भुशुण्डि रामायण (काकभुशुण्डि एवं गरुड़ संवाद - पूर्वखण्ड सविस्तार व्याख्या)
Bhusundi Ramayana: Purva Khanda with Commentary
महर्षि भुशुण्डि (सम्पादक: डॉ. भगवतीप्रसाद सिंह) द्वारा
पृष्ठ 161, कुल 423 में से
संदर्भ में पढ़ें– १४७ –
अष्टचत्वारिंशोऽध्यायः
श्रीशुक उवाच
इति तेऽभिहितं राजन् यथाभूत्सरयूः पुरा।
भूयश्च कथयाम्यस्याः समुत्पत्तिं वसिष्ठतः ॥ १ ॥
कदाचिद्भगवान् वेधाः सत्यलोके सुरैर्वृतः।
सभामध्यास्त महती लोकेशो वेदनायकः ॥ २ ॥
उपासांचक्रिरे देवा देवर्षिनिवहाश्च तम्।
चित्ररथाद्या गन्धर्वाश्चक्रुस्तदुपवीणनम् ॥ ३ ॥
तत्र केचिदृचः पेठुऋषयश्चार्थकोविदाः।
केचिद्यजूंषि जगदुराध्वर्यवविशारदाः ॥ ४ ॥
केचिज्जगुः स्वरैर्जुष्टं साम संतन्य भूरिशः।
केचित्पदानि वै चक्रुः केचित्क्रममुदैरयन् ॥ ५ ॥
केचिज्जटानामभ्यासं चक्रुरन्ये शनैः शनैः।
महोपनिषदः पेठुरन्येऽङ्गन्यभ्युदैरयन् ॥ ६ ॥
केचिच्छास्त्रानुगां दृष्टिपवलम्ब्य तपोधनाः।
चक्रुः परस्पर वादं सिद्धान्तज्ञानसाक्षिणः ॥ ७ ॥
एवमन्ये महामन्त्रकल्पान् समुदचारयन्।
ऋषिच्छन्दोदेवताभिः साकं यद्वच्च बह्वृचा ॥ ८ ॥
तत्रान्योन्यं प्रवादेषु जायमानेषु भूमिप।
महर्षिरत्रितनयो दुर्वासा नाम रोषणः ॥ ९ ॥
१द्वितीयेनोपयन्तुनाम्ना कोविदेन महर्षिणा।
सहभूतः साम गायन्नन्येन परमर्षिणा ॥ १० ॥
कलहायमानो रोषेणात्यन्धीभूतविलोचनः।
विस्वरं रवमातेने गीयमानेषु सामसु ॥ ११ ॥
ततः श्रीसरयूदेवी तीर्थशक्त्योघमण्डले।
ब्रह्मणो दक्षिणे पार्श्वे गङ्गादीनां पुरः स्थिता ॥ १२ ॥
अबद्धं तस्य तद्गानमत्रिसूनोर्महारुषः।
समाकर्ण्य कटाक्षेण सरस्वत्यै न्यवेदयत् ॥ १३ ॥
तया निवेदितं चास्य स्खलितं सामगानगम्।
श्रुत्वा सरस्वती देवी प्रोवाच सरयूं प्रति ॥ १४ ॥
१. पादेऽस्मिन्नक्षराधिक्यमार्षः।