भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)

भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
DevanagariHindipublished423 पृष्ठ
पृष्ठ 158, कुल 423 में से
संदर्भ में पढ़ेंपृष्ठ 158
- १४४ -
श्रीराम उवाच
अस्त्वेव मुनिशार्दूल मयाप्येतन्मतं ध्रुवम् ।
इत्युक्त्वा भगवान् रामो वसिष्ठं प्रति वत्सलः ।
प्रेरयामास सरयूं तस्यां गमनहेतवे ॥ १२५ ॥
श्रीभगवानुवाच
गच्छ देवि महापुण्यामयोध्यां मुक्तिरूपिणीम् ।
तत्रस्था जगतां देवि पशुपक्ष्यन्त्यजात्मनाम् ॥ १२६ ॥
स्थावराणां द्रुमलतादीनां त्वद्वारिसंगिनाम् ।
मुक्तिं कुरु शुभां नाम मत्स्थानप्राप्तिलक्षणाम् ॥ १२७ ॥
ओमित्युक्त्वाथ सरयूर्गन्तुं समुपचक्रमे ।
तावद्यमो धर्मराजः प्राप्य संयमिनी पुरीम् ॥ १२८ ॥
उवाच कमलाकान्तमिदं वचनमादृतः ।
किमर्थमधिकारोऽयं मयि नाथ निवेशितः ॥ १२९ ॥
न ह्यस्यां धरणिस्थायां पापं स्थास्यति देहिनाम् ।
अस्यास्तरङ्गसम्पृक्तो यत्र वाति समीरणः ॥ १३० ॥
देशे तत्र मदीयानां संचारो नैव विद्यते ।
अस्याश्च नाममात्रेण मुक्तिमेष्यन्ति मानवाः ॥ १३१ ॥
तोयपानाच्च वै सद्यो रामभक्तिर्विवर्द्धते ।
इति तस्य वचः श्रुत्वा रामः प्रोवाच सस्मितम् ॥ १३२ ॥
कीकटेषु त्रिशङ्कौश्च छायादेशस्थभूमिषु ।
धन्वदेशेषु च तथा म्लेच्छप्रायेषु चान्तक ॥ १३३ ॥
विषयेषु मम स्तोत्रपूजावर्जितभूमिषु ।
अन्येषु चाशुचिस्थानेष्वपुण्येषु च ये नराः ॥ १३४ ॥
म्रियन्ते सुदुराचाराः सूतिकास्थाश्च याः स्त्रियः ।
दुर्वासनाश्च ये जीवा महापातककारिणः ॥ १३५ ॥
रामभक्तेश्च विमुखा विष्णुनिन्दापराश्च ये ।
शिवनिन्दापराश्चैव दुर्गानिन्दापराश्च ये ॥ १३६ ॥
अन्ये च येऽतिपिशुना देवनाद्विजगोद्रुहः ।
परोपकारहिंसाश्च परवृत्तिविघातकाः ॥ १३७ ॥
तेषां पातकिनां नॄणा दण्डधारणहेतवे ।
जागरूकः सदा तिष्ठ न त्वस्यास्तटवासिनाम् ॥ १३८ ॥
इत्यादिश्य यमं रामः स्वं धाम प्रत्यपद्यत ।
ततश्च सरयूद्देवी वसिष्ठान्तिकमागमत् ॥ १३९ ॥