सामग्री पर जाएँ
सर्वकोश
अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

Ashvavaidyaka of Jayadatta Suri with Commentary

जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा

DevanagariHindipublished522 पृष्ठ

पृष्ठ 27, कुल 522 में से

संदर्भ में पढ़ें
पृष्ठ 27

२ अध्यायः ।] अश्ववैद्यकम् । १३
वाहस्योपरिजन्तु स्यात्¹ काकसं ककुदञ्च तत्² ।
ततः पृष्ठं विजानीयादासनं पृष्ठमध्यगम्³ ॥ १८ ॥
अंसके ककुदश्चैव⁴ निवन्धे परिकीर्तिते ॥ १९ ॥
स्यातामंसादधो बाहू तयोर्बाह्ये षडङ्गुले ।
बाह्वोरभ्यन्तरे विन्द्यात् किण्वञ्चातिप्रसिद्धकम् ॥ २० ॥
अधरे च ततोजानु निर्दिष्टं शास्त्रकोविदैः ।
मन्दिरं पश्चिमोभागः कलाची जानुनोऽग्रिमः⁵ ॥ २१ ॥
जानुनोश्चाप्यधोभागे⁶ जङ्घां विन्द्याद्विचक्षणः ।
जङ्घापार्श्वे कलां विन्द्यात् सन्ध्यश्चैषिकसंज्ञकम् ॥ २२ ॥
अग्रतः पलिहस्तस्याः७ पश्चात् कूर्च उदाहृतः ।
१८। ककुदं वृषस्कन्धः। अत्र काकसस्थाने कीकस एव भवितुं युक्तः॥
२१। मन्दिरं जानुपश्चाद्भागः। कलापीत्यत्र कलाचीति सङ्गतं
मन्ये। कलाची जानुनोऽङ्गुलिपर्यन्तोभागः ॥
२२। गुल्फावधिजानुपर्यन्तः प्रदेशः जङ्घा॥
१। वाहस्योपरि यत्तत्स्यात् । २ । खः । जन्तुः स्यात् । गः ।
२ । ककुदं क्रमात् । २ । कः । ३ । पृष्ठमध्यतः । २ । कः ।
४ । ककुदस्यैव । २ गः । ५ । जानुनोऽद्यतः । २ । गः ।
६ । जानुनश्चाधरे भागे । २।खः । ७ । पजिहस्तः स्यात् । गः ।