सामग्री पर जाएँ
सर्वकोश
भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

Bhusundi Ramayana: Purva Khanda with Commentary

महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा

DevanagariHindipublished423 पृष्ठ

पृष्ठ 157, कुल 423 में से

संदर्भ में पढ़ें
पृष्ठ 157

मुनीनामपि सर्वेषामत्रत्यानां मनूत्तम् ।
भवेदिष्टमिदं भूयः सरयूसरितागमात् ॥ १११ ॥
कोटितीर्थाश्रया पुण्या विश्वमङ्गलरूपिणी ।
पुरैव खलु पूरेषा सरय्वा तु विशेषतः ॥ ११२ ॥
इत्युक्त्वा मुनिशार्दूलो देवं वैवस्वतं मनुम् ।
सरय्वानयनार्थाय प्रतस्थावुत्तरां दिशम् ॥ ११३ ॥
तत्र गत्वा तपस्तेपे कैलासाचलसन्निधौ ।
जिताहारो जितायासो नित्यं मौनव्रते स्थितः ॥ ११४ ॥
मुष्टिमात्रतिलप्राशी शीर्णपर्णाशनस्ततः ।
पयोव्रतोवायुभक्षस्ततस्तिग्मव्रतं चरन् ॥ ११५ ॥
कृच्छ्रातिकृच्छ्रसुमहागहनव्रततत्परः ।
प्राणायामपरो योगी त्यक्तसर्वाशनस्ततः ॥ ११६ ॥
शुष्ककायोऽतिमांसास्थिशेषः सुकृशविग्रहः ।
रामचन्द्राराधनकृदास्थितः कठिनं तपः ॥ ११७ ॥
तपसा तस्य संतुष्टो भगवान् पुरुषः परः ।
प्रत्यक्षं समनुप्राप्य प्रोवाच विमलं वचः ॥ ११८ ॥
अयि श्रीमुनिशार्दूल कठिनं ते परं तपः ।
निरीक्ष्य निजधाम्नोऽहं चलितः करुणान्वितः ॥ ११९ ॥
वरं ब्रूहि प्रसन्नोऽहं यत्ते समभिकांक्षितम् ।
अपि यद्दुर्लभं लोके दास्ये तदपि साम्प्रतम् ॥ १२० ॥
वशीभूतोऽस्मि तपसा वद किं नाम याचितम्१ ।
इत्युक्तो वै भगवता वसिष्ठो वश्यमानसः ।
उवाच मौनमुत्सृज्य निजचेतोऽभिवाञ्छितम् ॥ १२१ ॥
वसिष्ठ उवाच
२अहं तपस्यामि श्रीराम सरयूप्राप्तये तपः ।
अयोध्यायां मुक्तिपुर्यां सा नित्यं प्रवहेदिति ॥ १२२ ॥
नदीप्रवाहरहिता न हि सा शोभते पुरी ।
रामप्रेमद्रवमयी सरयूविश्वपाविनी ॥ १२३ ॥
अयोध्यायाः समुचिता रामपुर्याः शुभाकृते ।
इति मे वाञ्छितं नाथ त्यक्तः कमलोचन ।
विना त्वत्कृपया देव सा लभ्या मनुजैर्न च ॥ १२४ ॥
१. नास्ति-बड़ौ० । २ पादेऽस्मिन्नक्षराधिक्यमार्षः ।