भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 155, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 155
- १४१ -
शूरो विधिज्ञःप्रवणः सुहृद्दान्तः शमी यमी ।
प्रसिद्धो देशकालज्ञः प्रभुवत् फलसाधकः ॥ ८१ ॥
सर्वोपायविधानज्ञ आपद्भ्यस्तारणक्षमः ।
वेदशास्त्रार्थविज्ञाता समर्थः सर्ववस्तुषु ॥ ८२ ॥
ईतिदोषप्रतीकर्ता प्रजाहितकरः सदा ।
स वै पुरोहितः प्रोक्तो राज्ञा सेव्यो विशेषतः ॥ ८३ ॥
यदीच्छेद्विपुलां भूतिं दीप्तिं चापि श्रियं तथा ।
तदा राजा प्रथमत कुर्यात्कांश्चित्पुरोहितम् ॥ ८४ ॥
तादृशस्त्वं मया लब्धो भ्रमता धरणीतले ।
भाग्येनैव तपोराशे कुलं तारय नः प्रभो ॥ ८५ ॥
कुलमेतद्भगवतः प्रसादात्प्रभविष्णु च ।
तेनैव त्वं मया लब्धो वृणे च त्वां पुरोहितम् ॥ ८६ ॥
इत्युक्त्वा विधिवद्वव्रे वसिष्ठं मुनिपुङ्गवम् ।
सोऽप्युरीकृत