अश्ववैद्यकम् (जयदत्त सूरि - विस्तृत अश्व-रोग निदान एवं शल्य-चिकित्सा महाग्रन्थ)
Ashvavaidyaka of Jayadatta Suri with Commentary
जयदत्त सूरि (सम्पादक: उमेशचन्द्र गुप्त कविरत्न) द्वारा
पृष्ठ 15, कुल 522 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Markdown:
१ अध्यायः ।] अश्ववैद्यकम् । ३
प्रदेशलक्षणञ्चैव जीवितञ्च वयस्तथा ।
दशाविभागं क्षेत्रञ्च देशज्ञानञ्च वाहनम् ॥ ६
६ । प्रदेशलक्षणमिति द्वितीयाध्याये वक्ष्यमाणं जिह्वादिप्रदेशानां
लक्षणं शुभाशुभात्मकमित्यर्थः । यद्वा प्रदेशं लक्षणञ्चेति असमस्तम् ।
लक्षणमिति तृतीये वक्ष्यमाणमङ्गलक्षणमित्यर्थः ॥ अत्र प्रदेशाङ्गस्य
चिकित्साकरणसम्भवादादौ प्रदेशलक्षणकथनम् । जीवितमिति आयु-
र्ज्ञानाध्याये वक्ष्यमाणं ह्रस्वकर्णत्वादिलक्षणेन निरूपितं दीर्घादीर्घ-
जीवितत्वमित्यर्थः । यद्वा दशादशकात्मकोऽश्वस्य जीवितकालस्तम् ।
दशापरिमाणं चाश्वस्य त्रयोवर्षाः द्विसप्ततिदिनानि चेति । वय इति
वयोज्ञानाध्याये वर्णनीयं दन्तोद्भेदादिदर्शनेन वयोनिरूपणमित्यर्थः ।
दशा