अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)

अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
DevanagariHindipublished522 पृष्ठ
पृष्ठ 13, कुल 522 में से
संदर्भ में पढ़ेंपृष्ठ 13
श्रीगणेशाय नमः ।
श्रीशालिहोत्राय नमः ॥
अथ
अश्ववैद्यकम् ।
प्रथमोऽध्यायः ।
उद्देशः ।
प्रणम्य शङ्करं भक्त्या शङ्करं सर्व्वदेहिनाम् ।
शिवाय जगतो जातां शिवांश्चापि विशेषतः ॥ १ ॥
सुखावबोधशब्दार्थं १ ग्रन्थविस्तरवर्जितम् ।
लक्षणं वाजिदेहस्थं २ संक्षेपेण यथाक्रमम् ॥ २ ॥
१ । सुखावबोधशब्दार्थं सुखावबोधौ सुबोधौ शब्दार्थौ यस्मिन्
तत् तथोक्तम् अतिप्राञ्जलमित्यर्थः । शिष्यावबोधशब्दार्थमित्यपि
पाठो ग-पुस्तके दृश्यते । तस्यायमर्थः । शिष्यान् अवबोधयतः यौ
तौ शिष्यावबोधौ शब्दार्थौ यस्मिन् तत् शिष्यसुखबोधमित्यर्थः ।
१ । शिष्यावबोधशब्दार्थम् । गः ।
२ । वाजिदेहस्य । कः ।
1