो ज्ञानवान् भक्तिसंश्रितः ।
    तपस्वी विजितस्वान्तः प्रजासर्गमचीकरत् ॥ ९ ॥
    तमागत्याब्रवीद्वेधा राज्यसंस्थानमद्भुतम् ।
    क्षात्रवंशसमुत्पत्तिं राजधर्मं च भूरिशः ॥ १० ॥
    ब्रह्मोवाच
    वैवस्वत मनुश्रेष्ठ धन्योऽसि त्वं जगत्प्रभुः ।
    दिष्ट्या ते विगता ग्लानिः पितुरेव निदेशतः ॥ ११ ॥
    पिता ते भगवान् साक्षादादिदेवस्त्रयीमयः ।
    विवस्वान् रविरादित्यस्तपत्येष सदैव यः ॥ १२ ॥
    मण्डलेऽर्चिषि चात्मन्युद्भासते सततं प्रभुः ।
    सामर्ग्यजुःस्वरूपेण क्रमाद्वेदात्मकः स्वयम् ॥ १३ ॥
    तेन त्वमुपदिष्टोऽसि विशुद्धं भगवन्मतम् ।
    यदाह भगवान्स्तस्मै पुरा रामः स्वयं प्रभुः ॥ १४ ॥
    आत्मयोगप्रभावेण नैष मुह्यति कश्चन ।
    यस्यान्तः सर्वदैवास्ति देवो रामः स्वयं हरिः ॥ १५ ॥
    पद्मासने संनिविष्टः कनकाङ्गदभूषितः ।
    द्विभुजो वै धनुर्बाणवनमालाविरोजितः ॥ १६ ॥
    कुण्डली पीतवसनो रत्नकङ्कणभासुरः ।
    मेघश्यामः पुण्डरीकनेत्रो दिव्य किरीटवान् ॥ १७ ॥
    पितापि ते तत्स्वरूपः कालात्मा भगवानसौ ।
    तस्य त्वं तनयः साक्षाद्देवो वैवस्वतो मनुः ॥ १८ ॥
    लोकयात्राप्रवृत्त्यर्थमाविर्भूतः स्वयं हरिः ।
    धर्मात्मा धर्मनिपुणो धर्मकर्मप्रवृत्तिकृत् ॥ १९ ॥
  • १३७ -
    अतः परं मे सकलं चिकीर्षितं बभूव तावत्सफलं मनूत्तम।
    प्रवर्तितं यद्भवताखिलं जगद्विवृद्धिमेष्यत्युरुवीर्यवर्चसा ॥ २० ॥
    अयोध्‌याख्या पुरी पुण्या तव स्थानं भविष्यति ।
    पृथिव्यां भारते वर्षे परं क्षेत्रं भविष्यति ॥ २१ ॥
    रामचन्द्रस्य पाणिस्थ कमलं निपतिष्यति ।
    सा धन्या नगरी भूमावयोध्याख्या भविष्यति ॥ २२ ॥
    नान्यैर्योधयितुं शक्या ब्रह्मक्षत्रविडादिभिः ।
    ऊर्जस्वलेर्बलोपेतैरयोध्या तेन सा मता ॥ २३ ॥
    अत्युत्तमा योगमयी ध्यानगम्या पुरी तु सा ।
    तेनाप्ययोध्‌येति भवे कीर्तिता सा भविष्यति ॥ २४ ॥
    तत्र ते पुत्रपौत्रादिक्रमाद्वृद्धिगतेऽन्वये ।
    देवो रामचन्द्रः साक्षादाविर्भूतो भविष्यति ॥ २५ ॥
    तं हि ये भुवने लोकाः प्रपत्स्यन्तेऽग्र्यया धिया।
    तेषां तापत्रयं दृष्ट्या तत्क्षणेन हरिष्यति ॥ २६ ॥
    ततः परं च वितते वंशे तव महीभृतः ।
    पुण्यश्लोका भविष्यन्ति भूयांसः सत्यविक्रमाः ॥ २७ ॥
    एवं त्वं क्षत्रवंशस्य बीजरूपोऽसि वै मनो ।
    अतस्त्वां मानयिष्यन्ति क्षत्रबीजं मनीषिणः ॥ २८ ॥
    इक्ष्वाकुनामा तनयो भवतः सम्भविष्यति ।
    ततः प्रसृत्वरो वंशः क्षत्रियाणां भविष्यति ॥ २९ ॥
    एवमुक्त्वा गतो देवो भगवान् कमलासनः ।
    वैवस्वतस्तपश्चक्रे प्रजासृष्ट्यर्थमुत्तमम् ॥ ३० ॥
    वर्षवातातपहिमैः कायक्लेशसहो मुनिः ।
    ऊर्ध्वबाहुरुपासीनो भगवन्तं दिनेश्वरम् ॥ ३१ ॥
    अङ्गुष्ठाग्रेण धरणीं स्पृशन्नेकाग्रमानसः ।
    जितेन्द्रियो जिताहारो जितश्वासो दृढव्रतः ॥ ३२ ॥
    शुष्कपर्णाशनोऽब्भक्षो वायुभक्षो महातपाः ।
    दिव्यवर्षसहस्रं स बभूवातीव निश्चलः ॥ ३३ ॥
    कामपानः प्रजासर्गं स्वस्माद्वैवस्वतो मनुः ।
    निवासं चात्मनोऽत्यर्थं पुण्यक्षेत्रमनुत्तमम् ॥ ३४ ॥
    ब्रह्मावर्ताभिधे देशे चकार शुचिमानसः ।
    ततस्तपस्यतस्तस्य राम आविर्भूतपुरः ॥ ३५ ॥
  • १३८ -
    भगवान् पुण्डरीकाक्षो धनुर्बाणधरो विभुः ।
    वरं ब्रूहीति वचसा स तं प्रोवाच सादरम् ॥ ३६ ॥
    मनुरुन्मील्य नयने ददर्श राममग्रतः ।
    भक्त्या नतशिरा राजन् स तं तुष्टाव वत्सलम् ॥ ३७ ॥
    मनुरुवाच
    नमस्त्रिभुवनेशाय रामचन्द्राय राघव ।
    निजमायागुणैरात्तस्वैरकेलिविनोदिने ॥ ३८ ॥
    त्वामक्षरं वेदविदो वदन्ति सर्वस्य लोकस्य निधानभूतम् ।
    स्वकालशक्त्यामितया त्रिलोकीं सृजस्यवस्यत्सि च देवदेव ॥ ३९ ॥
    त्व वै महद्भूतमनन्तमादौ भूतानि सर्वाणि पृथक् करोषि ।
    स्वस्माद्विहर्तुं निजशक्तिरूपैरुच्चावचैर्जीवनदेश जीवैः ॥ ४० ॥
    प्रसृत्वरं तत्तत एकमासीत्ततौ भवान् पूर्णनिजप्रकाशः ।
    आदित्यवर्णः स निजांशुरूपान् जीवाननेकान् व्यचसर्ज१ भूम्याम् ॥ ४१ ॥
    त्वमादिजीवः पुरुषःपुराणः सृष्टीच्छयानेककृतप्रकाशः ।
    विहृत्य भूपः खलु तान् स्वरूपे प्रवेशयस्यद्भुतभद्रशीलः ॥ ४२ ॥
    चतुर्दशामी वयमीश काले काले निदेशात्तव कुर्म एतत् ।
    जगत्ततं स्थावरजंगमोद्यैस्त्वं तस्य जीवातुरुदारकर्मा ॥ ४३ ॥
    ओजः सहो बलं तेजस्त्वं धामायुश्च देहिनाम् ।
    ततो मे देहि सामर्थ्यं यथेदं सम्प्रवर्तये ॥ ४४ ॥
    न हि त्वत्करुणादृष्टि विना कापि महेश्वर ।
    अमुष्मिन् कान्तिलेशोऽस्ति पाञ्चभौतिकविग्रहे ॥ ४५ ॥
    यत्कथंचित्क्वचिद्वापि चाकचक्यं विलोक्यते ।
    तत्तवैवांशसंयोगादिति मे निश्चिता मतिः ॥ ४६ ॥
    पिता ममैष तपति प्रभावात्तव राघव ।
    इन्द्रश्चन्द्रो वसुः श्रीदः श्रीमान्नाथ तव श्रिया ॥ ४७ ॥
    इति स्तुतः स मनुना रामो वैवस्वतेन वै ।
    प्रत्युवाच प्रसन्नात्मा वरं दित्सुरुदारधीः ॥ ४८ ॥
    श्रीराम उवाच
    ददामि तव सामर्थ्यं प्रजासर्गप्रवर्तने ॥ ४९ ॥
    उत्पादयोच्चावचभूतसर्गं त्रैलोक्यनिर्माणविवृद्धिशक्तः ।
    न ते प्रजासर्गविधौ विमोहो भविष्यति त्वं हि विधेः सहायः ॥ ५० ॥
    १. छान्दसः प्रयोगः ।
  • १३९ -
    इदं मदीयं करसंस्थमब्जं क्षिपामि भूमौ विषये पुनीते।
    इहैव साकेतपुरी महापुरिनिवासहेतुस्तव सा भविष्यति ॥ ५१ ॥
    पुण्यातिधन्या खलु कोटितीर्थश्रितामिता साथ दिनेशयोजनैः ।
    नाम्ना त्वयोध्या मम यत्र संनिधिर्नित्यं कलेर्यत्र न च प्रभावः ॥ ५२ ॥
    मम धाम परं नित्यं प्रमोदवनसंज्ञितम् ।
    सच्चिदानन्दरूपं वै तत्रैवाभातिनिर्मलम् ॥ ५३ ॥
    परं ब्रह्म स्वयं रामः सहजानन्दिनीयुतः ।
    यस्मिन् विहरते नित्यं गोपगोपीगणैर्वृतः ॥ ५४ ॥
    सुखितस्य गवेन्द्रस्य यत्र घोषः सनातनः।
    माङ्गल्यामितसौभाग्यरञ्जिताखिलगोष्ठभूः ॥ ५५ ॥
    गोवत्सकूर्दितेयंत्रगवां हुंभारवैस्तथा ।
    दधिमन्थाननिर्घोषैः श्रीरपूर्वा प्रपूर्यते ॥ ५६ ॥
    सर्वाणि तत्र तीर्थानि यावन्ति वसुधातले ।
    सप्तद्वीपपते सन्ति निवत्स्यन्ति मदाज्ञया ॥ ५७ ॥
    एवं सा परमा पुरी मम कराम्भोजस्वरूपा भुवि
    ख्यातिंयास्यति कोटितीर्थकलिता श्रीमत्ययोध्यामिधा ।
    यस्यामुग्रतरैर्वसिष्ठतपसां भूपः प्रभावैः सरि
    न्नाम्नाश्रीसरयूरूपैष्यतितरामाप्लावयन्ती महीम् ॥ ५८ ॥
    इत्युक्त्वा भगवान् विष्णुः पाणिस्थं कमलं निजम् ।
    तत्र प्राप्स्यत्पुरीं चक्रेनाम्नायोध्थेतिकीर्तिताम् ॥ ५९ ॥
    नालं तस्याब्रजदधो ब्रह्माण्डाधारवासिनीम् ।
    विरजाख्यां नदीं तेन कल्पान्तेऽपि न शीर्यति ॥ ६० ॥
    परितश्चापि तत्पुर्या रक्षणाय सुदर्शनम् ।
    आदिदेश निजं चक्रं ज्वालामालातिभीषणम् ॥ ६१ ॥
    असम्पृक्तैव सा भाति तेन भूम्यां नगर्यसौ ।
    न तत्र कलिदोषाणां प्रवेशश्चापि विद्यते ॥ ६२ ॥
    उत्साद्यन्तेऽखिला दोषा बाणराजस्य दर्शनात् ।
    ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ ६३ ॥
    स्वं स्वं वैभवमादाय तां पुरीं समुपासते ।
    रत्नोपलौघखचिता यस्यां स्वर्णमयी मही ॥ ६४ ॥
    सुवर्णमणिनिर्व्यूढाः सप्तप्राकारभूमयः ।
    गोपुराणि विशालानि चिन्तामणिमयानि च ॥ ६५ ॥

Based on the provided image, here is the complete, line-by-line transcription of the Sanskrit text:

– १४० –
स्वर्णप्रासादशृङ्गाणि रतनमाणिक्यभानुभिः ।
भास्वराणि विमान्त्युच्चैः स्फटिकैश्चापि भित्तयः ॥ ६६ ॥
मन्दारपारिजाताद्यैर्नित्यसत्फलभूरुहैः ।
विराजिता गृहारामा गायत्कोकिलषट्पदाः ॥ ६७ ॥
वाप्यो विमलपीयूषसलिलैः पूरितास्तथा ।
सुवर्णरत्नसोपानजातशोभा मनोहराः ॥ ६८ ॥
आपणानामुभयतो वीथ्यश्चातिमञ्जुलाः ।
यत्र मूर्तिधरा वेदाः श्रीरामगुणगायनाः ॥
गन्धर्वा इव राजन्ति तथोपनिषदां गणाः ॥ ६९ ॥
इत्यद्भुतातिरचनैकमयोमयोध्यां श्रीराघवस्यकरपद्ममयी मनोज्ञाम् ।
वैवस्वतो मनुरुदीक्ष्य नितान्तहृष्टश्चक्रे निवासविधये निजराजधानीम् ॥ ७० ॥
तत्र स्थितः स धरणीवलयं जुगो

  • १४१ -

शूरो विधिज्ञःप्रवणः सुहृद्दान्तः शमी यमी ।
प्रसिद्धो देशकालज्ञः प्रभुवत् फलसाधकः ॥ ८१ ॥
सर्वोपायविधानज्ञ आपद्भ्यस्तारणक्षमः ।
वेदशास्त्रार्थविज्ञाता समर्थः सर्ववस्तुषु ॥ ८२ ॥
ईतिदोषप्रतीकर्ता प्रजाहितकरः सदा ।
स वै पुरोहितः प्रोक्तो राज्ञा सेव्यो विशेषतः ॥ ८३ ॥
यदीच्छेद्विपुलां भूतिं दीप्तिं चापि श्रियं तथा ।
तदा राजा प्रथमत कुर्यात्कांश्चित्पुरोहितम् ॥ ८४ ॥
तादृशस्त्वं मया लब्धो भ्रमता धरणीतले ।
भाग्येनैव तपोराशे कुलं तारय नः प्रभो ॥ ८५ ॥
कुलमेतद्भगवतः प्रसादात्प्रभविष्णु च ।
तेनैव त्वं मया लब्धो वृणे च त्वां पुरोहितम् ॥ ८६ ॥
इत्युक्त्वा विधिवद्वव्रे वसिष्ठं मुनिपुङ्गवम् ।
सोऽप्युरीकृत

  • १४२ -
    तस्मादिह स्वतपसा नदीमानेष्यसि प्रभो।
    इत्युक्तस्तेन मनुना वसिष्ठो भगवान् मुनिः ॥ ९५ ॥
    उवाच मनुशार्दूलं दिव्यदर्शी तपोनिधिः।
    अहो ते मनुशार्दूल सम्यग्जातास्ति वै स्पृहा ॥ ९६ ॥
    पुरा खलु विधेः सर्गे योग एष सनातनः।
    अयोध्यासरयूनद्योर्विश्वालंकारभूतयोः ॥ ९७ ॥
    अस्ति वै सरयूर्नाम सरित् त्रैलोक्यपावनी।
    दर्शनाच्चैव यत्स्पर्शान्महामङ्गल्यशेवधिः ॥ ९८ ॥
    रामप्रेमवशाद्भूमा पुरुषः स सहस्रदृक्।
    सहस्रशोऽश्रु धाराभिः सुस्राव प्रेमजं जलम् ॥ ९९ ॥
    ब्रह्मा विष्णुश्च रुद्रश्चत्रिदशश्च सवासवाः।
    सुस्रुवुः प्रेमसलिलं रामप्रेमवशाः पृथक् ॥ १०० ॥
    तत एषा समुद्भूता सरयूः सुरसा सरित्।
    तीर्थाना कोट्यश्चास्यां विविशुः सहसोत्सुकाः ॥ १०१ ॥
    गङ्गाद्याः सरितश्चास्यां विविशुः स्वस्वरूपतः।
    मेधाद्या ब्रह्मविद्याश्च सावित्र्याद्याः श्रियस्तथा ॥ १०२ ॥
    द्रवरूपं समास्थाय तस्यां विविशुरुत्सुकाः।
    सा वै विरजया पश्चात्सुसंगम्य महोर्जया ॥ १०३ ॥
    आस्तेऽधुना हिमगिरौ दिव्यरूपधरासरित्।
    हिमाद्रेः पूर्वशिखरे कैलासगिरिनामनि ॥ १०४ ॥
    विचरन्ती सिद्धवने सिद्धगन्धर्वपूजिता।
    तामिहागमयिष्यामि सुधातोयां महानदीम् ॥ १०५ ॥
    यावद्वर्षसहस्रं तु तपः कृत्वा सुदुष्करम्।
    आराध्य श्रीरामं विभु तपसा खलु भूरिणा ॥ १०६ ॥
    तं वै प्रसन्नं याचिष्ये सरयूं शीतलोदकाम्।
    त्रिधासंतापहरणीं साक्षात्कामदुघां नृणाम् ॥ १०७ ॥
    अथाय खलु सा नित्यं सूक्ष्मरूपेण संस्थिता।
    रामवद्रामगङ्गापि तथाप्याविर्भविष्यति ॥ १०८ ॥
    नित्यायोध्या सरयूश्चापि नित्या नित्या प्रमोदाटविरत्र भूयः।
    नित्योऽयमादिव्रज ईशलीलास्थानं तथेशो नित्य एवात्र रामः ॥१०९ ॥
    आविर्भावः क्रमेणैषां नित्यानामपि वस्तुतः।
    अतोऽहमत्रनेष्यामि सरयूं लोकमङ्गलाम् ॥ ११० ॥

मुनीनामपि सर्वेषामत्रत्यानां मनूत्तम् ।
भवेदिष्टमिदं भूयः सरयूसरितागमात् ॥ १११ ॥
कोटितीर्थाश्रया पुण्या विश्वमङ्गलरूपिणी ।
पुरैव खलु पूरेषा सरय्वा तु विशेषतः ॥ ११२ ॥
इत्युक्त्वा मुनिशार्दूलो देवं वैवस्वतं मनुम् ।
सरय्वानयनार्थाय प्रतस्थावुत्तरां दिशम् ॥ ११३ ॥
तत्र गत्वा तपस्तेपे कैलासाचलसन्निधौ ।
जिताहारो जितायासो नित्यं मौनव्रते स्थितः ॥ ११४ ॥
मुष्टिमात्रतिलप्राशी शीर्णपर्णाशनस्ततः ।
पयोव्रतोवायुभक्षस्ततस्तिग्मव्रतं चरन् ॥ ११५ ॥
कृच्छ्रातिकृच्छ्रसुमहागहनव्रततत्परः ।
प्राणायामपरो योगी त्यक्तसर्वाशनस्ततः ॥ ११६ ॥
शुष्ककायोऽतिमांसास्थिशेषः सुकृशविग्रहः ।
रामचन्द्राराधनकृदास्थितः कठिनं तपः ॥ ११७ ॥
तपसा तस्य संतुष्टो भगवान् पुरुषः परः ।
प्रत्यक्षं समनुप्राप्य प्रोवाच विमलं वचः ॥ ११८ ॥
अयि श्रीमुनिशार्दूल कठिनं ते परं तपः ।
निरीक्ष्य निजधाम्नोऽहं चलितः करुणान्वितः ॥ ११९ ॥
वरं ब्रूहि प्रसन्नोऽहं यत्ते समभिकांक्षितम् ।
अपि यद्दुर्लभं लोके दास्ये तदपि साम्प्रतम् ॥ १२० ॥
वशीभूतोऽस्मि तपसा वद किं नाम याचितम्१ ।
इत्युक्तो वै भगवता वसिष्ठो वश्यमानसः ।
उवाच मौनमुत्सृज्य निजचेतोऽभिवाञ्छितम् ॥ १२१ ॥
वसिष्ठ उवाच
२अहं तपस्यामि श्रीराम सरयूप्राप्तये तपः ।
अयोध्यायां मुक्तिपुर्यां सा नित्यं प्रवहेदिति ॥ १२२ ॥
नदीप्रवाहरहिता न हि सा शोभते पुरी ।
रामप्रेमद्रवमयी सरयूविश्वपाविनी ॥ १२३ ॥
अयोध्यायाः समुचिता रामपुर्याः शुभाकृते ।
इति मे वाञ्छितं नाथ त्यक्तः कमलोचन ।
विना त्वत्कृपया देव सा लभ्या मनुजैर्न च ॥ १२४ ॥
१. नास्ति-बड़ौ० । २ पादेऽस्मिन्नक्षराधिक्यमार्षः ।

  • १४४ -
    श्रीराम उवाच
    अस्त्वेव मुनिशार्दूल मयाप्येतन्मतं ध्रुवम् ।
    इत्युक्त्वा भगवान् रामो वसिष्ठं प्रति वत्सलः ।
    प्रेरयामास सरयूं तस्यां गमनहेतवे ॥ १२५ ॥
    श्रीभगवानुवाच
    गच्छ देवि महापुण्यामयोध्यां मुक्तिरूपिणीम् ।
    तत्रस्था जगतां देवि पशुपक्ष्यन्त्यजात्मनाम् ॥ १२६ ॥
    स्थावराणां द्रुमलतादीनां त्वद्वारिसंगिनाम् ।
    मुक्तिं कुरु शुभां नाम मत्स्थानप्राप्तिलक्षणाम् ॥ १२७ ॥
    ओमित्युक्त्वाथ सरयूर्गन्तुं समुपचक्रमे ।
    तावद्यमो धर्मराजः प्राप्य संयमिनी पुरीम् ॥ १२८ ॥
    उवाच कमलाकान्तमिदं वचनमादृतः ।
    किमर्थमधिकारोऽयं मयि नाथ निवेशितः ॥ १२९ ॥
    न ह्यस्यां धरणिस्थायां पापं स्थास्यति देहिनाम् ।
    अस्यास्तरङ्गसम्पृक्तो यत्र वाति समीरणः ॥ १३० ॥
    देशे तत्र मदीयानां संचारो नैव विद्यते ।
    अस्याश्च नाममात्रेण मुक्तिमेष्यन्ति मानवाः ॥ १३१ ॥
    तोयपानाच्च वै सद्यो रामभक्तिर्विवर्द्धते ।
    इति तस्य वचः श्रुत्वा रामः प्रोवाच सस्मितम् ॥ १३२ ॥
    कीकटेषु त्रिशङ्कौश्च छायादेशस्थभूमिषु ।
    धन्वदेशेषु च तथा म्लेच्छप्रायेषु चान्तक ॥ १३३ ॥
    विषयेषु मम स्तोत्रपूजावर्जितभूमिषु ।
    अन्येषु चाशुचिस्थानेष्वपुण्येषु च ये नराः ॥ १३४ ॥
    म्रियन्ते सुदुराचाराः सूतिकास्थाश्च याः स्त्रियः ।
    दुर्वासनाश्च ये जीवा महापातककारिणः ॥ १३५ ॥
    रामभक्तेश्च विमुखा विष्णुनिन्दापराश्च ये ।
    शिवनिन्दापराश्चैव दुर्गानिन्दापराश्च ये ॥ १३६ ॥
    अन्ये च येऽतिपिशुना देवनाद्विजगोद्रुहः ।
    परोपकारहिंसाश्च परवृत्तिविघातकाः ॥ १३७ ॥
    तेषां पातकिनां नॄणा दण्डधारणहेतवे ।
    जागरूकः सदा तिष्ठ न त्वस्यास्तटवासिनाम् ॥ १३८ ॥
    इत्यादिश्य यमं रामः स्वं धाम प्रत्यपद्यत ।
    ततश्च सरयूद्देवी वसिष्ठान्तिकमागमत् ॥ १३९ ॥

– १४५ –

उवाच मुनिशार्दूलं दिव्यवेशधरा सरित् ।
आदिष्टाऽहं भगवता विष्णुना करुणावता ॥ १४० ॥
अयोध्यां प्रति यास्यामि रामचन्द्रमहापुरीम् ।
तत्रैव चापि वत्स्यामि रामचन्द्रस्य सन्निधौ ।
उत्तिष्ठ मुनिशार्दूल सम्पूर्णस्ते मनोरथः ॥ १४१ ॥

श्रीशुक उवाच
अथोदतिष्ठत् तत्स्थानाद् वसिष्ठो भगवान् मुनिः ।
तमनुप्रययौ देवी सरयूर्लोकपावनी ॥ १४२ ॥
प्लावयन्ती शुभान् देशान् निजतोयघटाभरैः ।
लिम्पन्ती धरणी तुङ्गैस्तरङ्गैश्चन्दनैरिव ॥ १४३ ॥
कुर्वन्ती लोलकल्लोलैः केलीमिव समंततः ।
भिन्दन्ती निजमार्गस्थान् विकटांश्चापि भूधरान् ॥ १४४ ॥
अम्भोजवेन गच्छन्ती पुण्यसेनेव पापभित् ।
तत्र तत्र मिलन्ती च नदीभिर्मार्गमध्यतः ॥ १४५ ॥
घोषयन्ती दिशः सर्वाः प्रवाहजवकाहलैः ।
स्तूयमाना तत्र तत्र वसिष्ठेन महर्षिणा ॥ १४६ ॥
अन्यैश्च सिद्धगन्धर्वैर्मुनिवर्यैश्च संस्तुता ।
उच्चावचान् शुभान् देशानेकीकृत्य महोर्मिभिः ॥ १४७ ॥
शोभयन्ती निःसरन्ती काप्यस्तब्धौघवाहिनी ।
अयोध्याभिमुखी देवी बभूव सरयूस्तदा ॥ १४८ ॥
योजनैस्त्रिभिरभ्येत्य जग्राहामितभक्तिमान् ।
महर्षिणा साकमेना राजा वैवस्वतो मनुः ।
ततः स पूर्वमस्तौषीद्वसिष्ठं स्व पुरोधसम् ॥ १४९ ॥

मनुरुवाच
नमो महर्षये तुभ्यं प्राजापत्याय योगिने ।
अबन्ध्यकर्मणे दीर्घतपसे ब्रह्मणे नमः ॥ १५० ॥
त्वत्प्रसादादहं ब्रह्मन् कृतकृत्योऽस्मि सद्गुरो ।
तारितं मे कुल सर्वं भासितं च ननु त्वया ॥ १५१ ॥
यदा यदा कुलेऽस्माकं भवेत्कार्यममानुषम् ।
तदा तदा सहायस्त्वमधुनेव भविष्यसि ॥ १५२ ॥
तापितं भगवन् कृत्स्नं त्रैलोक्यं तपसा त्वया ।
येन स्थानात्प्रचलितो विष्णुस्त्रैलोक्यपूजितः ॥ १५३ ॥
१९

षडगैर्म्सौ भ्तौ ग्मू चेत् (4 + 6 + 7 = 17)!
OR SHIKHARINI: रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी (6 + 11 = 17)!
Let's check the scansion of Line 25:
पी (G) यू (G) ष (L) द्र (L) व (L) वा (G) हि (L) नी (G) -> G G L L L G L G?
Wait:
पी (G) यू (G) ष (L) द्रव (L L) वाहिनी (G L G)
Wait, let's check Line 28:
रा-मा-रो-ह-ण-सा-र-णी-व (G G G L L G L G L)
स-र-यू-स्त-स्यां (L L G G G)
वि-रे-जे-त-राम् (L G G L G)
Wait, look at line 27:
सौ (G) व (G) र्णो (G) ज्ज्व (G) ल (L) सै (G) क (L) ता (G) = 8 syllables?
Wait, count syllables of line 27:
सौ (1) व (2) र्णो (3) ज्ज्व (4) ल (5) सै (6) क (7) ता (8)

– १४७ –
अष्टचत्वारिंशोऽध्यायः
श्रीशुक उवाच
इति तेऽभिहितं राजन् यथाभूत्सरयूः पुरा।
भूयश्च कथयाम्यस्याः समुत्पत्तिं वसिष्ठतः ॥ १ ॥
कदाचिद्भगवान् वेधाः सत्यलोके सुरैर्वृतः।
सभामध्यास्त महती लोकेशो वेदनायकः ॥ २ ॥
उपासांचक्रिरे देवा देवर्षिनिवहाश्च तम्।
चित्ररथाद्या गन्धर्वाश्चक्रुस्तदुपवीणनम् ॥ ३ ॥
तत्र केचिदृचः पेठुऋषयश्चार्थकोविदाः।
केचिद्यजूंषि जगदुराध्वर्यवविशारदाः ॥ ४ ॥
केचिज्जगुः स्वरैर्जुष्टं साम संतन्य भूरिशः।
केचित्पदानि वै चक्रुः केचित्क्रममुदैरयन् ॥ ५ ॥
केचिज्जटानामभ्यासं चक्रुरन्ये शनैः शनैः।
महोपनिषदः पेठुरन्येऽङ्गन्यभ्युदैरयन् ॥ ६ ॥
केचिच्छास्त्रानुगां दृष्टिपवलम्ब्य तपोधनाः।
चक्रुः परस्पर वादं सिद्धान्तज्ञानसाक्षिणः ॥ ७ ॥
एवमन्ये महामन्त्रकल्पान् समुदचारयन्।
ऋषिच्छन्दोदेवताभिः साकं यद्वच्च बह्वृचा ॥ ८ ॥
तत्रान्योन्यं प्रवादेषु जायमानेषु भूमिप।
महर्षिरत्रितनयो दुर्वासा नाम रोषणः ॥ ९ ॥
१द्वितीयेनोपयन्तुनाम्ना कोविदेन महर्षिणा।
सहभूतः साम गायन्नन्येन परमर्षिणा ॥ १० ॥
कलहायमानो रोषेणात्यन्धीभूतविलोचनः।
विस्वरं रवमातेने गीयमानेषु सामसु ॥ ११ ॥
ततः श्रीसरयूदेवी तीर्थशक्त्योघमण्डले।
ब्रह्मणो दक्षिणे पार्श्वे गङ्गादीनां पुरः स्थिता ॥ १२ ॥
अबद्धं तस्य तद्गानमत्रिसूनोर्महारुषः।
समाकर्ण्य कटाक्षेण सरस्वत्यै न्यवेदयत् ॥ १३ ॥
तया निवेदितं चास्य स्खलितं सामगानगम्।
श्रुत्वा सरस्वती देवी प्रोवाच सरयूं प्रति ॥ १४ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः।