सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 153, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 153
  • १३९ -
    इदं मदीयं करसंस्थमब्जं क्षिपामि भूमौ विषये पुनीते।
    इहैव साकेतपुरी महापुरिनिवासहेतुस्तव सा भविष्यति ॥ ५१ ॥
    पुण्यातिधन्या खलु कोटितीर्थश्रितामिता साथ दिनेशयोजनैः ।
    नाम्ना त्वयोध्या मम यत्र संनिधिर्नित्यं कलेर्यत्र न च प्रभावः ॥ ५२ ॥
    मम धाम परं नित्यं प्रमोदवनसंज्ञितम् ।
    सच्चिदानन्दरूपं वै तत्रैवाभातिनिर्मलम् ॥ ५३ ॥
    परं ब्रह्म स्वयं रामः सहजानन्दिनीयुतः ।
    यस्मिन् विहरते नित्यं गोपगोपीगणैर्वृतः ॥ ५४ ॥
    सुखितस्य गवेन्द्रस्य यत्र घोषः सनातनः।
    माङ्गल्यामितसौभाग्यरञ्जिताखिलगोष्ठभूः ॥ ५५ ॥
    गोवत्सकूर्दितेयंत्रगवां हुंभारवैस्तथा ।
    दधिमन्थाननिर्घोषैः श्रीरपूर्वा प्रपूर्यते ॥ ५६ ॥
    सर्वाणि तत्र तीर्थानि यावन्ति वसुधातले ।
    सप्तद्वीपपते सन्ति निवत्स्यन्ति मदाज्ञया ॥ ५७ ॥
    एवं सा परमा पुरी मम कराम्भोजस्वरूपा भुवि
    ख्यातिंयास्यति कोटितीर्थकलिता श्रीमत्ययोध्यामिधा ।
    यस्यामुग्रतरैर्वसिष्ठतपसां भूपः प्रभावैः सरि
    न्नाम्नाश्रीसरयूरूपैष्यतितरामाप्लावयन्ती महीम् ॥ ५८ ॥
    इत्युक्त्वा भगवान् विष्णुः पाणिस्थं कमलं निजम् ।
    तत्र प्राप्स्यत्पुरीं चक्रेनाम्नायोध्थेतिकीर्तिताम् ॥ ५९ ॥
    नालं तस्याब्रजदधो ब्रह्माण्डाधारवासिनीम् ।
    विरजाख्यां नदीं तेन कल्पान्तेऽपि न शीर्यति ॥ ६० ॥
    परितश्चापि तत्पुर्या रक्षणाय सुदर्शनम् ।
    आदिदेश निजं चक्रं ज्वालामालातिभीषणम् ॥ ६१ ॥
    असम्पृक्तैव सा भाति तेन भूम्यां नगर्यसौ ।
    न तत्र कलिदोषाणां प्रवेशश्चापि विद्यते ॥ ६२ ॥
    उत्साद्यन्तेऽखिला दोषा बाणराजस्य दर्शनात् ।
    ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ ६३ ॥
    स्वं स्वं वैभवमादाय तां पुरीं समुपासते ।
    रत्नोपलौघखचिता यस्यां स्वर्णमयी मही ॥ ६४ ॥
    सुवर्णमणिनिर्व्यूढाः सप्तप्राकारभूमयः ।
    गोपुराणि विशालानि चिन्तामणिमयानि च ॥ ६५ ॥